पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/15

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
कुमारसम्भवे


क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्रा-
ववेदनाज्ञं कुलिशक्षतानाम् ।। २० ॥
(४)[१]अथावमानेन पितुः प्रयुक्ता
दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा
तां जन्मने शैलवधूं प्रपेदे ॥ २१ ॥

द्विष-"इत्यादिना क्विप्प्रत्ययः । वृत्रशत्रौ क्रृद्धे कुपिते सत्यपि कुलिशक्षतानां वज्रप्रहाराणाम्। सम्बन्धसामान्ये षष्ठी । जानातीति ज्ञः । "इगुपधज्ञा-" इति कप्रत्ययः । वेदनानां ज्ञः । अथवा वेदनां जानातीति वेदनाज्ञः । "आतोऽनुपसर्गे कः" इति कप्रत्ययः । "उपपदमतिङ्" इति समासः । स न भवतीत्यवेदनाज्ञस्तम् । कुलिशक्षतवेदनानभिज्ञमित्यर्थः । सापेक्षत्वेऽपि गमकत्वात्समासः । पक्षच्छेदोद्यतशक्रात्त्राणाय शरणागमनमनयोः सख्यमूलमिति भावः । मैनाकं पुत्रमसूत । सर्वपर्वंतपक्षच्छेदेऽप्ययमच्छिन्नपक्ष एवेति मैनाकस्योत्कर्षः । तादृक्पुत्रवत्त्वं हिमाद्रेरिति सार्थकं मैनाकस्य वर्णनम् । "पिता न ज्ञायते यस्या भ्राता यदि न विद्यते । नोपयच्छेत्तु तां कन्यां धर्मलोपभयात् सुधीः ।" इत्यभ्रातृककन्यापरिणयनिषेधात्प्रकृते पार्वती भ्रातृमत्येवेति सूचनार्थं मैनाकवर्णनमिति तात्पर्यार्थः ।। २० ।।
     अथेति ।। अथ मैनाकजननानन्तरं दक्षस्य प्रजापतेः कन्या भवस्य महादेवस्य पूर्वपत्नी पूर्वभार्या सती पतिव्रता । "सती साध्वी पतिव्रता" इत्यमरः । सती नाम देवी पितुर्दक्षस्य । कर्तरि षष्ठी । अवमानेन स्वभर्त्रवज्ञया प्रयुक्ता प्रेरिता योगेन योगमार्गेण विसृष्टदेहा त्यक्तदेहा सती । जन्मने पुनरुद्भवाय तां शैलवधूं मेनकां प्रपेदे । अत्र पुरा किल सती देवी दक्षा-


  1. अथापमानेन ।