सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११ ] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ॥ अगस्त्यस्याश्रमो भ्रातुनूनमेष भविष्यति ॥ ५५ ॥ , निगृह्य तैरसा मृत्युं लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥५६॥ इहैकदा किल क्रूरो वातापिरपि चेल्वलः । भ्रातरौ सहितावास्तां ब्राह्मणप्तौ महासुरौ । ५७ ॥ धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमत्रयति विप्रान्सम श्राद्धमुद्दिश्य निघृणः ।। ५८ ।। भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५९ ॥ ततो भुक्तवतां तेषां विप्राणामिल्वलोब्रवीत् । वातापे निष्क्रमखेति खरेण महता वदन् ।। ६० ।। ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ६१॥ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ॥ विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥६२॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुकूलः किल श्राद्धे भक्षितः स महासुरः ।। ६३ ।। ततः संपन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः । भ्रातरं निष्क्रमखेति चेल्वेलः सोभ्यभाषत ॥६४॥ स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥ अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ॥ ६५ ॥ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ ६६ ॥ अथ तैस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।। ६७ ।। सोभिंद्रेवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा । चक्षुषाऽनलकल्पेन निर्दग्धो निधनं गतः ।। ६८ ।। ४१ | उपहारं पुष्पबलिं । स्वयमार्जितैः । “समित्पुष्पकु- | श्राद्धकल्पावगतेन ॥ ५९ ॥ भुक्तवतां भुक्तवत्सु । शादीनि श्रोत्रियूः स्वयमाहरेत् ?” इतेि स्मरणात् | वदन्नब्रवीत व्यक्तमब्रवीत् ।। ६० । व्यनिष्पतत् ॥ ५४ । नूनं निश्चये । “नूनं तर्क विनिश्चये '|विनिरपतत् ।। ६१ । तैरिति बहुवचनं परिवारापे इत्यमरः ।। ५५ । मृत्यु वातापील्वलनिमित्तकं मरणं । | क्षया । संहत्य बहुश इतियावत् ।। ६२ ।।' अर्नुभूय हितकाम्यया हितेच्छया । इयं दिक़ दक्षिणा दिक् । शरण्या संश्रयितुं योग्या ।। ५६ । अस्मिन्नर्थे श्राद्धवरणादिकमनुभूय ।। ६३ आख्यायिकामाह-इहेत्यादिना ।। ५७ । संस्कृतं संपन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ।॥६४–- व्याकरणसंस्कारवतीं वाचं । वदन् ।। ५८ । संस्कृतं |६६ । निधनसंश्रयं नाशविषयं । प्रधर्षयितुं हिंसितुं श्राद्धोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन | ।। ६७ । अनलकल्पेन अग्निसदृशेन ।। ६८ । वेि ततः श्राद्धान्त रामानु० मेषवन्नदन् मृतसंजीविनीवैभवात् उदरान्तरितिशेषः ॥ ६१ ॥ स० जीर्णस्य पकीकृतस्य “ जीर्ण पकेपुराणेच इतिविश्वः ॥ ६६ ॥ स० ननु वनपर्वणि “ ततोजगामकौरव्य-भिक्षितुंवसु ?” इत्यारभ्य “ ततोराजर्षयस्सर्वेविषण्णागतचे तसः । वातापिंसंस्कृतंदृष्टामेषभूतंमहासुरम् । अथाब्रवीदगस्त्यस्तात्राजर्षीनृषिसत्तमः । विषादोवोनकर्तव्योह्यहंभोक्ष्येमहासुरम् । धुर्यासनमथासाद्य निषसाद महामुनिः । तं पर्यवेषदैत्येन्द्र इल्वलः प्रहसन्निव । अगस्त्यएव कृत्त्रंतु वातापिं बुभुजेततः' इतिग भकृत्य “गवांदशसहस्राणि राज्ञामेकैकशोसुर । तावदेव सुवर्णस्य दित्सितं तु महासुर । मह्य तंतोवै द्विगुणं रथश्चैवहिरण्मयः । मनोजवौ वाजिनैौ च दित्सितंतेमहासुर । जिज्ञास्यतां रथस्सद्यो व्यक्तएष हिरण्मयः । ततः प्रव्यथितोदैत्योदावभ्यधिकंवसु । विवाजाश्चसुवाजाश्च तस्मिन्युक्तौ रथे हयौ । ऊहतुस्स वसूनाशु तानगस्त्याश्रमप्रति । सर्वात्राज्ञस्सहागस्यान्निमेषादिवभारत पा०]१ ड. झ. ट. ततःसुतीक्ष्णवचनं. ज. सुतीक्ष्णस्यास्यवचनं. २ क. ख. च. छ. ज. मेव. ३ छ. ज. अ. तपसा ४ ख. ग. अस्य. ५ क. ख. घ .-ट. विप्रान्स. ६ घ. श्राद्धकर्मणि. ७ क. ख. ग. भ्राता. ८ क. सद्विजान्. च .-ज द्विजातीन्. ९ घ. हिखा. १० ख. सहस्राणि. ११ क. विनिष्पतन्. ख. सहस्रशः. १२ क. च• छ. ज. अ. सुभृशं. ग. ड. ट संहृत्य. १३ क. च. छ. ज. अ. निशाचरः. १४ ड. झ. ट. हस्तेवनेजनं. क. ख. ग. च. छ. ज. अ. हस्तावसेचनं. १५क. ख ग• ड•-ट, इल्वलः. १६ ड. छ. झ. ट. समभाषत. १७ ड. झ. ट. सतदाभाषमाणतु. क. च. छ. अ. ततदाभाषमाणं तु. ख. ग. घ. तंतथाभाषमाणंतु. १८ क. च. छ. अ. मुनिपुङ्गवः. १९ ड. झ. ट. भ्रातुस्तु. २० क. च. छ. ज. अ. तद्वचनं २१ क, ख. ड.-ट. संश्रितं. २२ क, ख. ग. ड.झ. ट, सोभ्यद्रवद्विजेन्द्रतं. घ. सोभ्यद्रवद्विजश्रेष्ठं. छ. सोभ्यद्रवहिजेन्द्रंतु ।