सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कथं तापसयोव च वासः प्रमदया सह । अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ११ ॥ अहं वनमिदं दुर्ग विराधो नाम राक्षसः ।। चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ १२॥ इयं नारी वरारोहा मम भार्या भविष्यति । युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ १३ ॥ तयैवं बुवतो धृष्ट विराधस्य दुरात्मनः ।। श्रुत्वा सगैर्वितं वाक्यं संभ्रान्ता जनकात्मजा ।। सीतां प्रावेपतोद्वेगात्प्रवाते कदली यथा ।। १४ ।। तां दृष्टा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवीलक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १५ ॥ पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् । मम भार्या शुभाचारां विराधाङ्के प्रैवेशिताम् ।। अत्यन्तसुखसंवृद्धां राजपुत्रीं यशैखिनीम् ॥ १६ ॥ यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ कैकेयास्तु सुसंपन्नं क्षिप्रमछैव लक्ष्मण ॥ १७॥ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ ययाऽहं सर्वभूतानां हितः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मम मध्यमा ।। १८ ।। सम्यक् । क्षीणजीवितौमद्धस्ते पतनादिति भावः । | वृतं । तदचैवसुसंपन्न फलितं ।॥१७॥ अभिप्रेतशब्दोक्तं यद्वा क्षीणजीवितौ प्रविष्टं क्षीणजीवितत्वादेव प्रवि- | सूक्ष्मेक्षिकया विवृणोति-या न तुष्यतीति । दीर्घ ष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमितिभावः ॥ १०॥ |दर्शिन्या कैकेया अस्मद्वयसनं पूर्वमेव यदि नचि वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह |न्तितं स्यात्तर्हि पुत्राथै राज्यमेव वरयेत् । नतु मत्प्र --कथमिति । वां युवयोः । प्रमद्या सह वासश्च | वासनं । मत्प्रवासनवरणाद्वगम्यते । अयं वनं गत कथं विरुद्ध इत्यर्थः । “नचवाहा-' इति निषेधेपि | श्चत्सीतापि गच्छेत् । सा च राक्षसादिभिरपहियेत । वामादेश आर्षः । कथंशब्दोत्तं विवृणोति-अधर्मेति । | तेन रामोपि व्यसनं महत्प्राप्नुयात् । ततश्च मत्पुत्रस्य मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादितिभा - | राज्यं निष्कण्टकं स्यादिति कैकेयी नूनममन्यतेति अतएव पापैौ ।॥११-१२॥ मृधे युद्धे ॥१३॥ |भावः । पुत्रार्थे पुत्रप्रयोजननिमित्तं । माता मम मध्य सगर्वितं सगर्व । भावे निष्ठा । उद्वेगात् भयात् |मेति । यद्यपि पूर्व मम माता कनीयसीत्युक्तं तथापि ॥ १४ ॥ परिशुष्यता शोकसंकुचितेन । मुखेन उप- | महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्र्यपेक्षया लक्षित १५-१६ । कैकेय्याः अस्मासु विषये | मध्यमात्वं । त्रिशतंपश्चाशच दशरथपत्न्यः सन्तीति यदभिप्रेतं योभिप्रायः । यच प्रियं वरवृतं वरव्याजेन | पूर्वमेवोक्तं । अद्य अस्मिन्दिवसे । इदानीं अस्मिन्क्षणे रेकप्रियत्वंप्रमाणविकलंसदपि तदनुमतंचेन्ममापि सा भार्याभवितुंयोग्येतिभावमवगमयितुमियमुक्तिर्वा । अतएव “इयंनारीवरारो हाममभार्याभविष्यति ?' इतिवक्ष्यमाणंयुक्तंभवति । छत्रिन्यायेनवा ॥ ति० यद्वा विराधस्येदंनिन्दोक्तिरूपमेववाक्यं ॥१०॥ति० तदेवाह-कथमिति । प्रमदया एकयासह द्वयोर्वासः कथंचेत्यन्वयः । स० मुनिदूषकौ मुनिधर्मदूषकौ ॥११॥ शि० वरा रोहा वरः अत्युत्कृष्टः आरोहः ममस्कन्धयोरारोहणं यस्यास्सा इयंनारी ममभार्या मत्पोष्याभविष्यति । एतेन तस्यसीतायांसे व्यत्वबुद्धिस्संजातेतिध्वनितं ॥ १३ ॥ शि० विराधाङ्कगतां विराधस्याङ्कन शीघ्रगल्याहेतुभूतया गतां तत्स्कन्धयोः प्राप्तां ॥१५॥ शि० विराधाङ्के प्रवेशितां विराधाङ्कस्य विराधशीघ्रगमनस्य या ईः व्याप्तिस्तया प्रवेशितां स्कन्धयोस्संस्थापितां । राजपुत्रीं राजती शोभावतीचसा पुत्री तां । स० प्रवेशितां तेनेतिशेषः ॥ १६ ॥ ति० मध्यमामाता कौसल्यातः कनिष्टत्वात्सुमित्रातो ज्येष्ठत्वात् । कौसल्यापेक्षयाकनिष्ठत्वात्पूर्वयवीयसीत्युक्तिरपिनासंगता । भगवतोपीदृशोक्तिस्तु लक्ष्मणोत्साहवर्धनायेतिभावः । स० यद्वा मध्यमा सुमित्रा तत्सामीप्यान्मध्यमाकैकेयी । अथवा मध्यमा उक्तकारिणी । खतस्सद्वद्धित्वान्मन्थरोक्तकारिणीति [ पा०] १ क. ग. मुनिदूषणैौ. २ ड. च. झ. अ. ट. दुष्ट. ३ क. ख. ग. सगर्ववचनं. ज. समर्मवचनं. ४ झ, ट. प्रवे पितोद्वेगात्, घ. प्रावेपतोद्विग्रा. ५ घ. च. ज. अ. राघवःश्रीमान्. ६ क -घ. प्रवेपितां. ७ क. ख. ग. च. ज. उ. मन खिनीं. ८ घ. चरकृतंच. ज. वरमयंचततू, ९ क. ग. ड. च, ज. झ. ल. ट. तुसुसंवृत्तं. घ. स्तत्सुसंवृत्तं, १० ज. झ. ट मध्यमामम