४
व्यम् । कौतुकाधानहेतोरिति विशेषणं मनोरथस्थितं मेघस्वागतादिकार्यं विस्मृत्य स परवशो बभूवेत्यर्थस्य कारणत्वेनोक्तम् । अन्तर्बाष्पः प्रभुत्वादन्तःस्तम्भितबाष्पः । प्रभुत्वं राजराजस्यानुचर[१] इति सूचितम् । चिरं दध्यौ इति सम्बन्धः । दध्यौ चिन्तयामास । मोहाद् विषयशून्यचित्ततया ध्यायतेः कर्माप्रयोगः । सुखिनः सुखहेतुमतः, सन्निहितप्रियजनस्येत्यर्थः । अन्यथावृत्ति उत्कण्ठापरवशम् । कण्ठाश्लेषप्रणयिनि जन इति । वर्षासमये मेघगर्जितश्रवणभयाद् भर्तृकण्ठमालिङ्गितुं प्रार्थयमाने प्रियजन इत्यर्थः । तस्याश्लेषप्रणयिनि जन इति पाठः । तस्य यक्षस्य । दूरसंस्थे दूरस्थिते ॥३॥
प्रत्यासन्ने मनसि दयिताजीवितालम्बनार्थां
जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् ।
स प्रत्यग्रैः कुटचकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
प्रत्यासन्न इति । प्रत्यासन्ने प्रकृतिस्थे मनसि चेतसि । ध्यानव्याकुलिते हृदये पुनः प्रतिष्ठिते सतीत्यर्थः । प्रत्यासन्ने नभसि इति पाठे नभःशब्दः श्रावणमासवचनः । ‘नभः खं श्रावणो नभा’ इत्यमरसिंहवचनात् । तदा प्रस्तुतमाषाढं विहाय विलम्बनमयुक्तमिति मन्तव्यम् । किञ्च श्रावणमासे ‘मासानन्यान् गमय चतुरो लोचने मीलयित्वा’ इति वचनं स्यादयुक्तमिति । अन्ये त्वाहुः -- नभःशब्दो वर्षर्तुवाचकः, वर्षासमये समागते दयिताजीवितालम्बनार्थां स्वप्रवृत्तिं जीमूतेज हारयिष्यन्निति वर्षासमयात् प्रागेव तस्य चिन्तेति । तदप्यसङ्गतम् । ‘इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे’ इति तात्कालिककार्यचिन्तानिर्देशात् । दयिताजीवितालम्बनार्थां दयिताजीवितप्रयोजनाम् । जीमूतेन । प्रकृतस्य तच्छब्दं विना नाम्नोपादानं वाक्यान्तरव्यवधानादित्यनुसन्धेयम् । प्रवृत्तिं वृत्तान्तम् । कुटचकुसुमैः । ‘कुटचो गिरिमल्लिका’ इति हलायुधः । कुटचकुसुमग्रहणं वार्षिकत्वात् कृतमित्यनुसन्धेयम् । कल्पितार्घाय इति पाठः । कल्पितपूजाविधये । ’मूल्ये
५
पूजाविधावर्घः’ इत्यमरः । प्रीतिप्रमुखवचनं पूज्यानां प्रीतिवचने प्रधानवचनं स्वागतं शोभनमागतमागमनम् । अनेन स्वागतशब्दो विवक्षितः ॥४॥
सन्देशहरणाख्यस्य वस्तुनश्चैतन्यशून्येन मेघेन दुष्करत्वमाशङ्क्य परिहरति –
धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
सन्देशार्थः क्व पटुकरणैः प्राणिभिः प्रापणीयः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रणयकृपणाश्चेतनाचेतनेषु ॥ ५ ॥
धूमेति । सन्निपातः समुदायः । सन्देशार्थः, सन्देश एवार्थः सन्देशार्थ इति कर्मधारयः । सन्देशाश्चेति केचित् पठन्ति । पटुकरणैः पट्विन्द्रियैः । ‘खमक्षमिन्द्रियं स्त्रोतो हृषीकं करणं मतम्’ इति हलायुधः । औत्सुक्याद् इष्टार्थोद्युक्तत्वात् । ‘इष्टार्थोद्युक्त उत्सुक’ इत्यमरः । इत्यपरिगणयन्निति सम्बन्धः । गुह्यकः, निधिं गूहत इति गुह्यकः । यक्षाणां वैश्रवणनिधिगूहनात् क्रियानामधेयमिदम् । अथवा यक्षगुह्यकशब्दौ घनदेऽपि वर्तेते । ‘अथो यक्षगुह्यकौ । धनदेऽपी’ति यादवः । तस्माद् वैश्रवणवाचकेन गुह्यकशब्देन तद्भृत्यानां यक्षाणां व्यपदेशस्य युक्तत्वादुक्तं गुह्यक इति । तस्माद् यक्षगुह्यकयोर्भेदे सत्यपि (यश्चक्रयित्ययक्षश्चक्रया ? यक्षश्चक्रे इत्यपेक्ष्य) गुह्यकशब्दस्य विरोधो(न) भवतीत्यनुसन्धेयम् । ययाच इति वक्ष्यमाणापेक्षया । प्रणयकृपणा याच्ञायां क्षुद्राः । क्षुद्रत्वं च दृष्टापरित्यागः । चेतनाचेतनेषु, इयं हि विषयसप्तमी । अचेतनेष्वपीति वक्तव्ये (चेतना) चेतनग्रहणं धूमज्योतिःसलिलमरुतामित्यादिना प्रस्तुतस्याचेतनस्य तदनन्तरं क्व पटुकरणैरित्युपक्षिप्तस्य चेतनस्य (चा)नुगुणेन कृतमित्यनुसन्धेयम् ॥५॥ इदानीं स्तुतिपूर्वां याच्ञां करोति --
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः
- ↑ ’रत्वेन सू’ ख. पाठः.