त्यर्थः । अनेन मेघसम्बन्ध उक्तः । अभिमुखमपि प्राप्य ओभिमुख्येन[१] प्राप्यापीत्यर्थः[२] । हीमूढानां लज्जाविमनस्कानाम् । चूर्णमुष्टिः मुखवासकर्पूरादिचूर्णसुष्टिः ॥४॥
रालेख्यानां सलिलकणिकादोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुचस्त्वादृशा जालजालै-
नेत्रेत्ति । नायकेन प्रापकेणेत्यर्थः । सततगतिना वायुना । सलिलकणिकादोषं सलिलकणिकास्पर्शदूषणम् । जलस्पर्शेन चित्राणि विनश्यन्तीत्यभिप्रायः । शङ्कास्पृष्टाः आलेख्यविनाशं दृष्ट्वा कोऽप्यस्मान् ग्रहीष्यतीति शङ्कमाना इत्यर्थः । यन्त्रजालैः सुखबन्धादिरुपजालकैः । धूमोद्गारानुकृतिनिपुणाः धूमनिर्गमानुकारेषु[३] सम्यक् समर्थाः । ‘साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः (२.३.४३) इति समासः । जर्जराः, निर्गमद्वारानुरूपं कृतवेषवैषम्यत्वाज्जर्जराः । निष्पतन्ति निर्यान्ति । अनेन मेघसम्बन्धः स्पष्टः ॥५॥
मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदैश्चन्द्रपादैर्निशीथे
यत्रेति । प्रियतमभुजोच्छवासितालिङ्गितानां, बलात्कारात् सञ्जातोच्छवासत्वादुछवासितं, प्रियतमभुजदृढालिङ्गितानामित्यर्थः । तन्तुजालावलम्बाः । हिमजलपातनिवारणार्थमुपरि बद्धे विताने प्रलम्बमानानि मुक्तादामस्थानीयानि तन्तुजालानि अवलम्बमानास्तन्तुजालावलम्बाः । यद्वा तन्तुमयं जालमानायः तन्तुजालम् । प्रासादानामुप-
–-
४७
रितलेषु भेकादीनामवतरणनिषेधाय जालं वितन्वन्तीति प्रसिद्धम् । अत्र चन्द्रकान्तमणिबद्धरचनतन्तुजालं विवक्षितम् । त्वत्संरोधापगमविशदैः, अनेन मेघसंबन्ध उक्तः । व्यालुम्पन्ति अपहरन्ति [४] । चन्द्रपादैः स्फुटजललवस्यन्दिन इत्यन्वयः । चन्द्रकान्ताश्चन्द्रकान्तमणयः ॥ ६॥
रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति॥
[५]गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च ।
मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम्॥]
मत्वा देवं धनपतिसखं यत्र साक्षाद् वसन्तं
प्रायश्चापं न वहति भयात् त्वामपि प्रेक्ष्य कामः ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै-
मत्वा देवं धनपतिसखमिति । अनेन वैश्रवणसख्यात् कैलासे नित्यं शिवो वसतीत्युक्तम् । प्रायः, उत्प्रेक्षायामिदमव्ययम् ।