इति त्रिभुवनगुरोः । उज्जयिन्यां महाकालमिति किमपि देवतायतनमस्ति । तत्र परमेश्वरः सदा सन्निधत्ते, सर्वेभ्यो वरांश्च ददातीति प्रसिद्धम् । तस्मात् त्रिभुवनगुरोरित्युक्तम् । चण्डेश्वरस्य, इदं महाकालनिकेतनेश्वरस्य देवस्याभिधानमिति केचित् । अन्ये रौद्राकारत्वाच्चण्डेश्वरपदं प्रयुक्तमिति वदन्ति । धूतोद्यानमिति पाठः । कुवलयरजोगन्धिभिः कुवलयपरागगन्धिभिरित्यर्थः । गन्धवत्याः, इदं नाम । तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति पाठे स्नानं स्नानीयम् । ‘स्नानीयेऽभिषवे स्नानम्’ इति यादवः । गन्धवत्या मरुद्भिरिति संबन्धः । अत्रेदमनुसन्धेयं – पूर्वार्धे तु पुण्यं यायास्त्रिभुवनगुरोर्धाम इति धाम्नः पावनत्वमुक्तम् । उत्तरार्धे तु तस्यैव धाम्नः उद्यानादिमत्तया विलासास्पदत्वं चोक्तमिति । ननु कुवलयरजोगन्धिभिरित्यनेन गन्धवतीमरुतां गन्धवत्त्वमुक्तम् । पुनश्च कथं तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिरिति गन्धवत्त्वमुच्यत इति ।[१] उच्यते । विलासिनीनां शरीरसंस्कारहेतुना कुसुमादिना स्त्रीसंभोगसंमर्देन च उभयथा गन्धवत्त्वमस्ति । तत्समाधिना मरुतामपि विशेषणमुक्तमिति ॥३३॥
स्थातव्यं ते नयनविषयं यावदत्येति भानुः ।
कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीया-
अपिति । अप्यन्यस्मिन् सन्ध्यासमयादन्यस्मिन्नपि काल इत्यर्थः । महाकालम्, इदमुज्जयिन्यामीश्वरस्य स्थानम् । स्थातव्यं ते स्थातव्यं त्वया । नयनेन यावान् देशो दृश्यः तावान् देशो नयनविषयः । नयनविषयं यावदतिक्रामतीत्यर्थः । सन्ध्यावलिपटहतां, सन्ध्यासमयभूतबलिप्रदानार्थः पटहः सन्ध्याबलिपटहः । आमन्द्राणामीषद्गम्भीराणाम् ‘मन्द्रस्तु गम्भीरे’ इत्यमरः ॥ ३४॥
२७
रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दू-
पादेति । पादन्यासक्वणितरशनाः नृत्तार्थैः पादन्यासैः शब्दितकाञ्चीकलापाः । क्वणतेरकर्मकत्वात् ‘गत्यर्थाकर्मक –’ (३.४.७२) इति कर्तरि निष्ठा । तत्र तस्मिन् सन्ध्याबलौ । लीलावधूतैर्विलाससञ्चारितैः । रत्नच्छायाखचितवलिभिः रत्नच्छायासंबद्धचामरदण्डवलिभङ्गैः । चामरैर्महाकालस्य सेवाचामरैः । नखपदसुखान् नखपदानीव सौख्यहेतून् । अयमभिप्रायः – महाकालं सेवित्वा सेवोपकरणानि तान्येव चामराणि धारयन्त्यः क्लान्तहस्ता देवदास्यस्तत्र बलिप्रदानसमये नृत्यन्ति । तासामुपरि सेवाक्लेशापहान् नखपदसुखान् वर्षप्रथमबिन्दून् भवान् यदि मुञ्चति, ताश्चानन्यदुर्लभान् [२] मधुकरश्रेणीदीर्घान् कटाक्षान् त्वय्यामोक्ष्यन्ति । आमोचनमिन्दीवरमालासमाधिनोक्तमिति । अन्ये त्वाहुः –
हस्तसञ्चारिभिः कुर्युर्नृत्तं तद् देशिकं मतम् ॥
इति वचनात् चामराणि धारयन्त्य एव देशान्तरे नृत्तं कुर्वन्तीति ॥
सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः ।
नृत्तारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां
पश्चादिति । पश्चात् । उच्चैर्भुजतरुवनमित्येकं पदम् । भुजवनमिति वक्तव्ये तरुशब्दप्रयोगो मेघावतरणयोग्यत्वं सूचयति । प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसुमलोहितम् । शान्तोद्वेगस्तिमितनयनं, भयङ्करस्य गजाजिनस्यादर्शनाद् देव्याः शान्त उद्वेगः ॥३६॥