२२
इत्यत्र सिञ्चतेर्धातोः द्रवद्रव्यरूपममृतं कर्मीभवति । कथमत्र जलकणान् विहाय सिञ्चतेर्जालकानि कर्मत्वेनोक्तानि । किरतिसिञ्चतीत्यादीनां कुसुमजलादीनि कदाचित् कर्मीभवन्ति । कदाचित् करणीभवन्ति । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां गण्डस्वेदापमार्जनकरस्पर्शवेदनाक्लान्तकर्णोत्पलानाम् । पुष्पलावीमुखानां, पुष्पं लुनन्तीति पुष्पलाव्यः । ‘कर्मण्यण्’ (३.२.१) इत्यण् । ‘टिड्ढाणञ् -–’ (४.१.१५) इत्यादिना ङीप् ॥२६॥
सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्याः ।
विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां
वक्र इति । चेति समुच्चये । उत्तराशां प्रस्थितस्य तव पन्थाः वक्रश्च भवतु । तथापि कार्यगौरवात् तत् सोढव्यमित्यभिप्रायः । अत्रेदमनुसन्धेयं – विन्ध्याद्रिप्रभवा विन्ध्यं निर्भेद्य उत्तरवाहिनी कापि नद्यस्ति निर्विन्ध्येति । तस्याः प्राक्तीरे कियन्तं चाध्वानं प्रागतिक्रम्य वर्तते खलूज्जयिनी । तस्मान्निर्विन्ध्यायाः पश्चिमतीरदेशेनोत्तरां गच्छतो मेघस्योज्जयिनीगमने पन्था वक्रः स्यादिति । सौधोत्सङ्गप्रणयविमुखो मा च भूरुज्जयिन्या इति (पाठः) । प्रणयः परिचयः ।
इति यादवः । चकारो वाक्यान्तरसमुच्चये । अनया मार्गवक्रत्वालोचनयापि तवोज्जयिनीसौधोत्सङ्गपरिचये वैमुख्यं च मा भूदित्यर्थः । वञ्चितः स्या इति, यदि तव तां रतिं न वेदयामि, ततस्त्वं मया वञ्चितः स्या इत्यर्थः । यद्वा वञ्चितः स्याः व्यर्थजन्मा भविष्यसीति ॥
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः
२३
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८ ॥
वीचीति । संसर्पन्त्याः स्खलितसुभगमिति, अनेन विलासगमनमपि ध्यन्यते । रसाभ्यन्तरः, अनेन रसशब्देन जलं श्रृङ्गारश्च विवक्षितम् । संनिपत्य सङ्गमं कृत्वा । एवं विलासमाविष्कुर्वत्या निर्विन्ध्याया रतिमनुभवेत्यर्थः । प्रार्थनां विना कथमनुभवामीत्याशङ्क्याह – स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु इति । प्रणयवचनं प्रार्थनावाक्यम् । प्रियेषु स्त्रीणामाद्यं प्रार्थनावाक्यं विभ्रमो हि, स तु तस्याः सञ्जात इति भावः । प्रस्तुतमुज्जयिनीगमनं विहाय मार्गवशान्निर्विन्ध्यागमनमुक्तमित्यनुसन्धेयम् ॥ २८॥
पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपर्णैः ।
सौभाग्यं ते सुभग ! विरहावस्थया व्यञ्जयन्ती
वेणीभूतप्रतनुसलिला इति पाठः । वेणीशब्देन स्त्रोतश्च केशबन्धश्च विवक्षितः । सा त्वतीतस्येति पाठः । सा निर्विन्ध्या । अतीतस्यातिक्रान्तस्य, भविष्यत इति शेषः । सिन्धुर्नदी । पाण्हुच्छाया, अनेन विरहपाण्डुत्वं च विवक्षितम् । विरहावस्थयेति पाठः । विधिना दृष्टिमोक्षेण । त्वयैव, एनामनुभूय स्थितवता त्वयैवेत्यर्थः । सुभग ! अतीतस्य ते विरहावस्थया वेणीभूतप्रतनुसलिला तटरुहतरुभ्रंशिभिर्गीर्णपर्णैः पाण्डुच्छाया ते सौभाग्यं व्यञ्जयन्ती सा सिन्धुः येन जलमोक्षेण कार्श्य त्यजति स विधिः प्रियतमभूतेन त्वयैव कार्य इत्यर्थः । तामतीतस्य इति पाठमादृत्य सिन्धुरिति नद्यन्तरमुच्यत इति केचिद् वदन्ति । तदानीमर्थश्चापुष्टः । अत्र देशे सिन्धुरिति कापि नदी नास्ति । काश्मीरेषु सिन्धुः प्रवहतीत्यनुसन्धेयम् ॥२९॥