xxx
पातञ्जलयोगसूत्रवृत्तिकृत् भोजदेवोऽपि---
"वाक्चेतोवपुषां मलः फणभृतां भर्त्रेव येनोद्धृतः”
इति पतञ्जलिमुपमानीकृत्य स्वस्य ग्रन्थत्रयेण मलत्रयोद्धारकत्वमाचष्ट ॥
तच्च शास्त्रत्रयं पातञ्जलम्, महाभाष्यम्, चरकप्रतिसंस्कृतं च इति चरकतन्त्रटीकाकृत् चक्रपाणिदत्त आवेदयति--
"पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
मनोवाक्कायदोषाणां हर्त्रेऽहिपतये नमः ॥" इति ॥
अत्र च भगवदात्रेयशिष्येण अग्निवेशेन महर्षिणा प्रणीतमेव वैद्यकतन्त्रं खिलीभूतं चरकनाम्ना पतञ्जलिना प्रतिसंस्कृतत्वात् चरकप्रतिसंस्कृतपदेन व्यपदिश्यते । निरुपपदेन पातञ्जलमिति पदेन च योगसूत्रमुच्यते । अत एव योगसूत्रवृत्तौ भोजः---
"शब्दानामनुशासनं विदधता पातञ्जले कुर्वता
वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यातन्वता वैद्यके ॥"
इति पातञ्जलपदेन निरुपपदेन योगसूत्रं निरदिक्षत् ॥
योगे सूत्रस्य, व्याकरणे भाष्यस्य, वैद्यके वार्तिकस्य च कर्तृत्वात् पतञ्जलिः सूत्रकृत्, भाष्यकृत्, वार्तिककृच्च इति पतञ्जलिचरिते रामभद्र- दीक्षितः प्रतिपादयति--
“सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः ।
कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥” इति ।
तत्र च पद्ये ततः इति पदं महाभाष्यप्रणयनानन्तरम् इत्यर्थकम् । लघुमञ्जूषायां "तदुक्तं चरके पतञ्जलिना" इति पुनःपुनः चरकवाक्यानि उदाहरन् नागेशभट्ट: चरकतन्त्रं पतञ्जलिप्रणीतमवबोधयति । चरकनामकपतञ्जलिकृतस्य ग्रन्थस्यापि चरकमिति व्यपदेशः । कर्तृनाम्ना ग्रन्थव्यपदेशश्च बहुलं दृश्यते ॥
तदित्थं महाभाष्यकर्तैव श्रीशेषावतारभूतः पतञ्जलिः योगसूत्रकर्तेति निर्णयो भवितुमर्हति सहृदयानाम् ॥
एवं ब्रह्मसूत्रकर्तैव च वेदव्यासः योगसूत्रभाष्यकर्तेति निर्णयेऽपि समस्ति प्रमाणम् । यतः--