॥ श्रीः॥
॥ प्रास्ताविकम् ॥
स्तुवे पतञ्जलिं व्यास शङ्कर च मुनित्रयम् ।
कर्तृ सूत्रस्य भाष्यस्य क्रमाद्विवरणस्य च ॥
इदमिदानीम् इदम्प्रथमतया मुद्रयित्वा प्रकाशपदवीमानीयते मद्रास्- नगरस्थराजकीयप्राच्यपुस्तकागाराध्यक्षैः श्रीपातञ्जलयोगशास्त्र [सूत्रभाष्य]- विवरणाभिधं ग्रन्थरत्नम्
अस्य च निर्मातारः श्रीभगवत्पादा इति महदिदं प्रमोदस्थानम् ॥
यद्यप्यत्र विवदेयुर्विमर्शकाभिमानिनः-" विवरणस्यास्य प्रणेतारः श्रीभगवत्पादा वा ? अन्ये वा ?' इति । किमत्र विशेषितेन, यत् एतदीयमूलग्रन्थयोः योगसूत्रतद्भाष्ययोः प्रणेतृविषयेऽपि समस्त्येव विप्रति पत्तिर्बहूनां ग्रन्थकर्तृकालयोर्विमर्शकानाम् ---- किमयं सूत्रकृत् महाभाष्यकर्तैव पतञ्जलिः ? उतान्यः ? इति, किमयं भाष्यकृत् ब्रह्मसूत्रकृद्वेदव्यास एव ? उतान्य: ?” इति च । ते यथामतिकौशलं बहूनुल्लेखानुल्लिखन्ति च ||
अत्र च इत्थं प्रतिभाति-शब्दब्रह्मवित् भगवान् भर्तृहरिः स्वीये वाक्यपदीये ब्रह्मकाण्डे--
"कायवाग्बुद्विविषया ये मलाः समवस्थिताः ।
चिकेित्सालक्षणाध्यात्मशास्त्रैषां विशुद्धयः ॥"
इति पद्येन यत् शास्त्रत्रयं करणत्रयगतमलत्रयविशोधकम् आवेदयति, तत् शास्त्रत्रयमपि भगवान् पतञ्जलिः प्रणिनायेति प्रतिपादयति प्राचीनपारम्पर्यागतं प्रसिद्धं पद्यमिदम्
"योगेन चित्तस्य पदेन वाचां
मलं शरीरस्य च वैद्यकेन ।
योऽपाकरोत् तं प्रवरं मुनीनां
पतञ्जलिं प्राञ्जलिरानतोऽस्मि ॥” इति ।