पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। पशुकामस्येत्यन्येषामिति तु वचनान्नित्यं नित्यवचनात्कामाद्यवाग्वादिभिहॉम उपरते कायै पुनरपि पयसैव जुहुयात्पय आदीनि द्रव्याणि नित्यानि काम्यानि च तत्र पयसाऽऽहृतेन होमः प्राप्तो यस्याग्रहोत्र्युपावसृष्टेति प्रायश्चित्तेषु दर्शनाद् गां दुग्ध्वा जुहुयात्तूष्णीं वचनाभावान्न शूद्रो दुह्याद्वा विकल्पः ॥ १९ ॥ वत्तिः-नेनयश्चासौ होमश्च नित्यहोमः स पयसा कर्तव्य : । अकामस्याग्निहोत्रहोमः पयसा कर्तव्य इत्यर्थः । कामानुपदेशादेवास्य नित्यत्वे सिद्धे नित्यग्रहणमुत्तरार्थम् ॥१९॥ यवागूरोदनोदधेि सर्पिग्रमकामान्नाद्यकामेन्द्रियकामतेजस्कामानाम् ॥ २० ॥ दे० भाष्यम्-यवागुरोदनो दधि सर्पिरित्येतानि चत्वारि द्रव्याणि ग्रामकामश्चा नाद्यकामश्चेन्द्रियकामश्च तेजस्कामचैतेषां चतुर्णा कामानां यवाग्वादिचतुर्णा द्रव्या णामानन्तर्येण योगो भवति यवाग्वा ग्रामकामस्यौदनेनान्नाद्यकामस्य, दध्नेन्द्रियकामस्य, सर्पिषा तेजस्कामस्य, तत्र प्रतिपेधः । यवागू श्रपयतीत्युक्तमध्वर्येणां तस्या: श्रपणं भवत्योदनः सिद्ध एवाऽनीयते न तस्य श्रपणं चोदितमस्ति । वाचिद्दध्यपि सिद्धमेवाऽन यते सर्पिरप्येवम् । एतानि चत्वारि पयसा सह पञ्चाऽऽम्नातानि । अथ पञ्चाऽम्नातानि तण्डुलैरोजस्कामस्य, बलकामस्य मांसेन, यशस्कामस्य वा तत्पच्यते यथा यवागूः । सोमेन ब्रह्मवर्चसकामस्य, तैलेन श्रीकामस्य, अद्भिर्वष्टिकामस्य, एतान्यपि चोदितानि द्रष्टव्यानि हौम्यं च मांसवर्जमिति बुवता च तानि दश द्रव्याणि ।। २० ।। वृत्तिः-यथासंख्येन ग्रामकामादीनां यवाग्वादीन्यन्निहोत्रहोमद्रपाणि भवन्ति । ग्रामकाम प्रसिद्धः । अन्न च तदाद्य चान्नाद्यम् । खाद्यान्नकाम इत्यर्थः । इन्द्रियं शुक्र चक्षुरादीनि वा । तेजश्छविः । नित्यहोम इत्यत्रापि संबध्यते । तेन पुरुषार्थेरपि क्रियमाणो होमो नित्य एव स्यात्र कामार्थः । होमाश्रितानि द्रव्याण्येव कामाश्रितानि भवन्तीति ॥ २० ॥ अधिश्रितमवज्वलयेत् ॥ २१ ॥ दे० भाष्यम्-अधिश्रितं द्रव्यं ज्वलतेोल्मुकेनावज्वलयेदिति । अवज्वलनस्य स्थानमु पदिष्टं स्यात्तस्मादधिश्रितमित्युच्यते । अधिश्रयणादनन्तरमवज्वलन सिद्धं भवति ॥२१॥ वृत्तिः--अधिश्रितग्रहणादधिश्रितमात्र एवावज्वलयेन्न कालविक्षेपः कर्तव्य इत्यव गम्यते ॥ २१ ॥ अनधिश्रयं दध्यग्धेि तेजो मा हार्षीरिति ।। २२ ।। दे० भाष्यम्-अधिश्रितमवज्वलयेदित्युक्त दध्नोऽधिश्रयणपक्षेऽवज्वलनं न प्राप्तोति तस्मादिदमुच्यते--अनधिश्रयन्नपि दध्यवज्वलयेदित्यग्टेि तेज इत्यनेन मन्त्रेण । एवं चेन्न दधिश्रयणं कर्तव्यमधिश्रतमवज्वलयेदनविश्रयामित्येतावता सिद्धे दधिग्रहणं दध्यादीनां प्राप्यर्थम्। कानि दध्यादीनि-तण्डुलः, ओदनं, सोम इयेतानि दधिप्रभृतीनि