नारदपाञ्चरात्रन्तर्गत शिवसंहिता
नारदपाञ्चरात्रन्तर्गत शिवसंहिता
चक्षुर्भ्यां दोरुरोभिश्च वाचा च हृदये न च । रामं स्मरामि भक्तानां भजमानं मनोरथान् ॥१॥ वेत्तारं रामकामानां वक्तारं शृण्वतां सताम् । लक्ष्मीवन्तं लसल्लक्ष्मीजातं लक्ष्मणमाश्रये ॥२॥ रामारामरहस्यानि सद्भाव्यानि प्रकुर्वते । तिरस्कुर्वत आमुक्तेर्युक्तोंजलिर्हनूमते ॥३॥ कैलाशे मेरुसंकाशे नानारत्नविभूषिते । नानागुल्मलतास्तोमद्रुमराजिविराजिते ॥४॥ सर्वदासुखमासीनौ नाना ख्यानककोविदौ । सर्वज्ञौ सर्वलोकेशौ पार्वती परमेश्वरौ ॥५॥ दृष्ट्वा वसंतसमयं कामुकोत्सववर्द्धनम् । कदाचित्कौतुकाविष्टौ चक्रातेरसवत्कथाः ॥६॥ तत्रोमा सोमतिलकं रमासखसखं शिवम् । प्रसादसुमुखं वीक्ष्य पप्रच्छ प्रियमादरात् ॥७॥ कस्य वसंतकालेस्मिन् विशेषेण सुखोत्तरा । विहाराहाररुचिरा भवेयुर्भुवनेश्वर ॥८॥ अनयादपि सुखोत्तुङ्गारङ्गासङ्गकराः सताम् । कस्य ते स्युः कथयतां पश्यतां शृण्वतामपि ॥९॥ त्रैलोक्ये दृश्यते कोपि प्रसिद्धो गुणराशिभिः। मन्तव्यः सर्वमन्तव्यैः पुण्यश्लोकशिरोमणे ॥१०॥ शरण्यः सर्वशक्तीनां दिव्यानां परमं पदम् । नित्यतारुण्य कारुण्य कलाकोषश्च क: पुमान ॥११॥ सर्वदेवशिरोधार्य पादपद्मरजाश्च कः । तवापि सम्मतः सर्वगुणैः कल्याणकारकैः ॥१२॥ दिव्यानेकावरोधः कः कश्चैव प्रियदर्शनः । दिव्यस्थानगणः कः स्याद्दिव्योद्यानविहारकृत् ॥१३॥ दिव्यपरिजनोपेतो दिव्यानेकपरिच्छेदः । नित्यभोगसमृद्धः कः कश्चकाममनोहरः ॥१४॥ श्रुते च कीर्तिते ध्याते यस्मिन्कान्तधियापि चेत् । साध्वीधर्मो न लुप्येत न दुष्येत स्वयम्वरा ॥१५॥ सर्वाधिकारता कस्य सेवादौ च गुणोन्मुखी । सर्वलक्षणसंपन्नो निर्धूताशेषकल्मषः ॥१६॥ ध्यातुं ममापि योग्यः कस्तवापि च महेश्वर । आवाभ्यां जगत्पूज्याभ्यां पूजनीयपदाम्बुजः ॥१७॥ कथ्यतां यदि रोचेत दोषो यद्यथ नापतेत् । सगुणः कालकर्मश्चेन्मध्वास्वादश्च पुष्कलः ॥१८॥ क्षन्तव्यो तिक्रमोह्येष गुणग्रस्तमनस्तया । मम चापल्ययुक्तायाः पालितायाः मुहुर्मुहुः ॥१९॥ श्रुत्वेति पार्वती वाक्यं दयमानमना मनुः । उवाच चारुचतुरः कथाहारो हरो मृदुः ॥२०॥ साधुसाध्वीमहाभागे भावज्ञे प्राणवल्लभे । इष्टं पृष्टं त्वयागुप्तं गुणैः पुष्टममायिकैः ॥२१॥ त्वयापृष्टं विषमपि वर्ण्यमेव मयाभवेत् । अमृतं तु कुतो नस्या दास्वाद्यं मम पार्वति ॥२२॥ सामान्येन त्वया पृष्टं विशेषेणोच्यते मया । अभ्यर्णकर्णमार्गेण वर्ण्यमाकर्ण्यतां त्वया ॥२३॥ श्रोतव्येषु बहुष्वत्र वक्तव्येषु बहुष्वपि । श्राव्यं वाच्यं च तद्धि स्याद्व्यद्धि सारतमं भवेत् ॥२४॥ अत्यन्तगोपनीयं यत्त्वयि तत्तन्न गोप्यते । ईश्वराणां रहस्यन्तु प्रकाश्यं क्वचिदेव हि ॥२५॥ यस्त्वया पृच्छ्यते भूमा दिव्यचेष्टागुणाकरः । हृदि मे वर्तते ह्येष गूढो़ वेदेष्वपि प्रभुः ॥२६॥ तस्यानन्तानि नामानि दिव्यानि चरितानि च । भव्या विभूतयो दिव्याः परिवारास्त्वनेकशः ॥२७॥ भोगस्थानानि नित्यानि पवित्राणि बहूनि च । विचित्राणि च भोग्यानि भोगोपकरणानि च ॥२८॥ स च सीतापतिः श्रीमान् जडजीवविलक्षणः । वेदवेदान्तसर्वार्थो योगिनां परमागतिः ॥२९॥ एष एव भवेद्भर्ता सर्वेषां सुरसुभ्रुवाम् । सुरासुरनराणां च ममोपास्यश्च हैमनि ॥३०॥ एतस्मिन्कीर्तिते ध्याते श्रुते वाप्यर्चिते श्रिते । पातिव्रत्यक्षयो नैव सतीनामपिजायते ॥३१॥ प्रश्नोप्येष तवैतस्मिन् पर्यवसन्नः स्वभावतः । आत्मनामात्मा हीशाने सर्वेषां गिरिजेऽमले ॥३२॥ स एव स्वेच्छयायोध्यामध्यासीनो वरानने । दिव्योद्यानरतो दीव्यन् रामाख्यानो विधीयते ॥३३॥ सोऽस्मिन्वसंतसमये विहरन् हरते हठात् । चेतसामपि चेतांसि मदनं मदनस्य च ॥३४॥ शारदादिविलासस्तु तस्यैव मधुरोन्नते । आनन्दसंपदः सर्वा भवन्ति सुखसङ्गिनाम् ॥३५॥ पार्वत्याः प्रभो रामः पुत्रो दशरथस्य तु । श्रूयते हि मनुष्येषु भाग्याधिक्यात् प्रथांगतः ॥३६॥ कथं स वेदवेद्यः स्यात् वेदाज्ञानिघ्न आत्मवान् । कर्मभिश्चापल्यमानो सौ पादचारी बहुश्रुतः ॥३७॥ कथंवा नरतामाया दामयावद्यदूषिताम् । वेदान्तवेद्यविभवः स्वतन्त्रः पुरुषोत्तमः ॥३८॥ अंशत्वं चावतारत्वं विष्णोरस्य प्रसिद्धति । स्वयत्वं कथमस्य स्यादिति मे संशयों हृदि ॥३९॥ क्षन्तव्यः सगुणैर्वाक्यैः सर्वज्ञोपि प्रशासने । यत्रैव सरसो भावस्तत्रैवायं मनोज्वरः ॥४०॥ इति श्रुत्वाप्रिया माह सर्वज्ञो भगवान् शिवः । बहुकृत्व इदं तत्वं निर्णीतं ते पुरा मया ॥४१॥ पिष्टस्य पेषणं देवि किं चिकीर्षसि भामिनि । संक्षिप्य वच्मि ते भूयो दृढं स्वहृदि धारय ॥४२॥ अवतारास्तु बहवः कला अंशा विभूतयः । रामो धनुर्धरः साक्षात् सर्वेशो भगवान्स्वयम् ॥४३॥
पार्वत्युवाच- भव शङ्कर रम्याङ्गो रामः कस्मादुपायतः । सद्यो हृद्यवरुद्ध्येत नापसर्पेत्ततोऽचलः ॥४४॥
श्रीशिवउवाच- साधु पृष्टं त्वया साध्वि हर्षोत्कर्षकरं मम । तवाप्येतन्महानन्दवर्द्धनं श्रवणादिभिः ॥४५॥ सर्वाकर्षणकर्मास्य सद्यः प्रत्युपकारकम् । मधुरं मृदुलं चैव शृणु वच्मि तव प्रिये ॥४६॥ अत्र ते संहितां दिव्यामिति हासतया स्थिताम् । वर्णयामि वरारोहे भवारोहणकारणम् ॥४७॥ निरुक्तिलक्षणा ह्येषा संहिता गुणविस्तृता । अस्यां हि भगवान् साक्षात् काम्यमूर्तिः प्रकाश्यते ॥४८॥ श्रुतिलक्ष्मणसंवादो निर्विवादोऽत्र दृश्यते । मारुतागस्त्यसंवादमस्यामेव निशामय ॥४९॥ आस्वा दितगुणग्रामः श्रीरामो मधुरोज्वलः । यत्र सद्योऽवरुध्येत शृङ्गारो नव मूर्तिमान् ॥५०॥ संहितां सहिता सा त्वं शृण्वतां श्रवणोत्सवाम् । सौभाग्यं यत्र सीताया गुणोत्कर्षश्च कथ्यते ॥५१॥ ससीतालक्ष्मणो रामः साऽयोध्या सपुरःसरः । सर्वदा शृण्वतां भद्रे पुण्यश्रवणकीर्तनः ॥५२॥ संवाद उच्यते तावद्धनूमत्कुम्भजन्मनः । नाना मनोरमा यत्र कथा रामगुणाश्रयाः ॥५३॥ अगस्त्यो भगवान्सर्वब्रह्मर्षि वृन्दवन्दितः । कदाचित्तीर्थ यात्रायां गन्धमादनमासदत् ॥५४॥ श्रीरामस्मरणानन्दी महाभागवतोत्तमः । हनुमान् मतिमान् यत्र वरीवर्ति सदा गिरौ ॥५५॥ यत्रापङ्कान्यपङ्कानि सरांसि च सरोरुहैः । सरिन्निर्झरकुण्डाश्च देवकन्या निषेवितः ॥५६॥ नानाद्रुमलतापुष्प फलभारधरास्पृशः । कदल्यः सफला यत्र भानु भानुनिवर्तनाः ॥५७॥ कदलीवनमित्येव विश्रुतं यज्जगत्त्रये । स च यत्राप्सरोवृन्दैः रामनाट्यान्यधिश्रिताः ॥५८॥ आज्ञया रामचन्द्रस्य ता देव्योऽत्र हनूमते । श्रावयन्ति स्वगीतानि गन्धर्व्यश्च सुशृण्वते ॥५९॥ प्रार्थितो रामभद्रोत्र जीवितं चिरमर्पयत् । हनूमते कथा श्रोतुं दृष्टुंचास्य च नर्तनम् ॥६०॥ यत्रासीनो हनूमांस्तु गीतनृत्यानि सुभ्रुवाम् । शृण्वन् रामगुणाङ्कानि प्रेमाश्रूणि विमुञ्चति ॥६१॥ यानि यानि रहस्यानि रामान्तः पुरजानि सः । कार यन्तानि तानीह देवीभिर्मुदमश्नुते ॥६२॥ रम्यं महद्वनं दृष्ट्वा स पुष्पफलसंकुलम् । गिरिञ्च गिरिषु श्रेष्ठ मुवाचाव्याजगिर्गुरुः ॥६३॥ हे शिष्याः पर्वतं ह्येतं नाना निर्झरनादितम् । नाना द्रुमलताकीर्णं नाना पुष्पफलानतम् ॥६४॥ कदली वनमेतच्च दृष्ट्वा हृष्यति मे मनः । पुण्यान् जलाशयानेतान् पुण्यपक्षिरुतान्यपि ॥६५॥ शृण्वतो मे मनः कामं रामआक्रामतीवसः । किंचित्कालमिहस्थातु मास्थां मे मनुते मनः ॥६६॥ तानि तानि च सर्वाणि हरन्ते मे मनोवलात् । यानि यानीह लोकेषु श्रीरामोद्दीपनानि च ॥६७॥ प्रसङ्गो यत्र रामस्य रामतीर्थपुराणि च । तत्रैव मन्मनोत्यर्थं प्रीतिमेति निरन्तरम् ॥६८॥ लोकनाथमहं रामं नित्यं सन्निहितं हृदि । अर्चामीहेति मे चित्तं विषक्तं फलपुष्पकैः ॥६९॥ अत्र कश्चिन्महान् लाभो भवेदिति भुजोक्षि च । स्यन्दते मन्मनः कामं रामं सूचयतीहमे ॥७०॥ स्थाप्यतां नु करण्डानि वृष्यो दण्डाऽजिनानि च । आह्नियन्तां च पुष्पाणि मधुराणि फलानि च ॥७१॥ समिधश्च स्वहोमार्हाः प्रबोध्यन्तां हविर्भुजः । प्रक्षाल्यन्तां शिलाः शुभ्रा रामाराधनतिप्रियाः ॥७२॥ स्नानानि च विधीयन्तां रामो चित्ते निधीयताम् । जप्यतां राममन्त्राश्च तर्प्यतां पितृदेवताः ॥७३॥ स श्रीमानर्च्यतां चात्र वैभवैः सुलभैरिह । सर्व साधारणं ह्येतत्पार्वतीयं फलादिकम् ॥७४॥ देशं कालं च वित्तं च शुभानि च शुभां दशाम् । प्राप्य नार्चति यो रामं श्वयोनिं स हि गच्छति ॥७५॥ इत्युक्ता मुनिना शिष्याश्चक्रुः सर्वं तदादरात् । भक्त्या रामस्य दास्येन गुरोश्च ध्वनिमागता ॥७६॥ ततः स्वयमगस्त्योपि सस्नौ दिव्ये सरिद्धृदे । रामसंध्या मुपास्यासौ चक्रे रामस्य पूजनम् ॥७७॥ तुष्टाव च जगौ रामं ननर्तास्यपुरो मुनिः । प्रेमसभिन्नसर्वांगो हर्षपूरितमानसः ॥७८॥ तस्य शिष्यसमेतस्य रामसङ्गीतमद्भुतम् । शुश्राव रामदासोऽसौ वायुसूनुस्ततोऽमृतम् ॥७९॥ शीघ्रमेवागतस्तत्र लब्ध जीवातुरात्मनः । फलपुष्पार्पकः श्रीमान् हनूमानंशुमत्प्रभुः ॥८०॥ दृष्ट्वातान् रामभक्ताँस्तु ब्राह्मणान्वेदवित्तमान् । दण्डवत्प्रणनामासौ तुष्टाव च मुदाप्लुतः ॥८१॥ इन्द्रादिदेवभक्तेभ्यो ब्रह्मभक्तोऽधिको गुणैः। शिवभक्ताधिको विष्णुभक्तः शास्त्रेषु गीयते ॥८२॥ सर्वेभ्यो विष्णुभक्तेभ्यो रामभक्तो विशिष्यते । रामादन्यपरो ध्येयो नास्तीति जगतां प्रभुः ॥८३॥ तस्माद्रामस्य ये भक्तास्ते नमस्याः शुभार्थिभिः । हनुमत्प्रमुखैरीशैः कृतो नान्यैरनीश्वरैः ॥८४॥ तैःसोऽथ मुनिभिः पृष्ठो रामकीर्तनहर्षितः । हनुमान् रामभक्तानामग्रगण्यो निराशिषाम् ॥८५॥ को भवान् रामभक्तेभ्यो भक्तिदातेव दृश्यते । देवो वा मानुषो वाथ वानरः किन्नरो परः ॥८६॥ नात्र गतिर्मनुष्याणां यक्षाणां विषये गिरौ । त्वं तु देवः शिवः साक्षाद्भासि नो भगवानिति ॥८७॥ एतन्मुनिवचो विद्वान् श्रुत्वोवाच कपीश्वरः । जातितो वानरश्चास्मि हनुमान्नाम विश्रुतम् ॥८८॥ धर्मतो रामदासोस्मि कर्मतस्तत्कथारतः । बन्धुमान् रामभक्तेभ्यो भोगतस्तत्प्रसादभाक् ॥८९॥ सीतायास्तु प्रसादेन सर्वा मुक्त्यादिसिद्धयः । नित्यं मामनुवर्तन्ते रागाभावेपि कीलिताः ॥९०॥ रामस्य च प्रसादेन कल्पकल्पानुजीविता । तद्गुणामृतपानाय लव्धं विप्रा मया द्वयम् ॥९१॥ स्वेच्छाचारोऽपि सर्वत्र तिष्ठामीह च नित्यदा । रामभावानुभावादिवर्द्धने कदलीवने ॥९२॥ किन्नरीनिकराऽऽगीत रामगीतश्रुतिप्रियः । ब्रह्मचारी समज्ञेऽपि किन्नरीणां दिवानिशम् ॥९३॥ रामोद्देशाच्च किन्नर्यो रामगीतैरुपासते । स्थितं मां मानुषागम्ये स्वर्गसन्धौ निराकुले ॥९४॥ इह गन्धर्वपतय आगत्य समये स्वके । श्रावयन्ति चरित्राणि गीत्वा वै रावणद्विषः ॥९५॥ रासो रामस्य श्रृङ्गारः प्राचुर्य्यात्किन्नरीगणैः । मयानुक्रियमाणोपि स एवेति विविच्यते ॥९६॥ मयानुकार्यमाणोपि रामरामानुभावतः । साक्षादानन्दनो रासो राकास्वप्यनुभूयते ॥९७॥ गन्धर्वाराममाधुर्यसौंदर्यादि गुणोच्छ्रितम् । श्रुत्वावः सङ्गताः शीघ्रं युष्माभिः सामगातृभिः ॥९८॥ सोऽहं रामगुणात्सामगान्धर्व रसिकः सदा । वर्ते सर्वंपरित्यज्य ततोन्यद्विरसंयतः ॥९९॥ युष्मानप्यहं पृच्छामि वर्णाश्रम विभागतः । कृत मद्यकुलं श्रेष्ठाद्योतमानं प्रकाश्यताम् ॥१००॥ इत्युक्ता मुनयस्तेन प्रोचुः प्रीतिमनस्तया । रामदत्तसुधास्वादलब्धं पवननन्दनम् ॥१०१॥ सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । कुम्भयोनेर्मुनेः शिष्या ब्रह्मचारिव्रताश्रिताः ॥१०२॥ पीतो येन महाम्भोधिर्हतो वातापि रिल्वलः । भूमेः सारूप्यमानोतो विन्ध्यश्च गिरिराडसौ ॥१०३॥ मैत्रावरुणिरित्येव गीतो लोकत्रयेण यः । कुंभजन्मेति मर्त्येषु सिद्धेष्वगस्त्य उच्यते ॥१०४॥ सोऽयं सर्वमुनिश्रेष्ठो रामागमविधिर्महान् । रामभक्तिसुधाम्भोधिजन्मेन्दुर्द्वितीयोऽमलः ॥१०५॥ इति तेषां वचस्तथ्यं श्रुत्वा वायुसुतस्त्वरी । पपातांघ्रियुगे तस्य कुम्भयोनेस्तपोनिधेः ॥१०६॥ रामप्राण इति प्रेम्णा कुम्भजन्मापि मारुतेः । न्यपतत्पादयोमूर्ध्ना लोक नाथ समोपि सन् ॥१०७॥ अन्योन्येनानुरागेण रामभक्तिकृतेन तौ । आलिङ्ग्य तस्थतुः सिद्धौ चिरेण द्रुतचेतसौ ॥१०८॥ निषिंचेतां च गात्राणि प्रेम्णांसामृतधारया । तप्तानुक्लिन्न सर्वांगौ व्ययुज्येतां न तौ जनौ ॥१०९॥ अन्योन्यदर्शनाश्लेषजाताह्लादमहत्तया । अन्योन्यं स्तोतुकामौ च सन्नवाचौ परन्तु तो ॥११०॥ रामभक्ति सुधापूर्ण रत्नाकरमहोदधी । अन्यैः स्तुतौ तदा भक्तैर्मुनीश्वर कपीश्वरौ ॥१११॥ तयोरुपरि पुष्पौघा दिव्याः पेतुर्मनोरमाः । धन्ये यंधरणीपुण्या यदेतत्पादपांशुभिः ॥११२॥ जातोत्सवैस्तु तौ देवैरस्तूयेतां गतस्मयैः । रामदेवपदाम्भोजभ्रमरो मधुरश्वरौ ॥११३॥ मन्दं तत्वागतप्रज्ञावुपविष्टौ शिलातले । नभस्वत्कुंभजन्मानौ जजल्पतुरुभौ कवी ॥११४॥ पूतः पतितजातोपि पादपद्मपरागतः । तवाहं पतनान्मूर्ध्नि रामभक्ति सुधाम्बुधेः ॥११५॥ यस्त्वं मयामहाभाग चिरेणाकांक्षितागमः । आगतोस्याश्रमं पूतीकर्तुंमेऽगस्त्य सत्पते ॥११६॥ दुर्लभोस्मिन्सदा विष्णुदाससाधुसमागमः । तत्रापि श्रीरमानाथ रामाश्रयसमागमः ॥११७॥ श्रीरामो रामभक्तश्च द्वावेवेह प्रियौ मम । प्रधानस्त्वन्तु तेषां यन्नाथेनासि मम प्रभो ॥११८॥ नारदात्सनकादिभ्यः शम्भोरपि वृहस्पते । पाराशर्याच्छुकाच्चापि ज्यायानसि निजैर्गुणैः ॥११९॥ ज्ञात्वा विद्वन्सतां सङ्गमदीर्घं दीर्घदर्शिनाम् । पूजाप्रश्नप्रणामैश्च तत्वं जिज्ञास्यमेव यत् ॥१२०॥ नाना वादाः पुराणेषु संहितासु स्मृतिष्वपि । वेदेष्वपि च काव्येषु प्राकृताप्राकृतेष्वपि ॥१२१॥ मुष्टामुष्टि च शास्त्रेषु पण्डितैः सज्यते परः । युक्तयस्तेषु दृश्यन्ते सर्वेष्वपि च सर्वशः ॥१२२॥ न पदार्थ पराभूतिः स्वरूपेण परेण च । क्रियते तदभिवादो वादिभिः किं तु दुष्यते ॥१२३॥ तस्मात्परात्परं ज्ञानं सम्प्रदायाद्विशोधयेत् । विज्ञायस्वधियाधीरैः सम्पाद्यं प्रतिपत्तिभिः ॥१२४॥ सोऽहं तत्वं परं ज्ञानं प्रेप्सुश्च परमात्मनः । परस्या देवतायाश्च ध्यानं कालगुणान्वितम् ॥१२५॥ इत्युक्त्वा पावमानिः सःकृताञ्जलिरमुं मुनिम् । उपतस्थे गुरुं गौरि ! गौरवाद्गुण यन्त्रितः ॥१२६॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले साधुसमागम प्रकाशनो नाम प्रथमोध्यायः १॥
श्रीशिवउवाच- एतद्वायुभुवो वाक्यं श्रुत्वा वेदविदाम्वरः । अगस्त्यो भगवांस्तं च सस्मितं वाक्यमब्रवीत् ॥१॥ अगस्त्य उवाच- त्वं मां परीक्षसे विद्वन् स्वतः सर्वार्थवित्तमः । अज्ञातं विद्यते किं ते ज्ञेयं ज्ञेयेषु वस्तुषु ॥२॥ सर्वोत्कर्षोपयुक्तोऽहं सत्यो सौ पवनात्मज । राममन्त्र प्रभावोऽयं त्वया मे परिचीयताम् ॥३॥ मत्तस्त्वं सर्वथा श्रेष्ठस्त्वत्तः श्रेष्ठो न चापरः । त्वत्त एव परिज्ञातुं तत्वमिच्छामि यत्परम् ॥४॥ सर्वथा द्वारभूतं ते वक्तुं मद्वाक्यमुत्तरम् । आञ्जनेय भव त्वेतद्रामदूत महामते ॥५॥ हिरण्यगर्भो भगवान् सर्वेषां हि पितामहः । पद्मनाभसुतः श्रीमान् भक्तानां प्रथमो गुरुः ॥६॥ प्रमाणं मूलभूतं नो वेदाख्यं यच्चतुर्विधम् । तद्यस्य वदनाम्भोज भ्रमरायितमादितः ॥७॥ तस्य हिरण्यगर्भस्य साक्षात्कथयतो मुखात् । पुरा कल्पेमयाप्ये तत्तत्वं चित्ते समाहितम् ॥८॥ नान्यद्रामात्परं तत्वं कौशल्यानन्दवर्द्धनात् । जानकीवल्लभात्कालत्रिके देशेषुदृश्यते ॥९॥ न श्रीरामव्रतादन्यद् व्रतं सर्वार्थसाधनम् । न रामाराधनादन्यो यज्ञो वेदेषु दृश्यते ॥१०॥ नान्योमन्त्रः परो राममन्त्रात्षडक्षरादपि । सूर्यशक्तिशिवादीनां मन्त्रा हीनतराः स्फुटम् ॥११॥ चत्वारोपि महावेदा नैतत्तुल्याः फलादिभिः । का कथास्मृतिशास्त्राणां पुराणानां च पावने ॥१२॥ रामनाम्ना समं नान्यं नाम विष्णोः शिवस्य च । कान्येषां तु कथा नाम्नां सत्यं सत्यमिहोच्यते ॥१३॥ रामनाम्ना शिवः काश्यां भूत्वा पूतः शिवः स्वयम् । स निस्तारयते जीवराशीन्काशीश्वरः सदा ॥१४॥ रामपादोदकान्नान्यत्पावनं पतितावलेः । रामोच्छिष्टं यदन्नं स्यात्पावये दखिलं तुतत् ॥१५॥ रामश्चापि पुरस्तस्य पतिर्लक्ष्म्या इवाच्युतः । अन्यः पतिर्व्रुवाणोयः पतितः सहि गर्हितः ॥१६॥ अयोध्यापतिरेव स्यात्पतीनां पतिरीश्वरः । अन्याषां मथुरादीनां रामांशाः पतयो यतः ॥१७॥ भोगस्थानं परायोध्या लीलास्थानं त्वियं भुवि । भोगलीला पती रामो निरङ्कुशविभूतिकः ॥१८॥ द्विभुजो जानकीजानिः सदा सर्वत्र शोभते । भक्तेच्छातो भवेदेष वैकुण्ठेतु चतुर्भुजः ॥१९॥ परं साधारणं रूपं नित्यं द्विभुजमेव तत् । परमं रस सम्पन्नं ध्येयं योगविदां सदा ॥२०॥ भोगस्थानानि यावन्ति लीलास्थानानि यानि च । तानि सर्वाणि तस्यैव पुरा व्याप्यानि सर्वशः ॥२१॥ सवाह्याभ्यन्तरः कृत्स्न आनन्दरसशब्दितः । मधूदधिरिवापारो राम एव परः पुमान् ॥२२॥ आसीनं तमयोध्यायां सहस्त्र स्तंभमण्डिते । मण्डपे रत्नसञ्ज्ञे च जानक्या सह राघवम् ॥२३॥ मत्स्यः कूर्मः किरिर्नैको नारसिंहोप्यनेकधा । वैकुण्ठोपि हयग्रीवो हरिर्वामनकेशवौ ॥२४॥ यज्ञ नारायणो धर्मपुत्रो नरवरोपि सः । देवकीनन्दः कृष्णो वासुदेवो बलोपि च ॥२५॥ पृष्णिगर्भो मधून्माथी गोविन्दो माधवोपि च । वासुदेवः परोनन्तः संकर्षण इलापतिः ॥२६॥ प्रद्युम्नोप्यनिरुद्धश्च व्यूहा सर्वेपि सर्वदा । रामं सहोपतिष्ठन्ते रामादेशव्यवस्थिताः ॥२७॥ एतैरन्यैश्च संसेव्यो रामो नाम महेश्वरः । तेषामैश्वर्यदातृत्वान्मूलत्वात्ते निरीश्वराः ॥२८॥ इन्द्र नामा स इन्द्राणां पतिः साक्षी गतिः प्रभुः । विष्णुः स्वयं सविष्णूनां पतिर्वेदान्तकृद्विभुः ॥२९॥ ब्रह्मा स ब्रह्मणां कर्ता प्रजापतिपतिगर्ति । रुद्राणां स पती रुद्रो रुद्रकोटिनियामकः ॥३०॥ चन्द्रादित्य सहस्त्राणि रुद्र कोटि शतानि च । इन्द्रकोटि सहस्राणि विष्णु कोटि शतानि च ॥३१॥ ब्रह्मकोटि सहस्त्राणि दुर्गाकोटि शतानि च । महाभैरवकल्पानि कोट्यर्वुदशतानि च ॥३२॥ अवतार सहस्त्राणि भक्त कोटि शतानि च । गन्धर्वानां सहस्त्राणि देव कोटिशतानि च ॥३३॥ वेदाः पुराण शास्त्राणि तीर्थ कोटि शतानि च । देवब्रह्ममहर्षीणां कोटि कोटि शतानि च । सततं यं निषेवन्ते स श्रीराम इतीरितः ॥३४॥ निर्मत्सरैश्च विद्वद्भिर्मंत्रार्थप्रयतैरपि । जातान्येतानि रामांशात्प्रोच्यंते ब्रह्मवादिभिः ॥३५॥ यं वेदान्त विदो ब्रह्म वदन्ति ब्रह्मवादिनः । परमात्मेति च योगीन्द्रा भक्तास्तु भगवानिति ॥३६॥ यज्ञो विष्णुरिति स्पष्टमृत्विजो ब्रुवते बुधाः । स्वभावकालकर्मादि शब्द वाच्यं तु हैतुकाः ॥३७॥ भोगेनासौ स्वतः पूर्णो दाता भगगुणस्य च । स्वतो वाप्तसमस्तर्द्धी रामकामवरप्रदः ॥३८॥ ज्ञानशक्तिबलैश्वर्य वीर्यतेजांस्य शेषतः । भगशब्द निमित्तानि विना हेयैर्गुणादिभिः ॥३९॥ तस्यानन्तगुणस्यापि षडेवामी महागुणाः । एतव्याप्या गुणा अन्ये येपि स्युः पुरुषोत्तमे । सर्वजन्मस्थितिध्वंसहेतू रामो निरङ्कुशः ॥४०॥ संकल्प सिद्ध सर्वार्थः पूर्णोभयविभूतिकः । सीतापि सदृशी तेन वयोरूपगुणादिभिः ॥४१॥ द्वादशाब्द वयोयुक्ता नित्यानन्द विधायनी तरुणीसैवरूपेण श्यामा श्रृङ्गार संश्रया ॥४२॥ गौरांगी पीतवसना नीलरक्तशिवांवरा । सर्वेश्वरी सदाराध्या भुक्तिमुक्तिवरप्रदा ॥४३॥ नित्यं रामानुकूलैव चित्ररूप प्रदर्शिनी । षोडशाब्दपरिच्छिन्नवयः सोपि भयापहः ॥४४॥ पीतवासा घनश्यामः शिखात्रय शिखंडकः । काक पक्षयुगी श्रीमान् पंचखंडशिखंडकः ॥४५॥ मुक्ताफललसन्नासः स्वतः स्मितशुभाननः । पीतवक्षा महाबाहुः क्षीणमध्यमनोहरः ॥४६॥ नित्योत्सव स्वभावश्च नित्य कौतुक पोषकः । सर्वविद्यागुणाम्भोधिर्नित्यनिर्धूतदूषणः ॥४७॥ रक्तपद्मविशालाक्षो रत्नदंतोऽरुणाधरः । गान्धर्वे च भुवि श्रेष्ठो नारीगणमनोरमः ॥४८॥ गंधर्वराजप्रतिमो मुक्तोत्तमविभूषणः । रसज्ञः स्वजनानन्दी विलासी विलसत्प्रभः ॥४९॥ स्वच्छन्दगोऽपि धर्मार्थे रतः स्मरविवर्द्धनः । दाता भोक्ताऽविता साक्षी दयासिन्धुः सुरागवान् ॥५०॥ अकोपनः क्षमाशीलो लीलारंजितसज्जनः । सुन्दरेन्दुः शुभाचारी मुग्धेन्द्रो मधुरस्वरः ॥५१॥ कृतज्ञः कृतिवान्काव्यज्ञानामिन्द्रः कलानिधिः । गंभीरः स्थिरधीः प्राज्ञः सुस्निग्धमधुरस्वरः ॥५२॥ स्थिरस्नेहः सुचातुर्यः धैर्यादिगुणसागरः । सौकुमार्यसरः श्रीमान् लक्ष्मीवांल्लक्षणान्वितः ॥५३॥ वज्रसंहननो भव्यः सौगन्धस्फुरितद्युतिः । वाग्मी सकलशास्त्राणामाख्याताऽमृतभाषणः ॥५४॥ सर्व प्राणिरुतज्ञः सः सर्व प्राणमनोहरः । सर्वोपास्यः प्रसन्नात्मा सर्वरक्षा विभुस्स्वराट् ॥५५॥ सर्वाभयप्रदः सर्वकामितार्थ विधायकः । भक्तानुपक्षको दक्षो गुणदोषस्वरूपवित् ॥५६॥ वह्नीषु भोगपत्नीषु दक्षिणो दयितोऽनघः । सर्वशृङ्गारसम्पन्नः सर्वनायकनायकः ॥५७॥ सर्वानन्दमयः सर्वानन्दसन्दोहदायकः । किंकिणीनूपुरारावैर्मुग्धस्त्रीमुखमारुतैः ॥५८॥ वीणामृदंग झंझाद्यैर्वादितैर्ललनायुतैः । सारिकाशुकसन्नादैः कोकिला भ्रमरारुतैः ॥५९॥ वन्दिस्तुतिगुणैस्स्तोत्रपाठे सारस कूजितैः । प्रबुद्धः कोशलापालवालो ध्येयः सुधीजनैः ॥६०॥ नाना सुगंधमालादीन् मर्द्दनो मदिरेक्षणः । सतीष्वपि विशालासु रत्नप्रासादपंक्तिषु ॥६१॥ नाना सीमांतरम्यासु नानाभोगवतीषु च । नाना चित्र सुगंधेषु सुप्तो मोहनमंदिरे ॥६२॥ नाना शकुनि सङ्गीते वातायनविभाविते । उपागम्य वयस्यै स राजवंश्यैर्मनोहरः ॥६३॥ सेव्यमानः शुभालापैः नानोपायनपाणिभिः । उद्बुद्धः पद्मपत्राक्षः किचिदालस्यजृम्भितः । जगन्नाथसुतः सद्भिः स्मर्तव्यः स शुभार्थिभिः ॥६४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले श्रीरामरहस्य परस्वरूप गुणविभूति प्रकाशनो नाम द्वितीयोऽध्यायः २॥
शिवउवाच- कुंभयोनिर्मुनी रामरहस्यं मरुतः सुते । प्रेम्णा शृण्वति तत्प्रीत्या प्रोवाच परमोत्तमम् ॥१॥ मातुरंतः पुरं पश्चात्प्रविष्टः सानुजानुगः । स्वामम्बां हर्षयन्रामः पंचाब्दिक इवार्भकः ॥२॥ मात्रा चोत्संग आरोप्य कृतपादाभिवन्दनः । लालितो मधुरालापैश्चुंविताननचन्द्रमाः ॥३॥ लव्ध्वाशीः खण्डलड्डुकैर्भोजितो ललितालकः । वद्धचूडश्चलाक्षोऽसौ धारितांवरभूषणः ॥४॥ मात्रा पृष्टः परं भाव्यं तस्या अन्ते पपाठ सः । अग्राहितधनुर्वाणो लुलुण्ठ च महीतले ॥५॥ नृत्येति स तया मात्रा उक्तः खंडितभाषणः । ननर्त स महीपालनन्दनो जननन्दनः ॥६॥ प्रसन्ना जननी वत्समुत्थाप्यालिंग्य चानघम् । आनन्दाश्रुसुधालेशैः सिषिंचे हृदये प्रियम् ॥७॥ क्रीडितुं गंतुकामोऽयं भीषतो भयदर्शनैः । अरुदत् कुपितो मातुर्भाण्डभेदं चकार च ॥८॥ अपराध्यन् गृहारामद्रुमभंगेन बालकः । मात्रानुधावितो वद्धुं न लब्धोऽनिलचंचलः ॥९॥ दूरेस्थितो भयं त्यक्त्वा बालो मातरमेव सः । भीषयामास भीतिघ्नो राजन्योऽहमिति ब्रुवन् ॥१०॥ कोसौ मां भीषयेल्लोके हन्याद्वामितविक्रमः । रामं दाशरथिं शूरं समाजार्जितपादुकम् ॥११॥ तं हन्यामहमेवाजाव वश्यंहि धृतायुधः । बहवोपि मया सिंहा वराहाश्च निषूदिताः ॥१२॥ तस्मान्मातः कृपाणीं मे तूणीरं धनुरुत्तमम् । चर्म चारु च शीघ्रं त्वं देहि दासोस्मि ते सदा ॥१३॥ चोरयित्वा बलाद्वाहं नेष्याम्यायुधमन्यथा । रक्षस्व गौरवं मातर्वदामि तव किङ्करः ॥१४॥ एवं वहु विधां वाचं वदन्प्रौढ इवात्मजः । आश्वासितः शनैर्मात्रा सत्यासत्यवचोमृतैः ॥१५॥ वत्स वत्स चिरं जीव धनुर्वाणौ गृहाण भोः। प्रियं पुत्रं न वध्नामि सत्यं मन्यस्व मे वचः ॥१६॥ क्रीडित्वा शीघ्रमेहीति वाक्यं मातुर्निशम्य सः । उपेत्यांघ्रियुगे लुण्ठंल्लब्धकामो मुदान्वितः ॥१७॥ अञ्जनाञ्जितचार्वक्षो नाशामौक्तिकमोहनः । किंकिणी नूपुरारावश्चारु चूडश्च चंचलः ॥१८॥ पीतांवरेण सूक्ष्मेण वेष्टितोऽलकशोभितः । चारुचापलसत्पाणिः पीतवासोऽयुगच्छविः ॥१९॥ गजराजगतिर्मुग्धो नवहास्यप्रियान्सखीन् । हासयन् कीडयन् भ्रांत्या योधयन्नभयन्मिथः ॥२०॥ एवं पौरशिशून्सर्वान् मोहयन्मधुरस्वनैः । वस्त्रालंकारदानैश्च त्यक्त रागक्रियानसौ ॥२१॥ क्रीडामृगगणांश्चासौ जातिपक्षिगणानपि । पश्यन् शृण्वन् गिरस्तेषां चित्राश्चित्रवचा स्वयम् ॥२२॥ निस्ससार पितुः पादौ दृष्टुं रामः सहानुगः । मोहयन्जननीद्वारस्थितान् स्थिररतीन् जनान् ॥२३॥ पूजयन्जनकेनासो दृष्टो हृष्टतनुत्वचा । अंकारोपित एवाशु चुचुंवे चारुलोचनम् ॥२४॥ हृदालीढं सुतं चासौ मोक्तुं प्राण इवाशयी । शक्रोतिस्म निधिं प्राप्य कदर्य इव तत्पिता ॥२५॥ पितुरंकगतो राम इन्द्र नीलमणिप्रभः । नाना लङ्काररम्यांग इन्द्रकाम इवास्फुरत् ॥२६॥ वसंतांकगतः काम इव रामो रराज वा । जनकाङ्कस्थितो रामो मोहयामास मोहनात् ॥२७॥ सभ्यानां हृदये रामो विष्णोर्वक्षसि कौस्तुभः । स्थितो नाद्यापि भाराय नीरागाय च कल्पते ॥२८॥ हितानि शिक्षितः पित्रा प्रत्यगृह्णात् कृताञ्जलिः । उत्थाय च नमश्चके रामो वालोपि धर्मवाट् ॥२९॥ पुत्रमुद्दिश्य राजेन्द्रश्चके दानानि भूरिशः । न हि तस्य प्रियः पुत्रादन्योस्ति भुवनत्रये ॥३०॥ आज्ञया पितुराचार्यागारं रामो जगाम ह । समेतः सखिभिर्वालेरध्येतुं सकलाः कलाः ॥३१॥ वेदमंत्रपवित्रैस्तु सिच्यमानो जलेरसो । विप्रैः क्षिप्रतपः सिद्धैर्गीयमानैश्च गायकैः ॥३२॥ अर्थं यशस्तथात्मानं निवेद्य गुरवेर्भकः । जग्राहेव निऽजं न्यासं वाङ्मयं निखिलं गुरोः ॥३३॥ उत्तमर्णोभिरामोऽसावर्थमानादिभिर्गुरोः । निषिद्धोपि महाराजसूनुत्वान्मृदुलत्वतः ॥३४॥ गुरोर्गाश्चा रयामास गोपराजसुतप्रभः । आहरत्समिधोप्यस्य वा रिपुष्पकुशादिकान् ॥३५॥ आदेशाच्च गुरोः रामः सरयूतीरमास्थितः । सानुजः ससखः सौम्यक्रीडासाधनसंयुतः ॥३६॥ द्वन्द्वशः योधयामास मल्लैर्मल्लान् मृगैर्मृगान् । मेषैर्मेषांश्च तत्रासौ पक्षिभिः पक्षिणस्तथा ॥३७॥ स्वयं रंगे च चिक्रीड़े भ्रातृभिः सखिभिस्सह । पश्यतां सिद्धसंघानां पुष्पवागभिः पूजितः ॥३८॥ हासं नाना विधंतत्र भाँडसञ्ज्ञैः सहस्त्रकैः । कारयन् गायकैर्गीतैः शुश्राव स्वमप्यसौ ॥३९॥ स्नानार्थमागता नद्यां नाना पौरजनस्त्रियः । मुमूर्छुः सहसा रामं दृष्ट्वा लोकदृगुत्सवम् ॥४०॥ गीयमानगुणो मुग्धो मुग्धाभिश्चललोचनः । त्याजिताभिरयं रामो नीतोहृन्नेत्र मन्दिरे ॥४१॥ नौभिस्ततो जलक्रीडां चक्रे च क्रीतरंगिताम् । प्लवनैर्धावनै स्तीरेषून्मज्जन निमज्जनैः ॥४२॥ व्युत्प्रोंक्ष्य कुड्मलैर्वारि जातानां कंदुकैश्चलः । वस्त्रापहरणैस्तासां नग्ना नग्न कियेक्षकः ॥४३॥ प्रविकीर्णाद्रकेशोऽसौ गन्धर्वार्भकसन्निभः । अधस्तीरतरोस्तिष्ठन् मोहयामास नागरीः ॥४४॥ रन्तु कामोथ रामोसावा रामान् प्रविवेश तैः । राजवंश्यैर्वयस्यैश्च साकं कीडाविचक्षणैः ॥४५॥ वेश्या नटी नटैश्चापि भाँडैर्गायकनायकैः। सामंतैस्सेवकैश्चापि सेव्यमानो नृपात्मजः ॥४६॥ क्रीडन्मनोभिरामायां सङ्गीतागमकोविदः । नद्योश्च संगमे तत्र विजहार वनेक्षकः ॥४७॥ सरय्वास्तीरमासाद्य विल्वोद्यामं हरिंस्तथा । दृष्ट्वा तत्र रमित्वा च तमसावनमाविशत् ॥४८॥ विहार वनमागम्य केलिकुंजं च गह्वरम् । रेमे तत्र चिरं रामः स्वैरामार्पितविग्रहैः ॥४९॥ स्वकुन्डे जानकीकुण्डे नन्दिग्रामे च राघवः । स्थित्वा भुक्त्वा च स्वादूनि रमाकेलिवनं ययौ ॥५०॥ कारयित्वा नदीक्रीडां कुमारः कौतुकादिह । गतो वेदश्रवां दिव्यामापगामथ गोमतीम् ॥५१॥ प्रविवेश व्रजं तत्र गोपी गोपमहोत्सवः । दधीनि वुभुजे रामो मधुराणि फलानि च ॥५२॥ एकान्ते गोमती तीरे गोपकन्या मनोरमाः । रसार्त्ताः रमयामासू रामो रमयतांवरः ॥५३॥ वनाद्वनं व्रजन्वीरो वीरवालैस्सहानुगैः । क्रीड़ास्थानं ततो गत्वा शस्त्रास्त्रैर्विजहार सः ॥५४॥ गोप्रताराख्य तीर्थेऽथ रासस्थलमनुत्तमम् । दृष्ट्वा विहृत्य तत्रासौ स्वर्गद्वारमुपागमत् ॥५५॥ चन्द्र धर्महरिंतत्र गुप्तविष्णुहरिं तथा । दृष्ट्वा सम्पूज्य रामोऽसौ क्षीरसागर दक्षिणे ॥५६॥ शिवं सरस्वतीं तत्र यक्षराजं च मारुतम् । सप्तसागरके तस्माल्लोकोत्तरं समर्चितम् ॥५७॥ ऐरावत कुलोद्भूतं नाम शत्रुंजयं गजम् । आरुद्य नगरं रामः प्राविशन्नगरोत्सवः ॥५८॥ मत्तेभसदृशं ह्यश्वं रथं स्वर्णपरिस्कृतम् । मेघनद्धं मृगैर्युक्तं गज सावकसंयुतम् ॥५९॥ आरुह्य व्यहरद्रामो वीथ्यां वीथ्यां च नूतनः । नरयानं नरं चापि विमानं मधुराश्रयः ॥ ६०॥ पद्म्यां पद्मविसालाक्षः प्राविशच्च गृहं गृहम् । यथाभावं यथारूपं यथा योग्यञ्च सुन्दरः ॥६१॥ आनन्दयन्नरान्नारीरपि रामो नरार्भकः । वालक्रीडनकैः सर्वैरत्नस्वर्ण विनिर्मितैः ॥६२॥ वैहारिकं दधानोसो वेषं संक्रीडसम्मुदे । सर्वेष्वपि समाजेषु सर्वास्वपि क्रियासु च ॥६३॥ सर्वेषामपि सर्वेषु गृहेषूवपवनेषु च । दृष्टो मनोहरन्सर्वै रामो राजीवलोचनः ॥६४॥ रामादन्यः प्रियस्तासां प्रजानां नाभवत्पुरि । वाचयन्तं पुराणानि श्रृण्वन्तं च क्वचित् क्वचित् ॥६५॥ अभ्यसन्तं च वेदान्तं योगं साख्यं क्रियां च ताम् । ददन्तं क्वापि देयानि गृहह्णन्तं परतः क्वचित् ॥६६॥ शयानं विवदन्तं च गायन्तं क्वचिदेव च । भुंजानमुपतिष्ठंतं नृत्यंतं कचिदायतम् ॥६७॥ हसन्तं हासयन्तं च प्रासादाग्रनिवासिनम् । क्वचित्साधु समाजस्थं मल्लगोष्ठ्यां स्थितं क्वचित् ॥६८॥ पुण्यस्त्री सेवितं क्वापि विप्रवर्य्य समावृतम् । आरामे विहरन्तं च क्रीडन्तं सरयूजले ॥६९॥ आयान्तं पथि गच्छंतं पश्यंतं चतुरंगमान् । ध्यायन्तं च जपंतं च पृच्छन्तं कुशलानि च ॥७०॥ अटंतं मृगयायां वा गजशिक्षापरायणम् । अश्वशिक्षापरं पक्षिवृन्दपाठनपंडितम् ॥७१॥ वासोलङ्कार रत्नानि धारयन्तं च मोहनम् । काव्यालंकार नाट्यादिव्याख्याननिरतं क्वचित् ॥७२॥ मातुरंतः पुरे व्याप्तं वालक्रीडाविशारदम् । हर्षयन्तं नवैर्वालभाषितैः पितरं पुनः ॥७३॥ हृष्टं क्वापि स्थितं मौनान्मात्रा पित्रात्र सज्जनैः । तैरनुनीयमानं च सेव्यमानं च सोदरैः ॥७४॥ रुष्टाननुनयन्तं तान् वासोलङ्कारदापनैः । रत्नमण्डपमध्यस्थं नाना लक्ष्मीनिषेवितम् ॥७५॥ सीताशोभितवामांगं नाना शृङ्गारवर्द्धनम् । नाना रसमयीं लीलां कारयन्तं सखीगणैः ॥७६॥ आनन्दयंतमेवान्यान्नानांदोलनलालितम् । नाना रागरसास्वादसक्तं भक्तहितोद्यतम् ॥७७॥ वीणावादन तत्वज्ञं नाना गीतकथोत्सवम् । दिव्यैर्गंधैश्च वासोभिरासवैः शुचिभिः पुनः ॥७८॥ ताम्बूलैश्च सुधापानैः प्रीणयन्तं प्रियां च ताम् । सर्वत्र चित्ररूपाणि विभ्रन्तं च स्वयेच्छया ॥७९॥ पश्यन्ति स्म जना रामं स्वे स्वे पार्श्वे स्थितं पुनः । सभा नाम सुकीर्तिर्या तस्यामासीनमुन्नतेः ॥८०॥ राजासने महाराज नाना नेपथ्य शोभितम् । नर वानर कोटीनां कोटिभिः परिवारितम् ॥८१॥ यक्ष राक्षस गन्धर्व सिद्ध किन्नर कोटिभिः । देव दानव दैत्याद्यैर्वन्दितं वन्दिभिः पुनः ॥८२॥ महाराजाधिराजेन्द्रं रामं पश्यन्ति सज्जनाः । ऋषिकोटिस्तुतं वेदब्रह्मरुद्रादिपूजितम् ॥८३॥ प्रसन्नं ददतं तेभ्यस्तं तं कामं मनोगतम् । ध्यायेद्देवं च देवं तमेकान्तिजनवत्सलम् ॥८४॥ अयोध्यापुरनेतारं रामं भेत्तारमंहसाम् । नाना ध्यानानि रामस्य मयोक्तानि यथामति ॥८५॥ एवं समीर सूनो ते श्रोतुकामेन यत्परम् । रासलीलां त्वया पूर्वं स्तावितां तामथो वद ॥८६॥ अनुग्राह्य स्त्वयाद्याहं रसमय्या त्वपूर्वया । विद्याविनिमयोप्यऽत्र विद्वत्सुविदुषां स्फुटः । अर्थाग्राह्येषु तत्वेषु तत्वग्राह्यमिति श्रुतम् ॥८७॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरहस्ये नानाध्यानप्रकाशनो नाम तृतीयोऽध्यायः ३॥
श्रीशिव उवाच- इत्यगस्त्येन मुनिना प्रार्थितः पवनात्मजः । सर्व राम रहस्येषु स्वतन्त्रश्च ससाद ह ॥१॥ श्रुत्वा मुनिमुखाद्रामध्यानं मंगलमायतम् । दंडवत्प्रणतोभूत्वा प्राह तं पवनात्मजः ॥२॥ जाते श्रोत्रे पवित्रे त्वन्मुखचन्द्र सुधाद्रवात् । पूता वागपि मे भूयादिति तत्पुनरुच्यते ॥३॥ श्रोता प्रायो भवामीह वक्तातु क्वचिदेव हि । त्वयि श्रोतर्य्यहं किं स्यां व्याख्यातापि भवद्गिराम् ॥४॥ दुर्लभारामदासा हि रामभक्तिः सुदुर्लभा । भृशं सुमथितात्सिन्धोर्लक्ष्मीरेकैव निर्गता ॥५॥ एकतः सकला लक्ष्मी भक्तीरामस्य चैकतः । ना दीयमाना जनैर्ग्राह्या भक्तिर्लक्ष्मी न वा चला ॥६॥ सर्वो लक्ष्मी कटाक्षैकविलासो विभवो हरेः । कथ्यते सकलैर्लोकैस्तेनासौ परमेश्वरः ॥७॥ सर्वलक्ष्मीमयी सीता सर्वसिद्धिनिधीश्वरी । सर्वानन्दमयी सीता सर्वारोगविवर्द्धिनी ॥८॥ साध्वी पुण्यप्रिया पत्नी सर्वपत्नीति सिद्धति । सर्वेषामीश्वराणां तु स एव परमेश्वरः ॥९॥ श्रुति स्मृति पुराणादि सिद्धाहीश्वरता मुने । अंगीक्रियत एवात्र ब्रह्मादीनामपीश्वरैः ॥१०॥ मत्स्यकूर्म वराहाणां कुतो न नृहरेरपि । शौरेस्त्रिविक्रमस्यापि वैकुण्ठस्याऽच्युतस्य च ॥११॥ प्रद्युम्नस्याऽनिरुद्धस्य विष्णोर्नारायणस्य च । श्वेतद्वीपपतेर्जिष्णोः संकर्षणगणेशयोः ॥१२॥ हयग्रीवस्य गोविन्दः माधवाम्भोधिशायिनाम् । वामनाधोक्षजादीनां हृषीकेशामृतेशयोः ॥१३॥ हेतुवादकरैर्मंदैरन्यथैवोपपद्यते । प्रत्यक्षं श्रुतिसिद्धं यन्महत्वं मृति नाशनम् ॥१४॥ किन्तु तेषु न मे प्रीतिर्नचद्वैष्यो मृषा नदृक् । स्वभाव एव नित्योयमीदृशो विधिगोचरः ॥१५॥ कुतो ब्रह्मादिषु प्रीतिः खंडितात्मगुणेषु यत् । देवासूर्यापरावृत्तेदुर्गादिषु तु किं पुनः ॥१६॥ मत्स्यादिभिरभेदोवा भेदो वास्ततिरत्ययः । तैस्तैरंशांशि भावो वा प्रमाणानुभवेन च ॥१७॥ किं तैरेकान्तभावस्य रामभक्तिसुधोदधेः । ब्रह्मचर्य व्रतस्यापि रामे केलिरतस्य मे ॥१८॥ पुराणे क्वचिदंशत्वं रामस्यापि श्रुतं च यत् । अन्याभिसंधिकं तत्तु मूलमानविरोधतः ॥१९॥ नहि तेन विना शून्यं रामेण परमं पदम् । लीलाभि व्यक्तितात्पर्थादवतारकृतिश्रुते ॥२०॥ अवतारित्वमस्यैव रामस्याप्यवतारता । आदित्यवद्विरोधोऽत्र न स्वरूपभिदा क्वचित् ॥२१॥ एकस्मिन्नेव रामे तु कौशल्योत्संगलालिते । सीतापतौ मम प्रीतिरविच्छिन्ना स्वभावजा ॥२२॥ एकान्तिरामभक्तस्य सन्निधाने हनुमतः । वक्तुं प्रवर्तते वाणीं श्रोत्रमन्यस्य तूद्यति ॥२३॥ सीता समाधिका भार्या विष्णोरपि सुदुर्लभा । सर्वशृङ्गारसम्पन्ना मत्स्यादीनां तु दुःश्रवा ॥२४॥ पुरी विष्णोरपि स्फीता नास्त्ययोध्या समाधिका । मत्स्यादीनां तु यद्वारिवनमात्रनिवासिता ॥२५॥ नित्यानित्यविभूतिर्या चक्रनाभीवदृष्यते । सीतायोध्यापती रामस्तेभ्योऽधिकतमोऽस्त्यतः ॥२६॥ सरय्वा सदृशीमन्यां नाहं पश्यामि चापगाम् । यावै वेदद्रवोद्भूता रामाराममनोरमा ॥२७॥ तयोरतिश्रमं या तु नाशयन्ती रतिप्रदा । चित्रवारिजजातानि दर्शयंत्युत्पलानि च ॥२८॥ पिता दशरथादन्यो धन्यो न भुवनत्रये । यो वै रामवियोगे तु प्राणानपि जिहासति ॥२६॥ कौशल्यासदृशी माता न भूता न भविष्यति । या पुत्रभवसम्भूतै रामं प्रियसुतं शुभैः ॥३०॥ नचलक्ष्मण शत्रुघ्नभरतैस्सदृशापरे । समये भ्रातृभोगार्थं स्वान्स्वान्भोगान्त्यजन्ति च ॥३१॥ साकेतोपवनेभ्योपि नाधिकानि समानि च । अन्यानिनन्दनादीनि वनानि पृथिवीदिवोः ॥३२॥ एषुराम प्रिया पद्भ्यां मालाकारीव गच्छति । वैदेही विभ्रती येषां मालां पुष्पमयीं नवाम् ॥३३॥ सर्वयोषिद्गुणश्रेष्ठाः सर्वाः साकेतयोषितः । त्यजन्त्यागारकार्याणि यास्तद्गीतकृतोत्सवाः ॥३४॥ सत्यनामाप्रजा धन्या या राममुखदर्शनात् । तुच्छी कुर्वन्ति मुक्त्यादि पुरुषार्थं चतुष्टयम् ॥३५॥ वासो येषामयोध्याया रोमो मित्रं सुहृद्गुरुः । तद्गीतानि मुखे येषां तेभ्यः किन्न ददौ विधिः ॥३६॥ योपि स्वप्ने वदेद्रामं संभ्रमस्खलनादिषु । तस्य पादरजो मे तु मूर्द्धानमधिरोहतु ॥३७॥ रामादन्यं परं श्रेष्ठं यो वे पांडित्यमात्रतः । सन्तप्तहृदयस्तस्य जिह्वां छिन्द्यामहं मुने ॥३८॥ रामं दृष्ट्वापि यो मूढ़ो ददृक्षेदपरं शुभम् । नील्या तस्याक्षिणी कोपादंजयेयं कृतागसः ॥३९॥ क्रूरं पश्येच्चयोरामं सौम्यं वन्धुशताधिकम् । रेणुकाम्मुष्टि मस्यापि क्षिपाम्यक्ष्णि दुरात्मनः ॥४०॥ यस्तु रामं न पश्येत यं च रामो न पश्यति । गर्हितः सर्वलोकेषु पतितः पापजीवनः ॥४१॥ न मे रामो न तस्याहमिति यस्य दृढ़ा मतिः । स म्लेक्षो नापरो लोकेर्भूमेर्भारो महत्तरः ॥४२॥ रामप्रीत्यैव सर्वेषु प्रीतिसिद्धिः सुरेष्वपि । मत्स्यादिष्ववतारेषु गोपालगुणगौरवात् ॥४३॥ यावद्रामेरतिर्येषां न स्याद्गौरवशालिनाम् । तावत्तेषां तु वैफल्यमर्चनस्तवनादिषु ॥४४॥ द्वैपत्यलोकनाथोसौ श्वानं दृष्ट्वा प्रकुप्यते । एकपत्यं ततो विद्वानाश्रित्य शरणं व्रजेत् ॥४७॥ तस्य लोकप्रधानस्य प्रकोपात्प्रभवन्ति किम् । क्षुद्रा देवाः फलं दातुमिन्द्रायाः कर्मयोनयः ॥४८॥ हीनैः साम्यं तु रामस्य दत्तं पापविमोहितैः । आत्मानर्थोपचाराय तत्स्याद्धालाहलं यथा ॥४९॥ मधुरे भोजनेपुंसोविषवद्भोजने मलम् । मलं स्यादन्यदेवानां सेवनं फल वाञ्छया ॥५०॥ तस्मादनन्यसेवी सन्सर्वकामपराङ्मुखः । जितेद्रियमनःकायोरामं ध्यायेदनन्यधीः ॥५१॥ अत्र नान्योऽधिकारी स्याद्रामरामाश्रये रसे । उक्त लक्षण एव स्यान्निन्दा मत्सरवर्जितः ॥५२॥ न नारी पुरुषो नापि न षण्डो न च पंडितः। न मूर्खो न च मध्यस्थो न शूद्रो न द्विजोपि सन् ॥५३॥ किं त्वप्राकृतमेव स्वं देहेंद्रियविलक्षणम् । अनुसंधाय संद्याद्राम केलिमनोबुधः ॥५४॥ त्वां च मां च नमस्कृत्य विश्वक्सेनं गणेश्वरम् । गुरूनप्यमलप्राज्ञान्ध्यायेद्रामं रहस्थितः ॥५५॥ रामं प्रणम्य सीतां च सखीस्तस्या महत्तराः । अयोध्यां सरयूं चापि वनान्युपवनानि च ॥५६॥ मत्तनागेन्द्ररूपं तं यक्षराजं प्रणम्य च । क्षीरसागरतीरस्थं शिवं गौरीं गणाधिपम् ॥५७॥ ध्यायेच्छृंगारसंसक्तं कामरूपं कलाश्रयम् । सीतादिश्रीसहस्राणां वृन्दमध्ये विहारिणम् ॥५८॥ षोडशाब्दवयोरूपं महामुग्ध मनोहरम् । चंचलं शीलसम्पन्नं गंभीरं चतुरं पुनः ॥५९॥ देव्या संप्रार्थितो ह्येवं सीतयामृतशीतया । समूहैश्च सखीनां तु प्रणुन्ननूनशीलया ॥६०॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले रामध्यान प्रकाशनोनाम चतुर्थोध्यायः ४॥
पार्वत्युवाच- कथं संप्रार्थितो देव्या देवो दाशरथिः पते । केन वा हेतुना किं वा चकार चतुरोत्तरः ॥१॥ श्रीशिव उवाच- अगस्त्यश्रोतरि प्रीत्या सीतावाक्यानि मारुतिः । प्रसन्नहृदयः प्रोचे भक्त्या स्वादसमुद्यतः ॥२॥ यावन्ति मानुषे लोके सुखानि संभवंति च । निरवद्यानि सर्वाणि तानि भुक्तानि ते मया ॥३॥ स्वप्ने भ्रमेपि वा दुःखं नान्वभूवं भुवः सुता । प्राप्य प्राणपतिं हित्वा दयमानमनोरमम् ॥४॥ दुर्लभं यन्मनुष्याणां देवानामपि यत्सुखम् । तत्सुखं देहि मे कान्त नितांतसुभगप्रिय ॥५॥ रूपमेताः प्रसंशंति स्त्रियः पुंसोखिलाः स्वतः । न विद्या न कुलं नापि दाक्ष्यं शौर्यं पराक्रमम् ॥६॥ रूप सौन्दर्य माधुर्य चातुर्य स्थिरतादयः । सौकुमार्यं च सौगन्ध्यं त्वयि सर्वे गुणाः स्फुटाः ॥७॥ चकवर्ति कुलोत्तंसो हंसचिन्हदुकूलवान् । विद्याविनयसम्पन्नः शौर्यवीर्यपराक्रमी ॥८॥ गंधर्वशास्त्रनिपुणः कामशास्त्रविशारदः । वदान्यो दर्शनीयश्च नित्यः स्वाधीनयौवनः ॥९॥ कलासु कुशलोऽक्लेशस्वभावः स्मितभाषणः। कोमलः पेशलः साधुवत्सलोऽकश्मलाशयः ॥१०॥ कौशलेशसुतः श्रीमान् कौशल्येयो गुणाम्बुधिः । नान्योस्ति त्रिषुलोकेषु सर्वभूतहिते रतः ॥११॥ पद्मपत्रविशालाक्षः पीनवक्षा महाभुजः । नानाऽऽनन्दसंदोहः सन्निवेषसुवेशधृक् ॥१२॥ सर्व एवोपयुक्तास्ते गुणाः सर्वत्र सर्वदा । नार्थवाक्यं भवेदेषां सर्व लोकहितप्रियाः ॥२३॥ तथापि दैहिका एव गुणाः लोकविलक्षणाः । तवानन्तसुखस्याऽपि सौख्यसंम्पत्तिहेतवः ॥१४॥ शृङ्गारे च निदानानि मध्योत्तरविभावुकाः । नारीमात्रप्रियाः पुंसां दृष्टिचित्तापहारिणः ॥१५॥ यद्दृष्टं यच्छ्रुतं भुक्तं पीतं च नितरान्तु तत् । वैरस्याय भवेदारान्नव्यान्वेषी यतोयतः ॥१६॥ त्वं तु नैव तथा भूतो विभ्रद्वैभवमुत्तमम् । नित्यनव्यः सदा भव्यो दृष्टो भुक्तः श्रुतोप्यतः ॥१७॥ पूर्णभाग्यस्य ते गेहेऽनन्तभूतिरतः परम् । सहस्त्रैर्गुरुनारीणां पौरस्त्रीणां च मानद ॥१८॥ सहस्त्रैर्गृहदासीनां कार्याणां च सहस्त्रकैः । द्रष्टुं संभाषितुं चेश न शक्योसि निशास्वपि ॥१९॥ तस्मादेकान्तवासेन नित्योज्वलपरेण च । योग्यस्त्रीपरिवारेण भवितव्यं त्वया प्रिय ॥२०॥ आसामपि मनांस्येवं योषितां तव सुन्दर । एकान्ते रन्तुकामानां ज्ञातुमर्हसिसुव्रत ॥२१॥ राज्यंपितैव ते कुर्वन् प्रजापाल्यं करोति हि । न ते भारो भवेत्सोपि कीडाकालो वुभुक्षतः ॥२२॥ वहिश्वर इव प्राणः पितुस्त्वं सुखभुक् सदा । न निषिध्येद्वने क्रीडां यूनां यद्विकृतिं विदन् ॥२३॥ जीवत्पितृक एवेह न रामारामभुग्यदि । मृते तस्मिन्नसौ नाके निरयेन भविष्यति ॥२४॥ इति प्रियाः प्रियावाचः श्रुत्वोवाच प्रियः प्रियाम् । देवि चित्ते ममाप्येवं वर्तते यत्त्वत्योदितम् ॥२५॥ गृहेषु गृहकृत्यानामानन्त्याद्गृहमेधिनाम् । क्वावकाशः सुखं भोक्तुं वीचिस्थानामिवांबुधेः ॥२६॥ लौकिका वैदिका धर्मा उक्ता ये गृहवासिनाम् । त्यागे तेषां तु पातित्यं सिद्धौ कामविरोधिता ॥२७॥ तस्मादारामवासेन कामान्काममनोगतान् । रसज्ञया त्वया भोक्ष्ये प्रियया शाश्वतीः समाः ॥२८॥ वनवासीति तेनेमे लोकास्त्वां कथयन्तु च । तेनैव जनसंवाधो निवर्तेत यतस्ततः ॥२९॥ माता पिता सुहृद् भ्राता पुत्रश्च यः सखास्वसा । स्वस्रेयः श्वसुरः श्वस्रूः सहायाः मित्रवां धवाः ॥३०॥ धर्मार्थसाध काह्येते न कामबलवर्द्धनः । भार्यैका तु तथाभूता कामानन्दविवर्द्धिनी ॥३१॥ जीवने मरणे या हि भर्तारमनुगच्छति । तस्या अन्यो न वै बन्धुः पत्युरापद्विनाशनात् ॥३२॥ औपपत्ये सुखाभासे परलोकविरोधिनि । सज्जन्ते सज्जना नैव सर्व लोकहितैषिणः ॥३३॥ भार्यैकैव गतिस्तेषां सन्तानानन्दकारिणाम् । नहि जारजवंशोत्र विद्वद्भिस्तु प्रशस्यते ॥३४॥ जारसेवाकुलस्त्रीणां कुलधर्मविलोपिनी । स्त्रिया सर्वात्मना त्याज्यो जारस्तस्मादघौघकृत् ॥३५॥ अहं त्वत्सदृशीमन्यां न पश्यामि महीतले । एकपत्नीव्रतं तस्माद्भुवि प्रथितमादितः ॥३६॥ त्वं तु लोकोत्तराकारामृताचारामृतैषिणी । रूपशीलत्रयोवित्तकलाभिरनुगामिनी ॥३७॥ किन्न त्वामनुवर्तेयं चित्ररूपप्रदर्शिनीम् । नित्यानुकूल संसर्गात्स्वभावामपि मैथिलि ॥३८॥ यूनो मनः स्त्रियामेव रागादेव प्रवर्तते । रूपस्वभावसेवाभिः कुतो न त्वयि मन्मनः ॥३९॥ न त्वादृशी पूर्णभाग्या मादृशो न महीतले । यत्नात्तु लभ्यते पुंसां पूर्णानन्दप्रवर्तिनी ॥४०॥ इति प्रियां प्रियां वार्ता कृत्वा लोकपतेःसुतः । स्वतन्त्रः सर्वकृत्येषु जगाम स्ववनानि सः ॥४१॥ अशोकवनिकांतेषु प्राविशत्सह सीतया । अत्येति कल्पकल्पाद्धि प्रेयस्याह्लादनक्रमैः ॥४२॥ दुःप्रवेशा जनानां सा देवानामपि वाटिका । रामस्य पुरुषेन्द्रस्य सम्भोगारम्भकारणात् ॥४३॥ नैतादृशी सुरेन्द्रस्य नागेन्द्रवरुणस्य च । न कुवेरस्य नान्येषां देवानां रतिवाटिका ॥४४॥ न नागानां न दैत्यानां न च दानवरक्षसाम् । तत्तुल्या वनिका विष्णोर्वैकुण्ठेपि न विद्यते ॥४५॥ दुःखैक भाजनानां तु मनुष्याणां कुतस्तराम् । यस्याःस्मरण मात्रेण नृॄणां शोको विनश्यति ॥४६॥ मत्तनागेन्द्ररूपेण पुण्यलोकविनायकः । आदेशाद्रामचन्द्रस्य तां रक्षति स यक्षराट् ॥४७॥ विस्तीर्णा सरयूतीरे नीरनीरजशोभिता । मत्तकोकिलसंघुष्टा हंससारसनादिता ॥४८॥ मत्तालिकुलगुञ्जारोश्रोत्रानन्दमदोत्सवा । मयूरारावनृत्याद्यैः कामशालेव शोभते ॥४९॥ निर्वैरमृगशावाद्यैर्वालक्रीडास्थलीव सा । सारिका शुकदात्यूहप्रमुखैर्वहु पक्षिभिः ॥५०॥ विहारागारवन्याढ्यशालावच्च विनादिता । स्रवन्मधुमरंदाद्यैर्पानशालेव पिच्छिला ॥५१॥ प्रकाशैः पुष्पजातीनां राकेवासौ दिवानिशम् । परागपटलैर्व्योम वितानवरशीतला ॥५२॥ चलत्पल्लववल्लीभिर्नृत्यशालेवशोभिता । फलैर्नानाविधैः स्वर्गमुक्तिभूमिरिवास्थिता ॥५३॥ तमालाकुलवीथीभिर्दिवसेऽपिकुहूरिव । जपाचम्पकपुष्पाद्यैरक्तासंध्येव शोभते ॥५४॥ इष्टकोपलरत्नाद्यैर्वहुमध्यमहीतला । जलयंत्रप्रणालीभिः प्राविडिव विभाविता ॥५५॥ नानानिलयलालित्य हृदि कुण्डविकल्पिता । वल्लीजालपरिच्छिन्ना मुक्तकेशेव भामिनी ॥५६॥ नानागह्वरगंभीरा नानार्थेव सुविस्तृता । नाना महीरुहारोहा विष्णोर्भक्तिरिव स्थिता ॥५७॥ नाना शाद्वलसंछिन्ना नभसेव महीव सा । प्रफुल्लानेककुमुदो शारदीद्योरिवोद्यता ॥५८॥ मायेव शंवरस्यैषा कालनेमेरिवायता । ऐन्द्रजालिकराजस्य विश्वकर्तुर्मयस्य वा ॥५९॥ गन्धर्वशावरादीनां मायामयमहीरुहैः । वाटिका रामचन्द्रस्य त्रिलोक्यां प्रथिता मुने ॥६०॥ हिमाद्रिमृगपक्ष्मादिकृतास्तरणचित्रिता । क्वचित्क्वचित्प्रदेशे सा सीताहेतोरिति श्रुते ॥६१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरहस्ये अशोकवनिका प्रवेश तद्गुण प्रकाशनो नाम पञ्चमोध्यायः ५॥
शिव उवाच- हनुमान् मुनि हंसाय राजहंससुतस्य ताम् । रामस्यवक्तुमारेभे वनकेलिमलौकिकीम् ॥१॥ श्रीहनुमानुवाच- प्रविश्यचास्थितं राममशोकवनिकां प्रियाः । योषितोऽन्वविशन्नैका रूपयौवन शोभनाः ॥२॥ योगिनां सिद्धयस्तज्जाः सिद्धं योगदशा इव । योगिन्यस्ता प्रवीणाश्च संगीतादिविशारदाः ॥३॥ महार्हा प्रमदा नार्यो दिव्यांवरविभूषणाः। मुग्धा सिद्धाश्च सस्निग्धा राजन्याः प्रमदोत्तमाः ॥४॥ वैश्याः शूद्राश्च शुचयस्तपोऽभ्यासतपोदिताः । योग्या एव भवन्त्यस्थ साकांक्षा द्देवकन्यकाः ॥५॥ निसर्गसुन्दरोऽप्यस्य मधुरः पेशलः स्वतः । तत्रासीद्योषितां मध्ये जगन्मोहनमोहनः ॥६॥ सीताप्यास तथा रूपारूपि राजमनः प्रिया । आश्विनेसरसीवैषा पक्षिपद्मादि शोभिनी ॥७॥ आह्लादिनी तु दम्पत्योरशोकवनिकैवसा । तस्यां च दम्पती एवं नेत्रोत्सवतया स्थितौ ॥८॥ एकनेत्रं तयोरासीन्मिथोरूपवशीकृतम् । वनश्रिया हृतं चान्यद्विरोधोपि तयोरभृत् ॥९॥ मञ्जीरकिंकिणीक्वाणे श्रोत्रमासीत्तयोर्मिथः । आरेभे भृङ्गजातीनां श्रोत्रमन्यच्च सुस्थिरम् ॥१०॥ भृंगरावस्तिरोधत्तेद् गीतवादित्रघोषणम् । मञ्जीरनूपुरारावैः रामाणां सतिरोहितम् ॥११॥ रामाणां कोकिलानाञ्च भूमिभूमिरुहाश्रया । ज्ञातानि तु कुलान्यसन्नान्य एषां भिदा विदौ ॥१२॥ हरिद्वर्णापि सा भूमिःशाद्वलैरुपरिस्थितैः । रक्ता पादतलच्छाया संगादास तु योषिताम् ॥१३॥ तत्र रामः प्रियैर्वाक्यैरामामाह्लादः यच्छनैः । वनिकां दर्शयामास सिंहगामीभगामिनीम् ॥१४॥ सर्वरक्तमिवाभाति पश्यतो मे तवाधरम् । जपादिसुतरां सीते रक्तं तन्मे मनस्त्वयि ॥ १५॥ विल्वं प्रियतरं मह्यमानादिकफलेष्वपि । तव स्तनतुलां लेशं यद्विभर्ति यशस्विनि ॥१६॥ हन्तुं मृगान्न जायेत मनो मे मिथिलोद्भवे । तेषु त्वन्नेत्रसादृश्यं किंचिद्भावयतो वने ॥१७॥ देवि विंवाधरायास्ते स्मृतेस्तु मम युज्यते । यदा स्वादयतो द्राक्षाः पक्वाः सद्य उपाहृताः ॥१८॥ कान्तिगन्धिंलवायोगादंगानां तव जानकि । केतकी केतकीत्येव ख्यातिं जाता सकंटका ॥१९॥ मयापि भ्रमरेणैव त्यक्तश्चंपक उद्रजाः । तवाङ्गकान्तिगन्धानामनुग्राणां निषेवनात् ॥२०॥ अग्नेस्त्वं गर्भभूतासि जातरूपं तु तस्य त्विट् । कथमंगोपमानं स्याद्गौराङ्गी तव जानकि ॥२१॥ भवदायतनत्वांघ्रिकमलेषु तपस्विनी । महत्वं न स्वतस्तेषु पद्ममालिनि भूसुते ॥२२॥ तारुण्यमार्दवं नापि पल्लवेषु नवेष्वपि । किन्तु ते पदयोरेव तदेव द्वयमंगने ॥२३॥ रुषाक्षामशरीरत्वान्मध्यं सिंहस्य यत्कृशम् । नैति मध्येन ते तौल्यं स्वभादणुना प्रिये ॥२४॥ वेणीं विलोक्य ते तापो यः पापस्य विजायते । हालाहलन्तु नागस्य स एवान्तकसन्निभम् ॥२५॥ मणिं वेणीमुखे दृष्ट्वा नागोपि विदधे मणिम् । तथात्वे भीषयन्नेष सर्वैरपि निहन्यते ॥२६॥ गुणाधिक्यवती द्वैष्यात्प्रेयसी स्यात्कलंकितः । त्वद्वक्त्रस्य गुणेर्ष्यायाश्चन्द्रवद्विगुणोजनः ॥२७॥ तवोरूगुणपुष्कल्यादीक्षितात्कैदलीगता । निः सारत्वं जगद्भूतं सारभूते जलाश्रयाः ॥२८॥ श्रोणी ते सौख्यसौधस्य निःश्रेणी मम शोभने । यत्र स्थितस्य मे स्वर्गो भूमेर्गत इवेयते ॥२९॥ दक्षिणस्ते भुजो मुक्तिर्मुक्तिर्वामोपि वामदृक् । तयोरन्तर्गतस्याथ किं मे दुर्लभमुत्तमम् ॥३०॥ वल्यः पुष्पमुचो भीरु नित्यं त्वामनुकुर्वते । वावदूकां प्रसंगे तु नानावादमरुत्सु च ॥३१॥ या विद्रुमलता युक्ता विमुक्तालतिकाश्च ताः । पद्मरागलसन्मुक्तां मुक्तात्वामनुसंश्रिता ॥३२॥ ये ये ते स्मारका वृत्ता ते तेऽतीव प्रिया मम । यथाऽयं दाडिमः सुभ्रु सुदत्यास्तव भूमिभूः ॥३३॥ सीते ते गुणमात्राया योगाद्योग्या भवन्त्यमी । मीना मृगा खगा वापि लता वा वनितापशुः ॥३४॥ यथायं गजराजः श्रीराज्ञां भूतिविभूषणः । गत्या ते स्वीकृतो लेशान्मैथिलेशसुते यतः ॥ ३५ ॥ चन्दनाचलसम्बन्धी वायुः सर्वस्तुतोप्यसौ । न ते श्वासानिलेनात्र तुलामायान्मुनिस्तुते ॥३६॥ कर्पूरः करभोरु त्वद्धासत्रासादिवातुरः । उड्डीयते कृताभीति रप्यतीव शुचिस्मिते ॥३७॥ सोऽनुभवितुमेवाहं जानाम्यंगचयं तव । न वा वर्णयितुं सीते जाने जातु जनेडिते ॥३८॥ अन्योन्यं तौ च सन्यस्य पीनयोरंशयोर्भुजे । चेरतुर्वनराजीषुकामिनौ द्वौ ततः परम् ॥३९॥ कोकिलौ सारसौहंसौ दात्यूहो भ्रमरौ शुकौ । सारिको खंजनौ मीनौ कोकौ पारावतौ यथा ॥४०॥ तथा तौ सरसौ स्वैरमधुपानमदोद्धतौ । निविडाशे वने तस्मिन्वीथ्यां वीथ्यां विजर्हतुः ॥४१॥ दृश्यते न यदा क्वापि रामो रामामनोहरः । निकुंजेन निलीयैव किं हि कुर्यादिति प्रिया ॥४२॥ तदा नाथेति वादिन्यां प्रेयस्यां प्रणयी पुनः । अयमस्मि पुरस्तेहमितियात्यपरोक्षताम् ॥४३॥ प्रयस्यापि न ते नासौ दृश्यते यदि रुद्यते । भिद्यते हृदयं तर्हि प्रत्यक्षाशु ततोऽभवत् ॥४४॥ गृहित्वा च तरोः शाखे तोलयन्तौ तनू निजे । पुष्पाणिपातयन्तौ तौ प्रेयसौ शिरसा मिथः ॥४५॥ सहास्यं नेत्रयोर्लास्यं कटाक्षैरिह तेनतुः । मुग्धत्वान्मधुमत्तत्वात्कामित्वाच्च व्यपत्रपौ ॥४६॥ कर्णोत्तं सान्प्रकुर्वन्ते कर्णिकारैश्च तौ मिथः । पूरयन्तौ च सत्पुष्पैर्वक्रस्निग्धासितान्कचान् ॥४७॥ माले निर्माय पुष्पैस्तौ धारयन्तौ मिथः प्रियो । रेमतुः पुष्पश्य्यायां लतागेहे गुरुस्मरौ ॥४८॥ उन्नमय्य प्रियां मध्ये हस्तागम्ये फलादिके । ग्राहयन्हास्यकृन्मोक्तुमिच्छति न तां लताम् ॥४६॥ श्रमस्वेदमुखीं बालां प्रेयसीं सदयोदधिः । पौष्येण व्यजनेनासौ वी जयन्हसति प्रियः ॥५०॥ मन्दं मन्दं चलत्यग्रे व्यूहन्शाखा लता अपि । लताजालप्रसक्तां तां मोचयंश्च हसत्यसौ ॥५१॥ पुष्पैर्वृतैः प्रिया शुष्कैर्विद्धपादा भवेत्ततः । शोधयन्पद्धतिं तस्याः पादौ च स्पृशति प्रियः ॥५२॥ नामध्येयानि वृक्षाणामेकैकस्य च पृच्छति । प्रिया तस्यै प्रियस्तानि कथयन्नति वर्तते ॥५३॥ वहत्यारोप्यपृष्ठेन वनवीथीप्रदर्शकः । मृद्वीं मृदुः मृदुः प्रेयान्हस्तेन भूरुह प्रियाम् ॥५४॥ मालतीपुष्पमालातु खेदयेदतिधारणे । ततोमृदुलमप्येनं नासौ सीता लघीयसी ॥५५॥ उपविश्य च शाखायाः शाद्वले च शिलातले । प्रियांके च प्रियालंव्य करं पत्युश्च गच्छति ॥५६॥ भीता भ्रमरसंचारात्पीताम्बरसमावृता । आश्लिष्य मैथिली बाला कान्तं गच्छति काननम् ॥५७॥ भीषितावानरेणेहरोषिता च प्रिया सती । सा तं निःसारयामास कान्तं चालिंग्य काननात् ॥५८॥ सीता न कोकिला शाखा सीता सन्नापि मोहिता । अस्मदीयेति सीताया वाण्या पठति वै शुकः ॥५९॥ यत्र यत्र वने सीता शावलालनगर्धिनी । तत्र तत्र मृगा मृग्याः शावा अप्यनुदुद्रुवुः ॥६०॥ अनुपस्थितदासीकां सीतां काननदेवताः । परिचेरुः प्रियैर्वाक्यैर्मत्तैर्नृत्यैश्च लोचनैः ॥६१॥ पुष्पपल्लवसछिन्नशाखास्वीयां समाहिता । इन्द्राणीं मोहयामास देवोद्यानविहारिणीम् ॥६२॥ वामावामपुरः पृष्ठा सन्नासन्नैव जानकी । मोहयन्ती वने दृष्टा कान्तेनापि चला चला ॥६३॥ संचरन्ती वने सीता लीलानिर्झरनादिनी । सौदामिनीं स्वयाकान्त्या मोहयामास भामिनी ॥६४॥ नृत्यंतं शिखिनं दृष्ट्वा नर्तयन्तीं प्रियं स्वयम् । अनुचक्रे मयूरीं सा बाला लीलानुजीविनी ॥६५॥ गृहीतकमलादोर्भ्यां सा सीतारण्यवासिनीं । समुद्रमथनोद्भूतां लक्ष्मीं देवीं जिगीषया ॥६६॥ हंसीश्च सारसीश्चैव रममाणाः प्रियैः सह । कान्तानुमोदिता सीताऽप्यन्वधावजिधृक्षया ॥६७॥ व्याजनिद्रौ च सुप्तौ तौ कयाप्याल्या प्रबोधितौ । प्रकुप्य सहसा तस्यै हसन्तौ तौ प्रसेदतुः ॥६८॥ दूरोज्झित सखी यूथौ लीलार्थकृतविग्रहौ । सीतारामौ वनेऽव्येव विहरन्तौ सदा स्थितो ॥६९॥ किं चिद्धास्याय च प्रेयान् सुप्तः कुंजेऽरुणां शुकः । निःससार शनैस्तस्मादज्ञातप्रिययांशुकात् ॥७०॥ कस्याश्चिद्रूपमास्थाय बालायाः प्रिय एव सः । चिन्वन्पुष्पाणि सस्मेर आजगाम प्रियान्तिके ॥७१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरासे वनप्रदर्शन प्रकाशनो नाम षष्ठोध्यायः ६॥
गौर्य्युवाच- इयं भगवतस्तस्य लीला रामस्य सुन्दरी । पूर्वं त्वया कुतो नोक्ता श्रुतौ रामायणस्य च ॥१॥ श्रीशिव उवाच- ईदृशी गोप्यते लीला सदा मुनिजनैर्जनैः । अर्थकामपरः सर्वो नास्य भक्तिधनो यतः ॥२॥ अत्र केवलभक्तस्य नान्येषामधिकारिता । ऐश्वर्य श्रवणे तेषां भक्तस्योभययोग्यता ॥३॥ ऐश्वर्यश्रवणे तस्य भक्तिः पूर्वं त्वपेक्षिता । माधुर्यश्रवणे त्वद्य पूर्णापत्ती विलोक्यते ॥४॥ पूर्णैश्वर्यबुधस्यापि माधुर्यश्रवणं विना । भक्तिर्नजायते पूर्णा शुष्कज्ञानं तु निष्फलम् ॥५॥ अत्यर्थप्रियरामस्य निष्कामस्य च गौरिसा । रामः सीताप्रियोपि स्यादत्यर्थप्रियसज्जनः ॥६॥ अगस्त्यो ज्ञानभक्तिभ्यामधिकारद्वयान्वितः । हनूमान्केवलो भक्तो माधुर्यचरिताश्रयः ॥७॥ सर्वाधिकारिता लोके रामायणकथा श्रुतौ । तत्र संजातशुद्धीनामत्र स्यादधिकारिता ॥८॥ रामायणस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम् । ब्रह्मा चतुर्मुखश्चान्ये तस्योच्छिष्ट भुजःप्रिये ॥९॥ अनन्तत्वेपि कोट्यानां शतेनास्य प्रपञ्चनम् । रामायणस्य बुध्यर्थं कृतं तेन विजानता ॥१०॥ तथेह वाङ्मयं सर्वं निमग्नं गगने यथा । अंबुमात्रं यथा सिंधौ देव मात्रं यथा हरौ ॥११॥ अर्थमात्रं यथा भूमौ मंत्रमात्रं यथा श्रुतौ । नाममात्रं तथा नाम्नि रामेति विदिते विभौ ॥१२॥ यथा सर्वः प्रपंचोयं प्रकृतौ विकृतैः कृतः । नहि देवोपि च शक्नोति श्रोतुं रामायणं समम् ॥१३॥ एकदेशेन सर्वोपि प्रपंचः क्रियते विभोः । विशिष्टं चरितं तस्य पृष्टं यन्मुनिभूभुजा ॥१४॥ अञ्जनानन्दनस्तस्मै जगादगदतां वरः । प्रिया पादाम्बुजे स्पृष्टा सोवाच प्रियरूपिणी ॥१५॥ चिरात् प्राणेश्वरः सोऽयं सुप्तो राज्ञि प्रबोध्यताम् । इत्युक्ता जानकी देवी तयेमां प्रति वक्ति सा ॥१६॥ श्रांतो वनविहारेण नेत्रहारेण भूरिणा । सुकुमारतरः सुप्तो निद्रायां च कथंचन ॥१७॥ प्राणेप्सितः कथं सोयं मयाद्य प्रतिबोध्यताम् । उन्निद्रः स विकुप्येन् मे चक्रवर्तिसुतः प्रियः ॥१८॥ नष्टश्रान्तिर्गतालस्यः स्वयमेव प्रबुध्यते । आली सा सीतयेत्युक्ता वीणावाणीमुवाचताम् ॥१९॥ देवित्वदाज्ञया देवं सन्ध्याकाल उपस्थिते । एनं प्रबोधयाम्येवगीतैर्वीणादिवादनैः ॥२०॥ प्रबुद्धोपि न कुप्येद्धि स्वायुष्कामो युवा सुखी । इति बालाभिरालीभिर्गीतेषु मधुरेष्वपि ॥२१॥ प्रवृत्तेषु जजागार नासीत्तत्र न नायकः । यदा मुग्धाभिराकृष्टे पीते वस्त्रे न किंचन ॥२२॥ शय्या शून्यैव संदृष्ट्वा पुष्पा दृश्यत खेदिनी । ततो दुःखतरं प्रापुर्योषित्संघाः सहस्रशः ॥२३॥ पुष्पाण्यैकैकशस्तस्याः प्रियार्थे समसोधयन् । परितो मृगयामासुर्वने विस्तृत गह्वरे ॥२४॥ वृक्षं वृक्षं च पृच्छन्त्यो वभ्रमुर्वनराजिषु । कश्चिन् मुग्धास्तदामुग्धा अपराः प्रतितूचे रे ॥२५॥ किमर्थं मृग्यतेऽन्यत्र मृग्यमाणोपि दुर्ल्लभः । मुग्धो राजेन्द्रसूनुस्तु कंचुकीषु निगूहितः ॥२६॥ मृग्यता किल कंचुक्यो मुक्ता वः कुचमंडलात् । मल्लिका शोभिते यद्वा धम्मिल्ले च स्वके स्वके ॥२७॥ वनंच मृग्यतामाशु भृङ्गै नियतसोन्यथा । नेत्रेषु हृदयेष्वाराद्रं भारम्येषु चोरुषु ॥२८॥ हारेषु कुण्डलादौ च केयूरकटकादिषु । लभ्येत सोधिकः प्रेयानञ्जनासंजनीषु च ॥२९॥ नैकाकी स वने तिष्ठेद् भीरुभीरुः सुखैधितः । प्रेयो वा कुत्र चित्स्वांगे गोपितो रसलुब्धया ॥३०॥ योगिन्या मोहितो वापि ते उभे इह तिष्ठतः । प्रयोविश्लेशसंतप्तां सीतां तासु सखीषु च ॥३१॥ प्रावोचन्मुह्यमानाषु कर्णे कापि च योगि नी । अयमेव सखीवेषो दक्षिणे दक्षिणश्छली ॥३२॥ दयिते दपितं विद्धि वद मा मा हरार्चिते । इत्यज्ञाततया सीता शिक्षिता निपुणा हिताः ॥३३॥ वियुज्यान्वेष्यतां स्वामी सख्या सर्वाभिरन्यगः । ततस्ता द्वन्द्वशो याताः प्रेयसः पदवीमनु ॥३४॥ यया लभ्यः प्रियो नः स्यात्तस्या एवेति निश्चिता । सीतापि सह योगिन्या मूर्खेव प्रययौ वनम् ॥३५॥ विस्मिता चरितैस्तस्य कोपशान्तिसमन्विता । ज्ञातात्मदयिताचारां सीतामास्वासितां तया ॥३६॥ प्रियो रूपवतीं सम्यक कृत्वा कौतुक केलये । सखीभ्यो दर्शयामास प्रियोयमिति वादिनी ॥३७॥ लब्धो मया ममैवैष नान्यस्या इति योगिनी । ततः सर्वाभिरागत्य प्रियो दृष्टो न जानकी ॥३८॥ इतिपूर्वैव सीतेति कल्पिता प्रियकारणात् । ततः सङ्गमयामासुस्तयाकान्तमिवावने ॥३९॥ योगिनी प्रापितज्ञाना गूढागूढसुचिस्मिता । मिथो ज्ञातस्वरूपौ तौ मिथोदर्शन हर्षितौ ॥४०॥ हर्षयामासतुः कान्तौ सखीरत्यर्थमीक्षणैः । एतद्वां मिथुनं नित्यं पश्येम क्षेमयोगकृत् ॥४१॥ इत्थमेव चिरं जीवादित्याशानः परं प्रियो । नैतद्विधिं विधातापि विधातुं विभुरेव सः ॥४२॥ य दीदं तेन सृष्टं स्यात्सृज्येतान्यदपीदृशम् । यन्मायामयमेवेदं मिथ्या न मिथुनं ततः ॥४३॥ आविरास्तेति पूर्णान्नो भाग्याद्भूमितलोपरि । इति प्रौढ़ा वचोभङ्गीतरंगितदृशौ प्रियौ ॥४४॥ निकुञ्जे तु लतागेहे स्वागातामागतानुगौ । स्वां स्वां स्रजं तु गुंफंतु रामणीयकरंजिताम् ॥४५॥ इत्युक्त्वारमणौ रन्तुमेकांतकृतकेतनौ । अगम्यं कुंजमासाद्य स्थितौ स्मेरमुखांबुजौ ॥४६॥ विपरीते समारब्धे सुरते तत्र विभ्रतौ । विपरीते निजेरूपे तयोरासीत्स्मरोत्सवः ॥४७॥ ततः सखीसमाजेषु मधुरान्मधुरं मृदु । प्रावर्तत च संगीतं ताभ्यामपि च सुश्रुतम् ॥४८॥ निवर्त्य च स्वसंगीतं काभिश्चिद्धनिताःसह । शुश्रुविरे रहस्यानि वचांसि तु तयोरपि ॥४९॥ कथंप्रिय स्त्रियावेषाच्छन्नो भिन्नहृदा त्वया । वाणीरूपपटिम्ना च ज्ञातोहं शिवमोहनः ॥५०॥ भवत्यामपि पश्यंत्यां पटोदन्तर्हितस्त्वहम् । निश्चक्रामाबुधे तस्मान्मन्येथास्त्वं पटोः पटुम् ॥५१॥ वंचनेन पटीयांस्त्वं भवितुं नार्हसि प्रिय । स्रीत्वेपि तेजसा स्पष्टो मया ज्ञातोसि भूरिणा ॥५२॥ पटीयसीं तु मामेव प्रिय वेषविचेष्टितैः । मन्यस्व मधुरापाङ्गीं मधुमत्तविलोचनाम् ॥५३॥ साहं मुग्धा जडा बाला ज्ञातश्वेताशिता च या । चकाराकाशमाकाशाद धस्ताच्चोपरिक्षितिम् (चकाराधः क्षितेर्व्योम व्योम्नोऽधस्ताद्भुवस्तलम् ॥ वा० पा०) ॥५४॥ नेदं तव विशालाक्षि ममरूपावधारणे । कौशलं किन्तु योगिन्या कस्याश्चित्सुहृदस्त्वयि ॥५५॥ मुग्धा एव भवंतीह सुखिन्यो नतु पंडिताः । स्त्रियस्तस्मादहं प्रायोमुग्धापि तव हर्षिणी ॥५६॥ पूजामानविलोपो हि पण्डितायाः सुदुःसहः । मूर्खा स्वीयापमानाद्धिपत्या नैव विरुध्यते ॥५७॥ मूर्खयोषित्सहस्त्रेण क्रीडन्ति गृहमेधिनः । योषित्सुकुशलामेकां गृहमेधीयकर्मसु ॥५८॥ दास्येवाहं भविष्यामि मूर्खेत्यर्थ विलोपिनी । विदुष्यास्तेतु भाविन्याः कस्याश्चिद्गृहमेधिनः ॥५९॥ रुष्टा वदसिमामेवं प्राणेभ्योऽपि गरीयसी । अत्रैव तव मुग्धत्वं स्फुटमेवमवेक्ष्यते ॥६०॥ रुष्टा चेत्किं करिष्यामि तवा न्यामभिकांक्षतः । धमार्थचतुरां पत्नीं मूर्खाहं तु व्यपेक्षिता ॥६१॥ त्वमेव समयं प्राप्य भविष्या विदुषीतमा । अर्थोपधायक मौढ्यंस्वीकृतं गुणवद्बुधे ॥६२॥ प्रेयसः करमुत्क्षिप्य चण्डीं किं चित्सिक्षणा । अपसृत्य च सा किं चिद्रुरोदभयकातरा ॥६३॥ पश्यंतीमृग बालेवशपंती विपरीतवत् । किं चित्कालं प्रियेणासावन्वभूयति भूरिदा ॥६४॥ सङ्गस्तदैव ते कार्यो यदाऽहं विदुषीतमा । भविष्यामि न मूर्खायाः सङ्गो रागाय ते भवेत् ॥६५॥ केनविघ्नितकामस्त्वं बद्धशक्तिश्च केन वा । येन त्वं पंडितां पत्नीं नाभि गच्छसि संप्रति ॥६६॥ यथन्य स्त्रीप्रसंगोऽसौ स्वप्नादावपि दुर्लभः । तर्ह्येवं स्त्री विवेकोयं कान्तत्वां कुत आगतः ॥६७॥ गन्धर्वामरनागानां राज्ञां शूद्रविशामपि । कन्यास्तव विशालाक्ष्यो योगिन्यः परमा अपि ॥६८॥ सर्वा वात्स्यायनी विद्या विनीताः स्वादुपंडिताः । याः सन्तीहमनस्ताभिर्हृतं ते चलचेतसः ॥६९॥ इत ऊर्ध्वं हृतस्वांतो गतातंको रमस्व च । आभिराभीरकन्याभिरन्याभिरनिशं प्रिय ॥७०॥ भग्नेचित्ते क्रियत् कालं भिन्ने पात्रे जलादिवत् । सुखं तिष्ठेत्ततस्त्वत्त औदासीन्यं वरं मम ॥७१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले रामरहस्ये वनकेलि प्रकाशनोनाम सप्तमोऽध्यायः ७॥
श्रीशिव उवाच- सर्वप्राणिप्रियस्यैव रामस्यानुनयाश्रयाः । वाचः पल्लवयन्नाह प्रेमांभोधिर्मरुत्सुतः ॥१॥ उक्तं हास्यविनोदाय वाक्यं हासाय तं प्रियः । मत्वा चोपससादाऽसौ वैदेहीं सुमनःप्रियाम् ॥२॥ दोर्भ्यामादाय मृद्वीं तां वक्षसाश्लिष्य चोचिवान् । सौदामिनीमिवाम्भोदे स्फुरंतीमुरसि प्रियः ॥३॥ हास्यायैव मयैतत्ते वाक्यमुक्तं हि तेषिणी । पादौस्पृशामि ते भीरु माखिद खेदनाशिनी ॥४॥ त्वं तु मे कल्पवल्लीव भृङ्गराजापि तस्य यत् । नोपेक्ष्यान्या न चापेक्ष्या यथा वा कंटकारिणा ॥५॥ नित्या त्वं पद्मिनी नारी पद्मगन्धिनि पद्मदृक् । अन्या नालीव नो कन्या मान्यालेर्मम चासमा ॥६॥ पूर्णाचन्द्रमसो ज्योत्स्ना चकोरस्यामृतप्रदा । रामस्यमे सदा श्यामे त्वमेव किल कामधुक् ॥७॥ कलेव कमले वान्याप्यस्तीति विदितं तु मे । ममापि हृदये किं ते वसतीति दृशंगता ॥८॥ हासानामनभिज्ञां त्वां योहं वाले जहास यत् । सोहमेव भवाम्यज्ञस्तन्मे त्वं क्षन्तुमर्हसि ॥९॥ रंभागर्भसमं चेतो योषायाः प्रियजोषणात् । तुल्यं खादिरगर्भेण पुंसश्चित्तमपेक्षितम् ॥१०॥ नवनीत समस्येव चित्तस्य मम रूपिणी । त्वं हि वन्हिशिखेवासि कथं धीरेण भूयते ॥११॥ तवस्पर्शादिजं भुक्त्वा सुखं त्वन्यत्र दुर्लभम् । विरज्येत कथं विद्वान्मादृङ् मानिनि जातुचित् ॥१२॥ नामाऽपि तव मां रामे घूर्णयेत्त्वं कुतो न तु । गन्धस्तवाङ्गसम्बन्धी वघ्नीयात्त्वं कुतो न माम् ॥१३॥ आभूषणस्वनस्ते त्वां प्रत्युद्गन्तुं मनः स्विनि । चेष्टयेन्मां कुतो न त्वं लौहं चुम्बकवत् पुनः ॥१४॥ रोमाञ्चये पुरेणीदृक् त्वद्वस्त्राभरणानि माम् । साक्षात्वं न कुतो वक्रकेशि क्लेशविनाशिनी ॥१५॥ भवत्संवन्धियत्किंचिद्दृष्टं वा यदि कर्णि तम् । हर्षं वर्षमिवात्यर्थं कुर्यात्त्वं न कुतः शुभे ॥१६॥ न त्वां मूर्खेति जानामि सर्वज्ञानवतीं प्रिये । किन्तु स्त्रीदोंषराहित्यं त्वय्ये वेति स्वभावतः ॥१७॥ कौटिल्यं यस्य नास्तीति व्रते मूर्खेतितं जनः । न स्वार्थकुशलो धूर्तो वंचनीयोऽमुना जनः ॥१८॥ त्वयानुमी (नी) यमानो यो रागोऽन्यासु प्रसंगतः । स त्वय्येवेति निश्चित्य सुखमास्स्व रमस्व च ॥१९॥ मद्भिन्नपुरुषागम्ये रहस्येकाकिनीं स्थिताम् । त्वां मां चान्याभिचारेण सेवेरन्का इमा विना ॥२०॥ सर्व स्त्रीपुरुषौघानामहं स्वामीतिनिश्चयात् । मम सर्वेश्वरस्यापि स्वामिन्येषा त्व मे वहि ॥२१॥ शिक्षायां गुण एवस्यान्न दोषो दोषनाशिनी । न पुनः करवाणीत्थं वाणीं श्रुत्वा तवेदृशीम् ॥२२॥ ममकोपोय मुत्सिक्तदुग्धवज्जलसेवनात् । सीते तव मुखांभोजदर्शनादुपशाम्यति ॥२३॥ तिरोधीयेत सङ्कोचे मुखेन्दोस्तव जानकि । आनन्दाव्धिर्म एधेत तवास्मितविधूदये ॥२४॥ न त्वां हातुं मनाग्बुद्धया कीर्तिरात्मवता यथा । अनन्या त्वं मया सीते चन्द्रेणेव च चन्द्रिका ॥२५॥ एवं साममुखैर्वाक्यैः कान्तेनागदिता सती । ऊचे स्मेरमुखी सीता गाढ़ं माधुर्य्यभाषिणी ॥२६॥ कदा रुष्टा त्वया दृष्टा प्रेयोहं प्रियवादिनी । भ्रांत्यैवाद्यानुनीतास्मि किङ्करोमितथापि ते ॥२७॥ रोष्टुत्विष्ट न जानामि कथं स्त्रीभिस्तु रुष्यते । कदा वा शिक्षितोमानो मया नाम प्रियस्त्रिया ॥२८॥ दृष्टं दंशेनयन्मर्म नेत्रे च सुमनोरजः । यातं तेन मयारोषाच्छप्तं चा रुदितं प्रिय ॥२९॥ त्वयामे पंडितेनापि न ज्ञाता मर्मवेदना । नाहं पृष्टा न च स्पृष्टा कामांधेन त्वया रहः ॥३०॥ तस्योपरि पुनर्मूर्खां मामवादीरनाथवत् । निजचातुर्य्यमेव त्वं व्यंजयन् विहसन्नपि ॥३१॥ स्वदारेष्व स्वदारेषु रंतुं जातमनोरथः । मया किं प्रतिषिध्येथाः स्वामी सर्वेषु वस्तुषु ॥३२॥ बव्हीनामेव नारीणां भोक्ता जानामि सर्वथा । गुणदोषान्न चैकस्यास्तस्यामेव स्थिरस्पृहः ॥३३॥ गुणोद्रेकवती या तु बव्हीनां वरयोषिताम् । एकस्यामेव तस्यां चेद्गुणज्ञो रमते ततः ॥३४॥ श्रुतं चंद्रमसैकै वरोहिणीवर रोहणी । नित्यं सम्भुज्यतेऽन्यासु विद्यमाना स्वपीतिमे ॥३५॥ विष्णोर्लक्ष्मीः शिवस्योमा वासवस्य शची सती । पुष्पेषोश्च रतिः सौम्या सर्वेषामपि सर्वदा ॥३६॥ एकैका श्रयते पत्नी धर्मकामार्थवर्द्धिनी । शृङ्गारे सर्वथा धर्माविरोधो न च संमतः ॥३७॥ नारी वेषोभवान्यादृक् तादृशी तव सुन्दरी । अर्हत्यर्द्धासनेस्थातुं नाहं हीनागुणैः शुभैः ॥३८॥ माला तव भविष्यामि वैजयन्ती मनोरमा । पादुके वा प्रिया कांची नूपूरौ पदिकोथवा ॥३९॥ उत्तरीयोत्तरीये वा (कटिवस्त्रोत्तरीये वा) कुण्डले कटकाबुत । छत्रं वा व्यजनं वापि पर्य्यंकः प्रच्छदोथवा ॥४०॥ केयूरौ मुद्रिका वापि चामरौ चषकोथवा । भृङ्गारो मुकरो वापि गन्धो वा सुरभिस्तव ॥४१॥ अङ्गसंयोग एवास्तां येन केनापि हेतुना । अन्तर न सहिष्येहं वारिशैत्यादिवद्विभो ॥४२॥ दर्शनान्नापयास्यामि सेवक्येव सती सती । साम्यं तेन भजिष्येहमेषामेऽस्तु परास्थितिः ॥४३॥ पालिता जनकेनाहमिति तेनास्मि जानकी । अज्ञातज्ञातगोत्रादिर्भित्वा भूतलमुत्थिता ॥४४॥ त्वं तु मूर्द्धाभिषिक्तानां राजन्यानां कुलोद्भवः । आवयोरन्त र दीर्घं तेनास्मि तव दासिका ॥४५॥ सीता भूत्वा परं त्वेतन्नोपासे चापरां स्त्रियम् । इति व्रतं न हास्यामि दास्याएतन्न मामकम् ॥४६॥ तस्मात्तुभ्यं नमाम्येषाह जातांऽजलिरुज्वला । दासीमेव निजां सीतां दासोस्मीति तु मा वद ॥४७॥ इति चोक्तवतीं कान्तां श्रांतास्मीति पुनर्वदाम् । स्वभास्मेरमुखः प्रयान्पुनः स्मेरो जगाद सः ॥४८॥ सर्वे रुच्चै प्रकारैस्त्वं तुल्यैवासि मया प्रिये । अधिक्येऽपि न दोषोस्ति यस्मान्मे स्तोत्रमेव तत् ॥४९॥ अन्योन्यं स्वाम्यदास्यादिः प्रीतः परमपोषकः । नित्यं स्याद्दम्पतीनां तु स्वांगानामिव सेवनम् ॥५०॥ एतत्सम्वादमित्थं तौ कृत्वान्यत्र च जग्मतुः । सुमनांस्यवचिन्वंतौ सीताभिर्ददृशे पुरः ॥५१॥ चतुःसरां स्रजं पृष्टे सृजन्कान्तोप्यऽदृश्यत् । मालापुष्प विशालेयं मालास्सृष्टा मयेति च ॥५२॥ सङ्गता दम्पतीभ्यां ता वदन्त्यः प्रमदोत्तमाः ॥५३॥
॥इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले दम्पत्योर्मिथः प्रेमप्रकाशनो नामाष्टमोऽध्यायः ८॥
श्रीशिव उवाच- श्रृण्वन् राम रहस्यानि प्रसीदन्मुनिसत्तमः । तत्प्रीत्यतिशयेनैव संनुनोद पुनः कपिम् ॥१॥ सार्द्धं सर्वाभिरालीभिर्वनमाली युतानिमा । रामो रामप्रिया चोपाविशत्साद्वलसंस्तरे ॥२॥ स्वया प्रीत्या सखीभिश्चयोगिन्याथ कयापिच । प्रेर्य्यमाणः प्रियां रामश्चक्रे शृङ्गारशोभिताम् ॥३॥ चक्रे प्रणयिनं तद्वत्सीतापि प्रणयादमुम । सवर्वांगसुन्दरमपि स्वभावादति सुन्दरम् ॥४॥ अन्योन्यं सह चर्योपि शृङ्गारै रतिभूषिता । आसन्नासन्नतरुणा रामोत्सव बुभुक्षया ॥५॥ अंधांसि सीधुकल्पानि विविधानि वहूनि च । शुद्धैश्च साधुभिस्तस्योपाहृतानि च किंकरैः ॥६॥ रामोथ बुभुजे प्रीत्या पश्चात्सीता सखीगणैः । दास्यो बुभुजिरे पश्चाद्यथा तोषं यथारुचि ॥७॥ समं हि भुंक्तेश्रीरामः सीतया सर्वदा सुधीः । एकस्थाल्यां महाप्रेम्णा दम्पती स्नेहगुम्फितौ ॥८॥ कर्पूरै लालवंगाद्यैर्भव्यास्तांबूलवीटिकाः । ददुः कांताय रामाय सीताया अपि चालिकाः ॥९॥ स्वयं च चर्वयामासुः प्रमदा मुदिता भृशम् । चामरव्यजनादी निपक्षिक्रीडनकानि च ॥१०॥ तयोश्च प्रेयसोः प्रीत्यै दधुर्दीर्घविलोचनाः । रहस्ये हास्यवाक्यानि वदंत्योऽन्या उपस्थिताः ॥११॥ पादसंवाहनादीनि तयोर्वन्यविहारिणोः । चक्रुश्चक्रनितंवाश्च काश्चित्कंजविलोचनाः ॥१२॥ पुष्पमंडपपर्यंकशायिनो रतिशायिनोः । श्रृङ्गारमपिनोः (शृङ्गारकृतयोः) काश्चित्संजगुर्मधु रंतयोः ॥१३॥ तयोश्च परितः काश्चित् वीणावादनतत्पराः । स्थिताश्च सुषुपुः काश्चित्काश्चित्कुंजगृहेषु च ॥१४॥ वंशीवेणुमृदंगादिवाद्यपाटवपारगाः । आसेदुश्चेन्दुवदनास्तयो राजकुमारयोः ॥१५॥ सर्वासु च स्थितास्वेव कोटिशो वनितास्वथ । आदित्योन्तर्हितः किम्वा वरवध्वार्गुरुह्निया ॥१६॥ सर्वा जजगरुः सोयं काले बाला उपस्थिते । निर्मला विमले व्योम्नि दातुं रात्रि सुखं तयोः ॥१७॥ आनन्दयन्कुमुद्वत्योश्चकोर चतुरप्रियः । इन्दुश्चोदैच्च सन्ध्याया विन्दुः किं वदने स्थितः ॥१८॥ अण्डः किं कीर्त्तिहंसस्य यशः पिण्डीकृतं नुकिम् । यूनो सीता मुखच्छाया किंवा व्योमसरस्यसौ ॥१९॥ पुण्डरीकं रमाया वा क्रीडाहंसो विधेश्चकिम् । क्रीडाकन्दुक एवासौ कामवध्वारतेर्विधुः ॥२०॥ शुद्धं सतां मनो वापि भक्त्या शुभ्रीभवद्धरेः । रंतुं मनोरथो वापि धरित्रीजनिरामयोः ॥२१॥ अत्यर्थं हास्य शीलायाः सीतायाश्च प्रियेण किम् । एष हास्यरसो लोके शोकामयविनाशनः ॥२२॥ नवनीतमयः पिण्डो मन्थनादुदधेर्गतः । सर्वसाधारणो व्योमगङ्गायां विधिना धृतः ॥२३॥ शृङ्गारपुरुषस्यार्थविधात्रा विहितं यशः । गुटिका पारदस्यैषा चन्द्रनाम्ना प्रसिध्यति ॥२४॥ सीतारामरहस्यानि द्रष्टुं किं वामलोचनम् । आविष्कृतं विरेजेह पुंसा पूर्णशशिच्छलात् ॥२५॥ रिरंसू भूसुतारामो चंद्रकांतिच्छटाच्छलात् । ज्ञात्वा वेधा दधच्छैत्यं कर्पूरं विकसत्यसौ ॥२६॥ कर्पूरदीपिकैवैषा चन्द्रनाम्नी प्रकाशते । देवैर्व्यक्तीकृता रात्रौराम रासं निरीक्षितुम् ॥२७॥ एवं सख्यः शशाङ्कं ता दृष्ट्वोत्प्रैक्षत सस्मिताः । सीताया वदनं चापि विलोक्य जहृषुर्भृशम् ॥२८॥ मल्लिका मालतीयूथ्यो जात्योपि कुसुमैरलम् । प्रकाशं व्यदधन् कान्तं हर्षयंत्य इव स्त्रियः ॥२९॥ कुमुदिन्योमुदंप्रापुः संकोचापायनिर्वृताः । कामुक्य इव भर्त्तारं दृष्ट्वा चन्द्रविकस्वराः ॥३०॥ वायुर्ववौ सुखस्पर्शो घ्राणप्राणोऽथ मन्थरः । गीतः शिलीमुखैर्मत्तोमातङ्ग इव संभ्रमन् ॥३१॥ तुमुलं रुरुवुर्लीलाः पतंगा विरुधादिषु । आयांत्याः किमु यामिन्या नूपुराद्याः प्रियं प्रति ॥३२॥ यामिका इव कामस्य सारसाः किल चुक्रुशुः । अश्रूयंत नदीनादाः कामदुन्दुभयः किमु ॥३३॥ स्तुत्वा कामं गता मौनं मयूरा इव वंदिनः । विश्रामं पक्षिणोयाता व्याहृत्य वणिजो यथा ॥३४॥ निद्रां गताः प्रजा रात्रिं शांतिमिंद्रियवृत्तयः । विद्यां प्राप्येव वोधेन्दोरुदये च महत्यपि ॥३५॥ पूर्वं विज्ञापितो देवो रंतुं रमयितुं च सः । सीतया भीतया देव्यारन्तुं चक्रे मनो निशि ॥३६॥ रात्रिं रासगुणोपेतां देवीनां च मनांसि सः । विलोक्य रमणीरामो रन्तुं चित्तं दधे प्रभुः ॥३७॥ बुध्वा बुधिं विभोस्तस्य रामस्यामलरूपिणः । प्रादुर्भूयोपतस्थे तं रन्तुकामा मनोभवः ॥३८॥ आलोक्योपस्थितं कामं रामो वाक्यमथाब्रवीत् । विधेहि क्रीडतः काम कामं मे मनसेप्सितम् ॥३९॥ यूनां च युवतीनां च लोके यत्सुखमुत्तरम् । तत्सर्वं भोक्तुमिच्छामि भोजयन्नपि योषितः ॥४०॥ साहाय्यं कुरु मे तत्र मानिनी मानवर्द्धन । न त्वां प्रार्थयते कोपि स्वाभाविकमरिन्दम ॥४१॥ कामोराम मथोवा च स्वामिनं निजकामिनम् । क्षन्तुं यदिकृतान् मन्तून्भया शक्ष्यसि सांप्रतम् ॥४२॥ ततस्तेऽच्युतसाचिव्यं कुर्वन् केलिकलासु च । वैचित्राणि सुखानांते दद्यां देव त्वयाहृतः ॥४३॥ अहं शृङ्गारनामा ते आदिसर्गज आत्मजः । मोहयन्नपि भूतानि वर्त्तेहं तव वर्त्मनि ॥४४॥ नान्यस्त्वद्भवितुंयोग्यः शृङ्गारस्याश्रयोमम । शृङ्गारी तु त्वमेवेह नित्यः शाश्वतिकोऽजरः ॥४५॥ नान्योधारयितुं त्वत्तः शक्तोस्ति त्रिदशेष्वपि । कामनामानमग्निं श्रयाशंसुदुःसहम् ॥४६॥ श्रृङ्गारः केवलो न स्यात्केवलो वा वरः पुमान् । शृङ्गार्येव पुमर्थः स्याद्रसस्थिति रितीर्यते ॥४७॥ एवं विज्ञापितात्मानं मीनकेतुं मनोभवम् । मैथिलीवल्लभो राम आह कामजनाश्रयः ॥४८॥ क्षंस्ये सर्वाणि चागांसि तानि यानि कृतानि ते । नागांस्येव भविष्यंति मत्प्रीत्येकफलानि चेत् ॥४९॥ निर्भयंमयि सर्वासुदेवीषु च रिरंसुषु । प्रवर्त्तस्व मयाज्ञप्तो मल्लीलाद्मुपकारकः ॥५०॥ वसंतोपि शरच्चात्र प्रेयांसि कुरुतां मम । सर्वेपि तव एवात्र कुर्वन्तुस्वगणैरपि ॥५१॥ एवमाज्ञां विभोस्तस्य लब्धमीनध्वजस्तदा । रिरंसोर्मुमुदेऽव्यर्थं वसंतेन सम वने ॥५२॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमेपटले कामवरप्रकाशो नाम नवमोऽध्यायः ९॥
श्रीशिव उवाच- पञ्चबाणोथ वाणैस्वैर्शाणोत्तीर्णैर्हसन्नसौ । राजाधिराजराजेन्द्रकुमारं समताडयत् ॥१॥ कथं सामन्तशूरोऽसौ वालासु मृदुलास्वपि । प्रजहाराप्रहार्यासु कौशलेयवधुष्विति ॥२॥ कोकिलाश्च वसंतश्च शूरंवाला प्रहारिणम् । अप्रशस्य स्वकैदोषैः स्वैर्गुणैरन्वमोदयन् ॥३॥ दृष्ट्वा कान्ताः स्त्रियः कान्तमत्यन्तमधुराकृतिम् । अतिक्रम्य प्रियं चापि भोक्तुमैच्छन्पृथक् पृथक् ॥४॥ काचित् कान्तकराम्भोजं गाढं जग्राह कामुकी । काचित् पीतपटं चास्य हारंकाचिद्विशंकिनी ॥५॥ तर्जन्या तर्जयत्काचिद्विप्रलब्धा स्ववंचकम् । मुखाम्भोजं चुचुंवास्य चन्द्राख्या चतुरा सखी ॥६॥ चन्द्रिका वज्रकल्पेन तस्योरोजेन रागिनी । जघानोरःस्थलं स्थूलं गजमौक्तिकभूषितम् ॥७॥ प्रेयसः करमाधत्ते कुचे चन्द्रकला मृदौ । चन्द्रा कान्तकपोलं स्वकपोलेन त्वयोजयत् ॥८॥ चन्द्रकान्ताऽननं तस्य निर्निमेषेक्षणा सती । मुक्ताललितनासाग्रंपपौपीयूषवर्षि च ॥९॥ कर्णे जजाप सा चन्द्रमुखी निर्यङ्मुखेक्षणा । ईर्ष्ययन्तीतरा नारीर्हर्षयन्ती मनोस्य च ॥१०॥ चन्द्रचूडा निजां वेणीं दर्शयन्ती जहास तम् । सुगन्धिनी सुखस्पर्शदोर्मूलेनाऽववोधिनी ॥११॥ चरी च चरणौ तस्य पस्पर्शोत्तमवर्णिनी । चंचुश्चिबुकमस्याथ कोमलांगुलिचालनैः ॥१२॥ कान्ते पश्यति चार्वंगी शिथिलां कटिमेखलाम् । जृम्भमाणा च कारास्य कामवेगेन पीड़िता ॥१३॥ नेत्रांचलैश्चला कान्तं चालयन्ती रतिस्थलम् । कंचुकीं सा मुमोचाशु घर्मव्याजेन सा पुनः ॥१४॥ चकंपे कामरोषेण खेला कान्तकृतेन च । चारुका स्वेदविन्दुं श्रीर्दृष्टातेन भवद्भृशम् ॥१५॥ भुजौ कान्तस्य पश्यन्ती चारु नेत्राभवज्जडा । वक्षो विलोक्य रामस्यामूर्छच्च चारुमोदिनी ॥१६॥ काकपक्षौ च कान्तस्य स्पृशन्ती चारुदायिका । रोमांचिताप्यभूद्दीर्घौ स्निग्धौ भ्रमरसन्निभौ ॥१७॥ त्वमेव पुरुषस्त्वन्ये त्वदायत्तगुणश्रियः । इति चारुमती चारु वाक्यमुक्त्वालिलिंग तम् ॥१८॥ यदि निर्वापयत्येव कामाग्निं पुरुषस्ततः । नोचेदस्य कथैवैषेत्यूचे चारुसुलोचना ॥१९॥ उदासीनमपि त्वां तु का त्यजेदिह नायिका । इति चार्वाश्रया वाणी वाणशाणिमनोभवा ॥२०॥ त्यजन्तं त्यजते लोको भजन्तं भजते न वा । अर्थी तूभौ भजेतेति चूडा सस्मितमब्रवीत् ॥२१॥ पुमांश्चेद्वनितां योग्यां न त्यजेदितरो यथा । वेश्यावद्वनिता चेति चारिकावचनं मृदु ॥२२॥ त्यजन्नपि स्वया तृप्त्या नाहं त्यक्तुं भवामि ह । उपाकृष्य च नाथेति चराचारोचयद्वचः ॥२३॥ दुस्त्याज्या स्वकथापीह कथं स्यादेष सुत्यजः । प्राणा अपि प्रिया नेति व्याजहार चरालिका ॥२४॥ आनन्दाश्रुकलापीह रुद्धकण्ठाविलेक्षणा । ययातिवद्विलोकन्तं कान्तं राजीवलोचनम् ॥२५॥ अन्तरं न सहिष्येहमक्षिपक्ष्मजमप्यणु । पश्यंती ललिते नेत्रे अस्येत्यूचे चरालिका ॥२६॥ मुग्धे माव्यवधेहि त्वं पश्यंत्यामेति वल्लभम् । निर्गच्छेदन्यथा प्राणः एतच्चिता जगाद च ॥२७॥ सर्वस्यास्य जनस्यैकः कामं पूरियितुं क्षमः । कथं स्यान्नायकोऽप्येष इत्यस्या अपरं वचः ॥२८॥ एकोप्येष जनस्यास्य कामं पूरयितुं क्षमः । स्यादेवेत्यब्रवीच्चित्तचरी नामसखी श्रियः ॥२९॥ आज्ञाचेद्दयितस्यास्य सर्वकामवरेश्वरी । सर्वान्कामान् विदध्यां तद्रूपेणास्मि वशी कृता ॥३०॥ एतच्चिन्तामणेर्वाक्यं श्रुत्वा चेतयती सखी । एतत्कार्यमनेनैव विधेयमिति चागदत् ॥३१॥ एक एव यथैषोहं तथैकैव कुतो न भोः । विधेः सृष्टौ मनःकान्ता चेदिकेति जगाद च ॥३२॥ एकस्या अपि चाश्नन्त्याः कामानस्य मनोहितान् । पर्याप्ता न तथा ते स्युश्चेतस्या इति सद्वचः ॥३३॥ विरक्ता अपि सर्वत्र विद्वां सस्त्वितरत्र च । अनुरक्ता इहैकस्मिन्निति चेतावचोऽमृतम् ॥३४॥ राजा वा राजपुत्रो वा नैकार्थमिह जायते । अयं तु सर्वलोकार्थमस्तीति चतुराभिधा ॥३५॥ कस्या वा भाग्यमेवं स्यात्पूर्णमीदृग्ययैकया । भुज्येतायमिति व्यक्तं वरायावचनं वरम् ॥३६॥ सख्यः पादरजो स्पृश्य भूरि भूरि तरादपि । भोग्याद्योग्याच्च देवीनां लब्धं चेदिति चंपिका ॥३७॥ पत्पङ्कजरजोपीदृग् लब्धो याभिः स एव चेत् । भाग्यं तासामनिर्वाच्यमित्यब्रूतेह चंपदा ॥३८॥ निर्व्याजो नो वसन्तोऽयं कान्तश्चम्पा वयंत्विह । वासयाम वनं सर्वमेतच्चंपावदत्सखी ॥३९॥ कान्तो भक्तानु कंप्येव निष्कंपः कवि भूरिदः । कंपयन्नः कथं सख्य इति चंपी वचो गुरु ॥४०॥ मयि सन्निहितायां किं विभर्त्ति चंपकस्रजम् । किशोरोयं मनश्चौर इति चंपकरोचिका ॥४१॥ अस्मिन्नचंचला लक्ष्मी रूपसौंदर्यमोहिता । स्वं नामेदं ददौ मह्यं चंचलेतीति चंचला ॥४२॥ एतद्रूपतरङ्गेषु सोन्मज्जननिमज्जनैः । दोलावच्चपलास्मीति तन्नाम्नी चपलेतिच ॥४३॥ पीतांवरवदेतस्मिन्मदंगं प्रति रंजति । ततश्चोलाभिधास्मीति चोलाया वचनं मृदु ॥४४॥ ज्ञेयो यमेव लोकेर्थो हृद्यो विषय एष वै । चिदेतद्विषयैवेति चिदानाम्नी सखी श्रियः ॥४५॥ चित्तं जानेहमेवास्य गंभीरं जलधेरपि । मुग्धा यूयं न जानीध्वमेतश्चित्तप्रकाशिका ॥४६॥ नार्यो वास्य विजानीयुरेतच्चित्तं ततः कुतः । वेदानामेतदाख्याने प्रामाण्यमिति चंद्रिका ॥४७॥ एष एव विजानीत एतच्चित्तं सुदुर्भिदम् । सर्पःसर्पगतिं वेत्ति चण्डी वाक्यमकंटकम् ॥४८॥ सर्वेषामेव चेतांसि साक्षाद्वेत्ति मनोभवः । नाकामोदृश्यते कश्चिदेतच्चंपटिकावचः ॥४९॥ एतदर्पितसत्कामा (चेतस्का) अकामा अपि साधवः । यत्कामस्याप्ययं काम एषा चांटाचपेटिका ॥५०॥ संतं वा संतमेतस्मिन्दोषं याविष्करोति चेत् । तस्या मूर्द्धनि दंडः (मूर्ध्निमदङ्घ्रिः) स्यादित्यूचे चंडदंडिका ॥५१॥ दोषा अपि गुणा एव प्रियस्यास्य गरीयसः । इन्दोरिन्दोश्शुभस्येति विमलं विमलावचः ॥५२॥ एतत्पादाम्बुजं यस्याः करयोर्हृदि वर्तते । सैव स्यात्कमला नाम्नी नारीति कमलावचः ॥५३॥ एनच्छुश्रूषणे यूयं वार्त्तासु च विशारदाः । नाहं तथा विधास्मीति वाला वालेति भाषिणी ॥५४॥ कामार्त्तापि रतिं कालं नेच्छामीच्छानुगाविना । तस्मात्कालेति वर्त्तेहं कान्तं कालेति भाषणम् ॥५५॥ मा मल्ला प्रियरङ्गेषु तवास्तीति प्रभाषणात् । स्त्रीणां मा मल्लिकास्मीति शास्ता मामल्लिकाभणेत् ॥५६॥ सर्वेषु प्रियकार्येषु मलंचेन्न क्षमे यतः । ततः सर्वेऽमलेत्याहुर्मामेषा मलसंज्ञिता ॥५७॥ नीरक्षीरवदेतस्मिन् सर्वं यद्विभजाम्यहम् । मरालीव भवामीतो मरालीति वभाण च ॥५८॥ भवाम्याश्लेष काले यन्मालावद्दयितोरसि । प्रियो मां मालिकेत्याह मालिकेति पपाठ च ॥५९॥ दृष्ट्वा त्वामेव मोदः स्यान्मम मोदेति मामयम् । सर्वेषु व्यवहारेषु ब्रूते मोदेत्यभाषत ॥६०॥ मृगस्येवाक्षिणीयन्मे प्रेयः प्रीतिप्रदे ततः । तेनोक्ताहं मृगाक्षीति मृगाक्षीति विचक्षणा ॥६१॥ सीताया माधवस्यास्यापूर्वोत्सवतयास्मि तत् । तेनाहं माधवीत्युक्ता माधवी मधुरं वचः ॥६२॥ लोकानन्दप्रदस्यापि मुदंश्चित्रा यतोऽस्य च । भूयो भूयो भवामीति मुदाख्याहं मुदेति च ॥६३॥ सर्वलोकैक मोहस्य सीतैकप्रिययोषितः । मोहोऽस्यास्मीति मोहेति मोहा वाक्यममत्सरम् ॥६४॥ देवस्यास्याज्ञया यास्मि सर्वमोहप्रदेत्यहम् । मोहप्रदा प्रियेणोक्ता इति मोहप्रदावचः ॥६५॥ मन्दं वच्मि च गच्छामि भुञ्जे मन्दोदरीत्यहम् । कान्तेनोक्ताऽस्मि मन्दाहमिति मन्दाऽमदंवचः ॥६६॥ विचित्राणि च कार्य्याणि दर्शयंती पदे पदे । यत्तेनोक्तास्मि कान्तेन मायेत्युक्तं च मायया ॥६७॥ यद्यद्गुह्यं प्रियस्यापि न स्फुरेत्तस्य तस्य च । प्रकाशिकेति मेधाहमिति मेधावचः प्रियम् ॥६८॥ नान्यैः प्रीणामि भोग्यैस्तु विनोरुवरमण्डनैः । प्रियोरुमण्डने मेरु मण्डनेत्युरुमण्डना ॥६९॥ दृष्टमद्रूपभौमेन दृष्टिदोषविशंकिना । मण्डिताहमनेनेति मण्डिताख्येति मण्डिता ॥७०॥ वात्सायनादिशास्त्राणां ज्ञानानुष्ठानशिक्षणैः । पण्डितेत्यमुनोक्तेति पण्डिताख्येति पण्डिता ॥७१॥ पश्ये द्यावन्नायं मां तु तावन्नद्रुत दृग्भवेत् । ततः प्रेमेति चास्येति प्रेमा प्रेम विभावनी ॥७२॥ परेषामपि सर्वेषामीशेत्यस्य निदेशतः । परेशाभिधयास्मीति परेशा सत्यसंज्ञिता ॥७३॥ अस्यातीवरहस्येषु येषां वै तत्वदर्शनम् । तत्पापनाशिनीतीति मामूचे पापनाशिनी ॥७४॥ सारयामि प्रियामस्य स्वयं चैनं सरामि यत् । सारिकाहास्मि तेनेति सारिकाख्यावचः शुचि ॥७५॥ शाटिका वत्प्रियोऽङ्गे मां धत्ते स्वांगेषु यद्रहः । तेनास्मि शाटिकाख्येति शाटिका सुखवाटिका ॥७६॥ एवं शारा शुभाकारा वारिजा वारिजानना । वरदाऽभयदा भीता गामिनी मन्दगामिनी ॥७७॥ व्यापिका वेदिका वेदा वोधिका विबुधापरा । धिषणा धरिका धीरा प्रमदा च धरा वरा ॥७८॥ जनिका जामिनी जंवा जङ्गती जगमा । जना समाजेषु मिथः स्त्रीणां स्वं स्वं भावमवादिषुः ॥७९॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमेपटले स्वंस्वंसौभाग्य प्रकाशनो नाम दशमोऽध्यायः १०॥
श्रीशिवउवाच- अथ यूथ सहस्राणि स्त्रीणामादाय चत्वरे । रामः प्रवर्तयामास रासं नामविलासकम् ॥१॥ स्वयं गन्धर्वराजस्य किशोरेण समच्छविः । रामः सङ्गीतचुंचूनां राजा भोक्ता शिरोमणिः ॥२॥ मध्ये रासं विरेजेऽलं चन्द्रो सौ च नभस्यति । ताराणामिव नारीणां सर्वासां चमनोहरः ॥३॥ कर्ता कारयिता भोक्ता द्रष्टा स्वामी च सर्वशः । यूषा यूथ सहस्त्राणां रासानां च स्वयंविभुः ॥४॥ विचित्रैरुचितैर्वाद्यैर्गी तैर्नानाविधैरपि । रागैः कालोचित्तेः सर्वैर्नारीकण्ठविजृम्भितैः ॥५॥ रम्यैः सप्तस्वरैः सर्वमूर्च्छनाग्रामरंजितैः । देशीतालैस्तथा मार्गतालैः पात्रगुणादिभिः ॥६॥ नृत्यैर्नैकविधैः तासामंगलावण्यशोभितैः । भूषणैर्वसनैर्नैकैश्चेष्टिताभिनयैरपि ॥७॥ प्रवर्तमान एतस्मिन् रासे रामामनोरमे । मुमूर्छुः सर्वभूतानि सानन्दानि महीतले ॥८॥ नद्यो निष्पंदवेगाश्च प्रशवश्च सरीसृपाः । निश्चेष्टा अभवन् सर्वे मुक्ता इव निरामयाः ॥९॥ नो चेलुः किंचिदाकाशे विमानानि दिवौकसाम् । मोक्षो योगसमाधीनां शिवतांडवविद्रुतः ॥१०॥ ववृषुः सुमनांसीमा रामस्योपरि भूरिशः । कंकुमान् स्त्रक्तिलकाश्च भूषावस्त्राणि देवताः ॥११॥ देवदुन्दुभयोर्नेदुर्हर्षगंभीरनिस्वनाः । जयनादाश्च भक्तानां मुक्तानामपि सर्वतः ॥१२॥ सीताराम समाजानां तत्तद्गुणनिदर्शनाः । अश्रूयन्त कृताः सिद्धैः स्तवाः स्तवकसन्निभाः ॥१३॥ गन्धर्वाप्सरसः सर्वास्सङ्गीतार्थकृतोद्यमाः । आसन्नासन्नभूमीका रामप्रेक्षाण्यपेक्षिणः ॥१४॥ श्रुत्वा सङ्गीत सौन्दर्यं केचिद्देवास्तु मूर्च्छिताः । कैश्चिद्दृश्येत नैवासौ रामो रामा समाजगुः ॥१५॥ सर्वैश्चराचरैस्तस्य सुखमेवान्वभूयत । नैषां दृिक् पथगः सोऽभूद्रामो रामायुताश्रितः ॥१६॥ शुद्धैः सिद्धैश्च देवैश्च नृत्यन् गायँश्च गापयन् । द्रष्टुं शक्यो हरिस्तत्र रासकेलौ रसाशनः ॥१७॥ युञ्जानै योगभिर्युक्तैः सिद्धैश्च सनकादिभिः । महा भागवतैर्ब्रह्मचारिवृन्दवरैरपि ॥१८॥ धारणादिव्यनेत्रेण दृष्ट्वा रासोऽन्वभूयत । अकाम्यत च योषात्वं सिद्धिस्तन्न विनाऽस्य यत् ॥१९॥ नेदृग्विधं सुखं रामादन्यः पुन्नामलांक्षितः । भुङ्क्तेऽभुंक्त च भोक्ता वा पृथिव्यां दिवि वा विभुः ॥२०॥ विचित्रा राम रासस्य कथा लोकमनोरमा । विस्तीर्णा गुणविस्तारैः पुण्या हृद्यतमाः सताम् ॥२१॥ सर्वासामविशेषेण स्त्रीणां प्रेम स्व आत्मनि । विजानञ्जानकीजानिर्योगमायां समाविशत् ॥२२॥ एकधाथद्विधात्रेधाचतुर्धा त्वथ पञ्चधा । षड्धा सप्ताष्टधा भूयो नवधा दशधा पुनः ॥२३॥ द्वादशैकादशात्माथ त्रिचतुर्दशधा पुनः । व्यष्ट पञ्चदशात्माथ सप्ताष्टदशधा पुनः ॥२४॥ ऊनविंशैकविंशात्मा रामो सा वास सन् विभुः । शतात्माथ सहस्त्रात्माऽनन्तात्मा च ततः परम् ॥२५॥ एक एव स्वया शक्त्या प्रत्यभाद्वनितासु सः । द्वेधात्रेधादिभेदोऽयं नत्वस्य रसभंगकृत् ॥२६॥ सौभाग्यातिशयत्वंहि प्रत्येकं तस्य योषिताम् । कस्या अपि भृशं न स्यात्तस्योभयत्र दर्शने ॥२७॥ एकैकां प्रति चैकैको भुजवन्धं मिथश्च सः । चकार कारयामास लीलानन्तभुगीश्वरः ॥२८॥ एवं तासां च तेषां च परस्परसुखैषिणाम् । रामाणामथ रामाणामचिन्त्यं सुखमैधत ॥२९॥ दोर्दण्डावन्धनृत्येन प्रस्विन्नमुखपङ्कजाः । अन्योन्यं कान्तिसंभेदात्ते च ताश्च चकाशिरे ॥३०॥ स्वेदाङ्गरागगन्धैस्ताः सेव्यमानाः प्रियाः प्रियाः । न ग्लानिं न श्रमं भेजुर्भुजिष्य (भुजिष्या) भुजभूषणाः ॥३१॥ मर्मरैर्वरवस्त्राणां भूषावलिस्वनैरपि । मुखासवसुगन्धैश्च पाणिस्पर्शैः प्रियस्य च ॥३२॥ वंशी मृदङ्गवीणादिध्वनैर्गानकलादिभिः । मुखस्पर्शसमीरेण स्वस्यात्मनश्च दर्शनैः (सुखस्पर्शाशरीरेण स्वस्यान्यस्य च दर्शनैः)॥३३॥ स्तवैरात्मगुणाभासैर्यौवनागमकौशलैः । कामोन्मादैः प्रमादैश्च हासैर्लास्यैः परस्य च ॥३४॥ गातुमुत्सहिरे नर्तुं द्विगुणं च हरिप्रियाः । सिन्धुवद्ववृधे तासामानन्दोप ह्युतरत्र च ॥३५॥ गायन्ती गापयन्ती चनृत्यन्ति नर्तयन्ति च । सुखस्यास्य विरामं तु रामाकापि न चेच्छति ॥३६॥ चकांक्षे न क्षयं रात्रेश्चन्द्रास्तगमनं न च । नोदयं च रवेः काचित्काश्चिन्नो जगतीलयम् ॥३७॥ कुत्रयं कुक्कुटादीनां मुग्धानैच्छदनातुरा । कालचक्रस्य चलनं कापिनोऽचललोचना ॥३८॥ अनीश्वरं जगत्कापि कामयामास कामिनी । कान्तमेवेश्वरत्वेन चकमेऽमललोचना ॥३९॥ काचिदस्य महेशस्य प्रसादं प्रमदैच्छत । निश्शेषं कर्मनाशंच रामा काचिदचीकमत् ॥४०॥ भाग्यस्याक्षीण भावञ्च काचित्काप्यजरामरम् । सुखस्यास्यैव काचित्तु नित्यत्वं च नितम्विनी ॥४१॥ अधिकाय सुखायातोप्याकाशेन्दीवराय मे । नमोस्त्वित्यब्रवीत्काचित् खंजनाक्षीवरस्तनी ॥४२॥ धन्यायोध्या वनं चैषा सरोजा च सरोजिनी । विलासा ईदृशा यत्र सेव्यन्ते सुरदुर्लभाः ॥४३॥ धन्योयं रमणो येन क्रियते सफलं वयः । इच्छानुरूपविभवैर्वि दूरैस्तु दिवौकसाम् ॥४४॥ धन्यास्यांवा च कौशल्या धन्यः पंक्तिरथः पिता । ययोरेषसुतः श्रीमांल्लोकोत्तरवयोगुणः ॥४५॥ तावद्धन्यावयं लोके याभिर्लव्धः प्रियोह्ययम् । सख्यसेवादि रस्याश्च सीताया अतुलश्रियाः (सख्यमेव सुस्वामिन्या सीताया अतुलश्रियः) ॥४६॥ अस्याभाग्यं महादेवो ब्रह्मा च चतुराननः । अनन्तो नागराजश्च सहस्रवदनः स्वराट् ॥४७॥ वशिष्ठाद्या महाभागा वाल्मीकिर्भगवानृषिः । अन्येऽपि मुनियो वक्तुं शक्ता न प्रभवो वयम् ॥४८॥ यथायं दयितोस्मासु तथेयं दयितास्य च । कृपासौशील्यवात्सल्य सौहार्दादिसुधोदधिः ॥४९॥ एवं कान्ताज्ञया कान्तं कान्तस्य चाज्ञया प्रियाम् । गायन्ति स्मभिथः पात्राः सख्यश्च सहजा अपि ॥५०॥ पूर्णः पूर्णतरोप्येवमानन्दैरुत्तरोत्तरैः । अनेनैवसुखेनासौ रामः पूर्णतमोऽभवत् ॥५१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां श्रीरामरहस्ये पञ्चमपटले रासविलास प्रकाशनो नामैकादशोध्यायः ११॥
श्रीशिवउवाच- एषसाधारणो रासोऽकारि प्राणप्रियेण च । सर्वैरालिगणैः स्वैरं सङ्गीतादिपरायणैः ॥१॥ अस्मिन्सीतासुहृत्वेऽपि तासु सर्वासु भामिनी । मानं जग्राहसौभाग्यसीमेति प्रमदेति च ॥२॥ अदीना मौनमासृत्य मीनखंजनलोचना । स्वाधीनं कान्तमत्यन्तं जानात्येवावृणोत्तनुम् ॥३॥ सीता संरम्भवेगेन वालभावकृतेन च । सख्या कयापि चानीता भ्रान्तिं कौतुकमीक्षितुम् ॥४॥ सङ्गीतानन्दसंदोहमग्नो मैनाकवत्प्रियः । प्रियां न ज्ञातवान् रुष्टां रामो लक्ष्मीमिवोद्धतः ॥५॥ त्यक्त्वा प्रियोत्सवं नित्यं प्रियोत्सवपरम्पराम् । न ज्ञाता निर्गतातेन प्रिया बुद्धिरिवोत्तमा ॥६॥ रूपमाधुर्य्यसौन्दर्य्यलावण्यातिशयादसौ । सर्वा रामा अतिक्रम्य श्यामाः श्यामा रति प्रिया ।॥ ७ ॥ अद्यैवेषा न तेनापि सम्यक् परिचितेत्यतः । दिदृक्षा पूर्यते नास्य रिरंसापि प्रियस्य च ॥८॥ शून्यं तया विनात्मानं मुधैवाव्ययरूपिणम् । विभाव्य व्यलपद्रामो रामाधीनाऽखिलस्थितिः ॥९॥ गता सिद्धिरिव क्वासौ योगिनी मम मुह्यतः । विद्येवाभ्यासशून्यस्या दातुर्लक्ष्मीरिवायता ॥१०॥ सञ्जीवनीव गीर्वाण गुरोर्दैत्यगुरोरपि । सीधुकुम्भीव नागस्य केन मेऽपहृताथ सा ॥११॥ दिशः शून्याश्च पश्यामि तथा चन्द्रिकयेव च । वेपंते मम गात्राणि मुखं च परिशुष्यति ॥१२॥ कादम्बिनीव शस्यानि मम गात्राणि जानकी । सिंचेत्ततोऽद्य जीवेयं कृषिकार इव श्वसन् ॥१३॥ यस्याः सिद्ध्यास्मि सिद्धोऽहं मत् सिद्ध्यात्वखिलं जगत् । सिद्धिप्रदायाः सिद्ध्या च सिद्धिर्धर्मार्थसम्पदाम् ॥१४॥ तासां सिद्ध्या सुराः सिद्धा (तस्याः सिद्ध्या देवकार्यं) स्तत्सिद्ध्या सिद्धिभाद्धरिः । तां तन्वीं तु विना सर्वं शून्यमेवावशिष्यते ॥१५॥ तया मत्पार्श्ववर्तिन्या सिद्ध्या सीतेति ख्यातया । न विष्णुं गणयाम्येव न जिष्णुं न फणीश्वरम् ॥१६॥ नाग्निं सदाशिवं नापि ब्रह्माणं नाकनायकम् । नापो न वायुमाकाशं न यमं वरुणं न च ॥१७॥ न चन्द्रं न रविं देवं कुबेरं न विधिन्न च । न योगसिद्धिसंघातंनेलां द्वीपवतीमपि ॥१८॥ न मयास्ति समः कश्चित्सीता यस्य मनोरमा ।
न च मत्तोऽधिकः कश्चिदीश्वरेश्वरसेवितात् ॥१९॥
सर्वेश्वरीश्वराराध्यो ययाऽहं किल्ल ताम्विना । अद्याञ्जलिजलप्रायसुखैश्वर्यो भवामि च ॥२०॥ कामं च तृणवन्मन्ये सरतिं युवनायकम् । यया पद्मविशालाक्ष्या वैदेह्या भुवनश्रिया ॥२१॥ क्वासौ प्राणार्गला देवी क्वासौ संजीविनीमम । सा मे क्व स्वामिनी श्यामा वामोरूर्वामलोचना ॥२२॥ द्वादश वार्षिकी गौरी चित्ररूपप्रदर्शिनी । शृङ्गारार्णवसारज्ञा शृङ्गाराम्भोधिवर्द्धिनी ॥२३॥ अचिन्त्यैश्वर्यभोक्तृ च मत्तमातंगगामिनी । आह्लादिनी पराचिन्त्यरूपसौंदर्यशालिनी ॥२४॥ पीतांबरा कदाप्येषा नीलाम्वरसितांवरा । कौसुम्भरक्तशाटीका चित्रांवरविभूषणा ॥२५॥ विभ्रती कमले पाण्योर्लालयन्ती च सारिकाः । पाठयन्ती शुकान् रम्यान् क्रीडयन्ती मृगार्भकान् ॥२६॥ पश्यन्ती मुद्रिकारत्नेष्वात्मप्रतिफलानि च । सुस्मेरा स्मयमाना च लज्जमानान्यदर्शनैः ॥२७॥ खेलन्ती कन्दुकास्फालैर्दर्शयन्ती गतिं लघुम् । वारयन्ती मुखाम्भोजभ्रमरान्भ्रमदान्मृगान् ॥२८॥ मुक्तालकमुखी मुक्तांस्तानेव वदनच्छदान् । रुषापसारयन्ती च शपन्तीव च संभ्रमात् ॥२९॥ मामुदिश्य च कुर्वन्ती नानाभावमनोरथान् । उद्बुद्धध्यानभाग्येन मया सीताऽद्य दृश्यताम् ॥३०॥ स्फुरन्ती हृदयाम्भोजे नृत्यन्तीव पुनः पुनः । मदविह्वलवामाक्षी स्खलन्तीव पदे पदे ॥३१॥ धम्मिल्लमल्लिका पातैर्ज्ञातपद्धति विभ्रमा । प्रविशन्तीव नेत्रे मे हरन्तीव धियं च सा ॥३२॥ वन्यान् प्रकाशयन्तीह त्रैलोक्यं च स्वया रुचा । आश्चर्याण्या वहन्ती स्वैरूपविभ्रमचाटुभिः ॥३३॥ त्याजयन्तीव कर्माणि देहगेहो चितानि च । मम जितेन्द्रियस्यापि वशयन्तीन्द्रियाणि च ॥३४॥ हर्षयन्ती सखीवृन्दं चन्दयन्ती सुचेतसा । वर्द्धयंती निजानन्दं चान्द्रीव श्रीरपाम्पतिम् ॥३५॥ वाणैरिव मनोजस्य कटाक्षैरसितैः शितैः । निसर्गगर्वसिद्धैस्स्वैः विद्धयन्ती कुमेधसः ॥३६॥ अद्यैवाविर्भवत्वारात्संकल्पादिह सिद्धिवत् । मुक्तस्य मम वैदेही चित्रानन्दमयी मुहुः ॥३७॥ चन्द्रे मम प्रिया क्वास्ते कमले विमले क्व सा । पद्मे कृष्णे बुधे भद्रे कीर्तिदे ब्रूत तां प्रियाम् ॥३८॥ शान्ते विशारदे ज्ञाने प्रकीर्तिधृतवल्लभाम् । मम दर्शयत क्षिप्रं श्यामां जनकनन्दिनीम् ॥३९॥ एवं पृष्टासु सर्वासु सखीष्वेका तु योगिनी । प्राह प्रियं प्रियानेह प्रिया ते प्रकृतिं गता ॥४०॥ दुदर्शागह्वरे देवी प्रविष्टेष्टविधायिनी । जानामि तव दत्तेन दिव्येन ज्ञानचक्षुषा ॥४१॥ त्वयि प्रणयरोषेण भ्रमजन्येन भामिनी । जाता रहसि भ्रान्त्या च मानिनी गजगामिनी ॥४२॥ नाहं तत्र गमिष्यामि सा मां जानाति जानकी । भेदज्ञा सर्वकार्याणां योगिनीति मनोरमा ॥४३॥ दर्शयिष्यामि वैदेहीं प्रियां ते रहसि स्थिताम् । उपायं च वदिष्यामि प्रिया येनानुनीयताम् ॥४४॥ कामोयं कोकिलो भूत्वा वसंताऽनुगतः पुनः । पञ्चमेन स्वरेणासौ गीयतां त्वत्प्रियान्तिके ॥४५॥ त्वद्गानश्रवणेनासावात्मानं दर्शयिष्यति । अनुनेतुमसौ शक्या ततः स्याद्भवतः प्रिया ॥४६॥ योगिनीकथितो मार्ग इति तस्मिन् कृते सति । देवीदर्शितरूपाभृत् तत्कृत्या शान्तदुष्कृता ॥४७॥ तस्यामेवं स्थितायान्तु कृत्वा चित्तं प्रियेऽचलम् । तस्या अनुनये काचित्कोविदामृतभाषिणी ॥४८॥ कर्तुम्प्रियप्रियं तस्याः समीपमगमत्सखी । विनीता प्रणता भूत्वा प्रियञ्चोचे प्रियादपि ॥४९॥ दुर्लभो मानुषो देहो जन्मोत्तममिहापि च । तत्रापि दुर्लभं भाग्यं भोग्यञ्च प्रथमं त्रयः ॥५०॥ निष्प्रतिद्वन्द्वितारोग्ये देशस्थाने नमन् प्रिये । कान्तः स्त्रिया नमस्कार्यः सर्वसद्गुणसागरः ॥५१॥ सहायाः सुहृदोप्यत्र दुष्प्रापाः संहिता किल । दुर्लभे जीविते नृणाम् सुखस्पर्शोऽतिदुर्लभः ॥५२॥ चिन्ता हेतुसहस्त्राणि दुःखहेतुशतानि च । प्राप्नुवंति सदाजीवं सुखं तेषु न लभ्यते ॥५३॥ कर्मभि भ्राम्यमाणानां प्राणिनां प्रियसंगमः । दुर्लभः सखि जानासि विशिष्याहं वदामि किम् ॥५४॥ अयोनिसखि ते जन्म सर्वतीर्थगणस्थले । सीते परमधर्मज्ञो ज्ञानज्येष्ठः पितापि ते ॥५५॥ कान्तस्त्रैलोक्यतिलको यस्य नामामृतद्रवम् । कीर्तिः सकलतीर्थानां तीर्थभूता सनातनी ॥५६॥ अयोध्या च महारम्या दिव्योद्यानवनादिभिः । सरोजैः सा सरिच्छ्रेष्ठा प्रासादाः प्रमदाप्रियाः ॥५७॥ वयो द्वादशवर्षोत्थं रूपं सर्वमनोहरम् । सर्वं तव वशे शुभ्रु भोग्यं भाग्यं च सुन्दरम् ॥५८॥ सख्यः सर्वगुणोपेतास्तवैव वशगाः स्थिताः । रूपलावण्यसौभाग्यसम्पन्ना भुवि दुर्लभाः ॥५९॥ त्रैलोक्ययौवते श्रेष्ठाः सर्वे ते गुणराशयः । ये वाल्मीकि मुखैश्श्रेष्ठैर्गीयन्ते कविभिर्मुहुः ॥६०॥ यावन्तः सुखसम्पत्तिहेतवो गुणसेतवः । दृश्यन्ते तव वामाक्षि सर्वेतेऽप्रमिताः किल ॥६१॥ यावन्तः सुखविघ्नाः स्युरेकं मानं विना न ते । संति रोषभवं देवि सत्यमेतद्ब्रवीमिते ॥६२॥ प्रियादपि प्रियोमानः सखि ते प्रिय दर्शने । यात्वंपृष्ठ प्रदाकान्ते यन्मानं भजसेरहः ॥६३॥ श्रीमती सीतासख्युवाच- अज्ञात्वात्वमभिप्रायं व्रूषे पण्डितमानिनी । विश्वस्यानित्यतायत्त्वं गन्धोप्यस्या न तस्यहि ॥६४॥ इयं भूमिसुता नित्या सीता विश्व विलक्षणा । नास्त्यस्याः सुखविच्छेदो न मानो न च मत्सरः ॥६५॥ किं रुष्टा किन्तु संतुष्टा प्रियध्यानामृतेन यत् । उपयोगिनि तस्येतः प्रियं ध्यायतिराहसे ॥६६॥ एवं स्थिते तु दम्पत्योः प्रीतियोगेऽनयोर्नवे । विन्दुं पातयितुं किं ते सङ्कल्पोऽस्ति हठव्रते ॥६७॥ इत्युक्ता तु प्रिया सख्या प्रियस्यापि सखी प्रियम् । गत्वो वाच प्रियाकिन्ते मन्येतेतिवचोमम ॥६८॥ अन्याप्यागत्यचो वाच पादौसीते स्पृशामिते । एष किं ध्यानकालोऽस्ति लीला काले विलासिनि ॥६९॥ रत्नं हस्तगतं त्यक्त्वा काचं तु भजते यथा । तथा त्वं सेवसे सीते परोच्चं लघुमस्फुटम् ॥७०॥ नानेन प्रीयतेप्रेयान् नेदं जानाति च प्रियः । स दुःखी त्वद्वियोगेन क्रियते च भृशं प्रिये ॥७१॥ विना तेन प्रियेण त्वमप्येषा सुखिनी न च । ध्यानं त्वितरथा तस्य कथं स्यात् कलभाषिणि ॥७२॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां रामरहस्ये पञ्चमपटले मानप्रकाशनोनाम द्वादशोऽध्यायः १२॥
श्रीशिवउवाच- श्रुत्वा स्मितमुखी सीता सख्यु वाचा मृतामृतम् । सीताभिप्रायमादाय प्रत्युत्तर विचक्षणा ॥१॥ नत्वं जानासि मर्माणि देव्या देवस्य चेतरा । दूत्यौ चित्यं यशः प्राप्तुं मध्यं वध्वागता परम् ॥२॥ एषा प्राणप्रिया तस्य यस्यायोऽत्र च तिष्ठति । विज्ञातुं न तदन्येषां शक्यं वर्ष शतैरपि ॥३॥ प्रियसख्युवाच- ज्ञात्वा राजकुमारी त्वं मुग्धां भेदयितुं सखि । भर्त्रासंधयितुं नासि मानलाभेन मानिनी ॥४॥ मानभङ्गेन यो मानो लब्धः स्वार्थवशेन तु । स ह्युपहास एव स्यान्मानवोधृसमागमे ॥५॥ योद्धुं किं प्रषितासित्वं नेतुं दंडेन वश्यताम् । एषा यज्जीवदानेन प्रसाध्या शनकैर्भवेत् ॥६॥ सेवयैव प्रसीदन्ति कविता वनिता लताः । देवतामहिषी धेनुर्नचदण्डेन दूतिके ॥७॥ उपायास्त्रय एव स्युर्दूतद्वारा प्रयोजिताः । चतुर्थं तु स्वयं स्वामी प्रयुंक्तेऽथ विभुर्नवा ॥८॥ कोऽत्र प्रसङ्ग एतेषामुपायानां मनीषिणि । ईदृशीं ते कथां श्रोतुं न क्षमा क्षितिनन्दिनी ॥९॥ विधेयानां तु दासानां स्वामिसन्देशपालनम् । धर्मः किलमतो मुख्य आदेशस्थिरचेतसाम् ॥१०॥ रोषमाना समर्थापि प्रिया रुष्टा त्वदिच्छया । गच्छ प्रेषय दण्डं स दृष्टव्यो विषये मया ॥११॥ नमस्तुभ्यं प्रवीणासि या हत्यायै प्रियामिमाम् । श्रावयसि त्वं भद्राणि मद्भद्राय केवलम् ॥१२॥ दौत्यं कर्तुं समुद्युक्तादोषादोषाद्विभेषि च । लिप्सुश्चातुर्यादस्या अनुनयादहो ॥१३॥ त्वं तु यस्याः सखीसेयं शतं वर्षाणिरुष्यतु । नाहं दौत्यं करोमितो यामित्वं सुखिनीभव ॥१४॥ तथा त्वेऽप्ययथात्वेपि न हानितव गम्यताम् । नान्याधीनानयोः प्रीति स्त्वयासाध्यं न किंचन ॥१५॥ श्रोतव्यं न वचस्तासां यासां तु कलहः प्रियः । चित्तं न कोमलं यासां प्रियं कुर्युः कियत्तुताः ॥१६॥ स्वामिसिद्धि विरुद्धं यच्छ्रोतव्यं नहि तद्वचः । शतंवक्त व्यमेवास्य कार्यं साधयता परम् ॥१७॥ प्रियाया मुखपद्मोत्थां सुधां पातुसमुत्सहे । ज्ञायता मैकमत्यत्वं मयाप्यत्राल्प संविदा ॥१८॥ मैत्रीसंवाद सख्यानि विवाहादि च लौकिकम् । समयोरेव लोकेस्मिन्नस्युर्विषमयोरपि ॥१९॥ त्वं सखित्वं कथंप्राप्ता हीनास्याः समधर्मकम् । ऐ कमत्यं च संवादं मुखरेवद वां कथम् ॥२०॥ यथात्वं लोकनाथस्य याता सख्यं वरं तथा । अस्याः सर्व महेश्वर्या इतोऽहमपिमानदे ॥२१॥ कोऽयमुत्थाप्यतेगेहे विरोधाख्यो महानलः । क्रीडता वालकेनैव यस्त्वयापि सुदुःशमः ॥२२॥ एकात्म प्राणमनसोः साधारण पदार्थयो । का वार्तास्ति विरोधस्य तेजस्तेजस्विनोखि च ॥२३॥ इदमेव पुरस्कृत्य तिरस्कृत्य रुषं च ह । समेत्वेषा प्रियेणाद्य गीयतां मंगलानि च ॥२४॥ नास्त्येवामङ्गलं देव्या विश्लेषोपि प्रियेण न । युष्माकं दृष्टिदोषेण प्रतीतो विरहोऽनयोः ॥२५॥ उत्थाप्येतः प्रियातर्हि यद्येवं प्रियसन्मुखे । आयात्वास्तृतपुष्पेण यथा चन्दनसेकिना ॥२६॥ का लज्जा कोभिमानो वा प्रियेऽभिमुखसर्पणे । दुष्टोपि कंटकैःपंथा सीतायाः शुभ एव यत् ॥२७॥ एवं वार्त्ताभिरत्येति कालो वाले वृथा तु ते । एहि सार्द्धं मया त्वद्य तवैव क्रियतां प्रियम् ॥२८॥ एषामुग्धा प्रियो मुग्धो जानीतो न च किंचन । युष्माभिरेव मध्ये तु रच्यन्ते वचनानि च ॥२९॥ पश्य मुद्रा प्रियस्येयं प्रेषिता प्रमदे तव । तेन मध्ये कृता नैषा विश्वासः क्रियतामिह ॥३०॥ प्रियस्य मुषिता मुद्रा त्वयेयं वंचनप्रिये । एनां नेत्रेदयिष्यामि प्रियाय प्रियकारिणी ॥३१॥ लेखो ह्येष प्रियस्यैव करकौशलसूचकः । प्रचीयतां त्वया पूर्वं वाचयित्वा विधीयताम् ॥३२॥ त्वयैवलेखयित्वा सुच्छलेन छलकारिणि । दर्शयितव्य एषोपिय आनीतः प्रियाय मे ॥३३॥ महत्कुल प्रसूताया अस्याः छद्मपरापुरः । अहो प्रत्युत्तरं तस्मै कथं दासी प्रदास्यति ॥३४॥ अन्या त्वत्सोदरी तस्मै संदेशं कथयिष्यति । भेको यत्र न तत्रासौ देवो वर्षति किं नहि ॥३५॥ मत्तुल्योत्तमवंश्या चेन्न यास्यत्यसतीव सा । आत्ममानपरो नान्यां कान्तोपि प्रेषयिष्यति ॥३६॥ । निर्भयाभिरसौप्रेयान् युष्माभिरुपभुज्यताम् । सौन्दर्य्यादिप्रसङ्गोपि भविष्यति कदापि तु ॥३७॥ उपस्थितस्य च त्यागादनुपस्थितकल्पनात् । धीरस्य धीमतोपि स्याच्छोको दुःसह आधिजः ॥३८॥ भोग्यान्युत्तमयोग्यानि पुष्कलान्यमलानि च । वनेष्वप्यनुधावन्ति भाग्यवन्तं निरामयम् ॥३९॥ यद्भाग्यं भव्यभोगेषु तन्त्रं तन्त्रविदो विदुः । तद्विरोधोऽवशिष्येत किन्न किंचिदनीप्सितम् ॥४०॥ भाग्यंह्य कृत्रिमं यत्रगुणाः कल्पमहीरुहाः । नित्याः सन्ति विरोधोऽत्र स्याच्चेत्तद न वस्थितिः ॥४१॥ भोक्तृऽभावेगुणाः सर्वे कल्याणाअपि शाश्वताः । भाग्यं चैकाकिनोपि स्युर्वृथाऽरण्य द्रुमादिवत् ॥४२॥ निर्व्यपेक्ष्यं भवत्यस्याः स्वामिन्या भाग्यमुत्तमम् । भाग्यानुगमवत्येव भोग्यमित्यवदंपुरा ॥४३॥ आत्मनैवात्मनोभोगाः सिध्यन्तीतिमनोभवाः । यदिब्रूते ततोमन्येमान्यं वाक्यं तवेत्यहम् ॥४४॥ कैवल्यस्य पुमर्थत्वं वेदान्ता निगदन्ति यत् । सा किं प्रतारणा पुंसो नित्यानन्दमभिप्सितः ॥४५॥ एषैव स्वामिनीत्यत्र प्रष्ठव्याशपथै रहः । रामप्राणप्रियावाच्यं तच्च मन्यध्वमंजसा ॥४६॥ अत्यन्तकोमलेत्येषा श्रोतुं वक्तुं च न क्षमा । जयं पराजयं वापि तत्ववादेषु कर्कशे ॥४७॥ निष्कृपं कृष्यते रत्यै मृदुलेति प्रियेतिच । मुग्धेति दयिते नैषा नवयौवनशालिना ॥४८॥ एतस्या मार्दवं दृष्ट्वा निष्ठुरोप्यति निष्ठुरात् । मृदोरपि मृदुर्भूत्वा भीतो स भजतेत्विमाम् ॥४९॥ एवं चेदमृदुत्वस्य दोषत्वात्तु स हेयता । मार्दवस्य गुणत्वाच्च स्वभावाद्भजनीयता ॥५०॥ पद्मिनी पद्मबन्धौ तु तपत्येवातपं सती । भजंती स्वगुणानेव स्वभावं न च मुंचति ॥५१॥ अस्वभावप्रयुक्तः किं मानः किंवा स्वभावजः । दृश्यते मृगवच्चन्द्रत्विष्यतेऽस्यां मृगीदृशि ॥५२॥ कुदृष्टिदोषलक्ष्मेदं चन्द्रबिम्बेऽतिसुन्दरे । अस्यां सुन्दरसीमायां मानस्त्वदृष्टिदोषजः ॥५३॥ दृष्टिदोष विनाशार्थं लक्ष्मेंदौ विधिना धृतम् । अभावभावपुष्ट्यै च मानोऽस्यां विनिवेशितः ॥५४॥ विधेर्विधानमस्यां वाऽन्यस्यां वा सुप्रतिष्ठितम् । अपहर्तुं विधिर्नान्य इत्युपायो निरर्थकः ॥५५॥ यत्नविधिर्विधेरेव साध्योपायानुशासनम् । व्यर्थं न स्यात्तवाप्येष दोषः स्यादन्यथा बुधे ॥५६॥ साध्यसाधनभेदानामानंत्यादबुधस्य तु । भ्रांत्योपायो वृथापि स्यादिति ज्ञात्वा विरंम्यताम् ॥५७॥ दम्पत्योरेवमन्योन्यं ज्ञात्वाशयमसंशयम् । उक्तिप्रत्युक्तिसन्दर्भोऽकार्यालीभिरिहोभयोः ॥५८॥ निवृत्य प्रियमेवामूरनुनेतुमिमां स्त्रियः । उत्थापयांवभूबुस्तं प्रियासंश्लेषलालसम् ॥५९॥ प्रियोपि प्रहसंस्तासु काभिश्चित्तु सहोत्सुकः । कन्दुकैः क्रीडयन् क्रीडन् प्रियादर्शनमभ्यगात् ॥६०॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरहस्ये उक्तिप्रतियुक्ति प्रकाशनोनाम त्रयोदशोऽध्यायः १३॥
शनैः शनैर्गतस्तस्याः समीपं प्रणयी मुखम् ।
लीनमीनयुगं चन्द्रबिम्बमिव ददर्श सः ॥१॥
नवां पुष्पकृतां मालामाधायासौ प्रियोरसि ।
अञ्जलिं च हृदिन्यस्य पुरोस्या उपतस्थिवान् ॥२॥
आघ्राय रमणी तस्या गन्धं ध्यानपरापिसा ।
उत्तस्थौ सुस्थिरस्नेहा ध्यानस्तिमितलोचना ॥३॥
पुरः प्रेक्ष्य प्रियं प्रेम्णा रूपयौवनशोभनम् ।
आलिङ्ग्य निर्वृत्तिं मुग्धा जगाम विपुलेक्षणा ॥४॥
गाढमालिङ्ग्य रामेण रामा श्रीरुचिरानना ।
लालिताश्वासिताभूयो भूयः पादादिचुम्बनैः ॥५॥
जय जयेति रामाणामुत्थितो मधुरो ध्वनिः ।
हर्षश्च परमो गौरि तवानुनयन यथा ॥६॥
दिव्यानन्तविभूतेर्हि पूर्णानन्दमहोदधेः ।
लीलैषा रामचन्द्रस्य गौरि कल्पलता सताम् ॥७॥
पश्यन्प्रियां प्रियो नैव तृप्तस्तृप्तिप्रदोप्यसौ ।
प्रियापि प्रियमाधुर्यं पायं पायं पिपासिता ॥८॥
प्रियः प्रियांगेषु च पुष्पवर्षीं निर्मंछनं गच्छति च प्रियायाः ।
रक्षां च मंत्रौषधियन्त्रतन्त्रैश्चकार शृङ्गाररसायनज्ञः ॥९॥
मृद्वासने तां विनिवेश्य कान्तां मुग्धां मनोहारिनवाभिरूपाम् ।
स्मेराननां चामरपिच्छ गुच्छच्छत्रादिभिश्चोपचचार कान्तः ॥१०॥
ननर्त्त कान्तापुर आत्मनाथो जगौ च तस्या गुणरूपभावान् ।
ददौ सखिभ्यो मणिभूषणानि प्रियः प्रियायां प्रणयी प्रवीणः ॥११॥
तामात्मदेवीं परदेवतेति श्रीरूपलावण्यवयःप्रधानैः ।
धर्मैर्विनिश्चित्य निराकृतान्यः कान्तां शिषेवे शरदां शतानि ॥१२॥
प्रियांघ्रिपञ्केरुहयावकानि कपोलपाल्योः कुचमंडले च ।
चकार कान्तः किलचक्रवर्ती मनःप्रियायाः नवपत्रभङ्गी (किलचक्रवर्ती) ॥१३॥
सीमंत पूर्तिं नवमौक्तिकाद्यैः सीमन्तिनीसंघशिरोमणेः सः ।
रामो रमण्या विरचय्य वेणीं चकारचातुर्यचमत्कृतिं च ॥१४॥
समञ्जयामास शुभांजनेन प्रियाक्षिणी प्रेम कणेक्षिणी सः ।
ववन्ध सूत्रं मणिजं प्रियायामपि प्रवेकं मणिभूषणञ्च ॥१५॥
हेमाम्बुजे नीलमणीन्द्रनाले रत्नेन्द्र पत्रे मणिकर्णिके च ।
सङ्ग्राहयित्वा करयोः प्रियां स्वां नीराजयामास कराङ्गुलीयैः ॥१६॥
निर्माय पुष्पैः मदनं स तस्मिन्नारोहयामास विदेहपुत्रीम् ।
सर्वस्वभूतामखिलाण्डलक्ष्मीं लक्ष्म्याश्च लक्ष्मी प्रिय आश्रयञ्च ॥१७॥
यस्याः कटाक्षेण नृदेवपुत्रः सर्वावताराधिपरूपलक्ष्मीम् ।
भुञ्जान एवेश्वरमौलिरत्न नीराजितांघ्रिद्वयपीठपादः ॥१८॥
लब्ध्वाधिकानन्दपरम्पराको नाकादि लोकेश्वरगीतकीर्तिः ।
आह्लादिनींतामकुतोकुतोभीराह्लादयेदेष शिवामिवाहम् ॥१९॥
सीताङ्ग सौन्दर्यसुधैकपान व्यर्थीकृतानन्तविभूतिभोगः ।
यत्सेवते प्राकृतवत् प्रियां तच्चित्रं रसास्वादविशेषसिद्ध्यै ॥२०॥
प्रियापि ताभिः पटुशिक्षितासौ शुश्रूषते स्वामिनमात्मनस्तम् ।
आह्लादयन्ती प्रियवाक्यमुख्यैर्नानाविभावैरनुभावभावैः ॥२१॥
सखीव दासीव मनोरमापि प्रिय प्रियाण्येव निरन्तराणि ।
प्रदर्शयन्ती निजचेष्टितैस्सा जहारहृद्याहृदयं प्रियस्य ॥२२॥
प्रेखास्वनेकासु मणीन्द्रमुक्ताप्रसूनवासैः समलंकृतासु ।
प्रियं समारोप्य सखी समेता जगौ स्वयं सा परिलालयन्ती ॥२३॥
कुलाङ्गनापि प्रति शिक्षितापि प्रियानुरागातिशयेकवश्या ।
नटीव देवीव च किन्नरीव सखीव नाथस्य ननर्त चाग्रे ॥२४॥
मुग्धापिलज्जातिभरेण नम्रा स्तुता प्रियेणात्मवशे स्थितेन ।
रम्यातिरम्यांगलता प्रियस्य हृद्यातिहृद्या हृदयं विवेश ॥२५॥
कदाचिदात्मानमनन्तहासविलासहासैर्विवृतानुभावा ।
जुगोप तास्वेव सखीषु सीता भीतेव चानूनमनात्मतन्त्रा ॥२६॥
प्रियानुभावादुपवीणयन्ती प्रियं प्रियेभ्यो नितरां प्रिया सा ।
गन्धर्व विस्मापनमात्मदेवी वीणापनेऽनुत्तममुत्तम श्रीः ॥२७॥
वभार वाला व्यजनं कदाचित्प्रियातपत्रं मणिपादुके च ।
कदापि वालव्यजनं सरत्नं प्रियस्य ताम्बूल करण्डकं च ॥२८॥
सम्वाहयन्ती मृदुपादपद्मे सुप्तस्य पुष्पास्तरणे प्रियस्य ।
पादौ कठोरावितिसा प्रियापि लोष्टौकरावित्यभिकंपतेस्म ॥२९॥
कराङ्गुलीयार्पितरत्न दीपैर्नीराजयामास मनोरमा सा ।
संवीजयन्ती व्यजनेन वाला सरत्नदंडेन तु रामचन्द्रम् ॥३०॥
प्रिया प्रियान्नं प्रियमाशयन्ती जगाम तृप्तिं क्षुधयाप पुष्टी ।
प्रियाय भोजिन्यपि भोजयत्री प्रियानुभावानुभवैकतृप्ता ॥३१॥
प्रियाय ताम्बूलमुपाहरन्ती लवंगकर्पूरसुधादिरम्यम् ।
विनाप तेना रुणपल्लवोष्ठी सारागरंजिद्धृदया ससीता ॥३२॥
उत्तारयन्ती जनदोषदृष्टिं निर्मंछनं तस्य च सा भजन्ती ।
रत्याख्य दोषं दधती स्वयं च प्रीत्यारुहत्तद्धृतयंविशालम् ॥३३॥
पतिव्रतायाः पतिपादसेवाऽनिशं परोधर्म इहाप्यमुत्र ।
इति प्रिया प्रेयसि दासधर्मं गतानु भावातिशयाच्च किन्तु ॥३४॥
दाम्पत्यमेतज्जगतोऽनयोस्तु भिन्नं न सादृश्यमुपैति तेन ।
अप्राकृतत्वादनयोः रसानामप्युन्नतिच्छन्नचितो कदाचित् ॥३५॥
क्षणे क्षणे पूर्ववदेतयोर्यद्रूपं नवीनं भवतीप्सितं तत् ।
परस्परं वर्द्धयति प्रवृद्धैर्भावैः स्वभावादभिलाष एव ॥३६॥
निरङ्कुशैश्वर्यसुखं तयोर्यन्माधुर्यमप्येवममेयमेव ।
तदेव वैरस्य निराकृदित्थं रसोऽनयोनित्यममेयमेव ॥३७॥
अदृष्टसीतः क्षणमप्यनिन्द्यो विशीर्णसर्वावयवो भवेद्यत् ।
नैतादृशीं स्नेहपरंपरातो न्यत्रास्ति तेनायमनंतभावः ॥३८॥
विश्लेष भीतिर्महती च तस्यास्तस्यास्ति यत्तेनरतेर्विरामः ।
नास्त्येव विश्लेषभीतेर्निमित्तं स्वाभाविकी शक्तिरचिन्त्यमाया ॥३९॥
आनन्दसन्दोह भवप्रमादस्वाधीनमज्ञानमुतास्य किंचित् ।
सङ्कल्प एवोक्त रसानुकूलो नित्योपि लीलामृतयस्य नेतुः ॥४०॥
आनन्दिनी नाथमनाथनाथं सीता स्वनाथं मधुरैर्वचोभिः ।
वाणीव वीणेव च कोकिलेव सोद्यानमेवाभिमुखीकरोति ॥४१॥
गंभीरभावास्मित सुन्दरभ्रूविक्षेपणैर्नर्तयति प्रियं सा ।
विश्रामयत्यात्मकराभिमर्षै रोमाञ्चितं चन्दन चन्द्रशीतैः ॥४२॥
प्रियाकरस्पर्शसुखानुभूत्या तिरस्कृताऽन्यानुभवस्तयाऽसौ ।
अङ्गानि कण्डूयति कोमलानि गन्धानुलेपग्लपितान्यकाले ॥४३॥
सैरन्ध्रिकादर्शितकेशवेषा केशान्प्रियस्याथ विशोध्य पुष्पैः ।
तान् पूरयद्येन दृगौचितीज्ञा नाना विचारैर्हृदयेन सार्द्धम् ॥४४॥
शलाकयास्य स्वयमेव नेत्रे प्रियांजयत्येजपदेणनेत्री ।
राजीवपत्रायतनेत्रमेनं मीनध्वजाध्यक्षमपाररूपम् ॥४५॥
विलेपयन्ती नवकुंकुमेन प्रियांघ्रियुग्मं कुशलासकम्पम् ।
प्रियानुरक्तं हृदयं तु तेन चकार पादारुणतारहारम् ॥४६॥
कराङ्गुलीयात्मनखप्रभाभिः स्वतश्चरक्तौ चरणौ प्रियस्य ।
नवाविलिप्ता विति मूढ़चित्ता विलिप्य भूयोपि ममार्ज बाला ॥४७॥
एकद्विनेत्रैश्च चतुः षडश्वैर्गजैश्चषण्डैर्दशभिश्च रुद्रैः ।
क्रमेण साकं रमणेन रामा रेमे सहस्त्रैरपि कन्दुकैः सा ॥४८॥
एवञ्च तस्या रमणेन साकं लीला रसाविष्टहृदि प्रसन्नाः ।
गन्धर्वकन्या प्रमुखास्तदाल्येऽप्यारेभिरे गान मृदंगनादान् ॥४९॥
पुष्प प्रकाशाधिक सौकुमार्या लावण्यरूपातिशयानुभूतेः ।
अङ्गानि तस्या शिशिराः शिषेवे प्रस्विन्नपूर्णेन्दुमनोज्ञ मुख्याः ॥५०॥
तस्यास्खलन्त्या रसरंहसैव रंगांगणं रस्यतमं वभूव ।
मुक्तैर्धमिल्लोत्तममल्लिपुष्पैर्मुक्ताभिरङ्गाभरणच्युताभिः ॥५१॥
भुजैः सहस्त्रेरूपलक्षितेव व्यलोकि सा कन्दुक केलिकाले ।
सदा सदारामनिकुञ्ज कामा प्रियेण चान्यैर्द्विभुजैव देवी ॥५२॥
पराजिता विद्युत आत्मकान्त्या यतस्ततः केलिषु लाघवैश्च ।
तयाहि राम प्रियया मनोज्ञश्रिया ह्रिया त्यक्तधिया रसाय ॥५३॥
मिथः स्वमाधुर्य्यसुधैक पानव्यापोहितैश्वर्य्यगुणानुसंधी ।
दिनानि तौनिन्यतुरेकचित्तौ नवौ प्रियौ कन्दुक लीलयैव ॥५४॥
लीलारसास्वादुविभङ्गशंकी पुष्पाणि देवोऽन्नजदेतयोस्तु ।
हृष्टोपिनावर्षदितो दिदृक्षुर्नास्तौच्च तौ कामवशी कृतात्मा ॥५५॥
ते चोत्पतन्तोऽथ पतन्तआरान्नालोपरिष्टात् कमलप्रयाताः ।
तस्याः कराघातसुजातवेगास्तेनुर्दिवोनर्तककौतुकानि ॥५६॥
श्यामाः सिताः पङ्कजपाटलाश्च सीताकटाक्षा विजयन्त एव ।
प्रेयोमुखप्रेक्षणदक्षिणास्ते तेषाञ्च पातोत्पतनोंत्सुकाश्च ॥५७॥
तद्दर्शनोद्भूत सुखाव्धिवेगात् तत्ताण्डवाडंवरहर्षतोऽपि ।
जातानि सीताविशदास्मितानि सेव्यानि शीतांशुकलाधिकानि ॥५८॥
रोमञ्चितापि प्रियदर्शनेन स्वस्ताश्रुलेशाप्युरुकम्पनापि ।
चस्खाल सीता नच कन्दुकोत्थक्रीडारसस्यानुभवाद्भवार्चा ॥५९॥
मञ्जीरनादैः श्रवणे प्रियस्य पीयूषसारैः प्रतिपूरयन्ती ।
भूषात्विषा नाशयदंधकारं लोकाश्रितं सम्प्रति रामरामा ॥६०॥
झणत्कृतैः कन्दुककङ्कणानां निराकृता राममनोरमायाः ।
नशेकुरासादपि तु मिलिन्दा मुखाम्बुजं चिन्मकरन्दपूर्णम् ॥६१॥
स्रस्तं शिरस्तः परिधाय वस्त्रं स्रस्तं पुनर्धारयितुं हि यावत् ।
देवीमनः संकुरु तेहि तावच्चालिंग्य सस्नेहमुवाच रामाम् ॥६२॥
अलं प्रिये कन्दुकलेलयाते विरोधिनीयं सुकुमारतायाः ।
प्रसूनहासादपि हासशीले रसानुकूलेन सुमध्यमासि ॥६३॥
निधाय रामो ललनां निजांके ममार्ज तस्या वदनारविन्दम् ।
विहार जातांबुकणाधिशोभि स्वेदार्द्रदिव्यं तिलकैकयुक्तम् ॥६४॥
सवीजयामास सखीभिरस्या अङ्गानि रंगोत्तररूपभाजि ।
विलेपयच्छ्रीहरिचन्दननेन स्वामी स्वयं शीतविसर्गनेत्रः ॥६५॥
प्रियः करस्पर्शदृगंतपातसुधाभिषेकैरधिशीतलेयम् ।
यथा तथा चन्दनचन्द्रिकाद्यैरभून्न वैदेहसुतामितश्रीः ॥६६॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले श्रीरामरहस्ये कन्दुकलीला प्रकाशनो नाम चतुर्दशोऽध्यायः १४॥
श्रीशिवउवाच- तयोनर्नायकयोरेवं सम्प्रसन्नात्मनोर्मुदा । आसीनयोर्महारत्नपीठं सीता तदीशयोः ॥१॥ गन्धर्व्यस्तत्र सङ्गीतकोविदा नवयौवनाः । आरेभिरे तदाज्ञप्ता रासं नानारसायनम् ॥२॥ तिस्रः कोट्यस्तु सीतायाः सख्यः सर्वांगशोभनाः । द्वे कोटी रामचन्द्रस्य सख्यो गंधर्ववंशजाः ॥३॥ एवं गन्धर्वजातीनां सखीनां पञ्च कोटयः । पाद्मेपिते शिवे सूक्ताहिमाद्रितनये मया ॥४॥ गन्धर्व्यो रामचन्द्रस्य सर्वोपकरणानि च । किन्नर्यो गोपिका यक्ष्यो मानुष्योऽपि सहस्रशः ॥५॥ सीताया एव विज्ञेयं सर्वमेतद्रसावहम् । सीतासर्वरसास्वाद सर्वं प्राधान्यभागिनी ॥६॥ तयात्मीयतया देव्या रामाराधन रामया । आरम्भितोरहस्ताभी रासो रामाभिरामदः ॥७॥ अर्द्धं रसः स्त्रियां पुंसि रसोर्द्धंच विनिश्चितः । पूर्णस्तयोस्तु सम्बन्धेरसस्यैषा परास्थितिः ॥८॥ सर्वरसकदम्बोऽयं रासो नाम श्रियः कृते । कृतस्त्वया कृतिज्ञान कृतिराजशिरोमणे ॥९॥ अङ्गस्पर्शकरग्राहमुखासवनिषेवणैः । लब्धवर्णाः भवेमाद्य तव लोकमनोरम ॥१०॥ त्वां चेमां नर्त्तयिष्यामो यदा पूर्णस्तदा रसः । संकोचे पूर्णता नास्ति रहस्ये हि विभाव्यताम् ॥११॥ यदि त्वं क्षमसे मंतुम्प्रेमावेशभवान्बहून् । ततस्त्वं लप्स्यसे स्वादं रसानां रस वित्प्रभो ॥१२॥ रसेशो रसपानज्ञो रसकृद्रसपोषकः । दमीक्षमी दयालुश्च चित्तरञ्जनचन्द्रमाः ॥१३॥ रूपयौवनमाधुर्य्यसौन्दर्य्यादिगुणोदधिः । वदान्यः साभिलाषञ्च निर्भरो विगतज्वरः ॥१४॥ कामशास्त्रप्रवीणश्च गन्धर्वागमपंडितः । स्मितपूर्वाभिभाषी च धनधान्यसम्मृद्धिमान् ॥१५॥ निरामयो निरालस्यो वलीयारिमर्दनः । रम्यांगो रम्यदेशस्थो रम्यवस्तु निषेवकः ॥१६॥ अकोपनो गुणालोची दोषानालोचनः स्त्रियः । मृदुलो मधुरालापी सानुरागदृगंचलः ॥१७॥ इत्यादयो गुणा ज्ञेया नायकेंद्रस्य नित्यदाः । एवं भूतो रसं भोक्तुं शक्तो भोजयितुं च सः ॥१८॥ एवं स प्रार्थितस्ताभिः सर्वनायकलक्षणः । लक्ष्मणानुचरो रामो रामाभी रसलालसः ॥१९॥ नीतः पञ्चशिखोत्तंसो मयूरायित कुण्डलः । रासमण्डलमध्यस्थो रेजे पूजितसज्जनः ॥२०॥ वनमाली विशालाक्षः पीतवासा घनद्युतिः । अरालभृकुटी काकपक्षकान्तकपोलकः ॥२१॥ गन्धर्वराजकन्दर्पदर्पदोषहरच्छविः । अल्पमध्यो महाबाहुः सर्वसौन्दर्यसंग्रहः ॥२२॥ सर्वकामकलाभिज्ञो दिव्यनारीमनोहरः । सर्वशक्तिबलप्रज्ञो गुणग्राही क्षमानिधिः ॥२३॥ व्यलोकि स महाराजमहाराजसुतो युवा । सर्वाभिर्जीवनत्वेन लोकरञ्जनरञ्जनः ॥२४॥ ततस्ताभिर्महारासो नानारङ्गतरङ्गितः । उत्थितो मोहयामासत्रैलोक्यं मधुरोन्नतः ॥२५॥ अशोकवनिकामध्ये सरोजानिलसेविते । नानापुष्परसामोदे रत्नभूमिविभूषिते ॥२६॥ रासोभूद्रसिकानन्दविलासावलिवर्द्धनः । नानासंगीतसंभूतो गीतो वायुसुतेन यः ॥२७॥ व्यचुम्वद्रसिको वक्तृचन्द्रबिम्बरसः श्रुतिम् । कस्याश्चिन्नत्यसंरक्तमुद्गतं स्तनमंडलम् ॥२८॥ ममर्द मुदितो वैरिमर्द्दनो मधुमर्द्दनः । जग्राहपाणिना पाणिं कस्याश्चित्कामकंपितम् ॥२९॥ कामाभिपीड़ितं पूर्वं रामः पश्चादपीडयत् । कस्याश्चित्स्वोरसा रम्यवक्षो वक्षोजकर्कशम् ॥३०॥ गीयमानः स गन्धर्वकिन्नरीकोटिभिर्मुदा । ललितं लालितालापो ललनायुतयूथपः ॥३१॥ रमयामास रामास्ता रामो रमयतां वरः । रम्योऽनुभूयमानोऽप्य पूर्व एव वपुःश्रिया ॥३२॥ दिव्यगन्धानुलिप्ताङ्गो दिव्याभरणभूषितः । जगौ समधुरं प्रेम्णा साकं ताभिः प्रियाप्रियः ॥३३॥ रञ्जयन् रमणी रामो महामन्मथमन्मथः । ननर्त्तानेकधा सुष्टु सङ्गीतागमकोविदः ॥३४॥ ब्रह्मानन्दान् परित्यज्य स स्वयं भगवानपि । सेवते विषयानन्दानेवं भूमिगतोऽव्ययः ॥३५॥ नानारसावहैर्नानाक्ष्वेलवाक्यैर्मनोरमाः । हासयन् भासयन् दंतपंक्तिदीप्त्या दिगंतरम् ॥३६॥ जहासाम्बुजरम्यास्यो नानावर्णविचक्षणः । नर्तयन्नागरी रामो गापयन् गुणिनांवरः ॥३७॥ तासां गीतैश्च नृत्यैश्च हावैर्भावैः कटाक्षितैः । प्रसन्नः परमोदाररूपश्रीरमयं ददौ ॥३८॥ श्रीरामं रमयामास रामा राममनोरमाः । हासालिंगनसंभाषासंप्रसन्नप्रियेक्षणः ॥३६॥ रञ्जिता जीवलोकस्य धर्मस्य परिरक्षिता । रक्षिता स्वस्य वित्तस्य स्वजनस्य प्रपालकः ॥४०॥ एष राजाधिराजेंद्रकुमारो धनदाधिकः । इन्द्रादिलोकपालेशो दैत्यदानवदर्पहा ॥४१॥ सर्वसामन्तसेव्यांघ्रिः सर्वज्ञः सर्वसंश्रयः । अनादिनिधनो धाता विधाता परमो विभुः ॥४२॥ इत्येनं ललना सङ्घा आश्रयन्ते सुखप्रदाः । विहारेषु तदज्ञानात् तेषामीशानुधाविनाम् ॥४३॥ किन्तु रूपगुणोत्कर्षाद्यौवनारम्भरंजितात् । माधुर्यातिशयादस्य प्रणयादनुकम्पनात् ॥४४॥ सर्वभोगक्षमायोगादीक्षणाच्च मनोरमात् । स्मितपूर्वाभिभाषायाः सौन्दर्योपचयादपि ॥४५॥ लावण्यात्सौकुमार्याच्च सौगन्धानुभवात्पुनः । ललितेभ्यो विहारेभ्यः कुञ्जकेलिरसाद्भृशम् ॥४६॥ मुग्धामादकपानेन त्रपाभीतिं विना कृताः । तमुपालेभिरे वालाः प्रेयांसं तु निरागसम् ॥४७॥ अहो धूर्त्त शठ व्याजमनोरञ्जनकोविद । अन्यां त्वं भजसे भीरो दत्वा मह्यं दिनात्ययम् ॥४८॥ याहि तामेव सेवस्व शुष्कां सिथिलयोनिकाम् । लम्बोदरीं विवर्णोष्टीं स्थूलकेशीं पतत्कुचाम् ॥४९॥ अङ्गसङ्गो न ते कार्यो यदन्यासंगदूषितः । मीनगन्धांगगन्धिन्या कथं त्वं स्ववशीकृतः ॥५०॥ रम्योपि रसिकस्त्याज्यः संस्पृष्टोऽशुचिना यदि । मन्त्रो म्लेक्षमुखोद्गीर्णो द्विजैर्ग्राह्यो न जातुचित् ॥५१॥ सुन्दरेन्द्र इति त्यक्तुं शक्यस्त्वं न मयादपि । अन्याशक्त इति प्रेम्णा न संस्पृष्टुमपीप्ससे ॥५२॥ काञ्चः काञ्चनसंसर्गी गुन्जाविद्रुमयोगिनी । वज्रस्पर्द्धी च काश्मीरो मर्मछिन्दंति ते मम ॥५३॥ अन्या त्वद्योगिनी रामा गर्वपर्वतवल्लरी । यथादुःखाकरी भूरि तथा त्वं सुखदो न नः ॥५४॥ भाग्यं तस्या उदेत्याशु यामालिङ्गितुमिच्छसि । नीलमुद्गरनीलाभ्यां दोर्भ्यामंगं प्रसार्य च ॥५५॥ एकैकस्मिन्नपि प्रेयो गुणो दोषशतान्यपि । निमज्जेयुर्यथा क्षीरसिंधौ यादांसि निर्मले ॥५६॥ निसंख्यास्ते तु कल्याणगुणाः कल्याण यत्त्वयि । स्वल्पो दोषः कदाचित्यः पीयूषांशौ शशादिवत् ॥५७॥ गुणानेव ग्रहीष्यामो दोषं भोजयितुर्न ते । भृङ्ग्यो गन्धानिवांभोजराशेः कंटकिनोप्य ये ॥५८॥ एकोपि गुणिनं दोषो विद्वांसं समुपीडयेत् । सुधां चेन्दुं तिरस्कृत्य रत्नाकरमिवानलः ॥५९॥ नायमन्यानुरागः स्याद्दोषः कल्पित एव यत् । अन्यस्या गुण एवासावन्यस्या मर्म कृंतनः ॥६०॥ यो यस्याः प्रतिकूलः स्याद्गुणोप्यगुण एव सः । कुमुदिन्या यथा भानूदयोप्यनुदयप्रियः ॥६१॥ नित्यनिर्दोष एवासि त्वं त्वत्सङ्गोऽनहं कृतिः । यासां संसर्गतो (जो) दोषस्ता वयं तु विखण्डिताः ॥६२॥ स्त्रीत्वप्रयुक्तदोषाणां यत्किंचित्स्त्रीप्रसंगिषु । संसर्गोऽवर्जनीयः स्यात्स्पर्शोऽश्नत्शूद्रतामिव ॥६३॥ दोषेभ्यो गुणकैवल्य कामेन त्वयि का स्त्रियः । सर्वा एव परित्याज्याः स्वानंदैकभुजोऽरुजा ॥६४॥ नेकापीहावशिष्येत प्राणादपि गरीयसी । सा तुल्या स्त्रीसहस्त्रेण तस्याः प्रीतिर्निवर्त्यताम् ॥६५॥ यदि योषाप्रसङ्गोत्थ आनन्दस्तेऽसुखत्यजः । दक्षिणेन त्वया भाव्यं नानानन्दरसैषिण्णा ॥६६॥ एकस्या एक एव स्यादानन्दः कमितुः स्त्रियाः । स्नेहं वर्त्त्यैकया दीपो भुंक्ते ह्येकगुणं प्रभो ॥६७॥ नेत्रानन्द करो न स्यादिन्दुर्द्वये ककलः किल । तमस्तोमनिराशाय नापि सर्वकलो यथा ॥६८॥ चन्द्रोपि द्विकलत्वेन वृद्ध्यौन्मुख्येन वा भुवि । वन्द्यो नैककलस्तद्वदेकश्रीश्च भवानपि ॥६९॥ स्वयं पूर्णतमोप्यव्धिरादत्ते परितो नदीः । रमयत्याश्रयत्येकः षड्जादिश्रुतिमूर्छनाः ॥७०॥ तन्त्र्येकयापि तन्त्रीशो वीणां वादयितुं न ताम् । क्षमो हर्षेण तद्वत्त्वं मुदं भोक्तु प्रियैकया ॥७१॥ पादैः स हन्यमानोपि तस्यास्त्वं संप्रसीदसि । पूज्यमानोपि पुष्पौघैर्भीषयस्येव नः सदा ॥७२॥ क्षांतं वैषम्यमस्माभिर्दासीभिस्ते निसर्गतः । समं सर्वत्र दैवं तु कथमेतत्सहिष्यते ॥७३॥ न त्वं विभेषि देवात्तन्मुखामोदमधुव्रतः । मदाघूर्णितनेत्रत्वान्नापि पश्यसि तद्वलम् ॥७४॥ तस्या भाग्यादनार्यायाः दैवं दुर्बल मस्तिकिम् । तस्या एवानुकूलं वा दुर्बलाभिर्विरुध्यते ॥७५॥ कटाक्षैकलवालंविदैवं ते देवतार्चित । त्वद्दोर्वल्ली मिलिंदीनां न वलं च विरोधि तत् ॥७६॥ यस्मै त्वमेवरुष्टश्चेत्तस्यात्मापि प्रणस्यति । कोस्यान्यो रक्षको लोके विभ्यंस्त्वत्तोभयप्रदात् ॥७७॥ सिद्ध्यापि हि स्वतस्त्यक्तः कर्कशोदयया भवान् । भवता च वयं त्यक्ता अस्माभिश्च मृतेर्भयम् ॥७८॥ अलं सङ्गेन ते धूर्त्त साधुस्त्रीप्रतिवंचकः । अपूर्णानंगरंगेन तृष्णासङ्गकरेण च ॥७९॥ सर्वराजाधिराजस्य वंशोत्तंसमणिर्भवान् । पादस्पर्श कथं कुर्याद्दीनानां नो यथेतरः ॥८०॥ पादस्पर्शं स्वदासीनां वृथा मा कुलनन्दन । एतत्पश्येन्न कुप्येत्वत्प्रिया प्राणसमा ह्यसौ ॥८१॥ किमस्माकं कुचेष्वस्ति विंवाधरसुधासुधा । किं यस्या भूयसी भव्यलालसा तव जायते ॥८२॥ कृत्वा भूयांसि चागाङ्सि पूर्वं संप्रति सन्नतः । कथं विश्वसनीयः स्यान्मत्तमातंग विक्रम ॥८३॥ सोढुं पत्युः कृतान्मन्तुन्वोढुं गेहधुरं च ताम् । स्त्रष्ट्रा सृष्टाः स्त्रियः सर्वा गत्यन्तरविनाकृताः ॥८४॥ नत्वं जारपतिश्चापि किन्तु प्रेष्टतमोऽविता । हातुं न शक्यसेऽस्माभिरित्यादाववदाम ते ॥८५॥ कृतघ्नो निःशठो मूर्खः क्रूरो वञ्चक आतुरः । पतितश्च पतिस्त्याज्यो नारायण परांमुखः ॥८६॥ यदि तेभ्यो विविक्तस्त्वं स्थिरस्नेहो निजेजने । ततः प्रेयान्भवान्नो हि दास्यः स्याम हि ते सदा ॥८७॥ सुन्दरश्याम ते श्याम कामः साक्षी रतिश्च सा । त्वया नः सह सम्वन्धे श्रीशंभुस्त्वंविका तथा ॥८८॥
॥इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले रामरहस्ये मुग्धप्रमत्तप्रमदाविवादप्रकाशनो नाम पञ्चदशोध्यायः १५॥
श्रीशिवउवाच-
एवं तासां वचो मुक्तामालां प्रेमाविलां खिलाम् ।
कृत्वा कर्णयुगोत्तंसामुवाच परमप्रियः ॥१॥
प्राणादपि प्रिया सीता वेदिगर्भोदिता मम ।
सुन्दरी सर्वगात्रेषु श्यामा सौभाग्यमंजरी ॥२॥
सर्वलक्षण सम्पन्ना सर्वदोषविवर्जिता ।
अचिन्त्याद्भुतरूपा श्रीतेजःकान्तिमहोज्वला ॥३॥
सर्वशक्तिमयी सीता सर्वशक्तिविधायिनी ।
सर्वागमकलापूर्णा गन्धर्वागमपारगा ॥४॥
शृङ्गारस्वामिनी सर्वरागमार्गप्रदर्शिनी ।
रासोत्सवप्रिया नित्यं सर्वलोकैकसेविता ॥५॥
भूश्रीलीलेश्वरी देवी लक्ष्मीलक्षसमर्चिता ।
ब्रह्माण्डकोटिभाण्डस्थसर्ववस्तुमहेश्वरी ॥६॥
समा एव तया देव्या यूयं प्राणप्रिया मम ।
नित्यं नित्यगुणोपेता दोषसंसर्गदूरगाः ॥७॥
रूपलावण्य सौंदर्यमाधुर्यमृदुतान्विताः ।
मत्प्रणयप्रणालीका गंगाधारा इवाच्युताः ॥८॥
गीतनृत्यकलाभिज्ञाः सर्ववाद्यविशारदाः ।
प्रहेलिकाप्रहासादिपण्डिता गुणमण्डिताः ॥९॥
भूषणांवरमाल्याङ्गरागगाढ़विकल्पने ।
लब्धवर्णाः स्थिताः सर्वलोकवंद्यपदांबुजाः ॥१०॥
भुक्तिमुक्तिप्रदा देव्यो दिव्यशक्तिधराः पराः ।
योगिन्यो योगमार्गाणां देवताः श्रुतिगोचराः ॥११॥
यूयं मम गतिर्नित्या लक्ष्म्यो भूतय ईप्सिताः ।
लोके सर्वस्वभूताश्च सीतांशाः श्रुतिगोचराः ॥१२॥
सङ्गीतामृतपाथोधिमीनीभूता मम प्रिया ।
यूयं संगीतकारिण्य इति तस्या अतिप्रियाः ॥१३॥
परञ्चाति प्रियं वापि निर्गुणं सगुणं तु माम् ।
अयमस्माकमेवेति शुश्रूषध्वं निरामयाः ॥१४॥
येन केनाप्युपायेन साधवः साधु बंधुकम् ।
मामेकमेव सेवन्ते सेवितं सुरयूथपैः ॥१५॥
भक्त्या स्नेहेन कामेन कोपेनापि मनीषया ।
लोभेनापि भयेनापि संबन्धेन निरा शिषः ॥१६॥
सेवित्वा श्रुतिसङ्गीतं नारी वापि नरोपि वा ।
धर्मसेतुं जगद्धेतुं मामाप्नोति न संशयः ॥१७॥
जीवाश्चतुर्विधाः सर्वेमत्सेवाद्यधिकारिणः ।
भजन्मां कृतकृत्यः स्यात्तेषु चान्यतमोपि चेत् ॥१८॥
न वै मद्भजने वेदा न देवाः पितरो न च ।
नर्षयोपि प्रकुप्यन्ति न दुष्यन्ति कुलस्त्रियः ॥१९॥
सर्वेपितं प्रसीदन्ति दृष्ट्वा मद्भजनस्पृहाम् ।
यस्य कस्यापि लोकेस्मिन्निति मां भजत प्रियाः ॥२०॥
न मां पापाः प्रपद्यन्ते मूढा ये च नराधमाः ।
युक्तिभिर्नष्टविज्ञाना आसुरा रुद्रमाश्रिताः (आसुरं भावमाश्रिताः) ॥२१॥
चामुण्डां चण्डिकां दुर्गां कौमारी कालिकाम्बिकाम् ।
भैरवादीन् महाभूतानाश्रिता इष्टदूषिताः ॥२२॥
अन्यदेवार्चने शक्ता विमुखाः हीनबुद्धयः ।
लोकानुग्रहकर्तारं प्रार्थितं च सुराधिभिः ॥२३॥
तिरस्कुर्वन्ति मां मूर्खाः प्रविष्टं मानुषीं तनुम् (सर्वेश्वरपतिं परम्) ।
तेषां नास्ति गतिः क्वापि कल्पान्ते वामलोचनाः ॥२४॥
अहं केवलया भक्त्या ग्राह्यो ग्राह्यो न चेतरैः ।
साधनैः साधुमर्यादा पुरुषोत्तमसञ्ज्ञितः ॥२५॥
प्रसङ्गादेतदुक्तं मे सेवाद्युत्कर्षसूचकम् ।
सर्वेभ्योप्यन्यधर्मेभ्यः तुच्छपाकेभ्य आश्रयात् (श्रेष्ठोमद्धर्मसेवनम् ) ॥२६॥
पादसेवारता यूयं मम प्रेमा विलाशयाः ।
इति सर्वाहि लोकेभ्य उत्कृष्टा हि समर्चिताः ॥२७॥
दासस्तवास्मि रामेति सकृद्ब्रूतेतु योनरः ।
विक्रीणाम्यहमात्मानं द्विरावृत्तावृणीभवत् ॥२८॥
मय्यर्पितमनःप्राणा लोकालोककले वराः ।
इष्टा मे न कुतो यूयं नित्यं पादपरायणाः ॥२९॥
सर्वत्रान्यत्र तिष्ठामि लोकयात्राप्रवृत्तये ।
एकैकं क्षणमेकाकी युष्माकमनुसर्वदा ॥३०॥
ये रसिकाः सदा स्वच्छा भक्ता मे मृगलोचनाः ।
ते युष्माकं भविष्यंतिपादपद्माश्रयासदा ॥३१॥
तस्माद्यूयं प्रसीदन्तु सीताया मम चामलाः ।
आज्ञापनीयो युष्माकं तत्तत् कामाभिपूरणे ॥३२॥
इत्युक्ता रामचन्द्रेण पेशलेन गिराममूः ।
ऊचुः प्राञ्जलयः कान्तमुत्फुल्लामललोचनाः ॥३३॥
यदस्माभिस्तु वक्तव्यं प्रसादाय युवां प्रभो ।
उक्तं तत्तुत्वयैवेह गम्भीराश्यवेधसा ॥३४॥
कोन्यो नः परमो धर्मो येना शुत्वंप्रसीदसि ।
स्वभावः कोस्ति ते येन प्रसीदामश्च सुन्दर ॥३५॥
नैव स्यात्कृत्रिमः स्वामी स्वतः स्वाम्येव यः सहि ।
दासास्त एव ये हेतुं विनैव प्रकृति स्थिताः ॥३६॥
शुश्रूषणपरा नित्यं दासा भगवतस्तव ।
तथाभूतावयं दास्यः स्वामी त्वं च यथाविधः ॥३७॥
स्वस्वामिभावसम्बन्धो निर्हेतुः कथयिष्यते ॥
अन्यः सर्वोपिसम्बन्धो व्यापारः स्वार्थहेतुकः ॥३८॥
प्रेमानस्त्वयि निस्सीमः कृपा चास्मासु ते परा ।
एतद्द्वयमुपाधिः स्यान्नित्यो नस्ते सह स्थितौ ॥३९॥
नारीणां चलचित्तानां पूर्वपूर्वत्यजां त्वया ।
विना नो हृदयं केन नीयेतानुदिनं वशे ॥४०॥
पूज्याः स्त्रियः परित्यज्य त्रैलोक्यां याः स्त्रियोऽखिलाः ।
तासां निधुवने दोषो न त्वां स्पृश्येदनाहतम् ॥४१॥
या यारागवशाद्वाला नैव केनापि दूषिताः ।
तासां तु सुरतौ दोषैः कथं स्पृश्यो भवान् भवेत् ॥४२॥
सर्वेषु देशकालेषु जीवास्त्वामनुजीविनः ।
ते सर्वेपित्वदाभासा एक एव भवान् पुमान् ॥४३॥
ततो युगपदेकस्त्वं सर्वान् धारयितुंक्षमः ।
सर्वा रमयितुं नारीः परेशोऽपि च रक्षितुम् ॥४४॥
सामर्थ्यं तव यावच्च वीर्य्यं तेजोवलं च तत् ।
तावन्नास्ति नियाम्यं ते ज्ञानतुल्यो न गोचरः ॥४५॥
यावत्कामो वलीयांस्ते तावन्नार्यो न संति ते ।
न ते कामो रजोजन्यः शुद्धसत्यमयोह्यसौ ॥४६॥
पर्याप्तास्तवकामस्य कथं स्यामाक्षयस्य यत् ।
सङ्कल्पप्रभवः सोयं तेनासाबुपशाम्यति ॥४७॥
सर्वासां त्वं पतिर्भर्त्ता स्वतः सर्वेश्वरो यतः ।
सर्वं स्वकीयमेव स्यादन्यदीयं न किंचन ॥४८॥
केनापिचदुर्दिष्टेन लुप्ते ज्ञाने वयं मुधा ।
जारभ्रान्त्या भजामस्त्वामुपालंभ्यापि निर्भयाः ॥४९॥
जारबुध्वापि भर्त्तस्त्वं सेव्यमानः प्रसीदसि ।
अत्यर्थं सर्वदा भोग्यो नव्योनव्यः प्रतिक्षणम् ॥५०॥
भक्त्या त्वां केपि विद्वांसः सम्वन्धेनापरेऽमला ।
मैत्र्यास्नेहेन चाप्यन्ये तपसा कर्मणा परे ॥५१॥
केचित्सांख्येन योगेन व्रतैर्दानैस्तथापरे ।
स्वाध्यायै संयमैश्चान्ये केचित्तीर्थनिषेवणैः ॥५२॥
केचिद्यागेन योगेन सत्येनान्ये च साधवः ।
सर्वत्र दयया देवित्केचिदाज्ञाऽनु पालनैः ॥५३॥
केचित्त्वच्छरणापत्या केचित्साधु सदादरैः ।
आचार्योपासनेनान्ये भावशुद्ध्या च केचन ॥५४॥
सेवन्ते सर्वदातारं पातारं भवबन्धनात् ।
वयं तत्र तु कामेन शुद्धेन त्वां भजामहे ॥५५॥
तत्रहेतुस्त्वदीयन्तु रूपं सौंदर्य्यमुत्तमम् ।
माधुर्य्यं यौवनारम्भः सौगन्ध्यं सुकुमारता ॥५६॥
लावण्यंपरमा कान्तिः सौशील्यं खलु सौहृदम् ।
सौलभ्यं परवात्सल्यं प्रसन्नत्वं स्वभावतः ॥५७॥
शक्तिर्नानाविधा सर्वकला प्रावीण्यमाश्रयम् ।
अन्येपि ते स्युः कल्याणगुणास्सर्वत्र पूजिताः ॥५८॥
स्वभावाद्भुवनारीणां मनो नेत्रे च दुर्वशे ।
वर्त्तन्ते रूपसम्पन्ने तस्य तासु च तानिह ॥५९॥
पुंसामपि त्वयिस्यातां मनोनेत्रे मनोरमे ।
कुतो न युवतीनां तु पश्यतीनां पुनः प्रिय ॥६०॥
पुराणपुरुषो येषां तेषामेव तथाविधः ।
विशुद्धो निर्गुणः साक्षी कूटस्थो विजितेन्द्रियः ॥६१॥
अस्माकं तु विमुग्धानां कामुकेशः कलानिधिः ।
रम्योनवो नवः सौम्य एको भोग्यः क्षणे क्षणे ॥६२॥
काकपक्षधरो नित्यं त्वं पञ्चदश हायनः ।
बुभुक्षू रसिकेन्द्रश्च युवराजस्फुरद्युतिः ॥६३॥
नेदं कालकृतावस्था विशेषस्ते नवं वयः ।
किन्तु स्वाभाविकं तद्धि कालकर्मेश्वरस्य यत् ॥६४॥
इत्युक्तो रामचन्द्रस्तु नायकेंद्रो रसप्रियः ।
मुग्धाभिश्च विदग्धाभिस्ताः प्रत्याह महामनाः ॥६५॥
किमर्थं चोच्यते गुप्तं वेदान्तेष्वपि गोपितम् ।
उपयोगि रसस्यैव वक्तव्यं वो मृगीदृशः ॥६६॥
कर्तव्यं च तदेवात्र यत्स्वारस्यकरं रसे ।
नात्र धर्मोपयोग्येव नार्थतत्वं न मुक्तिदम् ॥६७॥
कौशल्याया अशल्यायाः पुण्यराशेः सुतोस्मि यत् ।
रामो दाशरथिर्नाम्ना कुतोऽहं परमेश्वरः ॥६८॥
कामिनीकेलिकल्लोललोललोचनमानसः ।
स्वयं कामवशो वामलोचनाकामवर्धनः ॥६९॥
यो वः कामो वरो मत्तो याचंतां तमनातुराः ।
दातुं पुण्यचयैः शक्तात्प्रसन्नाद्वामलोचनाः ॥७०॥
मयि प्रसन्ने जगतां निदाने निधानभूम्यां चिदचिद्गुणानाम ।
भवेत्तु किं दुर्लभमत्र तेषां विनाश्रमेणाऽवितरि प्रजानाम् ॥७१॥
श्रुत्वा वचो लोकपतेरितीमा ऊचुः प्रियप्रेमजलाविलाक्ष्यः ।
त्वत्तोऽपि किंचित्परमस्ति वस्तु त्रैलोक्य चिन्तामणिरूपपुंजात् ॥७२॥
श्रियोऽपि जीवातुतरोः परस्तात् समस्तकार्यादिह विद्यमानात् ।
यदद्ययाचामह ईश्वरत्वाद्भवेम येनामृतजीवितां च ॥७३॥
त्वमेव नो देहि विदेहपूज्य कृत्वा कृपां कोमलचित्तमार्द्रम् ।
यस्मिन् समस्तं त्वयि देवदेवे यस्माद्वहिर्भूतमलीकमेव ॥७४॥
स्वकीयपादाम्बुज सेवनं विना त्वयैव दीयेत यदन्यदापदाम् ।
सदास्पदं नोचितमेव तद्विभो तवाश्रयस्याखिलसिद्धिसम्पदाम् ॥७५॥
यदि त्वयान्यः प्रियदेय एव नो वरस्तदायं भवदीयकेलिषु ।
कुदृष्टयो या न भवन्ति दीयतां रतेश्च तेभ्योऽतिशयो विसंशयः ॥७६॥
त्वदीयपादाम्बुजभृंगचेतसां रसानुकूलां प्रकृतिं ह्युपेयुषाम् ।
सहस्त्रदोषान्नच नो विचारयन् रमस्वचैषां नवनीतकोमल ॥७७॥
स्वकीयपादाम्बुजसङ्गमेव नो वदान्यमूर्द्धन्य विधेहि सर्वदा ।
वियोजय प्राणपते न कोपतः प्रिया इति त्वच्चरणानुजीविनीः ॥७८॥
समुद्रमेवाभिमुखं गता नदीस्त्यजत्यसौ नैव न गर्वितोऽप्यथ ।
त्वदीय पादाभिमुखास्तथाङ्गना निवर्त्तनीया न कदाचनत्वया ॥७९॥
प्रसङ्गतः प्रीतिपरा पराध्यति प्रियेत्यहं कान्त तवानुलालनात् ।
मयेत्युपादीयत एव सिन्धुना नदी नभस्येवमलीमसाप्यसौ ॥८०॥
लताश्रिता देवतरोरिवात्मनः सदंगनै, कापि तवाप्यलंकृतिः ।
घनो घनश्रीस्तडितैव शोभतिस्फुरत्तडिद्गर्जति वर्षते च सः ॥८१॥
स्त्रिया न कस्यास्तव रूप दर्शने चलेत्स्वधर्मान्न मनोथ लोचने ।
लता न का मुञ्चति पुष्पमेजतेऽनिले चलत्याशु च चन्दनाचले ॥८२॥
कुमुद्वती का न मुदं समश्नुते सुधांशुराशौ समुदंचति प्रिये ।
त्वयि श्रुते दर्शनमागते च का भजेन्न भावानपि सात्विकानलम् ॥८३॥
चतुर्विधः कोशलपालनन्दन त्वमेव सर्वेषु च नायको भुवि ।
वदन्ति सर्वेऽपि भवन्तमेव चतुर्मुखाद्याः कवयो हि नायकम् ॥८४॥
निजानुरागोपहृतात्मभोग्यं करोषि तासामनुरागराधितः ।
मुदात्मसात्वं स्वयमीश्वरोपिसन्न नान्यतंत्रात्मसुखोपि सर्वदा ॥८५॥
तवेश्वरीयं जनकात्मजा सखे रसैकलीलानुभवेषु भूरिषु ।
वहिस्सभायां तु भवानपीश्वरः सदैकमार्गानुगतः सतांमतः ॥८६॥
वयं तु वां सख्यमुपागता रते रसोपयुक्ता न तु धर्मसाधिकाः ।
रसप्रिया रागरता मतास्त्वया रसैकदेहेन विदेहजापते ॥८७॥
वचाञ्सिता सामिति रामचन्द्रमा निशम्य सौम्यो मधुरैकसागरः ।
उवाच चारुस्मितचित्तरन्जको विरञ्चिवर्ण्यो रमणीः सखीरिमाः ॥८८॥
यथा यथामां भजते भुजार्जितत्रिलोकलक्ष्मीललनं तथा तथा ।
प्रियो मम स्यात्पुरुषोगनात्र वा विचारणा नेति मयोदितं पुरा ॥८९॥
यदत्र वक्तव्यमनङ्गवर्द्धना मया तदादावुदितं विचार्य्य तत् ।
सुखेन साकं मयका सतां चिरं चिरन्तनेनामृतचेष्टितेन वः ॥९०॥
एषा लीला जनकतनयावल्लभस्यावतारे व्यक्ता युक्ता दमसमविदां वक्तूमुक्ता मयाते ।
नित्यापिस्यादवनितनुजा प्रीतये ब्रह्मपुर्य्यां ध्याता भाता हृदय कमले कान्तदेवो दधाति ॥६१॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले श्रीरामरासे भावप्रकाशो नाम षोडशोऽध्यायः १६॥
श्रीशिव उवाच- श्रुत्वा रासाख्य केलिं तामेतां श्रीराम योषिताम् । व्युदश्रुमुर्मुदेत्यर्थमगस्त्यो भगवान् मुनिः ॥१॥ जगादागाधवोधंस महाभागवतं कपिम् । वेत्तारं रामरङ्गाणां वक्तारं च यथा रुचि ॥२॥ त्वया राम रहस्याख्य सुधामत्र कृतोस्म्यहम् ॥ इमे च मुनयः साधु बाधा बाधक सत्पते ॥३॥ सीतापतेश्चरित्राणि ज्ञातानि च श्रुतानि च ॥ पवित्राणि चचित्राणि संत्यनंतानि मारुते ॥४॥ तेषु चैतत्परं रम्यं रामप्रेमानुभावकम् । मनोनेत्रसुखानंत्यश्रवणोत्सवमालिका ॥५॥ अत्यंतगोपनीयेयं रामकेली रसात्मिका । धीरोदात्तगुणोद्दामरामेणापि सुगोपिता ॥६॥ श्रुत्वात्वद्वदनांभोजाद्रामकेली मतीं सुधाम् । रामे भक्ती रसापन्ना जातानोद्यदृढ़ाधिका ॥७॥ चिरञ्जीव चिरञ्जीव चिरञ्जीव महामते । इयं सञ्जीवनी नाम दत्ता ते नो महालता ॥८॥ श्रूयते वानरीसेना त्वया सञ्जीवितामृतेः । मोचितो लक्ष्मणोभ्रातुर्वहिःप्राणश्च सङ्कटात् ॥९॥ रामश्च तारितः शोकसिन्धुबन्धुवियोगजम् । रामप्रिया परित्राता प्राणदानेन रक्षसः ॥१०॥ सुग्रीवः स्थापितो राज्ये लङ्का न्यस्ता विभीषणे । ऋषयो रक्षिता पापाच्छत्रोर्गुप्ताश्चदेवताः ॥१॥ प्रीणितः पार्वतीनाथो ब्रह्मा च परितोषितः । शोकसंतापदावाग्रेर्मोचितो भरतोपि ते ॥१२॥ त्वद्दत्तं वासवो राज्यमध्यास्ते सुरसेवितः । त्रैलोक्यं पालितं येन सत्वां स्तोतु न शक्यते ॥१३॥ प्रत्युपकारं न पश्यामो येनानृण्यं तु नो भवेत् । भक्त्या पूर्णतमस्यापि तव मारुतनन्दन ॥१४ ॥ किन्नर्यो रामरासं मे गन्धर्वैश्च पुरस्कृताः । दर्शयन्ति च दाक्षिष्यादनुरागं दिदृक्षवे ॥१५॥ इत्युक्तं यत्त्वया पूर्वं तत्सुखं मे मनोऽक्षिणी । दिदृक्षंते दयायास्ते रासानुकरणं हरेः ॥१६॥ अखण्डब्रह्मचर्यस्य नारीनृत्यादिदर्शनम् । कथं घटेत ते साधो ऋते रामानुशीलनम् ॥१७॥ श्रीरामोहृदयांभोजे झटित्यायात्यनेन तु । श्रुतेनापिच दृष्टेन कुतो नारक्तलोचन ॥१८॥ सर्वसाधनसम्पन्नं रामानुकरणं परम् । एतस्मिन् सुलभे नान्यत् कर्तव्यं भजनादिकम् ॥१९॥ यस्मिन्रसे निमग्नोसि तुच्छीकृत्य सुरेप्सितान् । भोगान्मोक्षावधीन् सर्वांस्तान्नः पायय पावने ॥२०॥ इत्थं संप्रार्थितःसद्भी रामभक्तैर्मुनीश्वरैः । हनुमान् रामदासाग्रय एकाग्र हृदयो हरौ ॥२१॥ आकारयांवभूवाथ किन्नरीः सुरसुन्दरीः । रूपलावण्यसम्पन्नाः सङ्गीतागमविशारदाः ॥२२॥ विशिष्टा रामरासे च हनूमच्छिक्षयाखिलाः । गन्धर्वा रामरासज्ञा रामभक्तावलोकिताः ॥२३॥ रक्तांवरधरारक्तमाल्यगन्धानुलेपनाः । द्वादशहायनाभास्ते दिव्यधूपावधूपिताः ॥२४॥ वीणावेणुमृदंगादिवाद्यसम्पत्तिशोभिताः । देवराजसखं रामभक्त समुपतस्थिरे ॥२५॥ ततोरासस्थलीं रम्यां मुक्ताजालपरिस्कृताम् । नानापुष्पलतावृक्षदिव्यामोदसुवासिताम् ॥२६॥ हरिचन्दनसंसिक्तां दिव्यधूपावधूपिताम् । दीपिकामालिकादीप्तिचन्द्रज्योतिर्विकाशिताम् ॥२७॥ स कुर्वन् कारयित्वा च सर्वशोभासमन्विताम् । रामराससुखाक्रीडामृषिसंघमनोहराम् ॥२८॥ अशोकवनिकांशेन मत्वा बुद्ध्या महामतिः । कदलीवनमादध्यौ लीलास्थानं हरेरिति ॥२९॥ तस्मिन् प्रवर्तयामास रासलीलां सुरीगणैः । स्वयञ्च पण्डितस्तत्र संगीते मारुतात्मजः ॥३०॥ पश्यत्सु मुनिसङ्घेषु दिवि देवेषु चादृतः । रासलीलारसाविष्टमानसेंद्रियधामसु ॥३१॥ मुनिराजे स्थिते चात्र रामाराधनलालसे । नर्त्तुंस्वयंहनूमांस्तुप्रवृत्तः स्मरसुन्दरः ॥३२॥ सीतायाश्च सखीत्वेन किन्नर्यः कल्पिताश्चिरम् । नृत्यान्यारेभिरे तत्र देशीमार्गनिदर्शनात् ॥३३॥ जगुर्गंधर्वडिंभाश्च मधुरस्वरमूर्च्छनाः । तानानि तेनिरे तत्र तालैश्चित्रतराणि च ॥३४॥ कुमारी कापि देवस्य सर्वलच्क्षणसंयुता । रूपसौंदर्यमाधुर्यलावण्यादिगुणोज्वला ॥३५॥ सीताभावेन माधुर्यध्याता नृत्यविशारदा । बालेति त्रपया त्यक्ता मत्ता च मदिरासवैः ॥३६॥ नीलोत्पलदलश्यामो रक्तांबुजविलोचनः । कश्चिद्देवकुमारश्च रामोऽयमिति कल्पितः ॥३७॥ वेदान्तदिव्यनेत्रेण ब्रह्मदृष्टिसुपूजितः । आब्रह्मण्यपि जीवेषि फलसिद्धिश्च पुष्कला ॥३८॥ यथा सर्वगतो रामः सीता सर्वगता तथा । तयोर्दृष्ट्या तयोर्मानः पूजा च विहितैव हि ॥३९॥ रामांवरधरो रामकिरीटमुकुटादिधृक् । रामगन्धानुलिप्तांगो राममाल्याङ्गुलीयकः ॥४०॥ रामध्यानपरो रामगतागतविचेष्टितः । रामभाषावलोकादी रामरूपकलान्वितः ॥४१॥ रामात्मकत्वाद्रामोहमिति भावरसेक्षितः । स श्यामः शुभगः सिद्धश्चेतांसि विचिकर्ष ह ॥४२॥ रामोपमेव रामोयमेवेत्यध्यवसायवान् । सिद्धसंघस्तदाचासीद्रामदर्शनहर्षितः ॥४३॥ चामरव्यजनच्छत्रध्वजाताम्बूलकेतुभिः । श्रीरामं सीतया युक्तमृषयोपिसिषेविरे ॥४४॥ तासां गीतैस्तथा नृत्यैर्वासोऽलङ्कारभूषितैः । रामस्य च कलाभेदैः सीतायाश्च मनोहरैः ॥४५॥ मधुरैः कोमलैर्वाद्यैस्तालैर्नानाविधैरपि । मूर्च्छितैर्मूर्च्छितानंदैर्मूर्छामापुर्मुनीश्वराः ॥४६॥ सिद्धा अपि समाधिस्था उत्तस्थू रसवर्षणात् । आनन्दाश्रुसुधाधौतवदनाम्बुजलोचनाः ॥४७॥ त्यक्तकृच्छादिसङ्कल्पा न्यस्तमुक्त्यादिसिद्धयः । अध्यवसितसीतेशपादपद्मानुशीलनाः ॥४८॥ अगस्त्यप्रमुखास्तत्र द्रष्टारो मुनयोऽभवन् । तयो रासरसानन्द काम्यया कवलीकृताः ॥४९॥ अहोरम्यमहोरम्यं नेत्रश्रोत्रमनोहरम् । रसानुकरणं ह्येतत्सद्यो रामोपलम्भकम् ॥५०॥ एतस्या रामलीलाया द्रष्टा श्रोतानुमोहितः । न स्वर्गे नापवर्गेच कदापि कुरुते मनः ॥५१॥ एतद्रसतरङ्गिण्यास्तीरे तीरे दिवौकसाम् । तृणायन्ते सुखानीतो नीतान्यन्यानि पांशुताम् ॥५२॥ शोकसन्तापतृष्णाद्याः संसारविषवृक्षजाः । सद्यः पाका विनश्यन्ति रामक्रीडामृतौषधात् ॥५३॥ विदुषाविदुषा वा च रामः साक्षाद्विलोक्यते । सर्वात्मना मनोवागगम्योपि सह सीतया ॥५४॥ रसाविष्टतया हृष्टो स्पष्टैश्वर्यानुभूतिकः । आत्मानन्दाशनोऽत्यन्तं मत्तः सोर्थविमानतः ॥५५॥ रसमप्यां तु लीलायां मत्तैश्च प्रमदागणैः । असत्कृतोपि संहृष्टः प्रीतये नितरामसौ ॥५६॥ भक्तानां रसशक्तानामागांसि क्षमते स यत् । ततो ज्ञानादितः श्रेष्ठा भक्ती रामस्य रामदा ॥५७॥ अहो धन्याग्रगण्योऽयं भक्तानामंजनीसुतः । रामलीलारसास्वादी यदर्थं कदलीवने ॥५८॥ धन्या इमाश्च किन्नर्यो रामलीलासुधाभुजः । धन्याश्च बालगन्धर्वा रामगीतामृताशनाः ॥५९॥ धन्यं रम्भावनं चैतद्यत्र रामोत्सवा इमे । धन्या वयं च यद्रामे लब्धभक्तिरसामृताः ॥६०॥ प्रशंसन्नेवमात्मेशजनान् वायुसुतादिकान् । पश्यन् रामसुखान्यास षड्मासान्कुम्भसम्भवः ॥६१॥ हनूमानात्मनः श्रुत्वा रामप्रेमप्रशंस्यताम् । उवाच प्रणतोऽगस्त्यं रामस्नेहसुरापगम् ॥६२॥ पुत्रीवत्पौत्रवद्रामो मातृवन्मम सर्वदा । श्यालवद्भामवद्रामः श्वश्रुवच्छसुरादिवत् ॥६३॥ पुत्रीवत्पौत्रवद्रामो भागिनेयादिवन्मम । सखीवत्सखिवद्रामः पत्नीवदनुजादिवत् ॥६४॥ राजवत्स्वामिवद्रामो भ्रातृवद्वंधुवत्सदा । धर्मवदर्थवद्रामः काममोक्षादिवन्मम ॥६५॥ व्रतवत्तीर्थवद्रामः सांख्ययोगादिवत्सदा । दानवज्जपवद्रामो यागवन्मन्त्रवद्वलम् ॥६६॥ राज्यवत्सिद्धिवद्रामो यशोवत्कीर्तिवन्मम । घृतादिरसवद्रामो भक्ष्यभोज्यादिवत्सदा ॥६७॥ गन्धमाल्यादिवद्रामो भूषणाम्वरवत्सदा । नृत्यवद्गीतवद्रामो वाद्यवन्मधुरो मतः ॥६८॥ अश्ववद्गजवद्रामः पितृवत्सुहृदादिवत् । दासीवद्दासवद्रामो मृगपक्ष्यादिवन्मम ॥६९॥ आरामोद्यानवद्रामः छाया वद्वन वन्मम । गृहवत्कुलवद्रामो वसन्तादिवदेष मे ॥७०॥ बालवद्वृद्धवद्रामो विटलंपटवद्रसे । मत्तप्रमत्तवद्रामो रामो केलिरसादिषु ॥७१॥ विस्मृतौ शत्रु वद्रामश्चित्तस्तेये च चौरवत् । वैद्यवद्विरहव्याधिनाशने च सदा मम ॥७२॥ या प्रीतिः सर्वभावेषु प्राणिनामनपायिनी । रामे सीतापतावेव निधिवन्निहिता मुने ॥७३॥ सर्वकार्यकरो रामो दिव्यमानुषशक्तिकः । इति मे मानसे नित्यं निहितो भगवान् स्वयम् ॥७४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमेपटले श्रीरामरहस्ये कदलीवनकेलि प्रकाशोनाम सप्तदशोऽध्यायः १७॥
श्रीशिवउवाच- इति श्रीरामदेवस्य विलासान् व्यलसोल्लसन् । श्रुत्वो चैऽसौहनूमन्तमञ्जनानन्दनं मुनिः ॥१॥ एतद्गुह्यतमं वीर रामस्यैकांतवासिनः । कथं तेऽवगतं विद्वंश्चरितामृतमुत्तमम् ॥२॥ श्रुत्वागस्त्यमुखादेतद्वायोः सूनुरुवाच तम् । यतोऽमृतमिदं प्राप्तं तन्निबोध महामते ॥३॥ आबालाद्रामभद्रस्य लक्ष्मणोऽनुचरोऽनुजः । यदेतन्मुनिवर्य त्वं वेत्सिवेद विदांवर ॥४॥ प्राप्तं मे भगवद्रामचर्यामृतमिदं ततः । प्रसन्नाद् हृष्यतोऽत्यन्तमे कान्तसहचारिणः ॥५॥ अभूस्त्वं रावणस्यैव मेरोरपि गिरेर्गुरुः । शक्त्या त्वं वीरघातिन्या वीरशय्यां गतोप्यलम् ॥६॥ मम त्वं पुष्पमालेव सुगन्धिः सुखकोमलः । उन्नयनेऽभवोऽशेष भूमिमारोप्यहो लघुः ॥७॥ सौमित्रे त्वत्कृपा चात्र हेतुर्बुद्धोमयाऽनघ । प्रसन्नोऽवोचदात्मज्ञः कृतज्ञो भक्तवत्सलः ॥८॥ आञ्जनेय महावीर सत्यमुक्तं त्वयात्विदम् । उद्धर्तुं मां महेशोपि नालं तार्क्ष्यसमोपि सन् ॥९॥ शक्यो भक्त्यैव चोन्नेतुमीश्वराणामधीश्वरः । श्रीरामो भगवानादिदेवो विश्वंभरो ध्रुवः ॥१०॥ का कथास्मत्समुत्थानोत्थापनानयनादिषु । यदि त्वं शक्नुयादात्मनाथभक्त्या प्रवृद्धया ॥११॥ वशीकारो महेंद्रस्य प्रीत्युल्लासितसेवनम् । तत्रैव सरसो भक्तिशब्दः शब्दविदांवर ॥१२॥ प्रीत्या परमयासाधो त्वया रामः प्रसाधीतः । आत्यंतिकीप्रिया तस्य सीतापिप्रथितागुणैः ॥१३॥ अंशा एव वयं त्वस्यदासा भृत्याश्च सेवकाः । आज्ञया कृष्यमाणत्वात्स्वतन्त्रा न कदाचन ॥१४॥ तस्मिन् भगवति प्रीते श्रीरामे पुरुषोत्तमे । प्रीता एव वयं सर्वे तस्य प्रीणयितुः परम् ॥१५॥ तत्पूजा नः परा पूजा तत्स्तोत्रं नः परास्तुतिः । तद्भावो नः परो भावो सख्यं तत्सख्यमेव नः ॥१६॥ तत्स्वाम्यं नः परं स्वाम्यं तत्कीर्त्तिर्नः पराप्रथा । तल्लाभो नः परोलाभो हानिस्तद्धानिरेव नः ॥१७॥ आनन्दोऽस्य न आनन्दस्तद्धर्षो नः परा गतिः । तत्तोषो नः परस्तोषः पुष्टिस्तत्पुष्टिरेव सन् ॥१८॥ प्रसादोऽस्य प्रसादो नस्तज्जयो नः परो जयः । तत्सेवा नः परो धर्मस्तदाज्ञानः परा श्रुतिः ॥१६॥ संपदोऽस्य परा संपत्तद्धनं नः परं धनम् । प्रयोजनं परं वीर तत्प्रयोजनमेव नः ॥२०॥ तत्सत्ता नः परा सत्ता तत्स्थित्या नः परास्थितिः । आत्मा नः सर्वथारामः किं विशिष्याऽभिधीयते ॥२१॥ एतत्पदाम्बुजद्वंद्वे निर्द्वंद्वारतिमास्थिता । तेस्माकं बांधवा लोके मित्राणि गुरवोपि च ॥२२॥ त्वं तु तेषां सहस्त्रेभ्यो गुणैः सर्वैर्विशिष्यसे । आद्योदाहरणं धीमन् स्वामी धर्मभृतां गुणैः ॥२३॥ आञ्जनेयत्वया रामः सहायेन कृपाकरः । अवाप महतीं कीर्त्तिं श्रियं सिद्धिं च शाश्वतीम् ॥२४॥ अनुकंप्यः कुतो नासि सर्वेषां नः परन्तप । अष्टाङ्गबुद्धियुक्तश्च महावीर्यो महाबलः ॥२५॥ गणयामस्तवैवेह श्रीरामेमतिमुत्तमाम् । गङ्गाधारामिवांभोधौ तैलधारामिवाचलाम् ॥२६॥ दयमानमनास्त्वेवं मय्यसौ कुम्भसम्भव । विज्ञापितो रहस्यज्ञो लक्ष्मीवाल्लक्ष्मणो मया ॥२७॥ यद्यहं तेदयापात्रं रक्ष्योस्मि सर्वथा त्वया । सौमित्रे मित्रभावेन ततो मामवलोकय ॥२८॥ श्रीरामस्य चरित्राणि दृष्टानि च श्रुतानि च । बहूनि बहुधा तात सुधास्पर्द्धानि सर्वशः ॥२९॥ किन्तु तानि रहस्यानि भुक्तिमुक्तिकराणि च । शत्रूणामपि भोग्यानि वन्धनानि मनीषिणाम् ॥३०॥ श्रुतानिनैव रामस्य दृष्टानि तु कुतो मया । तद्गुणश्रावकैरल्पाद्वानरत्वान्नरोत्तम ॥३१॥ धर्मार्थो च परित्यज्य यानि देवो दिवानिशम् । भुंक्ते तु भूभुवा साकं सुधा यत्र मुधामता ॥३२॥ तानि मे वद कल्याण कल्याणी भारती तव । रहस्यानि रहस्यज्ञ निर्विकारस्य सर्वतः ॥३३॥ रामस्य दक्षिणो वाहुर्दक्षिणो गुणवर्णने । रामस्य गीयसे सर्वैः सांतःपुरजनस्य च ॥३४॥ त्वामाहुर्ऋषयः प्राणं श्रीरामस्य वहिश्वरम् । त्वय्यप्यस्य तु किं गोप्यं वाह्याभ्यन्तरवस्तुसु ॥३५॥ सञ्जीवनी मयानीता जीवनार्थं वनौकसाम् । भवन्नाथास्तयौषध्या जीवितास्ते वनौकसः ॥३६॥ मामुज्जीवय रामस्य चरितामृतवीरुधैः । जीवन् श्रीरामकामाय भविष्यामि पुनः पुनः ॥३७॥ इत्थमर्थितदेवेन लक्ष्मणेन सुलक्ष्मणा । उक्तानि तु रहस्यानि यानि ते न्यगदं मुने ॥३८॥ स्वरूपं परिपृष्टेन परितुष्टेन ते न च । यदन्यद्व्यंजितं तत्र श्रावयेयं मुने परम् ॥३६॥ लक्ष्मणउवाच- सीतादूत महाभाग त्वया पृष्ठोनिशम्यताम् । आस्तिकाग्र्याधियाधीर गोप्याद्गोप्यमिदंहरेः ॥४०॥ आयुर्वेदो धनुर्वेदो गान्धर्वं चार्थदर्शनम् । इतीमानिदशाङ्गानि रथ नामानि यस्य सः ॥४१॥ ज्ञेयो दशरथो वेदः साध्य साधन दर्शनः । यज्ञेसौयज्वनां वंशे इक्ष्वाकूणां महात्मनाम् ॥४२॥ मर्यादापालनायैव लोकानां धर्मवृद्धये । राजात्मना वरीवर्त्ति शक्तित्रयसमन्वितः ॥४३॥ त्रिकाण्डोऽखण्ड रूपार्थो ब्रह्माण्डे शंमुखालयः । शब्दरूपेण विप्राणामास्येषु निवसत्यसौ ॥४४॥ क्रिया ज्ञानं तथोपास्यरिति शक्तित्रयीशितुः । एकैका बहुविस्तारा फलस्फारा प्रमात्मिको ॥४५॥ तासां क्रिया तु कैकेयी सुमित्रोपासनात्मिका । ज्ञान शक्तिश्च कौशल्या वेदो दशरथो नृपः ॥४६॥ क्रियायां कलहो दृष्टो दृष्टा प्रीतिरुपासने । ज्ञानेनात्मसुखं नित्यं दृष्टं निर्हेतु निर्मलम् ॥४७॥ सर्वोधर्मः क्रियाजन्मा स्वर्गादिस्थितिकारणम् । कैकेय्याख्यक्रियायां तु जातोऽयं भरतात्मना ॥४८॥ सर्वेषां जगतां नित्यं धारणाद्भरणाच्च सः । भव्यवस्तुरतत्वाच्च ख्यातोसौ भरताख्यया ॥४९॥ क्रियाकांडस्य शास्तासावैश्वर्यस्यापि शक्तिभृत् । पक्षपाती च धर्माणामधिष्ठाता प्रतिष्ठितः ॥५०॥ सुमित्रारूप शक्त्या तु जनितो लक्ष्मणोऽर्भकः । भक्तः परिजनो दासः सखा सेवादि दैशिकः ॥५१॥ भगवद्रामदेवस्य कल्याणगुणशालिनः । अर्चनीयांघ्रि पद्मस्य दातुश्चानंदसंपदाम् ॥५२॥ सर्वेषां लोककामानां व्यवस्थापकताश्रितः । सर्वेषां रामकामानां नित्यानामपि साधकः ॥५३॥ कामाख्यपुरुषार्थस्य नेता लक्ष्मण उच्यते । भक्तानां पक्षपातीच रामादेशे धृतव्रतः ॥५४॥ शत्रुघ्नो नित्य शत्रुघ्नोरामरामजनावलेः । तयैव जनितो देव्या ममप्राणममोऽनुजः ॥५५॥ अर्थाख्यपुरुषार्थस्याध्यक्षः शिक्षःसुदक्षिणः । श्रीरामभक्तभक्तानां पक्षपाती विचक्षणः ॥५६॥ श्रीरामायुधयूथानां राजा रत्नभुजांवरः । शस्त्रशास्त्रसमूहज्ञो रामप्रेमाविताशुकः ॥५७॥ भरतो नीलरत्नाभः पीतवासा मनोहरः । श्रीरामागारवाद्यानां रोराजरंगमहापटुः ॥५८॥ तडिद्धेमतनुः श्रीमान् कौसुमांवररञ्जनः । रक्तांभोरुहपत्राक्षः कौमारो दुन्दुभिस्वनः ॥५९॥ कर्पूर पूर गौराङ्गो रक्तनेत्रः सितांवरः । लक्ष्मणस्त्वत्समक्षोहं पश्यमां सदयं हरेः ॥६०॥ प्रासादानां च राजाहं सर्वराजशिरोमणेः । सीतापतेर्भगवतो विहारव्यसनादिषु ॥६१॥ इतश्चास्मि वरस्त्रीणां कलाकौशलपेशलः । शुद्धोस्मि सर्वकार्येषु शक्तोप्यस्य मनोनुगः ॥६२॥ सर्वज्ञं सर्वसङ्कल्पसर्वशक्तिसमन्वितम् । तरुणं रूपसम्पन्नं सुकुमारं महाबलम् ॥६३॥ प्रांशुं नीलोत्पलश्यामं द्विभुजं तनुमध्यमम् । रक्तारविन्दनयनं स्निग्धगम्भीर भाषणम् ॥६४॥ कंदर्पकोटिसौंदर्यं सुन्दरीवृन्दकर्षिणम् । पुंसां दृष्टिमनोहारि कान्तमेकान्तभाजनम् ॥६५॥ गन्धर्वराजप्रवरवपुर्वेषविनोदिनम् । पीतांवरं महोरस्कं मुक्तामणिमहाछविम् ॥६६॥ सर्वालंकारकाव्यादिकलाकोशादिपारगम् । सङ्गीतादिप्रणेतारं नित्यानन्दमहोदधिम् ॥६७॥ सर्वाकर्षं सुरस्त्रीणां मुनीनामपि मोहनम् । सर्वेषां सर्वदाह्लादमनीषिणमनातुरम् ॥६८॥ यावत्संख्यायमानानां भोक्तॄणां देशकालयोः । उत्कृष्टं तावतां नित्यं नित्याचिंत्य शरीरिणम् ॥६९॥ लोके रमयतां पुंसामेकमद्वैत धर्मिणम् । कौशल्यासुषुवे यं तु कर्त्तारं जगतां सुतम् ॥७०॥ मोक्षाख्यपुरुषार्थस्य भर्त्तासौ जगतां पतिः । श्रीरामो नाम इत्युक्त ऋषिभिस्त्वेक ईश्वरः ॥७१॥ शृङ्गारस्य रसस्यायं देवता परमा स्मृता । कामिनीनां च सर्वासां कामोन्मादकरो भृशम् ॥७२॥ नायकोऽलौकिको ह्येष प्राकृताऽप्राकृतैर्मतः । तिस्रः कोट्यो भवंस्तस्य गन्धर्वीणाञ्च सुभ्रुवाम् ॥७३॥ रूपयौवनकांत्यादि शालिनीनां मृगीदृशाम् । गीतवादित्र नृत्येषु कोविदानां कलासु च ॥७४॥ रमणं रमयंतीनां कान्तधर्म सुधा जुषाम् । सन्ति सीतासखीत्वेन रामागाररमा इमाः ॥७५॥ दुर्लभाः सुरमुख्यानामपि सर्वांगशोभनाः । भुजिष्याणां सुतन्वीनां श्रीकान्तैकांतचेतसाम् ॥७६॥ सौगन्ध्य सौकुमार्यादिसुधासौंदर्यसम्पदाम् । सीतया त्यक्तवैराणं देवीनां दिव्यकर्मणाम् ॥७७॥ चित्ररूपप्रवीणानामदृश्यानां सुरीष्वपि । नानाविधांगचेष्टाभिर्नाना पांगतरंगितैः ॥७८॥ गाढाश्लेषविधाभेदैर्दिव्यगंधानुलेपनैः । प्रेयांसं प्रीणयंतीनां लज्जाभारतनुभ्रुवाम् ॥७९॥ स्मेरमुखेंदुकांतानां नित्योत्सवभुजां हरेः । मुख्यं सख्यं गतानां च सीताया नर्मकर्मणः ॥८०॥ सहायानां गुणैःस्वीयैः कान्ताह्लादनकर्मसु । अन्यूनानां श्रियों देव्या रूपमाधुर्यमण्डनैः ॥८१॥ रसकेलौ क्षिपंतीनां प्रियं प्रेमाहतात्मनाम् । मत्तानां मधुपानाद्यैः कान्तभोगमहातृषाम् ॥८२॥ मानिनीनां महोन्मादं विश्लेषादिभवद्रुजाम् । विश्लेषाद्यसहिष्यूनां कान्तालापस्खलद्गिराम् ॥८३॥ अन्योन्यस्नेहनद्धानां पराणां प्रकृतेर्विभोः । मञ्जीरनूपुरारावसंलापादिगुणस्तवैः ॥८४॥ मङ्गलानि दधानानां रामागारेषु सर्वतः । पद्मानि सन्ति पद्मानां पत्यूरामस्य वेश्मसु ॥८५॥ नित्यं विलासिनो यस्माद्विलासिन्यस्ततोऽस्य तु । तत्परिचारिकानां तु न संख्या कविना यतः ॥८६॥ तासामासां च नारीणां स्वामिन्येकैव जानकी । देवी सर्वविभूतीनामनन्तानामधीश्वरी ॥८७॥ प्राणेश्वरी जगत्प्राणभूतरामस्य भामिनी । यथा तत्परिचारिण्यो रूपद्रविणसंपदः ॥८८॥ न तथा स्वर्गवासिन्यो देव्योपि श्रुतिमागताः । यूथसो हि विभक्तानां शुद्धानां कुलकर्मभिः ॥८९॥ श्रीराम एक एवासां पतिः पतिव्रताहिताः । द्वेधारामपरीवाराः पुंनारीकृतभेदतः ॥९०॥ दिव्या एकरसाकारा रामाराधनसाधनाः । वाह्यकार्येषु पुरुषा एकाग्रहृदयाः स्थिताः ॥९१॥ आभ्यन्तरेषु कार्येषु सर्वा देव्यो व्यवस्थिताः । यथा प्रियास्तास्तस्य प्राणेभ्योऽपि प्रिया मताः ॥९२॥ तथास्य पुरुषाः सर्वे नात्र भेदोणुरीक्ष्यते । अन्योन्यानन्दसंदोहा अन्योन्यास्याभिलाषिणः ॥९३॥ अन्योन्यदोषरहिता अन्योन्यस्तुति सादराः । नरानार्यश्च रामस्य रामैकप्रेमबन्धनाः ॥९४॥ रामाराधनसंसिद्धाः सिद्धीनामपि सिद्धिदाः । स्यात्सैंधवघनः कृत्स्नो रस एव रसावहः ॥९५॥ रामोऽपि रस एवस्याद्वाह्याभ्यन्तररूपवान् । यत्र चातिशयो दृष्टः परेषां परकर्षणः ॥९६॥ इष्यते सविशेषज्ञैः साध्यत्वं भजते यदि । यत्रानन्दस्य नेयत्ता नित्याविछिन्नरूपिणः ॥९७॥ तस्योत्कर्षापकर्षादिदृष्ट्वेच्छा तत्र किं भवेत् । पत्युः श्रीपादयोः सेवा साम्राज्यैकसुखासया ॥९८॥ भूयते नित्यया तेषां दोषदूरगयापरम् । सर्वाभ्यन्तरकार्येषु प्रेरिणी जनकात्मजा ॥९९॥ तासां स्वामिनी भूता तद्भावामृतवर्षिणी । कान्तोपितन्मुखप्रेक्षीतज्जन्यानन्दनिर्भरः ॥१००॥ प्रेयस्या एव तत्रासौ स्वाम्यं स्थापयतीश्वरः । सर्वेषु वाह्यकृत्येषु स्वामी तेषां प्रवर्त्तकः ॥१०१॥ प्रिया प्रीतिविशुद्धार्थं नानाभावविभावना ॥ सर्वेषु भूपरूपेषु स्वार्थकृत्येषु सर्वशः ॥१०२॥ अन्योन्यं नैव दम्पत्योरिच्छायाः प्रतिकूलनम् । सर्वेषु व्यवहारेषु स्वरूपगुणभूतिषु ॥१०३॥ सामरस्यं तयोः सर्वैरनुभूतं मयापि च । ये दासा दासदासा या दास्यमासां च दासिकाः ॥१०४॥ सीतायाः परया भक्त्या सख्यो याश्च परायणाः । ते च ता अपि रामस्य सर्वाः प्राणसमाः शुभाः ॥१०५॥ तेष्वत्यंतरतिः श्रीमानपि रामो महामनाः । ये वा परिजनो ये च परिचारपरायणाः ॥१०६॥ रामस्य लोकरामस्य विरामस्यापदां सताम् । तेपि सीताकृपापाङ्गसुधाभाजनतांगताः ॥१०७॥ ममैवैता इति प्रज्ञा सीतायास्तेषु वर्त्तते । रामप्रेम्णोधिकं प्रेम येषां सीतापदद्वये ॥१०८॥ ते रामदास्यरसिकाः सदानन्दैकवर्द्धनाः । रामो न सीतयाशून्यः सीता रामं विना नहि ॥१०९॥ अन्योन्यं समवतौ तावन्योन्योत्कर्षकारकौ । शृङ्गाराख्यरसस्यैव रक्षां च स्यादनामयीम् ॥११०॥ स्वरूपैक्ये रसोनस्याद्दाम्पत्यं नु कुतस्तराम् । स्वरूपमेव शृङ्गारो भार्यापि स्वयमेव हि ॥१११॥ येषां तेषां रसोत्पत्तिः कथं वा भोक्तृभोग्यता । स्वरूपस्य समानत्वात्सदा सर्वत्र देहिनाम् ॥११२॥ आनन्दो मैथुनोद्भूतः सुप्राप्यः सर्वतो भवेत् । शृङ्गारे भाववैयर्थ्यं नित्यसिद्धे विशेषिणि ॥११३॥ विशेषेण तु साध्यत्वे स्वरूपे भेद आपतेत् । शृङ्गारस्य विशेषत्वादात्मत्वे कथमस्य तु ॥११४॥ स्यातां दारपती चोभौ तुल्यौ तावजितेन्द्रियौ । न च देहिद्वयेनास्य शृङ्गारस्य जनिर्मता ॥११५॥ नित्यत्वादात्मनो जन्मविरुद्धं कथमिष्यते । पारमार्थिक भेदेन भोक्तृभोग्यस्वरूपयोः ॥११६॥ शृङ्गारसुखसारात्मा नारीसङ्गेन जायते । रसानां रसभावानां भेदोवाधित एव यः ॥११७॥ भोग्यत्वभोक्तृत्वाद्धेतोः स स्याल्लोकप्रमाणकः । भिन्नस्वरूपधर्माणौ सीतारामौ यतस्ततः ॥११८॥ नित्येच्छयोः सुखोत्तुङ्गो रङ्गः स्यात्पष्कलोऽनयोः । सुपास्यः समया चान्यै रामः शृङ्गारचिन्तकैः ॥११९॥ नित्यामृतभुजिस्थानभोगोपकरणाकृतिः । स्त्रीप्रधानोवतारोऽयं श्रृङ्गारोत्कर्षहर्षणः ॥१२०॥ सर्वज्ञोप्य मुधामुग्धो विमुग्धाद्भुतकर्मकः । आशुप्रसाद आर्तानामाश्वभीष्टफलप्रदः ॥१२१॥ भक्तसंश्लेश विश्लेषसुख दुःख स्वभाववान् । भक्तनामेव भोगार्थं विभूतिः परमाः कलाः ॥१२२॥ स्वात्मनश्च गुणांश्चापि विभर्त्येषु रघूत्तमः । मातापितृसहस्त्रेभ्यो वत्सलो दृढसौहृदः ॥१२३॥ कामधेनुसहस्त्रेभ्यश्चिन्तामणिचयादपि । कामदाने महाकल्पः कल्पवृक्षवनादयम् ॥१२४॥ नारी वास्तु नरोवास्तु कामार्त्तः शरणङ्गतः । रक्षितव्यस्वनेनैव व्रतस्यपरिरक्षिता ॥१२५॥ नात्र किं चिद्विरुद्धं वा दिव्यशक्तिगणस्य तु । हनूमंस्त्वं महाप्राज्ञो गान्धर्वांगविशारदः ॥१२६॥ रसज्ञोरसभावज्ञो भक्तिज्ञो भरताग्रजे । स्वरूपज्ञो गुणज्ञस्त्वं विशेषज्ञ उदाहृतः ॥२७॥ आजन्मन्ब्रह्मचारी च सर्वज्ञानवताम्वरः । उक्तं स्वरूपमेतेषां रामादीनां मयाहिते ॥१२८॥ विश्रामं गच्छ भद्रं ते पात्रभूतो रसश्रियाः । इत्थं लक्ष्मणसञ्ज्ञेनकविना ब्रह्मवादिना ॥१२९॥ रहस्यामृतपानेन जीवितोऽस्मि पुनःपुनः । श्रुतंदेवित्वयागौरि सम्वादामृतमादितः ॥१३०॥ इदंरसज्ञहृदयं लक्ष्मणानिलपुत्रयोः । धन्याः शृण्वंति भावज्ञा भक्ताः श्रीरामसीतयोः ॥१३१॥ सम्वादं लक्ष्मणादीनां पुण्यश्रीभाववर्द्धनम् । श्रीपार्वत्युवाच- धन्यास्मि पुण्यपुंजास्मि सभाग्यास्मि महेश्वर ॥१३२॥ कथा शेषं पुनर्ब्रूहि वायुपुत्रमुनिश्रितम् ॥१३३॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले श्रीरामरहस्ये स्वरूपप्रकाशोनामाष्टादशोऽध्यायः १८॥
श्रीशिवउवाच- इत्थं हनुमता रामरासलीलानुवर्णिता । ऋषिणाचाकर्णिता त्वत्कर्णाभरणसङ्गता ॥१॥ अनया रामचन्द्रोऽत्र सीतया सह सुन्दरः । हृद्यवरुद्ध्यते नित्यमानन्दगुणमन्दिरः ॥२॥ श्रीराममन्त्रसारार्थ एष ते विशदीकृतः । भक्ताया रसयुक्ताया विविक्तायातमोगुणात् ॥३॥ रमुक्रीडार्थकोधातु र्घञन्तो मुनिशाब्दकैः । व्युत्पादितो गुणग्रामो राम इत्येकरूपभाक् ॥४॥ रमन्ते रसिका यस्मिन् दिव्यानेकगुणाश्रये । स्वयं यद्रमते तेषु रामस्तेन प्रयुज्यते ॥५॥ विना क्रीडां प्रयुज्येत राम इत्येकसुन्दरः । नैवाचलसुते देवि क्रीडारसमयो हि सः ॥६॥ क्रीडा सम्पद्यते यैस्तु गुणैर्नैकगणैः शुभैः । ज्ञेयोऽस्मिन्सततं राम इत्याहुर्मुनयोऽमलाः ॥७॥ णिजर्थोप्यत्र बोधव्यः शब्द स्वारस्य कारणम् । कर्त्तर्प्यपि ह्यचः प्राप्तौ न किंचिदपि बोधकम् ॥८॥ प्रयोजकः स्वयं चापि कर्तानृत्यादि केलिषु । रामेत्याख्यां प्रयात्येको लोकेषु गुणिनांवरः ॥९॥ सर्वक्रीडाश्रयोरामः सर्वलोकाश्रयोविभुः । सर्वास्वाद्यमयो रामोरामः सर्वमनोरमः ॥१०॥ सर्वदाऽहं रमेरामे गुणग्रामेमनोरमे । सर्वानन्द कदम्बेस्मिन्विरामे परमापदाम् ॥११॥ विष्णोः सर्वेऽवताराये स्वयं विष्णुश्च शाश्वतः । अहं ब्रह्मा च सिद्धाश्च सर्वे ते राममाश्रिताः ॥१२॥ रामादन्यं न रामो सावाश्रितो गिरिनंदिनि । आद्यः कश्चित्परस्तस्मादाश्रयेत्तं स नास्ति सः ॥१३॥ रामइत्येक शब्दोयं मुख्य वृत्याश्रियः प्रिये । गौण्यात्वन्यत्रवर्त्तेत तस्मात्सीताप्रियात्प्रिये ॥१४॥ ज्ञात्वैवं राममंत्रार्थमनोरामे निवेश्यच । राममेव सदाभद्रे जप भक्ति रसाश्रया ॥१५॥ सर्वलोकेश्वरीभूत्वा रामाराधनराधसा । यद्यासने सदातिष्ठ मम पार्वति निर्भया ॥१६॥ आदेशं पार्वतीपत्युरिति सा सिरसाददे । रामं मत्वापरंब्रह्म तन्नामामृतरासना ॥१७॥ उवाच प्रणताशम्भुं जिज्ञासुरपरंपरम् । रहस्यं रामचन्द्रस्य लोककांतस्य पार्वती ॥१८॥ लोकनाथ मुनिध्येय सर्वशास्त्ररहस्यवित् । अतींद्रियगुणग्रामविज्ञानामृतसागर ॥१९॥ कार्यतेरामरासानुकरणं कदलीवने । हनुमतेति यद्वाक्यं तेन मांसंशयोऽजनि ॥२०॥ किमेतस्यफलंकर्त्तुर्वैफल्यं तु कुतूहले । वैफल्यं च कथंतस्य कार्यते यद्धनूमता ॥२१॥ शूराणांकृतविद्यानां बुद्धेः परमुपेयुषाम् । विफले विपरीते वा प्रवृत्तिर्नोपपद्यते ॥२२॥ पूर्वकालकृतं कर्मपारकीयं च यद्भवेत् । वर्तमानं कथं तत्स्यादात्मीयं च भवेत् कथम् ॥२३॥ भवंतंमां च ये भक्ता आश्रिताः फलकाम्यया । ते त्वयारामवैमुख्यात् पापकोटौ निवेशितः ॥२४॥ कोदोषस्त्वयि येन त्वद्भक्तारामपराङ्मुखाः । भवन्ति ममभक्ताश्च केन दोषेण दूषिताः ॥२५॥ एतद्वाक्यं मदास्यात्त्वं श्रुत्वा कर्णविदारणम् । कोपंमाकुरु कल्याण त्वयैवोक्तमिदं पुरा ॥२६॥ आकर्ण्येति प्रिया वाक्यं वाक्यं चाह महेश्वरः । उद्धर्तुं शक्यमेतत्ते हृदिशल्यमिवार्पितम् ॥२७॥ निः शल्यायास्तवोद्धर्तुं वांछामीच्छानुसारिणम् । रामानुकरणानां च मुख्यामुख्य फलादिकम् ॥२८॥ सत्वं रजस्तमश्चेति गुणास्त्रयइमे प्रिये । स्वभावः प्रकृतेरेव न जीवपरयोः पुनः ॥२९॥ त्रयाणां त्रय एवैषामधिष्ठानानि चेश्वराः । उभे विष्णुरहं ब्रह्मा चेत्यमी जगदीश्वराः ॥३०॥ तत्र विष्णुमहायोगी प्रधानपुरुषेश्वरः । सर्वेषामस्मदादीनां स्वामी च प्रकृतेः परः ॥३१॥ शुद्धसत्वप्रधानोसौ सत्वादीनांप्रवर्त्तकः । सत्वेनाश्रीयते लोकेस्थित्यैस्वेच्छानुरूपिणा ॥३२॥ विष्णुना सत्वरूपेण जन्मकाले तु यःपुमान् । दृष्टोभवति सत्वैकतानो राम परायणः ॥३३॥ यथोक्तेन तु येनास्यभक्ताअपि शुभाश्रयाः । सत्वैकनिलयाः सर्वे ह्यूद्धोर्द्धगतिगामिनः ॥३४॥ ब्रह्मणारजसा व्याप्तो दृष्टोभवतिपूरुषः । प्रवृत्तिस्वभावो विष्णोः स्वभावाद्विमुखः सदा ॥३५॥ रजसा व्याप्यते ब्रह्मा लोकस्सृष्टत्वहेतुना । तद्भक्ता अपितेनैव व्याप्यंते रजसा सदा ॥३६॥ मध्यमांगतिमेतेपि याता यास्यन्ति यांति च । गतिर्गुणानुरुपास्यादिति वेदविदोविदुः ॥३७॥ तमसा व्याप्यते रुद्रः सृष्टिसंहारहेतुना । अप्रकाशस्वरूपेण प्रमादादिकृता पुरा ॥३८॥ मद्भक्ता अपि वामोरुतम उद्रिक्तचेतसः । अधोऽधोगतिमायांति निंद्याज्ञानमयीमुमे ॥३९॥ काम क्रोध भयोद्वेगहिंसा मिथ्यादिकर्मणः । मदिरामांस सर्वाशोरामवैमुख्यकारणम् ॥४०॥ तामसी त्वं तु शक्तिर्मे सर्वदा मदिराशना । मांसमैथुन हिंसादि विहाराजनमोहिनी ॥४१॥ तत्तत्कामप्रदानेन मोहयंत्यास्तवापिये । भक्तस्तेऽतीव निष्क्रिया निष्कृपा मदिराप्रियाः ॥४२॥ मांसमैथुन धर्माणः काम्यकर्मपरा हरिम् । निंदंतो रामतद्भक्तान्यांति घोरतराङ्गतिम् ॥४३॥ मिथोगुण विरोधेनविरुध्यंते गुणग्रहाः । स्वां स्वांगतिं प्रपद्यन्ते मुक्तिस्वर्गतमोभिधाम् ॥४४॥ प्रकाशादिगुणैः सत्वं प्रवृत्यादिगुणै रजः । प्रमादादिगुणैर्ज्ञेयं तमोप्यज्ञानकारणम् ॥४५॥ एवंगुणस्वाभावास्ते भूयोभूयोपि वर्णिताः । न चात्रैव तु वक्तव्याः पिष्टपेषणनीतितः ॥४६॥ नहि सर्वेपि मद्भक्तास्तमसा नष्ट चेतसः । भ्रस्यंतेपुरुषार्थाच्च तवभक्ता इवांविके ॥४७॥ रामंदेवं परंब्रह्म भगवन्तं पुरुषोत्तमम् । राममेवपरं प्राप्यं मन्वानाः पुरुषास्तुये ॥४८॥ तद्भक्तिज्ञानदातारमुमे मां समुपाश्रिताः । आचार्यत्वेन सेवन्ते ते तरन्ति भवाम्बुधिम् ॥४९॥ मामेवं परमत्वेन भजंतोऽपि द्विषंति ये । न ते मुक्तिपदं यांति भूतयोनय एव ते ॥५०॥ आचार्यं सर्वदेवानां ब्रह्माणं च भजन्ति ये । रामप्रापक बुद्ध्यो ते मोक्षं यांति सुदुर्लभम् ॥५१॥ शीघ्रं परंतु मुक्तिच्छाभगवंतं पुरुषोत्तमम् । प्राप्नुवंति महात्मानो विलंवेनत्वजार्चकाः ॥५२॥ निर्गुणां भगवद्भक्तिस्तद्भक्ता अपि निर्गुणाः । निर्गुणो भगवान् रामः कल्याणगुणसागरः ॥५३॥ सर्वेच्यवनधर्माणो मद्भक्ता धनभाजनम् । अन्तवत्तु फलंतेषां रामाद्येन वहिर्मुखाः ॥५४॥ येषां रामो प्रियोऽत्यर्थं रामस्य च प्रिया अलम् । त्वत्तोपि नंदिनोपीमे रामादपिप्रिया मम ॥५५॥ सदारामप्रियेष्वेव वर्तेरामकथोत्सुकः । ते मे बंधुतमा ये तु नित्यंरामैकवांधवा ॥५६॥ अहं त्वं च तथा नन्दी भवामो भगवत्यजे । भक्तिमंतस्त्रयोप्येव नान्योस्ति प्रथमेष्वपि ॥५७॥ युवयोस्तम उद्रेकेतिरोधीयेत तद्रतिः । पुनरुद्बोध्येत साहि मया वांहितमिच्छता ॥५८॥ रक्तमांसप्रिया त्वं तु मदिरारसिकाऽनिशम् । मैथुनेकमनादेवि हिंसाकेलिदिगंबरा ॥५९॥ तथैव तवभक्ताश्च मांसमैथुनमद्यपाः । मिथ्यामोह वसा मूढा मानिनः पशुहिंसकाः ॥६०॥ शौचाचार विहीनाश्च भूतप्रेतपिशाचकाः । वेतालाराक्षसायक्षाः क्रूराः सिंदूरचिन्हिताः ॥६१॥ शूद्राश्चाण्डाल गौडाश्च भेदभिल्लाश्चपुस्कशाः । कुविंदाश्चर्मकाराश्च ये चान्ये हीनजातयः ॥६२॥ तेषांत्वंपरमादेवी तमसानां तमःप्रिया । स्वभाव एषतेगौरिदुर्निवार्यो मयापि च ॥६३॥ तत्वं ब्राह्मणजातीनां सात्विकानां तु देवता । वैष्णवानां विशेषेण सत्कर्म निरतात्मनाम् ॥६४॥ मयात्वया च ये दृष्टाः सर्गेतेस्युस्तमोवशाः । त्वन्मदाराधनश्रद्धाविरुद्धाहरि सज्जनैः ॥६५॥ नतेभ्यो रोचते रामो रामायापि नतेखलाः । यमेनैव निहंन्यंते पशुवत्पशु मारकाः ॥६६॥ प्राणाभक्षी कुतोरामे सर्वात्मनिरतिंतु ताम् । लभेत शुद्ध सत्वानां दुर्लभाया सतामपि ॥६७॥ मद्यमांस रतो यस्तु पशु हिंसा परो वृथा । शुद्ध कामो भवेत्सोपि चित्र चित्र तरं त्विदम् ॥६८॥ मद्य मांसादि जन्यानां दोषाणां गिरजे वहु ॥ कीर्त्तना दर्श नाच्छ्रुत्या प्रकृतेर्न विमुच्येता ॥६९॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां पञ्चमपटले श्रीरामरहस्ये सत्वादिगुणस्वभाव प्रकाशो नामैकोनविंशोऽध्यायः १९ ॥
श्रीशिव उवाच-
लीलानुकरणं विष्णोः सर्वपापहरं पुरा ।
भक्तिप्रेमकरं पञ्चाद्रामे श्रीरमणे शिवे ॥१॥
सर्वे सर्वत्र सर्वेश कृतान्येवानुकुर्वते ।
आदि मत्वाद् गुरुत्वाच्च कर्तृत्वादपितस्यवै ॥२॥
यन्नेश्वरकृतं तन्नु केन शंकाविना मुना ॥
कर्तुं त्वभिनवं कर्म तदन्येषु सुरेष्वपि ॥३॥
भुक्तं च भुज्यते तस्य पीतमेवहि पीयते ।
दीयते दत्तमेवास्य गीतमेव च गीयते ॥४॥
यत्कार्यं कृतं तेन सर्वज्ञेन महीयसा ।
तत्तत्कर्तुं नशक्नोमि न च ब्रह्मा न वासवः ॥५॥
यच्छक्यं मधुरं यच्च स्वस्य यच्च हितं प्रियम् ।
तत्कुर्यात्प्रणयात्तस्य भक्तिप्रेमादिवर्द्धनम् ॥६॥
साक्षात्सदाशिवोरामपादपद्ममधुव्रतः ।
महाशम्भुर्हनुमांस्तु तत्कुर्यात्कथमन्यथा ॥७॥
सीतास्नेहर्द्धिकामस्तु वसन्ते कुरुताज्जनः ।
सीतारामोत्सवंपुण्यंमङ्गलं रस वर्षणम् ॥८॥
इच्छन्रामरतिंभक्तः शरद्रास महोत्सवम् ।
करोतु रसकैः सार्द्धं रसिको रसिकाप्रियः ॥९॥
उभयोरुभयत्रैव प्रीतिस्तत्र कृते पुरा ।
भवेद्भक्तिस्तयोश्चापि परमा निश्चला रतिः ॥१०॥
रासस्थानमयोध्यैव धर्मस्थानं सनातनम् ।
मुक्तिस्थानमयोध्यैव भक्तिस्थानंच शाश्वतम् ॥११॥
धर्मस्थानमयोध्याख्यं रङ्गं मुक्तिपदं स्मृतम् ।
द्वारिका भक्ति कृत्स्थानं रसस्थानंतु माथुरम् ॥१२॥
सर्वमेतदयोध्यैव सूक्ष्म दृष्टि समर्पणे ।
तत्राशोकवनं रम्यं रसस्थानंहि केवलम् ॥१३॥
तन्मध्ये जानकीरामौ नित्यं लीलारतौ स्थितो ।
सहितौ वनिता यूथैः शतैरपि मनोहरैः ॥१४॥
अयोध्या नन्दनी सत्या नामा साकेत इत्यपि ।
कोशला राजधानी च ब्रह्मपुरापराजिता ॥१५॥
अष्टचक्रा नवद्वारा नगरो धर्मसम्पदाम् ।
दृष्टैवं ज्ञाननेत्रेण ध्यातव्यासरयूस्तथा ॥१६॥
वृक्ष गुल्मलता यत्र वस्त्ररंभांकुरादिभिः ।
कृत्रिमैश्चंद्र ताराद्यैर्दीपस्तंभैञ्च तोरणैः ॥१७॥
अशोकवनमित्येतत्कल्पयेत् कल्पकोविदः ।
रम्यं मनोहरं यावद्वित्तशाठ्यविवर्जितः ॥१८॥
इयं रासस्थली रम्या रामोस्यां रमणप्रियः ।
रमते रमणीवृंदैःसीतया च समन्वितः ॥१९॥
अशोकवनिका चेयं सर्वर्तुरसपूरिता ।
अस्यां रामप्रिया तेन विहरिष्यति संयुता ॥२०॥
धन्योहं च तयोरत्र शृंगारप्रचुराः शुभाः ।
केलीर्दृक्ष्यामि सानन्दो दुर्दर्शा अपि योगिनाम् ॥२१॥
अत्र रामावरोधञ्च द्रक्ष्याम्यस्य प्रसादतः ।
यो न द्रष्टुं सुरैः शक्योभक्त्या योग्यत्वमापि नः ॥२२॥
एवं स्तुवन्निजं भाग्यं प्रेमानन्दरसाविलः ।
प्रातः प्रपूजयेद्रामं नैवेद्यैर्विविधैर्जनः ॥२३॥
श्यामां सीतां सखीश्चास्याश्चंद्राद्याः प्रीणयेद्भृशम् ।
वैष्णवाराधनं कुर्याद्वैष्णवोत्सवसिद्धये ॥२४॥
सम्पूज्याभ्यर्थयेद्भक्तो रामं रामागणान्वितम् ।
दण्डवत् प्रणमेत्तस्य पुरस्तात्पुलकश्रितः ॥२५॥
रामचन्द्र महाबाहो देवदेव जगत्पते ।
राजीवलोचन श्रीमान् कौशल्यानन्दवर्द्धन ॥२६॥
रसिकेन्द्र जगत्प्राण सीताकान्त महोज्वल ।
लीलावतारवृन्देंद्र लीलाललितलोचन ॥२७॥
अनुकर्त्तुं भवद्रासलीलां मे मन ईहते ।
सत्यसंकल्प तेऽद्यापि लीलैषा जनरंजिनी ॥२८॥
अद्य पूर्णकलश्चन्द्रो रजनी च शितेंदुना ।
रासश्च कुमुदो नाम मधुर्वा मधुराकृते ॥२९॥
प्रफुल्लाशोकवाटीयं कोकिलालिकुलाकुला ।
वापीकूपतडागादिकुमुदा कर मंडिता ॥३०॥
रामा रमयितुं भक्ताः शक्तस्त्वं च मनोहर ।
प्रमदामन्मथव्याधिराजवैद्य कृपानिधे ॥३१॥
रमस्व विहर क्रीड नित्यलीलारसप्रिय ।
प्रदर्शयात्मनश्चेष्टा इष्टामोक्षादितः प्रियाः ॥३२॥
भक्तवत्सल भक्तेश भक्तार्पितफलस्पृह ।
अनुगृहाण नः स्वीया इति मत्वा च किंकरान् ॥३३॥
त्वयि ह्यग्रे रहस्येषु प्रमदामुद आप्तये ।
अमात्याकिंकरा एव तत्र स्युः परसेवकाः ॥३४॥
क्रीडोपकरणं सर्वं माल्यांवररसादिकम् ।
गन्धादि गीतनृत्यादि भक्ष्यभोज्यादि चोत्तमम् ॥३५॥
भवदर्थमवक्लृप्तं तवैवैतन्निषेव्यताम् ।
स्वीयाभिर्वनिताभिस्त्वं सेव्यमानो वने वने ॥३६॥
गीयमानश्च गन्धर्वकन्याकोटिभिरादरात् ।
रामारमयतां श्रेष्ठनामार्थं प्रकटी कुरु ॥३७॥
निमन्त्र्यैवं रमानाथं रामं कामि तदापकम् ।
पूजयेत्काम गायत्र्याध्यायत्कामधिया हरिम् ॥३८॥
सर्वश्रृंगारसर्वस्वमूर्तिं भोक्तारमेकलम् ।
किशोरं कमनीयांगं स्वीकृतार्थितविग्रहम् ॥३९॥
एवमाज्ञां ततो लब्धा रामभक्तान्निमंत्रयेत् ।
परमैकान्तिनस्तस्मिन् रसिकानेव केवलान् ॥४०॥
नाट्यनृत्यकलागीतवाद्यभेदविचक्षणान् ।
शुद्धान्वयांन्सुंदरान् शुद्धान् पीनान्प्रणतान् शुभान् ॥४१॥
समग्रांगान्सुचिन्हांश्च सुवर्णान्मधुरस्वरान् ।
सीतारामपदाम्भोजभ्रमरायितमानसान् ॥४२॥
अलुब्धान् सुशुभाचारान् रसज्ञान्नापि कोविदः ।
भावज्ञानभि नीतज्ञान् रहस्यज्ञान् स्वलंकृतान् ॥४३॥
अन्यान्निमन्त्रयेद्विद्वान् सीतावल्लभ कीर्त्तये ।
जनान्साधून्धनाढ्यांश्च दातॄन् भक्तिमतो बहून् ॥४४॥
आकारयेन्महाभागान् रामदर्शनलालसान् ।
भक्तिकामान् रमारामपादयुग्मे महाव्रतान् ॥४५॥
भोजयेदर्चयेदेतान् रामप्रीत्यर्थमागतान् ।
विभवे सतिरामस्य महापूजां समाचरेत् ॥४६॥
वर्जयेन्म्लेच्छचाण्डालान् भक्तिशून्यान् दुराशयान् ।
हासकान्दूषकांश्चौरान हिंस्त्रान् शूद्रान् मलीमसान् ॥४७॥
शैवान् शाक्तान् खलान् पाखण्डानशुचीन्नरान् ।
मूर्खान् कौतुकिनो धूर्तानन्यदेवरतापि ॥४८॥
दुर्भक्ष्यान्निंदकान् वाह्यान् मद्यमांसरतानपि ।
नास्तिकान् हैतुकान् क्रूरानन्यानपि संत्यजेत् ॥४९॥
नैते योग्याः संप्रवेष्टुं रामैकान्तिककेलिषु ।
अन्यथा कारको भ्रंस्येद्रामकोपेन भक्तितः ॥५०॥
परमैकान्तिनो यत्र पापदोषविर्जिताः ।
गानं भगवतः कुर्य्युः सन्निधत्ते तु यद्धरिः ॥५१॥
द्विजराजकुलोद्भूतं सुरूपं सुमुखादिकम् ।
सुवर्णं शुभगं चारुचेष्टं मधुरभाषिणम् ॥५२॥
दृष्टिचित्तहरं पुंसां शिक्षादक्षं सुलक्षणम् ।
कुमारं वा किशोरं वा रोगदोषविवर्जितम् ॥५३॥
पूजयेद्रामबुद्ध्यैव विहीनं त्वपलक्षणैः ।
यदस्मिन् राघवः स्थित्वा क्रीडिष्यति प्रियायुतः ॥५४॥
तैलेनाभ्यज्जय चूर्णेन समुद्वर्त्य च वारिभिः ।
पवित्रैःस्नापयेद्विद्वान्मंत्रोच्चारणपूर्वकम् ॥५५॥
गव्यैः पञ्चभिः संस्नाप्य तुलसीदर्भमिश्रितैः ।
उष्णेन वारिणा भूयः शीतलेन च मंत्रतः ॥५६॥
पीतांवरं युगं दद्याद्ब्रह्मसूत्रं च सुंदरम् ।
रोचनाकुंकुमाप्तेन कस्तुरीकलितेन च ॥५७॥
तिलकेनाप्यलं कुर्याद्युतिश्रीकेशववेश्मना ।
आचामयेज्जलं शुद्धं रामनामानि कीर्तयन ॥५८॥
श्रीरामं तत्र संध्यायेदात्मानं स्वत एव तम् ।
रामस्य मन्त्रमुन्यादीन्न्यस्येत्तस्य यथोचितम् ॥५९॥
अङ्गेषु चांगदेवांश्च रामोऽस्मीति च भावयन् ।
रामात्मा एष एवेति वेदान्तविदितं मतम् ॥६०॥
धूपयेद्दीपयेत्पश्चाद् भोजयेदमृतं च तम् ।
नीराजनमुखामोदं ताम्बुलादिप्रदाय च ॥६१॥
रामोऽयमिति तं भूयो लालयेन्न तु कोपयेत् ।
तद्द्वाराभगवान् रामः साक्षाद्देवः समीहते ॥६२॥
एवं लक्षणसम्पन्नमपलक्षणवर्जितम् ।
कुमारं जानकीत्येवं सङ्कुर्याद्धि विधानतः ॥६३॥
जानकीमन्त्रमुन्यादीन्न्यस्येत्तस्याः कलेवरे ।
भोजयेल्लालयेत्तद्वद्रामदेवीति तां बुधः ॥६४॥
कुमारा रूपसंपन्ना नृत्यगानविचक्षणाः ।
अपलक्षण शून्या येद्विजा नाशुचयोऽनघाः ॥६५॥
सम्भाव्यास्ते सखीत्वेन जानक्या अनुभावतः ।
भोजिता धूपिताः सम्यक् शिक्षिता स्तोषिता धनैः ॥६६॥
प्रधानाद्द्व्यष्टसंख्याकाः सीतायाः समतां गताः ।
भवन्तिं शतशस्तत्र चंद्राद्याः प्रवराः सताम् ॥६७॥
नवीनैर्जातसंस्कारैश्चित्रैः सूक्ष्मैः सुगंधिभिः ।
वस्त्रैराभरणैर्मुक्ताप्रधानैश्च यथोचितम् ॥६८॥
अलंकुर्वंतु सैरंध्र्यः कुमारी रतिरूपिणीः ।
यथा सीता च रामश्च प्रसीदेत विलोक्यताः ॥६९॥
रामो गन्धर्वराजेन्द्रकुमारालंकरणादिभिः ।
अलङ्कार्य्यौ यथा सर्वमनोहरतमो भवेत् ॥७०॥
प्रवीणोगीतनृत्याद्यै रसपोषणपण्डितः ।
शिक्षितोमृतसंगीतपंडितैः पटुतांडवैः ॥७१॥
सीताऽलङ्करणैः सीतामलङ्कुर्य्युः स्त्रियोवराः ।
चराचरजगन्मोहकारिणी सा यथा भवेत् ॥७२॥
तत्र ये गायका अष्टावष्टौ वाप्युपगायकाः ।
नर्त्तका वादकास्तेषां शिक्षिकाश्च यथेच्छया ॥७३॥
ते सर्वेपि भवन्त्वत्र रक्तांवरविलोचनाः ।
ताम्बूलवदनांभोजाः सालङ्काराः सु भोजिताः ॥७४॥
रङ्गे ते प्रविशंत्वादौ विघ्नवारणपूर्वकम् ।
माङ्गल्यं तत्र कुर्वंतु गानवाद्यानुरंजितम् ॥७५॥
वाद्यं तां काहलाभेर्य्यो मृदङ्गपणवादयः ।
यथा श्रुत्वा जनाः संतु सर्वे हृष्टतनूरुहाः ॥७६॥
ततो रामं च सीतां च कुमारीश्च सखीःसमाः ।
रङ्ग प्रवेशयेद्भक्तः पुष्पाञ्जलिपुरः सरम् ॥७७॥
कीर्य्यमाणाश्च लाजाभिर्मुक्ताकुंकुमपल्लवैः ।
निर्मंच्छनैश्च नारीणां दीपावलिप्रकाशिताः ॥७८॥
वाद्यैर्जयस्वनैः स्तोत्रैः स्तूयमाना सुदान्विताः ।
रामं नीराजयेत्तत्र समासीनं शुभासने ॥७९॥
सीतया सहितं श्यामं सखीगणसमन्वितम् ।
रिरंसुं स्मरकोट्याभं कामिनीकेलिवर्द्धनम् ॥८०॥
ताम्बूलैः पूजयेत्तत्र दिव्यपावनमालया ।
नमस्कारैश्च संप्रेमफलपुष्पधनार्पणैः ॥८१॥
ततः सर्वैर्गुणैस्तत्र युक्तोरासः प्रवर्त्यताम् ।
बाहुबंधैर्मिथः स्त्रीणां प्रकर्तव्यं प्रियेण च ॥८२॥
यथा यथा हि शृङ्गारे रसो वर्द्धेत सिंधुवत् ।
तथा तथा प्रकर्तव्यं सर्वं वेष्टितमद्भुतम् ॥८३॥
गातव्यानि चरित्राणि रसवंति तयोर्द्वयोः ।
छंदः प्रबंधगीतानि नानाभाषाश्रितानि च ॥८४॥
रस भावान्वितं गानं सर्वश्रोत्रमनोहरम् ।
कर्तव्यं कोकिलाकण्ठबालाभी रसवर्द्धनम् ॥८५॥
नृत्यं नानाविधं चापि परमानन्दकारकम् ।
सखीभिस्तत्र कर्तव्यं दंपत्योर्हृदयानुगम् ॥८६॥
न तद्दोषो भवेद्यत्तु रसार्थमपकृष्यते ।
मिथ्याशापैरपि प्रेयान्नायको मदनार्पितः ॥८७॥
मानैरनुनयैश्चेह कलहैः प्रणयाश्रितैः ।
अन्वेषणैर्निलयनैराविर्भावैश्च धावनैः ॥८८॥
नेत्रनिमीलनोन्मेषनामोक्तिपणकल्पनैः ।
मोहाद्यभिनयै रामदर्शनेन च शुभ्रुवाम् ॥८९॥
बालचेष्टानुकारैश्च स्नेहाविष्करणैर्मिथः ।
प्रहेलिभिः प्रहासैश्च गुणानुकथनैर्मिथः ॥९०॥
चाटुभिः पटुभिश्चैव मिथो मुखविलोकनैः ।
नायकं रञ्जयेद्रामं नायिका नायकोप्ययम् ॥९१॥
यथा वर्द्धेत सद्धर्षो निद्रालस्यनिरोधकः ।
वर्त्तितव्यं तथा ताभ्यां नायकाभ्यां मिथो रहः ॥९२॥
ताम्बूलागरुकस्तूरीकर्पूरामोदचंदनैः ।
चामरव्यजनच्छत्रपुष्पनीराजनादिभिः ॥९३॥
निर्मंछनैस्तथा दृष्ट्युत्तारणैरभिसर्पणैः ।
कल्पितैर्विप्रलम्भैश्च प्रीत्यान्योन्यसमागमैः ॥९४॥
आलिंगनैर्मिथोदम्भोपालंभार्ज्जवतर्ज्जनैः ।
वक्रोक्तिभिर्गुणोत्कर्षदर्शनैश्च पलायनैः ॥९५॥
ग्रहणैर्वन्धनैः प्रेमपाशैः पाशविमोचनैः ।
अङ्गुष्ठकम्पनैर्भावव्यंजनैरपि वंचनैः ॥९६॥
प्रतिकूलानुकूलेन शिरः कम्पेन च स्मितैः ।
आज्ञाभ्युपगमैः शाठ्यैर्हठैर्हर्षकरैरपि ॥९७॥
कटाक्षैः करतालैश्च कर्णेजपविकल्पनैः ।
गोपनैर्दर्शनैर्भूयः कल्पितस्य च वस्तुनः ॥९८॥
क्षमापणै रसावेशरोषैरंगाभिदर्शनैः ।
प्रेमाश्रुपातनैस्तूष्णीभावैरात्मनिवेदनैः ॥९९॥
एवं विधाभी रम्याभिश्चेष्टाभिरपि योषितः ।
कल्पिताभिः प्रसिद्धाभि रपीष्टाभी रसाय सः ॥१००॥
आराध्यो सौ सखीभिस्तु दुराराध्योपि दुर्भगैः ।
प्रसीदत्यनुकर्तुभ्यः प्रसन्नोसौ सुरद्रुमः ॥१०१॥
एवमाराधयेयुस्ता नायकं इतिदायकम् ।
नायकोपि निजाभिश्च चेष्टाभिरनुरंजयेत् ॥१०२॥
प्रेमाविष्टैः कृतैरेवं रामारामविचेष्टितैः ।
आत्मीयो हि भवेद्रास एतत्कालकृतोपि च ॥१०३॥
प्रेमानो येन नैव स्युः प्रेमाश्रूणि कृतेन च ।
तेन हृदयदाहेन किंवा ह्यन्यत्फलं भवेत् ॥१०४॥
नित्यं नव्यं हरेः कर्म दिव्यं जन्म च भामिनि ।
यदा यस्यानुसंधानं तदा तस्योदयो भवेत् ॥१०५॥
न कर्म वन्धनं जन्ममरणं च न विद्यते ।
वैष्णवानामपीशानेकुतस्तस्य जगत्पतेः ॥१०६॥
भक्तार्थं जन्मकर्मादि सर्वं स्वीकुरुते हरिः ।
अजोऽव्ययोऽविकारोऽप्यव्यक्तो दिव्यपदे स्थितः ॥१०७॥
न कालनियमस्तस्य जन्मनो जनकर्मणः ।
किन्तु स्वेच्छैव तंत्रं स्यात्तिरोधानोदयादिषु ॥१०८॥
कलावपि कलावेशस्वरूपावेशतः स्वयम् ।
प्रेमावेशवशो रामोभुंक्ते लीलारसाऽमृतम् ॥१०९॥
न भक्तेर्दूरगो रामो भाग्यादर्थो न दूरगः ।
नगुरोर्दूरगा भक्तिर्ज्ञानाच्छांतिर्न दूरगा ॥११०॥
न यागाद् दूरगः स्वर्गः स्वर्गाद्भोगो न दूरगः ।
न कामाद्दूरगं पापं पापान्न निरयःपरः ॥१११॥
भावान्न दूरगा सिद्धिर्भावे सर्वं प्रतिष्ठितम् ।
सोयं रासः स एवायं राम इत्येव भावयन् ॥११२॥
एवमर्च्योपि भगवान्साक्षाद्देवः प्रतिष्ठितः ।
शिलाबुद्धिरनर्थाय धर्मे चाधर्मधीरिव ॥११३॥
एवं ते कथितं गौरि रामानुकरणं परम् ।
परमं पावनं रामप्रेमभक्तिप्रवर्द्धनम् ॥११४॥
रामानुकारको ये तु ये चैषामनुसारकाः ।
उभये तेऽपि रामस्य सखायः परमा मताः ॥११५॥
एतद्गुह्यं परं देवि गोप्यं यत्नेन भामिनि ।
साधुस्वपि विशेषेणासाध्वभक्तदुरात्मसु ॥११६॥
अनुकूलेन योग्येन योषिद्योनिरिवाग्रहात् ।
अभिसेव्या कथाचेयं योनिकोटिसुखप्रदा ॥११७॥
नेति नेति वदन्तींतां मां मामिति वदन्पतिः ।
भुंक्ते भार्यां यथा भक्तस्तथाभुंक्ते कथामिमाम् ॥११८॥
मातुः स्तनद्वयीं बालो भक्तो रामकथापिवन् ।
अन्यइव न दूष्येत तयोस्त एवजीविके ॥११९॥
श्रुत्वा कथामिमां निंदेन्मातुर्योनिमिवाधमः ।
स्वं चान्यरेतसं ब्रूते मातुर्मलसमः खलः ॥१२०॥
देवगुप्तेषु भावेषुहेतुर्देवि निरर्थकः ।
मातुर्योनिं स्ववर्णेन को नु मातुं तु तार्किकः ॥१२१॥
इतीमां पार्वती पत्युः कथां श्रुत्वा मनोहराम् ।
दशाक्षरमनुध्यानपरा रामस्य चास सा ॥१२२॥
रामध्यानप्रभावेण रामनामानुकीर्त्तनैः ।
विमला पार्वती नाम लोकपूज्या हि वर्त्तते ॥१२३॥
पार्वतीशिवरामाणां सीतायाश्च विशेषतः ।
प्रसादं लभतेसद्यः श्रोता वक्ता च कारकः ॥१२४॥
॥ इति नारदपाञ्चरात्रे श्रीशिवसंहितायां निरुक्तलक्षणायामुमामहेश्वरसंवादे पञ्चमपटले श्रीरामरहस्ये रामानुकरण पारमार्थिकतत्व प्रकाशनोनाम विंशोऽध्यायः २०॥