सुभाषितरत्नकोशः/१८ दूतीवचनव्रज्या

विकिस्रोतः तः
Jump to navigation Jump to search
← १७ अनुरागव्रज्या सुभाषितरत्नकोशः
१८ दूतीवचनव्रज्या
विद्याकरः
१९ सम्भोगव्रज्या →

ततो दूतीवचनव्रज्या
लावण्येन पिधीयते ऽङ्गतनिमा संधार्यते जीवितं त्वद्ध्यानैः सततं कुरङ्गकदृशः किं त्व् एतद् आस्ते नवम् /
निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन्मुखं स्पर्धते १८.१ (५३५)
शृङ्गारस्य

सोद्वेगा मृगलाञ्छने मुखम् अपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिताद् अपि गिरं नोन्मुद्रयत्य् आत्मनः /
चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पायुधे बाला सा सुभग त्वयि प्रतिपदं प्रेमाधिकं पुष्यति १८.२ (५३६)
शृङ्गारस्यैतौ

विलिम्पत्य् एतस्मिन् मलयजरसाद्रेण महसा दिशां चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः /
दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः १८.३ (५३७)

अम्भोरुहं वदनम् अम्बकम् इन्दुकान्तः पाथोनिधिः कुसुमचापभृतो विकारः /
प्रादुर्बभूव सुभग त्वयि दूरसंस्थे चण्डालचन्द्रधवलासु निशासु तस्याः १८.४ (५३८)

वक्त्रेन्दोर् न हरन्ति बाष्पपयसां धारा मनोज्ञां श्रियं निश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् /
तस्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी छाया कापि कपोलयोर् अनुदिनं तन्व्याः परं शुष्यति १८.५ (५३९)
धर्मकीर्तेः

तापोम्भःप्रसृतंपचः प्रचयवान् बाष्पः प्रणालोचितः श्वासा नर्तितदीपवर्तिलतिकाः पाण्डिम्नि मग्नं वपुः /
किं चान्यत् कथयामि रात्रिम् अखिलां त्वद्वर्त्मवातायने हस्तच्छत्रनिरुद्धचन्द्रनिरुद्धचन्द्रमहसस् तस्याः स्थितिर् वर्तते १८.६ (५४०)

चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस्ताङुरीः /
कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् तत् काम्या सुभग त्वया वरतनुर् वातूलतां लम्भिता १८.७ (५४१)
राजशेखरस्य

वपुः शारङ्गाक्ष्यास् तद् अविरलरोमाञ्चनिचयं त्वयि स्वप्नावाप्ते स्नपयति परः खेदविसरः /
बलाकर्षत्र्युट्यद्वलयजकडत्कारनिनदैर् विनिद्रायाः पश्चाद् अनवरतबाष्पाम्बुनिवहाः १८.८ (५४२)
वसुकल्पस्य

नो शक्या गदितुं स्मरानलदशा यास्यास् त्वयि प्रस्थिते पत्रैः सास्रसखीजनोपरचिते तल्पे लुठन्त्या मुहुः /
यल् लिप्तं कुचचन्दनेन सुतनोर् अद्यापि चन्द्रच्छलाच् छ्वासोड्डीनविशुष्कपाण्डुबिसिनीपत्रं दिवि भ्राम्यति १८.९ (५४३)
रुद्रस्य

प्रकटयति क्षणभङ्गं पश्यति सर्वं जगद् गतं शून्यम् /
आचरति स्मृतिबाह्यं जाता सा बौद्धबुद्धिर् इव १८.१० (५४४)

त्वदर्थिनी चन्दनभस्मदिग्ध- ललाटलेखाश्रुजलाभिषिक्ता /
मृणालचीरं दधती स्तनाभ्यां स्मरोपदिष्टं चरति व्रतं सा १८.११ (५४५)

ये निर्दहन्ति दशनश्वसितावलोकैः क्रूरं द्विजिह्वकुटिलाः क्व विलासिनस् ते /
भीष्मोष्मभिः स्मरणमात्रविषैस् तवेयम् अव्याल मारयति कापि भुजङ्गभङ्गिः १८.१२ (५४६)

स्वेदापूरविलुप्तकुङ्कुमरसाश्लेषाविलप्रच्छदात् तल्पाद् व्यक्तमनोभवानलशिखालीढाद् इवाशङ्किता /
सा बाला बलवन् मृगाङ्ककिरणैर् उत्पादितान्तर्ज्वरा त्वत्संकल्पजडे त्वदङ्कशयने निद्रासुखं वाञ्छति १८.१३ (५४७)

धूमेनेव हते दृशौ विसृजतो बाष्पं प्रवाहक्षमं क्वाथोत्फेणम् इवात्तचन्दनरसं स्वेदं वपुर् मुञ्चति /
अन्तःप्रज्वलितस्य कामशिखिनो दाहार्जितैर् भस्मभिः श्वासावेगविनिर्गतैर् इव तनोः पाण्डुत्वम् उन्मीलति १८.१४ (५४८)
मनोविनोदस्यैतौ

अत्रैष स्वयम् एव चित्रफलके कम्पस्खलल्लेखया संतापार्तिविनोदनाय कथम् अप्य् आलिख्य सख्या भवान् /
बाष्पव्याकुलम् ईक्षितः सरभसं चूताङ्कुरैर् अर्चितो मूर्ध्ना च प्रणतः सखीषु मदनव्याजेन चापह्नुतः १८.१५ (५४९)
डिम्बोकस्य

सा सुन्दरी तव वियोगहुताशने ऽस्मिन्न् अभ्युक्ष्य बाष्पसलिलैर् निजदेहहव्यम् /
जन्मान्तरे विरहदुःखविनाशकामा पुंस्कोकिलाभिहितिमन्त्रपदैर् जुहोति १८.१६ (५५०)
प्रभाकरस्य

सुभग सुकृतप्राप्यो यद्य् अप्य् असि त्वम् असाव् अपि प्रियसहचरी नाधन्यानाम् उपैति विधेयताम् /
तद् अलम् अधुना निर्बन्धेन प्रसीद परस्परं प्रणयमधुरः सद्भावो वां चिराय विवर्धताम् १८.१७ (५५१)
वाक्कूटस्य

दोलालोलाः श्वसनमरुतश् चक्षुषी निर्झराभे तस्याः शुष्यत्तगरसुमनःपाण्डुरा गण्डभित्तिः /
तद्गात्राणां किम् इव हि वयं ब्रूमहे दुर्बलत्वं येषाम् अग्रे प्रतिपद् उदिता चन्द्रलेखाप्य् अतन्वी १८.१८ (५५२)

तस्यास् तापभुवं नृशंस कथयाम्य् एणीदृशस् ते कथं पद्मिन्याः सरसं दलं विनिहितं यस्याः शमायोरसि /
आदौ शुष्यति संकुचत्य् अनु ततश् चूर्णत्वम् आदद्यते पश्चान् मुर्मुरतां दधद् दहति च श्वासावधूतं सखीम् १८.१९ (५५३)
उत्पलरजास्य

विषं चन्द्रालोकः कुमुदवनवातो हुतवहः क्षतक्षारो हारः स खलु पुटपाको मलयजः /
अये किंचिद्वक्रे त्वयि सुभग सर्वे कथम् अमी समं जातास् तस्याम् अहह विपरीतप्रकृतयः १८.२० (५५४)
अचलसिंहस्य

त्वां चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गनसंवलद्भुजयुगेनात्मानम् आलिङ्गति /
किं चान्यद् विरहव्यथाप्रणयिनी सम्प्राप्य मूर्छां चिरात् प्रत्युज्जीवति कर्णमूलपठितैस् त्वन्नाममन्त्राक्षरैः १८.२१ (५५५)

गाढावधःकृतवलित्रितयौ सुसङ्गौ तुङ्गौ स्तनाव् इति तयोस् तलम् आर्तम् आगात् /
तस्याः स्फुटं हृदयम् इत्य् अपि न स्मरेषूंस् तौ रक्षतः प्रविशतो विमुखो ऽथ वा क्व १८.२२ (५५६)
वल्लणस्य

मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी /
इति तु नियतं नारीरूपः स लोकदृशां प्रियस् तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते १८.२३ (५५७)

पुनर् उक्तावधि वासरम् एतस्याः कितव पश्य गणयन्त्याः /
इयम् इव करजः क्षीणस् त्वम् इव कठोराणि पर्वाणि १८.२४ (५५८)
धरणीधरस्य

इति दूतीवचनव्रज्या