सामग्री पर जाएँ

गर्गसंहिता/खण्डः ४ (माधुर्य खण्ड)/अध्यायः ७

विकिस्रोतः तः

कृष्णकृतमयोध्यागोपीगणानां पाणिपीडनम् -

श्रीनारद उवाच -
अथ दूतः सिन्धुदेशान् माथुरान्पुनरागतः ।
चरन् वृन्दावने कृष्णातीरे कृष्णं ददर्श ह ॥ १ ॥
कृष्णं प्रणम्य रहसि कृताञ्जलिपुटः शनैः ।
प्रदक्षिणीकृत्य दूतो विमलोक्तमुवाच सः ॥ २ ॥
दूत उवाच -
स्वयं परं ब्रह्म परः परेशः
     परैरदृश्यः परिपूर्णदेवः ।
यः पुण्यसंघैः सततं हि दूरः
     तस्मै नमः सज्जनगोचराय ॥ ३ ॥
गोविप्रदेवश्रुतिसाधुधर्म
     रक्षार्थमद्यैव यदोः कुलेऽजः ।
जातोऽसि कंसादिवधाय योऽसौ
     तस्मै नमोऽनंतगुणार्णवाय ॥ ४ ॥
अहो परं भाग्यमलं व्रजौकसां
     धन्यं कुलं नन्दवरस्य ते पितुः ।
धन्यो व्रजौ धन्यमरण्यमेतद्
     यत्रैव साक्षात्प्रकटः परो हरिः ॥ ५ ॥
यद्‌राधिकासुन्दरकण्ठरत्‍नं
     यद्‌गोपिकाजीवनमूलरूपम् ।
तदेव मन्नेत्रपथि प्रजातं
     किं वर्णये भाग्यमतः स्वकीयम् ॥ ६ ॥
गुप्तो व्रजे गोपभिषेण चासि
     कस्तूरिकामोद इव प्रसिद्धः ।
यशश्च ते निर्मलमाशु शुक्ली
     करोति सर्वत्र गतं त्रिलोकीम् ॥ ७ ॥
जानासि सर्वं जनचैत्यभावं
     क्षेत्रज्ञ आत्मा कृतिवृन्दसाक्षी ।
तथापि वक्ष्ये नृपवाक्यमुक्तं
     परं रहस्यं रहसि स्वधर्मम् ॥ ८ ॥
या सिंधुदेशेषु पुरी प्रसिद्धा
     श्रीचम्पका नाम शुभा यथैन्द्री ।
तत्पालकोऽसौ विमलो यथेन्द्रः
     त्वत्पादपद्मे कृतचित्तवृत्तिः ॥ ९ ॥
सदा कृतं यज्ञशतं त्वदर्थं
     दानं तपो ब्राह्मणसेवनं च ।
तीर्थं जपं येन सुसाधनेन
     तस्मै परं दर्शनमेव देहि ॥ १० ॥
तत्कन्यकाः पद्मविशालनेत्राः
     पूर्णं पतिं त्वां मृगयंत्य आरात् ।
सदा त्वदर्थं नियमव्रतस्था-
     स्त्वत्पादसेवाविमलीकृताङ्गाः ॥ ११ ॥
गृहाण तासां व्रजदेव पाणीन्
     दत्वा परं दर्शनमद्‌भुतं स्वम् ।
गच्छाशु सिन्धून् विशदीकुरु त्वं
     विमृश्य कर्तव्यमिदं त्वया हि ॥ १२ ॥
श्रीनारद उवाच -
दूतवाक्यं च तच्छ्रुत्वा प्रसन्नो भगवान्हरिः ।
क्षणमात्रेण गतवान् सदूतश्चम्पकां पुरीम् ॥ १३ ॥
विमलस्य महायज्ञे वेदध्वनिसमाकुले ।
सदूतः कृष्ण आकाशात्सहसाऽवततार ह ॥ १४ ॥
श्रीवत्सांकं घनश्यामं सुन्दरं वनमालिनम् ।
पीतांबरं पद्मनेत्रं यज्ञवाटागतं हरिम् ॥ १५ ॥
तं दृष्ट्वा सहसोत्थाय विमलः प्रेमविह्वलः ।
पपात चरणोपांते रोमांची सन्कृताञ्जलिः ॥ १६ ॥
संस्थाप्य पीठके दिव्ये रत्नृहेमखचित्पदे ।
स्तुत्वा सम्पूज्य विधिवद्‌राजा तत्संमुखे स्थितः ॥ १७ ॥
गवाक्षेभ्यः प्रपश्यन्तीः सुन्दरीर्वीक्ष्य माधवः ।
उवाच विमलं कृष्णो मेघगंभीरया गिरा ॥ १८ ॥
श्रीभगवानुवाच -
महामते वरं ब्रूहि यत्ते मनसि वर्तते ।
याज्ञवल्क्यस्य वचसा जातं मद्दर्शनं तव ॥ १९ ॥
विमल उवाच -
मनो मे भ्रमरीभूतं सदा त्वत्पादपंकजे ।
वासं कुर्याद् देवदेव नान्येच्छा मे कदाचन ॥ २० ॥
श्रीनारद उवाच -
इत्युक्त्वा विमलो राजा सर्वं कोशधनं महत् ।
द्विपवाजिरथैः सार्द्धं चक्रे आत्मनिवेदनम् ॥ २१ ॥
समर्प्य विधिना सर्वाः कन्यका हरये नृप ।
नमश्चकार कृष्णाय विमलो भक्तितत्परः ॥ २२ ॥
तदा जयजयारावो बभूव जनमण्डले ।
ववृषुः पुष्पवर्षाणि देवता गगनस्थिताः ॥ २३ ॥
तदैव कृष्णसारूप्यं प्राप्तोऽनंगस्फुरद्द्युतिः ।
शतसूर्यप्रतीकाशो द्योतयन्मंडलं दिशाम् ॥ २४ ॥
वैनतेयं समारुह्य नत्वा श्रीगरुडध्वजम् ।
सभार्यः पश्यतां नॄणां वैकुण्ठं विमलो ययौ ॥ २५ ॥
दत्वा मुक्तिं नृपतये श्रीकृष्णो भगवान्स्वयम् ।
तत्सुताः सुन्दरीर्नीत्वा व्रजमंडलमाययौ ॥ २६ ॥
तत्र कामवने रम्ये दिव्यमन्दिरसंयुते ।
क्रीडन्त्यः कंदुकैः सर्वाः तस्थुः कृष्णप्रियाः शुभाः ॥ २७ ॥
यावतीश्च प्रिया मुख्याः तावद् रूपधरो हरिः ।
रराज रासे व्रजराड् अञ्जयंस्तन्मनाः प्रभुः ॥ २८ ॥
रासे विमलपुत्रीणां आनन्दजलबिन्दुभिः ।
च्युतैर्विमलकुण्डोऽभूत् तीर्थानां तीर्थमुत्तमम् ॥ २९ ॥
दृष्ट्वा पीत्वा च तं स्नात्वा पूजयित्वा नृपेश्वर ।
छित्वा मेरुसमं पापं गोलोकं याति मानवः ॥ ३० ॥
अयोध्यावासिनीनां तु कथां यः शृणुयान्नरः ।
स व्रजेद्धाम परमं गोलोकं योगिदुर्लभम् ॥ ३१ ॥

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे अयोध्यापुरवासिन्युपाख्यानं नाम सप्तमोऽध्यायः ॥ ७ ॥