गणेशपुराणम्/खण्डः २ (क्रीडाखण्डः)/अध्यायः ०७६

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय ७६ प्रारंभ –
क उवाच ।
वैकुण्ठे सुखमासीनमागतोऽमरसंयुतः ।
हरिर्हरिं नमस्कृत्य निजगाद प्रयोजनम् १
इन्द्र उवाच ।
किं न जानासि गोविन्द सिन्धुदैत्यकृतामिमाम् ।
आपदं नोऽमरावत्यां दुष्टैराक्रमणं कृतम् २
तेन सार्द्धं कृतं युद्धं यथाशक्ति सुरैः सह ।
न स जेतुं क्षमो दैत्योऽतस्त्वां शरणमन्वियाम् ३
न त्वां विना गतिर्नोऽस्ति सर्वदा त्वं गतिर्हि नः ।
निर्दालयैनं नो देहि स्थानानि जगदीश्वर ४
क उवाच ।
श्रुत्वा हरिवचो विष्णुश्चिन्ताश्चर्यसमन्वितः ।
उवाच तं न भीः कार्या प्रविज्येष्येऽसुरं क्षणात् ५
एवमुक्त्वा हृषीकेशो रुरोह निजवाहनम् ।
तदुड्डानेन च तदा चकम्पे भुवनत्रयम् ६
पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः।।
किरीटकुण्डलधरो वनमालावि- भूषितः ७
कस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः ।
शंखचक्रगदापद्महस्तो यातोऽमरावतीम् ८
ज्ञात्वा देवगणान्प्राप्तान्गरुडासनसंयुतान् ।
युद्धायाजग्मुरसुरा नानाशस्त्रधरास्तदा ९
धनुश्चक्रधरो दैत्यः सतूणो हयसंगतः ।
सिन्धुरप्यागतो रोषाद्योद्धुकामो महाबलः2.76.१ ०
ततः कुबेरो वरुणो वायुरग्निः पुरन्दरः।
सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च११
ततोऽभवद् द्वन्द्वयुद्धं सिन्धुदैत्ये पुरः स्थिते ।
प्रचण्डो वरूणेनाजौ कमलेन च यक्षराट् १२
वृत्रेण शतयज्वा च निशुम्भः पवनेन च ।
शुम्भोऽपि युयुधे तत्र विष्णुना प्रभविष्णुना १३
वह्निश्चण्डेन मुण्डेन सोमश्च युयुधे भृशम् ।
कदम्बेन च भौमश्च मदनेन च शम्बरः १४
नासत्यौ कालदैत्येन सर्व एव च सैनिकाः।
शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत १५
केचिद्युयुधिरे मल्ललीलया युद्धदुर्मदाः
परस्परं शस्त्रघातैः केचित्तत्र प्रपेदिरे १६
मृता मुमूषंवः केचिद्व्यंगाश्चैव वल्गिरे ।
जयं पराजयं तेन प्रापुः क्वचित्कमेव च १७
ततो वृत्रासुरः शक्रमहनन्मुष्टिघाततः ।
मस्तकं मस्तकेनैव निजघ्नतुरथौजसा १८
एवं हस्तेन हस्तं च पादं पादेन जघ्नतु ।
वक्षःस्थलेन वक्षश्च ततो वज्रेण सोऽहनत् १९
जघान वृत्र शक्रं तं सोऽपतन्मूर्छितो भुवि ।
यावत्पलायति पुरो वमन्रक्तं मुखाद्बहु 2.76.२०
ततः पपात भूपृष्ठे हतो मूर्छा गतो भृशम् ।
पुनः संज्ञामवाप्यैव वज्रकल्पेन मुष्टिना २१
जघान वृत्रः शक्रं तं सोऽपत- न्मूर्च्छितो भुवि ।
यावत्पलायति सुरो वमन्रक्तं मुखाद्बहु ।
तावद्दैत्या योद्धुकामाः समीयुः सर्वतोदिशम् ।
दृष्टवा पराक्रमं तेषां मघवान्तर्दधे तदा २२
एवं ये ये द्वन्द्वयुद्धं कुर्वन्तो देवतागणाः ।
ते सर्वे भग्नदर्पास्तु पलायनमकुर्वत २३
एवं देवेषु भग्नेषु गरुडं प्राहिणोद्धरिः ।
चक्रदीप्त्या स्वदीप्त्या च भासयन्विदिशो दिश २४
अहनच्चक्रधाराभिर्देत्यश्रेणीरनेकश ।
केचिद्भग्नानना दैत्या केचिद्भग्नशिरोधरा २५
केचिच्च शतधा जाता शीर्णजानूरुबाहव ।
केचिच्च शरणं याता न ममार जनार्दनः २६
सर्वे महाबला दैत्या मुक्तिं हरिहता गता. ।
मेदोमांसवहा नद्यः सद्यस्तत्र प्रवर्तिताः २७
ततः शंखनिनादेन हरि सर्वं व्यनादयत् ।
एवं जयति गोविंदे सर्वे शुम्भादयोऽसुराः २८
तमेव योद्धुमायाता द्वन्द्वयुद्धं विहाय तत् ।
विराड्रूपेण भगवान्धृत्वा तांश्चतुरोऽसुरान् २९
भिण्डिपालेन पाषाणं यथा क्षिपति मानवः ।
तथा चण्डं च मुण्डं च निशुम्भं शुम्भमेव च 2.76.३०
भ्रामयित्वाऽक्षिपद्दूरे मध्ये कृत्वा सरिद्वराम् ।
ते मूर्च्छां परिभूयैव पुनश्च वाहिनीं गताः ३१
हृदि प्रचण्डं पृष्ठे तु वृत्रं मुष्टिप्रहारतः ।
जघान हरिरव्यग्रः कालं कमलमेव च ३२
भौमासुरं च शिरसि कदम्बं चक्रघाततः ।
कोलासुरं च गदया विव्याध हृदि माधवः ३३
ततः सिन्धुरगात्तूर्णं कृतकोलाहलारवः ।
दिगन्तान्नादयन्प्रोचे बलं ते दर्शितं हरे ३४
ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि ।
न मे दृष्टिगतो जीवन् रिपुर्याति कदाचन ३५
भूतभव्यभविष्यज्ञ किं पूर्वं न विचारितम् ।
यस्य शब्देन च भृशं कम्पते भुवनत्रयम् ३६
तत्पुरः कथमायातः खद्योत इव भूषणम् ।
ततोऽमरगणाः प्रोचुर्वल्गन्तं सिन्धुदैत्यपम् ३७
शूरा न हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् ।
अस्माकं न हरेराज्ञा नो चेत्त्वं शतधा भवेः ३८ (३४०१)
इति श्रीगणेशपुराणे क्रीडाखण्डे षट्सप्ततितमोऽध्यायः ।।७६।।