गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०२६-०३०

विकिस्रोतः तः
← अध्यायाः २१-२५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः २६-३०
[[लेखकः :|]]
अध्यायाः ३१-३५ →


अध्याय २६ प्रारंभ –
मुनिरुवाच ।
किं कर्म कृतवान् व्याधः कथं पत्रं समर्पितम् ।
किं नामास कथं प्राप्तः सालोक्यं तद्वदस्व मे ॥१॥
क उवाच ।
विदर्भदेशे नगर महिषाख्यं बभूव ह ।
विख्यातं त्रिषु लोकेषु कुबेर नगरोपमम् ॥२॥
भीमो नामाभवद् व्याधो नगरे मांसविक्रयी।
परेषां दोषकथने दोषो यद्यपि वर्तते ॥३॥
प्रश्ने कृते तु वक्तव्यो याथातथ्यान्न मत्सरात् ।
स भीमो दोषबहुलो बाणकोदंडवान्वने ॥४॥
शरपूर्णेषुधी खड्गी चापं बिभ्रच्च शस्त्रिकाम् ।
अवधीत् प्राणिनो नित्यं कुटुम्बभरणे रतः ॥५॥
पथिकान्ब्राह्मणांश्चापि निर्दयो निर्जने वने।
कदाचिन्नगरे तस्मिन् समारब्धो महोत्सवः ॥६॥
प्रातरेव वनं यातो बहुमांसजिघृक्षया ।
विक्रयेच्छुर्द्रव्यलुब्धो कुटुम्बस्यापि पोषकः ॥७॥
जघान मृगयूथास्तान्मांसभारयुतः पुरम् ।
यावत्प्रविशते तावदागतो राक्षसो महान् ॥८॥
मनुष्यगन्धहृष्टोऽसौ ययौ तस्यान्तिकं क्षणात् ।
पिंगाक्षो नामतः पिंगनेत्रः सर्वभयंकरः ॥९॥
मनुष्यश्वापदाशी स दुष्पूर इव हव्यभुक् ।
चकम्पे स च तं दृष्ट्वा व्याधो भूमावथापतत् ॥२.२६.१०॥
पतितानि च शस्त्राणि नेत्रेऽप्याच्छादिते बलात् ।
उन्मील्य नयनेऽपश्यच्छमीवृक्षं समीपतः॥११॥
आरुरोह च भीमस्तं राक्षसोऽपि समारुहत् ।
तावच्चिक्षेप शाखां स तत्त्पत्रं वायुनेरितम्॥१२॥
पपात गणनाथस्य वामनास्थापितस्य ह।
मस्तके तेन तुष्टोऽसावुभाभ्यां पूजितः स्फुटम्॥१३॥
वामनाय वरान्दातुं स्फुटो योभूद् गजाननः ।
बलिं विजेतुकामाय कश्यपस्यात्मजाय सः ॥१४॥
अत्यन्तं तुष्यते देवो दूर्वया च शमीदलैः।
रत्नकांचनसंयुक्ता दिव्यवस्त्रसमन्विता॥१५॥
दूर्वांकुरविना पूजा निष्फला जायते नृणाम् ।
शमीपत्रेण वा सा स्यात्सफला नान्यथा क्वचित् ॥१६॥
यज्ञदानव्रतैरन्यैस्तपोभिर्नियमैरपि ।
तथा न प्रीयते देवः कांचनै रत्नसंचयैः ॥१७॥
दूर्वाभिश्च शमीपत्रैर्यथा सुप्रीयते विभुः ।
तयोस्तुष्टो देवदेवः प्रेषयद्यानमुत्तमम् ॥१८॥
स्वरूपधारिभिर्युक्तं किंकरैर्निजलोकतः।
तेषां निरीक्षणान्नष्टाः पापपर्वतराशयः ॥१९॥
कृपया च गणेशस्य तयो राक्षसभीमयोः ।
यथाग्निकणसम्पर्कान्नश्यन्ते तृणपर्वताः ॥२.२६.२०॥
व्यक्त्वा देहो दिव्यदेहौ गृहीत्वा यानमास्थितौ ।
दूतैः सम्पूजितौ नानावस्त्रभूषाविलेपनैः ॥२१॥
नानावादित्र निर्घोषैः स्त्रीगन्धर्वैयुतं महत्।
नीतौ तौ देवनिकटे नेमतुस्तौ विनायकम् ॥२२॥
अशेष पाप निर्मुक्तौ प्रापतुस्तौ सरूपताम् ।
आकल्पं स्थापितौ तेन गणेशेन निजस्थले ॥२३॥
एवं भावप्रियो देवः प्रीयते भक्तिभावतः ।
तथैव मुष्टिमात्रान्नात्सन्तुष्टोऽयं द्विजस्य सः।
शुक्लस्य प्रददौ दिव्यमलकासदृशं गृहम् ॥२४॥
तस्माद्दूर्वा शमीपत्रैर्विना पूजा वृथा भवेत् ।
न महत्या दाम्भिकया पूजया प्रीयते तथा ॥२५॥
भक्तिभावेन कृतया स्वल्पयाऽसौ गजाननः ॥२६॥ (११९८)
इति श्रीगणेशपुराणे क्रीडाखंडे भीमराक्षसमोक्षणं नाम षड्विंशतितमोऽध्यायः ॥२६॥

अध्याय २७
व्यास उवाच ।
पूर्वजन्मनि व्याधोऽसौ क आसीद्राक्षसोःपि सः ।
किं शीलं किंसमाचार स्तन्म- माचक्ष्व नाभिज ।। १ ।।
अनुष्ठानं कृतं तेन वामनेन कथं प्रभो।
कथं तस्मै वरो दत्तो गजाननस्वरुपिणा ।।२।।
लोको गणेशस्य कथं पृथगन्यत्र तिष्ठति ।
कथं शमी प्रिया तस्य सर्वमेतद्वदाशु मे ।। ३ ।।
क उवाच ।
शृणु वक्ष्यामि ते सर्वं यद्यत्पृष्टं त्वया मुने ।
राजाऽसीत्पूर्वजनुषि स व्याधो वेदपारगः ।।४।।
सर्व शास्त्रप्रवक्ता च सर्वलक्षणलक्षितः ।
यज्वा विनीतो ह्रीमांश्च देवतातिथिपूजकः ।।५। ।
गजाश्वरथपत्तीनां संख्या यस्य न विद्यते ।
दाता शुरश्च मेधावी समृद्धो मघवानिव ।।६।।
ध्वजश्च शत्रुजिद्यस्य प्रधानौ बुद्धिमत्तरौ ।
यतोऽधरीकृतः काव्यो गिरां पतिरपि स्फुटम् ।।७।।
यौ तौ क्षितितले जेतुं समर्थौ शस्त्रतेजसा ।
पत्नी सुलक्षणास्यासीन्नाम्ना च मदनावती ।।८।।
पतिव्रता धर्मशीला सुमुखी सर्ववेदिनी ।
न तया सदृशी काचित्त्रिषु लोकेषु कामिनी ।।९।।
दीनानाथवृद्धजने कृपालुरतिथिष्वपि ।
यजतोर्ददतोरेव रतयोः पूजने सताम् ।। 2.27.१ ०।।
तयोर्वृत्तेन तुतुषुः पौरा जानपदा जनाः ।
अमित्रा अपि गृह्णन्ति षड्गुणान् साधुसंमतान् ।। ११ ।।
एवं स पुष्यकीर्तिः संशशास पृथिवीमिमाम् ।
बहुसंवत्सरं दैवात्कालधर्ममुपेयिवान् ।। १ २।।
मरिष्यमाणश्चक्रेऽसौ गोसहस्रं यथाविधि ।
महादानान्यपि ददौ दशाष्टौ चेत- राणि च ।। १ ३।।
मृतेऽस्मिन्नगरी सर्वा शुशोच नृपतिं तदा ।
अपुत्रत्वात्सहैवास्य पत्नी सहगतिं ययौ ।। १४।।
मन्त्रिणौ सर्व संस्कारान्कारयामासतुर्द्विजैः ।
एकादशाहे दददुर्नाना दानानि भक्तितः ।। १५।।
गते मासे मत्त्रयतो राज्याहं कुलजं नरम् ।
धीमन्तं सत्वसम्पन्नं शूरं सत्यपराक्रमम् ।। १ ६।।
दुर्धर्षस्य सुतं तस्य दायादस्य महाबलम् ।
क्षेत्रजं साम्यनामानं राज्ञाशिष्टं च तावुभौ ।। १७।।
अमात्यौ निश्चयं कृत्वा राज्यं दातुं तु तस्य ह ।
पौरजानपदान् सर्वान् ब्राह्मणान् परिपृच्छ च ।। १८।।
शुभे मुहूर्ते लग्ने च नाना सम्भार संचयैः ।
कारयामासतुरुभावभिषेकं द्विजैः सह ।। १ ९।।
मुनिरुवाच ।
कथं क्षेत्रात् समुत्पन्नः किंजातीयः पितामह ।
स साम्बस्तन्ममाचक्ष्व सवंज्ञोऽसि कृपानिधे ।।2.27.२ ०।।
क उवाच ।
दुर्धर्षेण कृता यत्नाः पुत्रार्थं बहुधा मुने ।
न च जातः सुपुत्रोऽस्य दुष्टदैवयुतस्य ह ।।२ १ ।।
तस्य पत्न्या प्रमदया कैवर्तासक्त चित्तया ।
जनितः सुमुहूर्ते स न ज्ञातो जारजस्त्विति ।।२२।।
यावन्ति राजचिह्नानि तावन्ति ददतुश्च तौ ।
निवेद्य कोशसहितं सर्वं राज्यं सराष्ट्रकम् ।।२३।।
अमात्य पदनिष्टौ तौ जातावास्तां यथा पुरा ।
स राज्यं प्राप्य दुर्द्धर्षसुतो मत्तः श्रियाऽभवत् ।।२४।।
स्त्रीमांसमदिरासक्तो मत्तो गज इवालसः ।
दुराचाररतो नित्यं नयमार्ग पराङमुखः ।।२५ ।।
आदाय धनिनां सर्व धनं तान्निरवासयत् ।
अपमानं चकाराशु ब्राह्मणानां सतामपि ।।२ ६।।
बहिश्चकार तान् सर्वान् वृत्तिमाच्छिद्य सान्ततिम् ।
शिष्टः स्म प्रकृती नीतिं न तद्वाक्यं समाददे ।।२७।।
वारंवारं यदा तौ तं शिष्टऽ स्म करुणायुतौ ।
अमात्यौ स बबन्धाशु निगडाभ्यां रुषान्वितः ।।२८।।
शिक्षापयन्तौ पितरौ तस्य तं दुर्हृदं सुतम् ।
यत् प्रसादात् त्वया प्राप्तं राज्यं निहतकंटकम् ।।२ ९।।
विनिग्रहं कथं साध्योस्तयोस्त्वं कुरुषे खल ।
अनादृत्य तु तद्वाक्यं पीयूषमिव पामर ।।2.27.३०।।
शृंखलाभ्यां निबद्धौ तौ कारागारेऽध्यवासयत् ।
अतिदुष्टो दुष्टबुद्धिनामाऽभूत्तत् सखाऽनिशम् ।।३ १।।
तमेव सचिवं चक्रे दत्त्वाऽश्वं कांचनं गजम् ।
रत्नानि दिव्यवासांसि रांक्वास्तरणानि च ।।३२।।
दासी दासान् असंख्यातान् पानान्यन्नं च नारिकम ।
न करोत्यस्य वाक्यं यस्तस्य छेत्स्ये शिरो बलात् ।।३३।।
इत्युक्त्वा सर्वलोकेषु साम्बोऽन्तःपुरमाययौ ।।३४।। (१२३२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते सप्तविंशतितमोऽध्यायः ।।२७।।


अध्याय २८ प्रारंभ –
क उवाच ।
स राजकार्यं कुरुते स्वयं भुंक्ते वरस्त्रियः ।
राष्ट्रे शृणोति रामांसोऽपति वा सपतिं तथा ।। १।।
बलादानयते भोक्तुं क्रन्दतां रुदनामपि ।
न वा गणयते ज्ञातिभेदं विषयलम्पटः ।।२।।
या चोन्नतकुचा नारी तस्य दृष्टिपथं गता ।
तामालिंग्यत्यसौ कामी चुम्बतीमांयमत्यपि ।।३।।
परद्रव्याणि गृह्णाति स्त्रियोऽपि स बलात् पुनः ।
सोऽपि तादृग्गुणो मन्त्री दुष्टबुद्धिपथे रत ।।४।।
एवं दुराचाररतौ न कन्यां न च मातरम् ।
न वर्जयन्तः सम्भोगे भगिनीमपि निर्घृणो ।।५।।
न ब्रह्महत्यां मनुतो न स्त्रीबालवधं तथा ।
एवं पापसमाचारौ पामस्य पर्वताविव ।।६।।
आस्तामुभो दुष्टबुद्धी राजामात्यौ सुदुःसहौ ।
न ब्राह्मणो यतिर्वापि तद्गृहे याति भिक्षितुम् ।।७।।
न राष्ट्रे नाम तस्यापि गृह्णाति प्रकृतेरपि ।
एकदा मृगयार्थं तौ यातः स्म गहनं वनम् ।।८।।
घ्नतः स्म मृगयूथानि पक्षियूथान्यनेकशः ।
तानि प्रापय्य नगरमश्वारूढो स्वयं पुनः ।।९।।
वैनायकं महास्थानं पथि तौ पश्यतः स्म ह ।
यस्मिन् विराजिते मूर्तिर्जीणा वैनायकी शुभा ।। 2.28.१ ०।।
स्थापिता रामपित्रा सा पुत्रार्थं कुर्वता तपः ।
भक्त्या साक्षात्करो यत्र देवदेवो विनायकः ।।१ १।।
दशाक्षरेण मन्त्रेण ध्यायता बहु वासरम् ।
दत्त्वा तस्मै वरान् देवो विधते वांछितानपि ।१२।।
ततो वसिष्ठहस्तेन तेनेयं स्थापिता दृढा ।
वरदेति च नामास्या वसिष्ठेन कृतं ततः।
अस्य दर्शनतो नृणां पुरूषार्थाश्चतुर्विधः ।
स्मरणात् पूजनाद्वापि सेत्स्यते नात्र संशयः ।। १३।।
एवं वसिष्ठवाक्येन स्थानं तद्भुवि पप्रथे ।
गणेशभजनेनास्य स्मरणेनार्चनेन च ।। १४।।
रामलक्ष्मणभरतः शत्रुघ्नसहिताः सुताः ।
जाता लोकेषु विख्याताः सर्वज्ञाः शूरसंमतः ।। १५।।
एवं दृष्ट्वा महारम्यं प्रासादं राजनिर्मितम् ।
उत्तरे तुरश्वपृष्टाद्राजामात्यौ पुपूजतुः ।। १६।।
पत्रैः पुष्पैर्नेमतुस्तं सर्वपापाहरं विभुम् ।
प्रदक्षिणी कृत्य विभुमीयतुः क्षणमात्रतः ।।१७।।
एतदेव परं पुण्यं दैवाज्जातं तयोस्तदा ।
एवं पापसमाचारौ राज्यं कृत्वाऽथ ममृतुः ।। १८।।
बध्वा पाशैर्याम्यदूतैर्नीतौ तौ शमनान्तिकम् ।
चित्रगुप्तं समाहूय पप्रच्छ स शुभाशुभम् ।। १९।।
तेनोक्तं न तयोरस्ति पुण्यलेशो रवेः सुत ।
पापानां गणना नास्ति दूतांश्चैवेदमब्रवीत् ।।2.28.२ ०।।
बध्यतां बध्यतामेतौ लोहदंडेन पात्यताम् ।
कुंडे वीचिमये पंक्ति सहस्रपरिवत्सरान् ।।२१।।
एकं- कस्मिन् क्रमेणैतौ कुंडे भुक्त्वाऽघसंचयान् ।
क्षिप्यतां मृत्युलोके च नीचयोनि गतावुभौ ।।२२।।
अनयोः पुण्यलेशोऽस्ति दूताः शृणुत तत्कृतिम् ।
प्रसंगादर्चितो दृष्टो देव आभ्यां गजाननः ।।२३।।
तेन पुण्येन सोऽप्येता वुद्धरिष्यती तत्र वै ।
एवमाकर्ण्य तद्वाक्यं दूतैर्बद्धौ हतौ दृढम् ।।२४।।
कुम्भीपाके शोणितोदे निरये रौरवेऽपि तौ ।
निक्षिप्तौ कालकूटे च क्रमशः शतवत्सरान् ।।२५।।
तामिस्रे चान्धतामिस्रे पूयशोणित कर्दमे ।
कंटके तु क्षतांगौ तौ संतप्ता तप्तवालुके ।।२६।।
विक्षतौ कृमिभिस्तत्र भृशं सूचीमुखैरुभौ ।
असिपत्रवने घोरे ततो नीतावुभावपि ।।२७।।
यत्र शस्त्राभि घातेन वर्ष्म भिद्यति तापिनाम् ।
ततस्तप्तशिलायां तौ निष्पिष्टौ घनघाततः ।।२८।।
भुंजंतौ नरकानेकविंशतिं बहुवासरम् ।
न दुःखं शक्यते वक्तुं शेषेणाशेषतस्तयोः ।।२९।।
एवं कृति सहस्त्राणि भुक्त्वा भोगाननेकशः ।
निस्तीर्णभोगौ तौ पापशेषेण भुवमागतौ ।।2.28.३ ०।।
एको जातः काकयोनौ कौशिकोऽभूत्परोऽपि च ।
तत एको दर्दुरोऽभूदपरः सरटोऽभवत् ।।३ १।।
तत एको विषधरोऽपरोऽभूद् वृश्चिकोऽपि च ।
तत्रापि कुर्वतः पापं नानालोकान्विदंशतः ।।३२।।
श्वमार्जारयोर्योनौ जातौ नकुल सूकरौ ।
वृकजम्बूकयोर्योनौ जातौ घोटकगर्दभौ ।।३३।।
तत उष्ट्र गजौ जातौ ततो नक्र महाझषौ ।
ततो व्याघ्रमृगौ जातौ ततो वृषभ माहिषौ ।।३४।।
एवं नानायोनिगतौ जातौ चांडालकीटकौ ।
राक्षसीभिल्लयोर्योनौ ततश्चान्ते समीयतुः ।।३५।।
पिंगाक्षो दुर्बुद्धिरिति नाम्ना ख्यातौ च भूतले ।
आजन्मकृतपापस्य कथ्यते बहुदोषता ।।३६।।
यदा तौ राजप्रकृती आस्तां पापरतो पुरा ।
एकं पुण्यं तयोरासीन् मृगयायां प्रसर्पतोः ।।३७।।
विनायकस्य नमनं दर्शनं च प्रदक्षिणा ।
अर्चनं फलपुष्पाद्यैस्तुष्ट आसीद् गजाननः ।।३८।।
अगाधं तत्तयोः पुण्यमासीत्तज्जन्म संचितम् ।
यदा पुरा राक्षसोऽसौ भीमं भक्षितुमागतः ।।३९।।
स आरूढः शमीवृक्षं तत्पत्राणि च मस्तके ।
पतितानि गणेशस्य तुष्टोऽभूत्स द्वयोरपि ।।2.28.४०।।
दिव्यदेहं तयोर्दत्त्वा स्वर्लोकं प्राप्रयद्विभुः ।
एतत्ते कथितं पूर्व जन्मकर्म मया तयोः ।।४१।।
शमीपत्रार्चनादेव तुष्टोऽभूत्स गजाननः ।
यथाऽयं स्थापितस्तेन वामनेन तदप्यहम्।।४२।।
कथयामि मुने सर्वं तदनुष्ठानमेव च ।
यथा च गणनाथोऽस्य प्रसन्नो वरदो भवत् ।।४३।। ( १२७५)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते भीमराक्षसयोर्जन्मवर्णनं नामाष्टाविंशतितमोऽध्यायः ।।२८।।

अध्याय २९ प्रारंभ :-
क उवाच ॥
मयाज्ञप्तः कश्यपोऽसौ सृष्टिं नानाविधां कुरु ।
सविनीतो महाज्ञानी भूतभविष्यवित् ॥१॥
अतिवैश्वानररवितेजाः सुतपसां निधिः ।
सृष्टिसामर्थ्यसंप्राप्तौ तताप सुमहत्तपः ॥२॥
षडक्षरेण मन्त्रेण ध्यात्वा देवं गजाननम् ।
दिव्यवर्षसहस्रान्ते स देवो वरदोऽभवत् ॥३॥
ईप्सितानस्य सर्वान्स ददौ नानावराञ्शुभान् ।
ततोऽसौ मनसा यद्यदकल्पयत लाघवात् ॥४॥
तत्तदग्रे पश्यति स्म वरदानप्रभावतः ।
चतुर्दशसु पत्नीषु ऋतुदानादनेकधा ॥५॥
चकार तेजसा सर्वं जगत्स्थावरजङ्गमम् ।
तासु श्रेष्ठे च द्वे पत्न्यौ दित्यदितीति नामतः ॥६॥
अदित्याऽपि तपस्तप्तं विष्णुप्रीणनहेतवे ।
संवत्सराणामयुतं ततस्तुष्टो जनार्दनः ॥७॥
जगत्याः पालनायासौ धर्मसंस्थापनाय च ।
शक्रादितत्सुतानां च दुष्टानां निग्रहाय च ॥८॥
पुत्रतामगमत्तस्यास्तया पूर्वं प्रसादितः ।
अथ सा स्वामिनं प्राह दितिर्होमाय सादरम्॥९॥
ऋतुं मे देहि भगवन्बाधते मदनानलः ।
इत्याकर्ण्य वचस्तस्या मुनिस्तां प्राह सादरम् ॥२.२९.१०॥
अयं कालो घोररूपो होमकाल उपस्थितः।
क्षणमाचर धैर्यं त्वं पश्चाद्रंस्ये त्वया सह ॥११॥
अस्मिन्काले भवेद्दुष्टमपत्यं देवधर्मध्रुक् ।
इति स्वामिवचः श्रुत्वा हस्ते धृत्वा ननाम तम् ॥१२॥
उवाच रक्तनयना दग्धुकामा जगत्त्रयम् ।
इदानीमेव मे वाञ्छा न कृता चेत्त्वया मुने ॥१३॥
देहत्यागं करिष्यामि विह्वला मदनाग्निना ।।
यथा तथास्थां दैवान्मे अपत्यं देवधर्मध्रुक्॥१४॥
इति तद्वचनं श्रुत्वा शरणागतवत्सलः।
ददावृतुं तदा तस्य होमं स्नात्वा चकार ह ॥१५॥
ततश्चास्याः सुतो जज्ञे हिरण्याक्षो महाबलः ।
हिरण्यकशिपुश्चोभौ चेरतुस्तप उत्कटम् ॥१६॥
पञ्चाक्षरं महामंत्रं पितुस्तौ बहुवत्सरम् ।
एकाङ्गुष्ठस्थितौ वायुमात्रभक्षौ सवल्मिकौ ॥१७॥
अथाययौ महादेवो वरं दातुं कृपानिधि।
तुष्टुवतुस्ततस्तं तौ भक्त्या देवं त्रिलोचनम् ॥१८॥
कृताञ्जलिपुटौ चोभौ प्रणिपातपुरःसरम् ।
यथाशक्ति यथाज्ञानं तद्दर्शनस्फुरन्मती ॥१९॥
यो देवो वृषवाहनो दशभुजश्चन्द्रार्द्धनागान्वितो
नानारूपगणैर्गिरीन्द्रतनयायुक्तो जगत्कारणम् ।
यो व्याघ्राजिनकृत्तिमांस्त्रिनयनो
यः शूलधृक्वामहा भक्तेच्छापरिपूरणैकनिलयो धर्मार्थमोक्षप्रदः ॥२.२९.२०॥
इति स्तुत्वा महादेवं सर्वव्यापिनमीश्वरम् ।
नमश्चचक्रतुर्देवं भक्तवाञ्छासुरद्रुमम् ॥२१॥
तावुवाच ततस्तुष्टो वृणुतं वरमित्यसौ ।
वृणुतस्तौ वरान्देवादमृतिं यक्षरक्षसः ॥२२॥
किन्नरैर्मानुषश्रेष्ठः पिशाचैश्चारणादिभिः ।
न शस्त्रैर्नार्द्रशुष्कैश्च जन्तुभिर्जलजैरपि ॥२३॥
स्थावरैर्जङ्मैरन्यैर्न दिवा न निशासु च ।
न पृथिव्यां न चाकाशे नान्तराले तथोषसि ॥२४॥
तथेति तावुवाचेशस्तथा चान्तर्दधे हरः ।
तदैव तावजयतां रोदसी च रसातलम् ॥२५॥
देवस्थानानि सर्वाणि बलादाक्रम्य तौ स्थितौ ।
हिरण्यकशिपोर्जातः प्रह्लादो नाम नामतः ॥२६॥
तनयो विष्णुभक्तेषु गरीयान्वंशकण्टकः।
जपन्नारायणं देवं पित्रा संताडितो भृशम् ॥२७॥
अनेकयातनायां स रक्षितोऽनेकधाऽमुना ।
जले स्थले विषादग्नेर्विष्णुना करुणावता ॥२८॥
हिरण्यकशिपुः सायं सर्वलोकभयंकरः ।
नारसिंहेन वपुषा नखरैः स विदारितः ॥२९॥
वाराहेण हतः पूर्वो दंष्ट्रया वसुधाहृता ।
विरोचनः सुतस्तस्य बलिस्तस्याभवत्सुतः ॥२.२९.३०॥
विरोचनः सूर्यभक्तो मुकुटं प्राप्तवांस्ततः ।
ऊचिवांस्तं च सप्ताश्वः परहस्तो यदा स्पृश्येत् ॥३१॥
मुकुटस्य तदा ध्वंसो भविता नात्र संशयः ।
स सूर्यवरदानेन चक्रे त्रिभुवनं वशे ॥३२॥
च्युतस्थानास्ततो देवा अच्युतं शरणं ययुः ।
स चिन्तां महतीं कृत्वा निश्चयं नाध्यगच्छत ॥३३॥
ततस्तेन धृतं रूपं सर्वयोषिद्वरं स्त्रियः ।
तेन तं रमयामास बहुकालं विरोचनम् ॥३४॥
ततः स सुरतं कर्तुमुद्यतोऽभूत्कुबुद्धिमान् ।
ततस्तं सुदती प्राह ममैका वासनाऽस्ति भोः ॥३५॥
अभ्यंगं कुरु पूर्वं त्वं ततो हि रंस्यसे मया ।
इति श्रुत्वा स तद्वाक्यं कामासक्तोऽन्वमोदत ॥३६॥
उत्तार्य मुकुटं साथ मूर्ध्नि तैलं व्यमर्दयत् ।
स तदा शतचूर्णोऽभूत्तत्सारूप्यं स आप्तवान् ॥३७॥ (१३१२)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते विरोचनवधो नामैकोनत्रिंशोऽध्यायः ॥२९॥

अध्याय ३० प्रारंभ :-
क उवाच ।
बलिस्तु हरिभक्तत्वान्न किञ्चिदन्वतप्यत ।
वेदवेदाङ्गवित्प्राज्ञः सर्वशास्त्रविशारदः ॥१॥
परनिन्दापरद्रव्यपरद्रोहपराङ्मुखः।
दाता यज्वा मानयिता मान्यानां परमादरात् ॥२॥
गच्छन्वदन्स्वपन्भुञ्जंस्तिष्ठन्नपि जपन्पिबन् ।
ध्यायति स्म हरिं नित्यं भक्त्या संस्थिरचेतसा ॥३॥
एकदा शुक्रमाहूय परिपूज्य यथाविधि ।
पप्रच्छ तं बलिर्नीतिं शक्रो भुङ्क्त्तेऽमरावतीम् ॥४॥
कथं च भागो नास्माकं भ्रातृत्वे सततं स्थिते ।
इति मे संशयं प्राज्ञ छेत्तुमर्हस्यशेषतः ॥५॥
शुक्र उवाच ।
तव पूर्वैरेतदर्थं कृतं वैरं निरन्तरम् ।
सुरैः सार्द्धं महाभाग ते सर्वे नाशमापिताः ॥६॥
देवैर्विष्णुसहायैस्तु नानामायाबलाश्रयात् ।
त्यक्त्वा वैरं भवान्साधु यजतां शतसंख्यया ॥७॥
तत्पुण्यस्य बलादैन्द्रं पदं पूर्णमवाप्स्यसि।
बलिरुवाच ।
सम्यगुक्त्तं त्वया ब्रह्मन्नीतिशास्त्रविशारद ॥८॥
साम्नो दानविधेर्भेदाज्जघन्यो निग्रहो मतः ।
सोऽपि पुण्यबलात्सिध्येत्तस्मात्पुण्यं दृढं मतम् ॥९॥
क उवाच ।
एवं स निश्चयं कृत्वा वसिष्ठादीन्समाहृयत् ।
भृग्वार्दीश्च मुनीन्पूज्य सुमुहूर्ते समारभत् ॥२.३०.१०॥
यज्ञं महासमारम्भं सर्वानन्दकरं परम् ।
सर्वे ते यज्ञकुण्डानि प्राचीसाधनपूर्वकम् ॥११॥
चक्रुश्च कारयामासुर्यज्ञसम्भारसंचयान् ।
वेदिकामण्डपादींश्च भूमिशोधनपूर्वकम् ॥१२॥
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ।
मातॄणां पूजनं कृत्वा स्थापयामासुरादरात् ।
मन्त्रैर्नानाविधैर्विप्राः सर्वा मण्डपदेवताः ॥१३॥
रेजाते दम्पती तत्र श्वेतवस्त्रावलड्.कृतौ ।
अमात्यराजसुहृदां पौराणां च गणैर्वृतौ ॥१४॥
सम्मानिताः स्त्रियोऽपश्यन्गवाक्षस्तं महोत्सवम् ।
अन्वारब्धा ब्राह्मणास्ते पूर्वाग्ड.ानि न्यवर्तयन् ॥१५॥
आलभन्त पशुं वेदकल्पवाक्यानुसारतः ।
तत्तद्देवाय तन्मन्त्रैर्जुहृति स्म विधानतः १६
यज्ञवाटे चतुर्द्वारं सर्वेषामनिवारिते।
आयान्ति यान्ति सर्वेऽपि पूजितास्त्रिविधा जनाः ॥१७॥
विवदन्ते महावादैरेकतो विदुषां जनाः ।
नृत्यन्त्यप्सरसोऽन्यत्र पठन्ते वैदिकाः कृतः ॥१८॥
गायन्ति वैष्णवाः शैवा मृदङगतालवादनैः ।
भुंजते ब्राह्मणाः स्वेच्छा भोजनं षड्रसैः क्वचित् ॥१९॥
कथयन्ति कथा नानाकथाः शृण्वन्ति मोदकाः।
एवं सुवितते यज्ञे वसिष्ठाद्या महर्षयः ॥२.३०.२०॥
वसोर्धारां सुमहतीं पातयामासुरग्निषु ।
उत्तरांङ्गानि संपाद्य रथे तौ स्थाप्य दम्पती ॥२१॥
कर्तुं चावभृथस्नानं सर्वे लोका विनिर्ययुः ।
नानावादित्र निर्घोषैर्वरबन्दीरवैरपि ॥२२॥
वेदघोषैर्बहुविधैः सामगानैर्हरिप्रियैः ।
स्नात्वाऽऽगत्य हरिं सोऽथ तोषयामास तान्द्विजान ॥२३॥
अनेकरत्ननिचयैर्धनैर्वस्त्रैरनेकशः ।
गोभिरश्वैर्गजैर्गन्धैरिच्छाविषयपूरणैः ॥२४॥
एकोनशतमेवं ते तस्य यज्ञानपारयन् ।
शते यज्ञे समारब्धे शक्रश्चिन्तां परां ययौ ॥२५॥
कनीयांसं स शरणं स्वपदभ्रंशशङकया।
क्षीरसागरमध्यस्थं शेषशायिनमीश्वरम ॥२६॥
मया संवाहितपदं सेव्यमानं सुरैरपि।
गीयमानं नारदेन वीणाहस्तेन सादरम ॥२७॥
तुम्बुरुप्रमुखैरन्यैरप्सरोगणकिन्नरैः
अस्तौदसौ हरिर्दृष्ट्वा तं हरिं स्वेष्टसिद्धये।
प्रणम्य सम्पुटं कृत्वा पाण्योर्भावेन सादरम् ॥२८॥
शक्र उवाच ।
नमोऽनन्तशक्ते नमो विश्वयोने नमो विश्वभर्त्रे नमो विश्वकर्त्रे ।
नमो दैत्यहन्त्रे नमोऽनेकरूप नमः सक्तचित्तार्थदायास्तु नित्यम् ॥२९॥
क उवाच ।
एवं स्तुत्वाऽब्रवीदेनं वासवो बलिचेष्टितम् ।
बलिर्विरोचनसुतो विख्यातो भुवनत्रये ॥२.३०.३०॥
ग्रहीष्यति मम पदं मखाच्छतगुणादयम् ।
यावतस्य भवेद्वाणी सर्वं ज्ञातं तु विष्णुना ॥३१॥
तत ऊचे स भगवानिन्द्रं संकटचिन्तया ।
मम भक्तो बलिः शक्र तपस्वी विजितेन्द्रियः ॥३१॥
तपसः फलमेतेन भोक्तव्यं श्रुतिवाक्यतः।
न जायते वृथा कर्म शुभं वा यदि वाऽशुभम् ॥३३॥
साधयिष्ये भवत्कार्यं स्थिरी कुरु मनो हरे ।
ततः स गर्भतां पेदे अदित्या जठरे विभुः ॥३४॥
सुषूवे नवमे मासि साऽदितिस्तनयं शुभम्।
प्रभया तस्य ते दीपा निष्प्रभत्वमुपागतन् ॥३५॥
स्नात्वा शीतजलेनाशु जातकर्मं यथाविधि ।
चकार कश्यपो धीमान्स्वस्तिवाचनपूर्वकम् ॥३६॥
कृत्वा पित्रमहायज्ञं मातृपूजनपूर्वकम् ।
ददर्श बालकं पश्चात्प्राशयित्वा घृतं मधु ॥३७॥
ह्रस्वं पृथुलमूर्धानं लघुपादं बृहत्तनुम् ।
दिव्यज्ञानसमायुक्तं दिव्यं देहं चतुर्भुजम् ॥३८॥
नानालंकारसंयुक्तं ज्ञात्वा विष्णुमथानमत् ।
उवाच च प्रसन्नात्मा तपो वंशोऽद्य चक्षुषी ॥३९॥
ज्ञानं तथाऽऽश्रमो धन्यो धरा स्वर्गो रसातलम् ।
धन्यस्तद्दर्शनादेते सच्चिदानन्दरूपिणः ॥२.३०.४०॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच जगदीश्वरः।
अदित्यास्तपसा तुष्टः पुत्रत्वमहमागतः॥४१॥
हर्तुं भूभारमतुलं ज्येष्ठकार्यं च साधितुम्।
इत्युक्त्वा प्राकृतो भूत्वाऽरुदत्स्तन्यं पपावथ ॥४२॥
नामनिष्क्रमणं कर्म चक्रेऽन्नप्राशनं मुनिः ।
तृतीये चौलमब्दे स पंचमे व्रतबन्धनम् ॥४३॥ (१३५५)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते वामनावतारकथनं नाम त्रिंशोऽध्यायः ॥३०॥