गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०४१-०४५

विकिस्रोतः तः
← अध्यायाः ३६-४० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ४१-४५
[[लेखकः :|]]
अध्यायाः ४६-५० →

अध्याय ४१ प्रारंभ :-
क उवाच ॥
एवं प्रशंसितो देव्या देवश्च स विनायकः ।
उवाच पार्वतीं प्रीत्या प्रणिपत्य मुदा युतः ॥१॥
गणेश उवाच ॥
देवानां सर्वलोकानां कर्तुं पालनमुत्तमम् ।
दुरासदं निहन्तुं च हर्तुं भूभारमेव च ॥२॥
मातस्त्वां सेवितुं धर्मं कर्तुं कर्म च वैदिकम् ।
अवतीर्णोऽस्मि सर्वज्ञे यद्र्ंवीमि करोमि तत् ॥३॥
एवं ब्रुवति विघ्नेशे सुराः सर्वे तमूचिरे ।
पुनः स्तुत्वा च नत्वा च जगत्कारणकारणम् ॥४॥
रजांसि विममेद्भूमेरुडूनि मिहिका अपि ।
जानीयात्स गुणांस्ते यो विममेत्सागरे जलम् ॥५॥
धन्यं चक्षुर्हि देवानां यद्दृष्टौ चरणौ विभो ।
इदानीं नो गतं दुःखं प्राप्तं च स्वस्वकं पदम्।॥६॥
दुरासदं हरस्वैनं भूभारं चाखिलेश्वर ।
क उवाच ॥
इति देववचः श्रुत्वा जहास स विनायकः ॥७॥
ऊचे सर्वं करिष्यामि दशायुधधरः प्रभुः ।
एवमुक्त्वा सुरान्देवो हर्षगद्गदया गिरा ॥८॥
सिंहारूढो ययौ शीघ्रं पुरीं वाराणसीं तदा ।
तमन्वयुर्देवगणा गिरिजा गिरिशोऽपि च ॥९॥
ज्ञात्वा दुरासदो दैत्यो विनायकमुपागतम् ।
देवसेनायुतं वीरो निर्ययौ नगराद्बहिः ॥२.४१.१०॥
दृष्ट्वा सेनां तु दैत्यस्य सामात्यां सायुधां दृढाम् ।
नानाविधायुधवतीं गर्जन्तीं घनवन्मुहुः ॥११॥
गुहा विदारयन्सर्वाः स जगर्ज विनायकः ।
उवाच तं महादैत्यं भ्रान्तोऽस्यद्यापि रे कथम् ॥१२॥
त्वया बलाद्देवगणा निर्जिताश्व महीभुजः ।
मुनयो धिक्कृताः सर्वे तदाऽहं नाभवं खल ॥१३॥
निर्भयेन त्वया दोषा बहवः संचिताः पुरा ।
तेषां फलमिदानीं त्वं गणेशात्प्राप्तुमर्हसि ॥१४॥
उपद्रुतास्त्वया लोकास्त्रैलोक्यवासिनोऽखिलाः ।
तदर्थमवतीर्णोऽहमुद्धर्तुं त्वां भुवो भरम् ॥१५॥
शरणं याहि रे त्यक्त्वा मानं लज्जां सुदुस्त्यजाम् ।
यासी सङ्ग्रामशिरसि चेदिदानीं मरिष्यसि ॥१६॥
शिवप्राप्तवरात्सर्वं त्रैलोक्यं पीडितं त्वया ।
एवमुक्त्वा दुष्टबुद्धिं गणेशो रणसंभ्रमः ॥१७॥
परशुं तोलयामास ज्वालामालासुशोभितम् ।
आच्छाद्य भास्करं क्षोभात्प्रलयानलसन्निभः ॥१८॥
जवेन हृदये तस्य त्यक्त्वा शस्त्रं कृतान्तवत् ।
परशुना हतस्तस्य रोमापि न चचाल ह ॥१९॥
क्रोधसंरक्तनयन उदतिष्ठद्ग्रसन्निव ।
त्रैलोक्यं तमुवाचाथ देवदेवं दुरासदः ॥२.४१.२०॥
न देवा देवराजो वा दिक्पाला वा न मे परः।
यातास्त्वं तु कथं यातो बालभावाद्र् जाधुना ॥२१॥
न बिभेम्यन्तकान्मूढ किमर्थं मर्तुमिच्छसि ।
एवमुक्त्वा ततः कोशान्निष्काश्यासिं महोज्ज्वलम् ॥२२॥
क्षुरधारं यदाघातादद्रयश्चूर्णतां ययुः ।
दैत्यस्तेनाहनद्देवमङकुशेन न्यवारयत्।।२३॥
सोऽसिः परशुघातेन शतधा खण्डितोऽपतत् ।
भग्नासिर्मल्लयुद्धाय ययौ दैत्यो महाबलः ॥२४॥
त्यक्त्वायुधानि देवोऽपि ववृधे तादृशो बलात् ।
ततो युद्धं तयोरासीत्तुमुलं रोमहर्षणम् ॥२५॥
बाहुभ्यां कूर्पराभ्यां च मुष्टिभ्यां तौ प्रजघ्नतुः ।
पादाभ्यां जानुजङघाभ्यां पृष्ठाभ्यां च निजघ्नतुः ॥२६॥
उड्डीय पेततुर्देहे पर्यायेण महास्वनौ।
पार्ष्णिघातान्प्रकुर्वन्तौ घातान्कूर्परयोरपि ॥२७॥
सक्थ्नोश्च जानुघातांस्तौ स्कन्धाघातान्परस्परम् ।
लुलुण्ठतुर्धरण्यां तौ धूलिधूसरितौ भृशम् ॥२८॥
परस्परं जयन्तौ च लपन्तौ साधु साध्विति ।
एवं बहुदिनं युद्धं दृष्ट्वा देवा विसिस्मिरे ॥२९॥
चेतसा बहु लज्जन्तौ ज्ञात्वा सामर्थ्यमस्य ह।
ततो विनायको मुष्टिं ललाटे दृढमाहनत् ॥२.४१.३०॥
स्फुटितं मुखमस्याशु धरण्यां पतितस्य ह ।
द्विमुहूर्तं निपतितो वज्राहत इवाचलः ॥३१॥
स कथंचित्प्रबुद्धोऽभूत्त्यक्त्वा मूर्छौँ चिरागताम् ।
तदात्मानमशक्तं स मनुते स्म भृशातुरः ॥३२॥
आययौ सैन्यमध्ये स दिनान्ते स विनायकः ॥३३॥
य इदं शृणुयाद्युद्धं युद्धकाल उपस्थिते ।
स जयं प्राप्नुयान्मर्त्यो यथा देवो विनायकः ॥३४॥ (१८४०)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते एकचत्वारिंशोऽध्यायः ॥४१॥

अध्याय ४२ प्रारंभ –
गृत्समद उवाच ।
ज्ञात्वा पराक्रमं तस्य वक्रतुण्डस्य दैत्यराट् ।
आययौ धैर्यमालम्ब्य योद्धुमस्त्रैर्गजाननम् ॥१॥
शिवं स्मृत्वा च मन्त्रं च वह्निदेवतमादरात् ।
अभिमन्त्र्य शरं तेन तत्याज स विनायके ॥२॥
अग्निज्वालाभयाद्देवा देवपृष्ठमथागमन् ।
ततो विनायकोऽमुंचत्पर्जन्यास्त्रं हि सर्ववित् ॥३॥
करिशुण्डामिता धाराः प्रादुरासंस्ततः क्षणात् ।
शान्तोऽभूत्तत्क्षणाद्वह्निस्ततो दैत्यो रुषान्वितः ॥४॥
मारुतास्त्रं शीघ्रजवं वृष्टिमारणमासृजत् ।
चकम्पे धरणी वृक्षा गिरयः पतिता भुवि ॥५॥
तदस्त्रेण महामेघाः क्षयं नीताः क्षणार्द्धतः ।
पर्वतास्त्रं ततो देव आविश्चक्रे मनोबलात् ॥६॥
सर्वत्र पर्वता जाताः कुण्ठतामगमच्च तत् ।
विलीने मारुतास्त्रे तु रौद्रमस्त्रं ततोऽसृजत् ॥७॥
तस्मिन्विमुच्यमाने तु वक्रतुण्डोऽप्यवासृजत् ।
ब्रह्मास्त्रं तन्निवृत्त्यर्थमगात्सैन्यं हि भस्मसात् ॥८॥
परस्परमयुद्धेतामस्त्रे ते बहुवासरम् ।
तयोः संघट्टनाद्वह्निर्न्यपतद्धरणीतले ॥९॥
तेन दग्धांन्जनांज्ञात्वा केशाभ्यां वारिते शुभे ।
अमात्यानब्रवीद्दैत्यो ज्ञात्वोत्कृष्टं विनायकम् ॥२.४२.१०॥
तेनाभियुध्यतां सर्वैर्भुक्त्वा यामि पुना रणम् ।
ततोऽमात्याः सर्वसैन्यैर्विनायकमयोधयन् ॥११॥
विनायको गतश्चिन्तामेकाकित्वात्ततः क्षणात् ।
षट्पंचाशन्मिता मूर्तीश्चकारासौ स्वतेजसा ॥१२॥
नानालंकारसंयुक्ता नानामालाविभूषिताः ।
सर्वे दिव्यांगदांगास्ते सर्वे शशिविभूषणाः ॥१३॥
केचिच्चतुर्भुजाः केचित्षड्भुजा दशहस्तकाः ।
सिंहारूढा बर्हिगताः केचिन्मूषकवाहनाः ॥१४॥
सर्वे च युयुधुस्तत्र दारयन्तोऽरिसैनिकान्।
केषांचित्त्रोटिताः पादाः केषांचिन्मस्तका अपि।।१५।।
केषांचिद्बाहवो भिन्ना जानुजंघोदराणि च ।
हुंकारेणैव गर्जन्तः केचिच्च शरणं ययुः ॥१६॥
केचित्पलायनपरा ययुर्जीवनहेतवे ।
केचित्प्रहारं कुर्वन्तो मम्रुः संमुखमेव च ॥१७॥
ते तु स्वर्गं गता भेजुर्भोगानप्सरसोऽपि च ।
वाजिनश्च रथा नागा वाम्य उष्ट्रान्यनेकशः ॥१८॥
नानाशस्त्राहताः पेतु खण्डदेहा गतासवः ।
असृग्नद्यः प्रादुरासन्केशशैवलशोभिताः ॥१९॥
आच्छूरिकासिमत्स्येभनक्रैः खेटककच्छपैः ।
रुण्डाब्जैश्च वसाफेनैर्मेदकर्दमसंचयै ॥२.४२.२०॥
चापशस्त्रैरस्थिबकैश्चर्मपेशीसुदर्दुरैः।
भल्लकाद्यैः शुशुभिरे मनस्विहृदयप्रियाः ॥२१॥
भुक्त्वागत्य ददर्शाथ सर्वं तद्रणमण्डलम् ।
सर्वस्मिन्निहते सैन्ये ततो दैत्योऽतिदुःखितः ॥२२॥
सस्मार मनसा वाक्यं यदुक्तं शूलपाणिना।
वरदानस्य समये जयस्ते शक्तिसंभवात् ॥२३॥
अयमेव भवेत्किं नु बालकः शक्तिसंभवः ।
यदुत्कटं बलं दृष्टमस्मिंस्त्रैलोक्यसारभृत् ॥२४॥
कालोऽपि नैनं विजयेत्तत्र चान्यस्य का कथा ।
एवं मनसि कृत्वा स एकाकित्वापपाल च ॥२५॥
वक्रतुण्डो गतश्चिन्तां न हन्तव्यो रिपुः पलन् ।
देवेभ्यो न मृतिश्चास्य यथाऽयं शंकरोऽब्रवीत् ॥२६॥
तस्माद्योगात्समास्थास्ये वैराटं रूपमुत्तमम् ।
ततो वैराटरूपेण स दधार करेण तम् ॥२७॥
एकपादेन तस्थौ स काशीं तां रक्षितुं बलात् ।
एकं पादं तु दैत्यस्य दधार मस्तके ततः॥२८॥
उवाच दैत्य रे दैत्य वराच्छैवान्न ते मृतिः।
अतोऽस्मिन्नगरे तिष्ठ पर्वतेव सुनिश्चलः ॥२९॥
द्वारभूतः पुरस्यास्य यतः पूर्वं दृशिस्तव ।
दुष्टानां पीडको नित्यं नित्यं मे सान्निधिस्तव ॥२.४२.३०॥
दैत्योऽपि परया भक्त्या तमेव वरमर्थयत् ।
दैत्य उवाच ।
एवमेव सदा तिष्ठ स्थाप्य पादं मयि स्थिरम्॥३१॥
मुनिरुवाच ।
तथेति तमुवाचाथ स्थितः काश्यां विनायकः ।
एवं दुरासदं जित्वा चकार पृथिवीं शिवाम् ॥३२॥
तस्मिन्कृत्वा पुष्पवृष्टिं प्रणम्य संप्रपूज्य च ।
स्वस्वस्थानं गता देवा मुनयः स्वाश्रमानपि ॥३३॥
अन्ये ये ये तमर्चन्ति पूर्णकामा भवन्ति ते ।
एवं विनायकस्याथ काश्यां षट्पंचमूर्तयः ॥३४॥
तुण्डनाख्ये पुरे चापि एकपादविनायकः ।
संहृत्य च विराट्रूपं सर्वकामप्रदः स्थितः ॥३५॥
य इदं वरमाख्यानं शृणयाद्भक्तिमान्नरः ।
सर्वांन्कामानवाप्नोति गाणेशं पदमेति च।
सर्वत्र जयमाप्नोति पुष्टिमारोग्यमेव च ॥३६॥ (१८७६)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

अध्याय ४३ प्रारंभ –
गृत्समद उवाच ।
विजिते तु गणेशेन दैत्ये तस्मिन्दुरासदे ।
दिक्पाला मुनयश्चैव शशी सूर्यो गुरुः कविः ॥१॥
प्रशशंतुर्देवदेवं दुरासदरिपुं विभुम् ।
श्रुतिस्मृतिकृतो मार्गः स्थापितो निहितोऽसुरः ॥२॥
स्थापना च कृताऽस्माकमशक्त्तानां दुरासदे ।
त्वमेव सृजसे विश्वं त्वमेव फलदायकः ॥३॥
समः सर्वेषु भूतेषु कर्मभिर्न च लिप्यसे ।
त्वदाश्रया चतुर्वर्णा जन्तवश्च त्वदाश्रयाः ॥४॥
गवेषयंश्च नानार्थास्तत्तत्कर्मणि योजयन ।
गवेषणे ढुण्ढिरयं धातुरुक्तो मनीषिभिः॥५॥
स आस्ते ढुण्ढिरित्येव संज्ञा राजोत्तराऽस्तु च।
तव यद्दर्शनं पूजा ध्यानं स्मरणमेव च ।।६।।
धर्मार्थकाममोक्षाणां साधनं पुत्रपौत्रदम् ।
इत्युक्त्वा पुपुजुस्तेऽमुं मन्दारैश्च शमीदलैः ॥७॥
दूर्वांकुरैर्हरिद्भिश्च श्वेतैश्च कुसुमैरपि ।
नानापक्वान्ननैवेद्यैः फलैर्बहुविधैरपि ॥८॥
रत्नांना निचयैवप्रभोजनस्तमतोषयन् ।
एवं ते पूजिताः सर्वे सप्तावरणरूपिणः ॥९॥
स्थिता वाराणसीं त्रातुं षट्पंचाशद्विनायकाः ।
एकः पंचमुखस्तत्र विश्वेशद्वारि तिष्ठति ॥२.४३.१०॥
अन्ये च भिन्ननामानो व्याप्य वाराणसीं स्थिताः ।
स्थिते विश्वेश्वरे तत्र सर्वे तत्रैव संस्थिताः ॥११॥
आचन्द्रं स्वाधिकारेषु ब्रह्माद्या मुनयोऽखिलाः।
अकुर्वन्सर्वकर्माणि सर्वे लोका यथा पुरा ॥१२॥
इति ते सर्वमाख्यातं कीर्ते पृष्टं हि यत्त्वया ।
ढुण्ढिराजस्यावतारो धर्मकामसुखप्रदः ॥१३॥
दिवोदासबहिर्भावं कथयिष्येऽधुना तव ॥१४॥ (१८९०)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते ढुण्ढिराजाख्यानं नाम त्रिचत्वारिंशोऽध्यायः ॥४३॥

अध्याय ४४ प्रारंभ :-
कीर्तिरुवाच ।
ढुण्ढिराजावतारोऽयं ख्यातस्ते शक्तिसंभवः ।
दुरासदवधार्थाय त्रिलोकीपालनाय च ॥१॥
एकपादः स्थितस्तुण्डनगरे चैकपादतः ।
स्थितो दैत्यं समाक्रान्त्य वाराणस्यामिति श्रुतम् ॥२॥
उभाभ्यामपि पादाभ्यामुभयत्र स्थितिः कथम् ।
एवं मे संशयं ब्रह्मन्नुद त्वं सर्वविद्यतः॥३॥
मुनिरुवाच ।
किमसाध्यं विश्वरूपे विश्वकर्तरि विश्वपे।
विश्वव्यापिनि विश्वेशे ढुण्ढिराजे च शासति ॥४॥
विश्वान्तर्यामिणि परे विश्वसंहारकारिणि ।
सप्तपातालचरणे स्वर्गव्या पिशिरोरुहे ॥५॥
सर्वतः पाणिचरणे सर्वतः श्रोत्रचक्षुषि ।
मनसश्च श्रुतीनां च ब्रह्मादीनां च योगिनाम् ॥६॥
अगम्ये तत्त्वतो वायुपृथिवीजलरूपिणि ।
यस्य रोमांचरन्ध्रेषु ब्रह्माण्डानां हि कोटयः ॥७॥
भ्रमन्ति पवनोद्भूताः पतंगा इव व्योमनि ।
संशयो वा वितर्को वा तस्मिन्मातर्न विद्यते ॥८॥
अनेकरूपिणि विभौ प्रभुः कर्तुं चराचरम् ।
यदिच्छया भवेद्राज्ञि सुधा विषस्वरूपिणी ॥९॥
अमृतं विषरूपं च तत्र किं किं न संभवेत् ।
अवतारस्य देवस्य विचित्रा गतिरुच्यते ॥२.४४.१०॥
कियन्तो ह्यवतारा वै कदा कुत्रेति निश्चितुम् ।
न शक्यते सुरैः सर्वैः सशेषैरपि सर्वदा ॥११॥
अतस्त्यक्त्वा तु संदेहं कथां शुणु मयेरिताम् ।
यां श्रुत्वा सर्वधर्मज्ञे मुच्यते पापसंचयात् ॥१२॥
सूर्यवंशोद्भवो राजा दिवोदासोऽभवत्पुरा ।
वदान्यश्च महामानी मान्यो भूमण्डलेऽखिले ॥१३॥
वक्ता बृहस्पतिसमः सर्वज्ञः सर्वदा शिवः ।
वेदशास्त्रपुराणानां ज्ञानी विज्ञजनप्रियः ॥१४॥
कामिनीमोहनतनुर्जितेन्द्रियतया स्थितः ।
उपकारपरो नित्यं परद्रोहपरांग्मुखः ॥१५॥
निस्पृहः परवित्तेषु स्थूललक्ष्यः पराक्रमी ।
तपसा तस्य तुष्टेन ब्रह्मणा राज्यमुत्तमम् ॥१६॥
काश्यां वृष्टिविहीनायां दत्तं लोकोपकारिणा ।
सर्वदेवबहिष्कारात्सोऽपि जग्राह बुद्धिमान् ॥१७॥
स्वयमेवाभवत्सोऽथ रविरिन्द्रो हुताशनः ।
मरुच्चन्द्रश्च धर्मेण पालयामास तां पुरीम् ॥१८॥
तपसा तस्य संजाता वृष्टिर्लोका इतस्ततः ।
अविमुक्तं समायाताः प्रशशंसुर्नृपं च तम् ॥१९॥
तस्य पत्नी सुशीला सा नाम्ना नाम पतिव्रता ।
धर्मशीला दानपरा पतिवाक्यपरायणा ॥२.४४.२०॥
आचारं व्यवहारं वा प्रायश्चित्तमसौ नृपः ।
पण्डितैः कारयामास राजदण्डं न चाददे ॥२१॥
शिवेन मरुतः सर्वे मन्दारगिरिमन्वयुः।
नापमृत्युर्न शोको वा नैव दुःखं हि कस्यचित् ॥२२॥
उत्पातास्त्रिविधा नासंस्तस्मिन्राज्य प्रशासति ।
हाहाकारः शमं यातो नावृष्टिविहितो महान ॥२३॥
पशुपक्षिमनुष्याणां सस्यानि च बहून्यपि ।
यदा यत्तं प्राणिमात्रं जातानि वृष्टियोगतः ॥२४॥
स्वाहास्वधावषट्काराः सर्व आसन्यथा पुरा ।
ते च देवाः सुखं प्राप्ता ये प्रार्थयन्नृपं पुरा ॥२५॥
यं तुष्टुवुः सुराः सर्वे ब्रह्मवाक्यप्रणोदिताः ।
सोऽपि नानास्तुतिं चक्रे देवानां दर्शनाद्भृशम् ॥२६॥ ( १९१६ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते चतुश्चत्वारिंशोऽध्यायः ॥४४॥

अध्याय ४५ प्रारंभ –
कीर्तिरुवाच ।
कथं मुने सर्वदेवाः प्रयाता मन्दरं गिरिम ।
शिवेन च कथं त्यक्ता रम्या वाराणसी पुरी ॥१॥
एतन्मे शंस देवर्षे संशयोऽत्र महान्मुने ।
मुनिरुवाच ।
द्वादशाब्दमनावष्टौ नष्टे स्थावरजंगमे ॥२॥
स्वाहास्वधावषट्कारविहीने च धरातले ।
ब्रह्मवाक्यप्रणुन्नैस्तु देवैः संप्राथिर्तो हरः ॥३॥
महादेव जगन्नाथ करुणालय शंकर।
आधास्य मन्दरगिरिं मरीचिस्तु तपस्यति ॥४॥
अब्दानामयुतं देव वरं दातुं प्रयाहि तम् ।
मुनिरुवाच ।
एवं संप्रार्थितो देवैर्महेशः करुणालयः ॥५॥
सर्वैः सुरगणैः सार्द्धमग्निचन्द्रार्यमादिभिः।
वरं दातुं स संप्राप्त मरीचिं तं महामुनिम् ॥६॥
अस्थिमात्रावशिष्टं च ददर्श स सदाशिवः ।
तस्मिन्क्षणे नागतश्चेत्स तु प्राणान्समुत्सृजेत् ॥७॥
तदुत्कटेन तपसा प्रीतोऽसौ गिरिजापतिः ।
निजं स्वरूपं दत्त्वा च विमानेन निजं पदम् ॥८॥
प्रापयामास सहसा गणैर्वादित्रनिस्वनैः ।
सर्वैर्देवगणैः शम्भुस्तस्थौ गिरिवरे शुभे ॥९॥
दिवोदासस्य नापश्यत्किंचिद्रन्ध्रं सदाशिवः ।
देवान्संप्रेषयामास द्रष्टुं तद्रन्ध्रमादृतः ॥२.४५.१०॥
यो यो देवो याति काशीं तस्य रन्ध्रं न पश्यति ।
स्वनाम्ना परिसंस्थाप्य लिंगं तत्रैव तस्थिवान् ॥११॥
दिवोदासस्य राज्ये तु सर्वे वर्णाः स्वधर्मिणः ।
आश्रमस्था द्विजाः सर्वे यथोक्ताचारसंयुताः ॥१२॥
गुरुशुश्रुषवः शिष्याः स्त्रिय आसन्पतिव्रताः ।
धर्मशीला दानपरा व्रतोपवासतत्पराः ॥१३॥
यतयश्च त्रिषवणा व्रतिनो होममौनिनः ।
स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम् ॥१४॥
आतिथ्यं वैश्वदेवं च स्वयमेव प्रकुर्वते ।
गृहस्थाः सर्व एवाष्टौ कर्माणि भक्तितोऽनघाः ॥१५॥
अतो विवर्धते धर्मो वृष्टिश्चानुत्तमाऽभवत् ।
स्वर्गे देवा मुमुदिरे पितरश्च स्वधाभुजः ॥१६॥
न वन्ध्या न च वाऽपुष्पा विधवा वा मृतप्रजा ।
नावृष्टिर्नातिवृष्टिश्च स्वचक्रं न परं तया ॥१७॥
शुकाश्च शलभा नासन्मूषका वा कदाचन ।
एवं च सर्वसस्यानां निष्पत्तिः समपद्यत ॥१८॥
विश्वेश्वरं माधवं च ढुण्ढिं भैरवमेव च।
दण्डपाणिं गुहं गंगामदृष्ट्वा वा निमज्ज्य वा ॥१९॥
मणिकर्णीं भवानीं वा यो भुंक्ते दण्ड्य एव सः ।
इति डिण्डीरवं नित्यमकरोन्नृपसत्तमः ॥२.४५.२०॥
न पापलेशस्तत्रासीदेवं नृपवरे स्थिते ।
विना रन्धं न तद्राज्यं जिघ्रक्षति सदाशिवः ॥२१॥
वाराणसीवियोगेन परितप्तस्ततोऽभवत् ।
प्रेषयामास विघ्नाय ततोऽष्टावपि भैरवान् ॥२२॥
उवाच तान्कारयन्तु राज्येऽस्याणीतु किल्बिषम् ।
आदास्ये तत एतस्मात्काशीराज्यं न संशयः ॥२३॥
जग्मुस्ते त्वरया भद्रे आज्ञां प्राप्य सदाशिवात् ।
दृष्ट्वा वाराणसीं ते तु विश्रान्ताः स्नानकर्मणा ॥२४॥
अदृष्ट्वा तस्य दुरितं काशीवासं प्रचक्रिरे।
शिवश्चिन्तापरश्चासीदनागच्छत्सु तेषु तत् ॥२५॥
ततोऽप्रेषयदादित्यान्रन्धं द्रष्टुं नृपस्य ह ।
तेऽपि तत्पुण्यमालोक्य स्थिताः काश्यां मुदान्विता ॥२६॥
न कार्यं च हरस्यापि न त्याज्येयं पुरीति च।
ततश्चतुःषष्टिमिता अप्रेषयत योगिनीः ॥२७॥
अणुमात्रमदृष्ट्वैनो दिवोदासस्य ता अपि।
स्थिता वाराणसीं प्राप्यं यजन्त्यः शिवमव्ययम् ॥२८॥
ततः संप्रेषयामास दुर्गां दुःखविनाशिनीम् ।
अदृष्ट्वा तदघं साऽपि तस्थौ ग्रामाद्बहिः किल ॥२९॥
ध्यानेनातोषयद्देवं सर्वकामैश्च मानवान् ।
दिक्पालानथ शम्भुश्च प्रेषयामास सत्वरम् ॥२.४५.३०॥
गता वाराणसीं ते तु नेक्षेरंस्तदघं लघु ।
स्वस्वनाम्ना प्रतिष्ठाप्य लिंगानि न्यवसन्मुदा ॥३१॥
ऋषयः प्रेषितः पश्चादुत्सुकेन शिवेन ह ।
गतास्ते त्वरया ह्रष्टाः शिवेनापि प्रणोदिताः ॥३२॥
गत्वा तीर्थविधिं कृत्वा स्थित्वा वाराणसीमनु ।
आशीर्वादाय गच्छन्तः पश्यन्तस्तस्य चेष्टितम् ॥३३॥
भक्त्या तान्पूजयामास सर्वान्स धनवस्त्रकैः ।
नान्वगृह्णंस्तद्धनं ते नैनोऽपि ददृशुर्लघु ॥३४॥
स्वस्वनाम्ना परिस्थाप्य तेपुस्ते परमं तपः ।
ततः सर्वेऽमरास्तेन प्रेषिताः कार्यसिद्धये ॥३५॥
तेऽपि नो ददृशुस्तस्य दुष्कर्मं धर्मचारिणः ।
नायाति कोऽपि काश्यास्तु यो यः संप्रेष्यते मया ॥३६॥
ततश्चिन्तापरो रुद्रो निश्चयं नाध्यगच्छत ।
मनसा चिन्तयामास कदा द्रक्ष्ये च तां पुरीम् ॥३७॥
दिवोदासस्य राज्ये च यदा पापं भविष्यति ।
तदैव प्राप्या काशी च नान्यथा च मया क्वचित् ॥३८॥
विना ढुण्ढिं माधवं च सर्वे देवा निरर्थकाः।
नायान्ति च स्थितास्तत्र काश्यां ध्यानपरायणाः ॥३९॥ ( १९५५ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते दिवोदासोपाख्याने पंचचत्वारिंशोऽध्यायः ॥४५॥