सामग्री पर जाएँ

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः १०६-११०

विकिस्रोतः तः
← अध्यायाः १०१-१०५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः १०६--११०
[[लेखकः :|]]
अध्यायाः १११-११५ →

अध्याय १०६प्रारंभ :-
क उवाच ।
ततस्त्रयोदशे वर्षे नमस्कृत्य महेश्वरम् ।
भस्मांगरागरुचिरं पंचास्यं दिग्भुजं शुभम् । १
रुण्डमालाधरं सुप्तं चन्द्रशेखरमच्युतम् ।
मयूरेशोऽथ जग्राह शशिनं तच्छिरोगतम् २
क्रीडन्बहिः समायातो बालकैः परिवारितः ।
सुहृद्भिः परिनृत्यद्भिर्वदद्भिश्च परस्परम् ३
एतस्मिन्नन्तरे तत्र दैत्यो मंगलसंज्ञकः ।
करालवदनः क्रोडीविजेता मरमाद्भुतः ४
वराहरूपो बलवान्दन्तच्छिन्नमहिरुहः ।
वज्रसारसटाभिः स भिन्दन्व्योम पदैर्धराम५
अंजनाद्रिरिव श्यामो वह्निकुण्डनिभेक्षणः ।
दृष्ट्वा तं विद्रुता बाला वर्षाघननिभस्वनः ६
न दृष्टः सूकरः क्वापीदृश इत्यब्रुवंश्च ते ।
यावन्मारयते बालांस्तावद्देवो मयूरराट् ७
दधार दन्तयोर्दुष्टं तदा सूकरदानवम् ।
अथापरेण हस्तेन दधाराधरपोत्रकम् ८
पाटयामास सहसा वंशखण्डमिवार्भकः ।
पूर्वदेहं समास्थाय दशयोजनविस्तृतम् ९
पतितश्चूर्णयन्वृक्षान्दारयन्धरणीतलम् ।
ततस्तमब्रुवन्बाला धन्योऽयं पार्वतीसुतः २.१०६.१०
क्षणेन नाशितो दैत्यो लीलयाऽसौ महाबलः ।
अस्य दर्शनतस्त्रस्ता वयं याता दिशो दश ११
पतमानेन येनेह चूर्णितानि गृहाणि च ।
क उवाच ।
ततः शिवो ललाटे स्वे नापश्यच्छशिनं यदा १२
क्रोधासंरक्तनयनो विष्टपं प्रदहन्निव ।
गणानूचे रुषाविष्टो रक्षणं क्रियते कथम् १३
केन दैत्येन नीतो मे ललाटस्थोऽमलः शशी।
क उवाच ।
ततो लीना गणाः सर्वे कम्पमाना भयातुराः १४
अपरे धैर्यमालम्ब्य वदन्ति स्म शिवं प्रति ।
उमाकान्त भवत्पुत्रो मयूरेश्वरसंज्ञक: १५
क्रीडितुं बहिरायातस्तस्य हस्ते विलोकितः ।
चन्द्रस्तेन कदा नीतो न जानीमो वयं विभो १६
इति तद्वचनं श्रुत्वा प्रोचे रुष्टो महेश्वरः ।
कथं नु क्रियते रक्षा भवद्भिर्भक्ष्यतत्परैः १७
चन्द्रो वा चन्द्रहर्ता वा यद्यानीतस्तदा शुभम् ।
नो चेद्भस्मीकरिष्यामि सर्वेषां नात्र संशयः १८
ततस्ते क्षुब्धमनसो धावमानास्त्वरान्विताः।
मयूरेशं समभेत्य प्राभणन्रुष्टचेतसः १९
याहि दुष्टं शिवं देवं चन्द्रं वा यच्छ तस्कर ।
गणवाक्यं परिश्रुत्य चुकोप गणनायक: २.१०६.२०
न मेऽस्ति गणना कापि भवतां तस्य वा गणाः ।
जगत्त्रयजनन्या मे तनयस्य प्रभाविणः । २१
क उवाच ।
तस्य श्वासेन सर्वे ते वात्या पत्रमिवोद्धृताः ।
पेतुः शिवस्य पुरतो गणा दीनास्तदाऽखिलाः २२
अतिरोषान्महादेवः प्रमथादीनथाब्रवीत् ।
आनीयतां स दुष्टात्मा बद्ध्वोमातनयो लघुः २३
ते तु शीघ्रतरं याता यत्र क्रीडारतः शिशुः ।
ददृशुस्तं शिशुगतं क्रीडन्तमकुतोभयम् २४
वेष्टितुं तान्समायातान्मोहयित्वा विनायकः ।
अन्तर्हितश्चतुर्दिक्षु गणास्ते तं व्यलोकयन् २५
गृहे गृहे काननेषु नापश्यस्ते विनायकम् ।
क्वचिदृष्ट्वा तु तं प्राहुरस्मदग्रे कथं भवान् २६
गन्तुं शक्तो ब्रह्मलोके स्थितं नेष्याम तं शिवम् ।
एवमन्तर्हितो दृश्यो वारंवारं बभूव सः २७
ततः खिन्नान्गणान्दृष्ट्वा परमात्मा कृपान्वितः ।
तस्थौ तत्पुरतः सम्यग्दृष्ट्वा तं हर्षनिर्भराः २८
बबन्धुर्गिरिजासूनुं निन्युस्ते शंकरं प्रति ।
पृथिवीभारसदृशमुपविष्टं तु ते गणाः २९
न शेकुरुत्थापयितुं ततो विस्मितमानसाः ।
हतोद्यमा गणाः सर्वे शिवमेत्य समूचिरे २.१०६.३०
सर्वे वयं समानेतुमेकं शक्ता न शंकर ।
आज्ञापयामास शिवो नन्दिनं पुरतः स्थितम् ३१
झटित्यानय गच्छ त्वं मयूरेशं तु तस्करम् ।
नन्द्युवाच ।
शेषं सूर्यं शशांकं च हनिष्येऽहं तवाज्ञया ३२
कनीयसो न मे काचिद्गणनास्ति महेश्वर ।
क उवाच ।
इत्युक्त्वाऽगाद्वायुवेगो भंजन्वृक्षांश्च पर्वतान् ३३
क्रोधसंरक्तनयनस्तीक्ष्णशृंगोग्रसन्दिवम् ।
उवाच तं मयूरेशं याहि रे त्वं शिवं प्रति ३४
नो चेदध नयिष्यामि न समो हि गणैरहम्।
एवं वदति तस्मिंस्तु मयूरेशो रुषान्वितः ३५
शवासचक्रेऽक्षिपत्तं तु गमनागमसंकुले।
तत्याज तं दृढं श्वासादतिखिन्नं शिवान्तिके ३६
वमन्तं धिरं वक्त्रात्पृथिव्यां पतितं तु तम् ।
ब्रुवन्तं पौरुषं नाना मूर्छितं द्विमुहूर्ततः३७
अपश्यच्च मयूरेशं जानुभागे स्थितं शिवः ।
देदीप्यमानं वपुषा दिव्यभूषासमन्वितम् ३८
गणा ऊचुः शिवं दृष्ट्वा भालचन्द्रं यथा पुरा।
ललाटे ते शशी देव वृथाज्ञप्ता वयं शव ३९
मयूरेशं गणांश्चाह शशिनं वीक्ष्य मस्तके ।
शिव उवाच ।
श्रान्तास्ते च गणास्त्वं च नन्दी चापि ममाज्ञया २.१०६.४०
चन्द्र स्थिते ललाटे मे वृथा युद्धमभूद्धि वः ।
प्रमथा ऊचुः ।
अद्यप्रभृति देवेश स्वामी नोऽस्तु मयूरराट् ४१
क उवाच ।
तथेति शिव ऊचे तान्गणराजोऽभवत्तु सः :
नत्वा शिवं गणेशं च गणेशजननीमपि ४२
प्रशंसयित्वा देवेशं मयूरेशं तथाविधम् ।
गर्जन्तोऽथ गणा जग्मुर्मुदा स्वं स्वं निवेशनम् ४३ (४८४५)
इति श्रीगणेशपुराणे क्रीडाखण्डे षडधिकशततमोऽध्यायः ॥१०६॥

अध्याय १०७ प्रारंभ :-
क उवाच ।
ततश्चतुर्दशे वर्षे गौतमाद्याः सुरर्षयः ।
आययुर्गिरिजागेहं नानागणयुतं शिवम् १
नमस्कृत्य च तानम्बा नानासनगतान्पुरः ।
पूजयित्वा विधानेन प्रोवाच हृद्गतं वचः २
विघ्नभीत्या परित्यक्तं त्रिसन्ध्याक्षेत्रमुत्तमम् ।
अस्य बालस्य मे विघ्ना अत्रापि बहवोऽभवन् ३
दिशन्तु विघ्नरहितं कर्म वा स्थानमुत्तमम् ।
मुनय ऊचुः ।
इन्द्रयागे कृते देवि सर्वविघ्नं हरिष्यति ४
क उवाच ।
तदेव कारयामास मण्डपं बहुविस्तरम् ।
संभारान्कारयामास शक्रसंतोषकारकान् ५
आज्ञां गृहीत्वा शम्भोः सा पार्वती हर्षनिर्भरा।
कारयामास विधिवदिन्द्रयागं महर्षिभिः ६
ध्यानमावाहनं चक्रुरिन्द्रस्यैते महर्षयः ।
पूपूजुर्गिरिजादेशात्सांगमिन्द्रं गणानपि ७
कुण्डे वह्निं प्रतिष्ठाप्य मन्त्रैरेव द्विजर्षभाः ।
जपानां तद्दशांशेन जुहुवुस्तिलपायसम् ८
प्रणवाद्यैर्नमोन्तैश्च स्वाहान्तैर्मन्त्रसंचयैः ।
शान्तिपाठान्पठन्ति स्म चतुर्वेदभवान्द्विजा: ९
एतस्मिन्नन्तरे बालः क्रीडित्वा बालकैः सह।
यज्ञवाटमुखो याति दैत्यौ तु कलविंकलौ २.१०७.१०
तावत्संमुखतां यातौ माहिषं रूपमास्थितौ ।
महारवौ महाशृंगौ भीषयन्तौ जगत्त्रयम् ११
सटाभिन्नघनौ पुच्छाद्दारयन्तौ गिरीनथ ।
नासानिरोधपवनाच्चूर्णयन्तौ द्रुमानपि १२
उमासुतं हन्तुकामौ यातौ शीघ्रं तदन्तिकम् ।
प्रायुध्येतां तदा द्वौ तौ मत्ताविव महागजौ १३
तयोः शब्देन गगनं गर्जति स्म यथा घनः ।
जयं भंगं क्रमेणोभौ प्रापतू रुधिरोक्षितौ१४
विद्रुता मुनिबालास्ते ताभ्यां भीता वृकादिव ।
दूराद्ददर्श गिरिजासुतस्तौ दैत्यपुंगवौ १५
कथमेतौ महादुष्टौ हनिष्यामीति चिन्तयन् ।
पश्यत्सु तेषु बालेषु चिक्षेप गगने च तौ १६
पुच्छे गृहीत्वाऽतिबलौ भ्रामयित्वा पुनः पुनः ।
मुहूर्तात्पतितौ पृथ्व्यां तान्विदार्य द्रुमानपि १७
शतधा देहखण्डानि तयोरादन्वृकादयः ।
ततस्ते मुनिबालास्तं ययुर्भक्त्या प्रतुष्टुवुः १८
यस्य तत्त्वं न जानन्ति ब्रह्माद्या मुनयोपि च ।
सर्वान्तर्यामिणस्ते तु कथं विद्यामहे वयम् १९
बाल्यात्यभृति दैत्यास्ते नाशिताः कोटिशस्त्वया ।
एतौ महिषरूपेण हन्तुं त्वां समुपागतौ २.१०७.२०
मूषकाविव संत्यक्तौ पुच्छे धृत्वा स्वलीलया।
ययोः श्वासेन चलिताः पर्वताश्च द्रुमाधराः २१
क उवाच ।
मयूरेशस्ततः प्रायाद्यज्ञवाटं रमन्रमन् ।
ददर्शेन्द्रमखं रुष्टो ध्वंसयामास तत्क्षणात् २२
दूरे क्षिप्त्वा शक्रमूर्तिं प्रोचे सर्वान्मुनीश्वरान् ।
वृतो मुनिसुतैः सर्वैः किं कर्म क्रियतेऽमला: २३
किं तुष्टेन प्रदातव्यं वासवेनाखिलार्थिना ।
अजाप्रार्थनया किं नु कामधेनुफलं लभेत् २४
स आदच्छेषसामग्री कृत्वा शान्त हुताशनम् ।
मुनयो विस्मितहृदो वीक्ष्य चापल्यमस्य तत् २५
उमानिविष्टहृदया नाशकत्तं गुणेश्वरम् ।
उपालब्धुं शिक्षितुं वा वक्तुं क्रोधेन किंचन २६
उमायै सर्वमाख्याय जग्मुः स्वं स्वं निवेशनम् ।
श्रुत्वेन्द्रे क्षुब्धह्दये यत्स्यात्तच्च भवत्विति २७
स्वापमाने परिज्ञाते शक्रश्चुक्रोध वै भृशम् ।
क्रोधसंरक्तनयनो दहन्निव जगत्त्रयम् २८
आकार्य देवनिचयानुवाच वाक्यमुत्तमम् ।
इन्द्र उवाच ।
मम यागो मुनिगणैरारब्ध परमादरात् २९
स विध्वस्तो गुणेशेन तस्य द्रक्ष्येऽद्य पौरुषम् ।
रुष्टे मयि भवेन्नष्टं त्रैलोक्यं सचराचरम् २.१०७.३०
देवा ऊचुः ।
तवाज्ञा चेन्मयूरेशं बद्ध्वानीमः क्षणेन ह ।
शक्र उवाच !
मयूरेशपुरे वह्नेः स्थानं मास्तु क्वचित्तव ३१
सर्वेषां जाठरोऽपि त्वं लीनो भव ममाज्ञया ।
क उवाच ।
इति श्रुत्वा वचस्तस्य शक्रस्य रुषितात्मनः ३२
वह्निरन्तर्हितस्त्वत्र पुरेऽपि जठरेऽपि च ।
नापश्यन्मुनयो वह्निं ममन्थुर्होमहेतवे ३३
नायातीति परिज्ञाय तेऽपक्वं जक्षुरादरात् ।
न च तत्पच्यते तेन व्यथा भवति दुर्धरा ३४
ततस्ते मुनयो जग्मुर्मयूरेशं कृपाकरम् ।
नमस्कृत्याब्रुवन्सर्वे शक्राहूतो गतोऽनल: ३५
जाठरोऽपि गतो वह्निरिन्द्रयागे हते त्वया ।
इत्याकर्ण्य वचस्तेषां प्रत्येकं जठरेऽनलः ३६
सोऽभवत्क्षुधयाविष्ठाः सर्वे जातास्तु तत्क्षणात् ।
महानसेषु कुण्डेषु तथैव ज्वलितोऽभवत् ३७
ततो वायुं निनायाशु शक्रः क्रुद्धो महाबलः ।
प्रेतभूता पुरी सर्वा पंचप्राणे गतेऽभवत् ३८
पंचप्राणमयो देवस्ततस्तान्समजीवयत् ।
तत इन्द्रोऽब्रवीत्सूर्यं तापयैनां पुरीं बहु ३९
ततः सूर्योऽतपत्सर्वं द्वादशादित्यरूपवान् ।
वापीकूपतडागेषु नद्यां जलमशोषयत् २.१०७.४०
जज्वाल पृथिवी सर्वा पुरग्रामवनाकरा ।
ततः शीघ्रं मयूरेशो मेघो भूत्वा ववर्ष ह ४१
शमयामास तं वह्निं मृतांश्च समजीवयत् ।
ततो हर्षयुता लोकाः साधु साध्वित्यपूजयन् ४२
क उवाच ।
प्रतिकूलं कृतं यद्यत्ततत्सर्वं निराकृतम् ।
ज्ञात्वा शक्रो ययौ देवं मयूरेशं ननाम च ४३
बद्धांजलिपुटो भूत्वा स्तोतुं सवेश्वरं विभुम् ।
शक्र उवाच ।
न वेदा नर्षयो जग्मुर्ब्रह्माद्यास्ते गतिं विभो ४४
सर्वान्तर्यामिणः सर्वरूपस्य ब्रह्मरूपिणः।
ब्रह्मादीनां विश्वसृजां कारणानां च कारणम् ४५
अपराधान्क्षमस्वाद्य त्वामहं शरणं गतः ।
मस्तकं पादयोर्न्यस्य प्रार्थयामास सादरम् ४६
क उवाच ।
निर्विकल्पं मनन्तस्य ज्ञात्वा प्राह गुणेश्वरः ।
उत्तिष्ठोत्तिष्ठ भद्रं ते पदे तिष्ठ सुखं स्वके ४७
ततः संपूज्य तं देवं नमस्कृत्य शचीपतिः ।
प्रदक्षिणीकृत्य ययौ हष्टः सन्नमरावतीम् ४८ (४८९३)
इति श्रीगणेशपुराणे क्रीडाखण्डे सप्ताधिकशततमोऽध्यायः ॥१०७॥

अध्याय १०८प्रारंभः-
क उवाच । ततः पंचदशे वर्षे मयूरेशोऽर्भकैः सह।
गतः स्नातुं नदीं पुण्यां नाम्ना द्ब्रह्मकमण्डलुम् १
स्नात्वा नित्यं समाप्याशु मानसैः षोडशैः पृथक् ।
उपचारैः पुपूजस्ते ह्रदिस्थं गणनायकम् २
केचित्पद्मासनगतं केचिद्बर्हिगतं च तम् ।
दिव्यगन्धैर्दिव्यवस्त्रैर्दिव्यैः पुष्पैरपूजयन् ३
गार्ग्यो मुनिर्मन्दिरे तं ध्यात्वा रत्नान्वितेऽर्चयत् ।
एतस्मिन्नन्तरेऽकस्मात्पिदधे द्वारमस्य तत् ४
यावदुद्धाटयत्येव तावत्तद्दृढतामगात् ।
तत्र आक्रन्दनं चक्रे स च ते वालका अपि ५
बालका ऊचुः
त्वमेव जननी तातः कथमभ्यन्तरे स्थितः ।
दत्त्वा कपाटं देवेश नोऽपराधान्क्षमस्व च ६
क उवाच ।
एतस्मिन्नन्तरे दैत्यो महाबलपराक्रमः ।
यस्य शब्देन महता कम्पते भुवनत्रयम् ७
सटाभिन्नघनो दुष्टो व्याघ्ररूपी समभ्यगात् ।
व्यादायं वदनं घोरं ग्रसन्निव जगत्त्रयम् ८
दृष्टवा तं दुद्रुवुर्बालाः क्रन्दन्तस्ते दिशो दश ।
स तु द्वारं विनिर्भिद्य मयूरेशं तमाययौ ९
शार्दूलसदृशं रूपं कृत्वाऽयात्सोऽपि तं क्षणात् ।
पपाल सहसा व्याघ्रः पृष्ठे लग्नो ययौ च सः २.१०८.१०
भ्रमन्स तु वनं यातो निकुंजे लीय तस्थिवान् ।
देवो वृक्षं समारुह्य कुंजमध्ये पपात ह ११
उभाभ्यां वदनं तस्य कराभ्यां जगृहे दृढम् ।
अन्याभ्यां बहिरानीय ततः परशुनाऽच्छिनत् १२
नासिकां श्रवणे पादौ पुच्छमग्रभवावुभौ ।
न मुखं दर्शयेत्युक्त्वा विससर्ज गुणेश्वर १३
निजं रूपं समास्थाय तथैव विकृतोऽभवत् ।
एवमेव करिष्यामि त्वद्देहमित्युवाच तम् १४
ययौ निजालयं दैत्यो देवः स्वं धाम चाययौ ।
ततो मुनिसुता भ्रेमुः क्रन्दन्तः क्व मयूरराट् १५
अतिश्रान्ता द्रुमतले सुच्छाये प्रास्वपंस्तदा ।
अनेन यास्यति पथा द्रक्ष्यामस्तत्पदाम्बुजम् १६
पादौ दक्षिणतस्तेषां दृष्ट्वा चुक्रोध भानुजः ।
अत्यारक्तदृशी रोषाद्ब्रह्माण्डग्राससाहसः १७
बद्ध्वा तान्स्वस्थलं यातो मयूरेशस्ततोऽगमत् ।
नापश्यत्तत्तटे बालान्विस्मयं परमं ययौ १८
चिन्तां परमिकां प्राप्तो विना तैः स मयूरराट् ।
न सुखं क्वापि संप्रायात्ततो मुनिगणा ययुः १९
मुनय ऊचुः ।
क्वास्माकं बालका देव प्रातर्नीतास्त्वयाऽखिलाः ।
विना तैर्नो गमिष्यन्ति प्राणास्त्वय्यागतेऽधुना २.१०८.२०
क उवाच ।
न किंचिदूचे तान्देवो मुंचन्नश्रु मुहुर्मुहुः ।
विचार्य भास्करीं यातः पुरीं दूतैर्निवेदितः २१
दूता ऊचुः ।
कोऽपि यातो योद्धुकामो लोकत्रयविनाशकृत् ।
उग्रारावो महाबाहुर्वार्यमाणो बलाद्यमः २२
यम उवाच ।
ब्रह्माण्डं चूर्णतां याति दण्डाघातेन यस्य मे ।
तस्य मे पुरतो युद्धं कथं बालो विधास्यसि २३
देव उवाच ।
त्वमात्मानं वर्णयसे रंकवद्भांसि मे यम ।
मम वक्रभुवा सर्वं ब्रह्माण्डं च विनश्यति २४
एवमुक्त्वा मयूरेशो यमस्कन्धं रुरोह सः।
पातयामास महिषात्पपातोपरि तत्क्षणात् २५
पराक्रमं तस्य बुद्ध्वा बद्धाञ्जलिपुटो यमः ।
तुष्टाव परया भक्त्या मयूरेशं सुरेश्वरम २६
यम उवाच ।
न ते रूप विदुर्देवा ब्रह्माद्याः सनकादयः ।
नेति नेति च वेदास्त्वां वदन्ति परमेश्वरम् २७
स्रष्टारं पालकं सष्टेः संहर्तारं निजेच्छया ।
दैत्यानां सर्वदुष्टानां नाशकं सर्वरूपिणम् २८
अकस्मादपराधं नः कृतं क्षन्तु त्वमर्हसि ।
क उवाच ।
एवमुक्त्वा पुपूजासौ वस्त्रै रत्नैः फलैरमुम् २९
बालानानीय तद्धस्ते निवेद्य पुरतः स्थितः ।
आलिलिंगुर्मुदा सर्वे परस्परमथाब्रुवन २.१०८.३०
बाला ऊचुः ।
श्रान्तास्त्वद्दर्शनार्थाय बद्ध्वा नीता यमेन ह ।
त्वद्दर्शनाद्बन्धमुक्ता यास्यामो निजमन्दिरम् ३१
क उवाच ।
ततस्ते स्वाश्रमं प्राप्ता मयूरेशपुरस्कृताः ।
मयूरेशपूरं याता नानावादित्रसंकुलम् ३२
नानाध्वजपताकाढयं पुष्पमालाविभूषितम।
यमोऽपि पृष्ठतो याति द्रष्टुं तत्कौतुकं महत् ३३
संमुखं तस्य ते सर्वे मुनयोऽपि ययुस्तदा ।
पुपूजुस्तुष्टुवुर्देव लिलिंगुर्बालकानपि ३४
उवाच देवतान्सर्वान्मुनीन्पूर्वं प्रकुप्यतः।
आनीता बालका लोकाद्यमस्य क्षणमात्रतः ३५
मुनय ऊचुः ।
सर्वत्र रक्षसे त्वं हि सर्वशक्तिः सदा च नः ।
क उवाच ।
इत्युक्त्वा तमनुज्ञाप्य स्वाश्रमान्मुनयो ययुः३६
यमोऽपि तं नमस्कृत्य स्वालयं मुदितोऽगमत् ।
देवोऽपि स्वालयं प्राप्य हर्षयामास सादरम् ३७ (४९३०)
इति श्री गणेशपुराणे क्रीडाखण्डे रविजगर्वपरिहारो नामाष्टाधिकशततमोऽध्यायः ॥१०८॥

अध्याय १०९ प्रारंभ :-
कदाचित्पार्वती प्राह सुखासीनं महेश्वरम् ।
गतानि तु महादेव वर्षाणि दश पंच च १
विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।
सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी २
पिकवाक् सुनसा तन्वी वधूः क्वापि विचार्यताम् ।
मन्मथातुलदेहस्य सर्वांगसुन्दरस्य ह ३
क उवाच ।
इति तद्वचनं श्रुत्वा साधु साध्वित्यभाषत ।
सोऽचिन्तयच्छुभा कन्यां मनसा नापकुत्रचित् ४
ततश्चिन्तां परां प्राप तावन्नारद आगतः ।
संपूज्य चोपवैश्येनमासने शम्भुरब्रवीत् ५
शम्भुरुवाच ।
आह्लादं परमं प्राप्तस्तवागमनतो मुने ।
चिरागतोऽसि च मुने दिनं स्थातुं त्वमर्हसि ६
अतिसुन्दरकायस्य तनयस्य ममानघ ।
गवेषय वधू विप्र यतस्त्रैलोक्यगो भवान् ७
क उवाच ।
तथैव पार्वती प्राह वधूं शीघ्रं विचारय ।
नारद उवाच ।
न स्थातुं शक्यरे स्वामिन्कर्मणा द्विमुहूर्तकम् ८
एतदर्थमहं प्राप्तो ब्रह्मणा प्रेषितः शिव ।
तव पुत्रप्रभावश्च लावण्यं वय एव च। ९
ज्ञातं धात्रा सिद्धिबुद्धी तस्मै दातुमभीप्सता ।
अनसूया शची चापि तयो रूपेण लज्जिते २.१०९.१०
संज्ञाऽभूद्दण्डकारण्ये शिलाऽहल्यापि सा ह्यभूत् ।
जालन्धरस्य या पत्नी वृन्दा माधवमोहिनी ११
सापि वृक्षत्वमापन्ना यद्रूपदर्शनाद्धर ।
अन्ये नानावरा गौरि नागता ब्रह्मणो हृदि १२
नैतादृशं क्वापि देवि सौन्दर्यं शौर्यमेव च ।
तयोर्योगेन च तवः सुतः शोभामवाप्नुयात् । १३
रत्नकांचनयोर्यद्वद्यथा मुक्ताप्रवालयोः ।
क उवाच ।
एवं नारदवाक्येन स तुतोष हरः शिवा १४
शिव उवाच ।
सम्यगुक्तं मुने वाक्यं वांछितार्थकरं शुभम् ।
क उवाच ।
शिवोऽपि तत्क्षणादेव वृषारूढः समाह्वयत् १५
इन्द्रादिदेवनिचयान्गौतमादीन्मुनीनपि ।
अर्धांगे पार्वतीं गृहय ययौ हर्षसमन्वितः १६
शिखण्डिनं समारुह्य मयूरेशः पुरो ययौ ।
नारदस्तु तपोयोगादन्तरिक्षचरो ययौ १७
सप्तकोटिगणाः क्रीडां कुर्वन्तोऽभिययुस्तदा ।
नानायुधधरा हर्षाद्गर्जयन्तो दिशोदश १८
वाद्यत्सु सर्ववाद्येषु रजसाच्छादिते रवौ ।
अष्टाशीतिसहस्राणि मुनयोऽपि ययुर्मुदा १९
गण्डकीनगरं सर्वे गन्तुकामा व्यलोकयन् ।
गुल्वं मार्गे रक्षसां ते सप्तकोटिगणान्वितम् २.१०९.२०
नभस्पर्शि मुखानां च सर्वदा कालधिक्कृताम् ।
निशाचराः शुश्रुवुस्ते सेनायास्तु रवं दृढम् २१
सुप्तोत्थिताश्च सन्नद्धा ययू रणविधित्सया।
राक्षसा ऊचुः ।
कस्य यूयं कुतो याथ कृत आगमनं च वः २२
विज्ञानां न पुरे गन्तुं दास्यामः स्वामिनश्च नः ।
मयूरेश उवाच ।
स्वतन्त्रा अन्तका दैत्यरक्षसां साधुपालकाः २३
अतो यच्छन्तु नो मार्गं नो चेन्नाशं व्रजिष्यथ ।
क उवाच ।
एतस्मिन्नन्तरे प्राप्तो विकृतो हेमनामकः २४
असुरोऽथाब्रवीद्देवमेकाकि प्रहितः पुरा ।
इदानीं राक्षसैः सार्द्धमादास्ये जीवितं तव २५
उवाच राक्षसान्सोऽथ नानादैत्या हता बलात् ।
अहं च विकृतोऽनेन यतोऽहं हन्यते जवात् २६
क उवाच ।
इति तद्वचनं श्रुत्वा चुक्रोध स मयूरराट् ।
मुनिपुत्रान्समाज्ञाप्य युध्यध्वं मे ह्यनुग्रहात् २७
कुशानुद्यम्य ते हर्षाद् युद्धं कर्तुं समुद्यताः।
उवाच पृष्ठतो देवो घ्नन्तुं बालाः कुशैरिमान २८
मन्त्रितास्ते कुषास्तेषां मस्तकानच्छिनन्बहून् ।
तेषां शस्त्राणि कुण्ठानि जातानि तदनुग्रहात् २९
जायन्ते तावदेते तान्कुशैर्जघ्नुस्तु राक्षसान् ।
खण्डशस्ते निपेतुर्वै छिन्नबाहुरुजानवः २.१०९.३०
व्यस्मयन्त च रक्षांसि तृणैर्मृत्युव्रजन्ति किम्।
एवं सर्वे हता बालैरखिला राक्षसास्तधा ३१
जगर्जुस्ते मयूरेशं प्रापुर्नत्वाप्यपूजयन्।
बाला ऊचुः।
आज्ञया निहताः सर्वे राक्षसास्त्वत्प्रसादतः ।
पुनराज्ञां नः प्रयच्छ करिष्यामो गुणेश्वर ३२
आश्चर्यं परमं जग्मुर्मुनयो ये समागताः।
दृष्ट्वा बालहतान्त्सर्वान्राक्षसान्कुशसंचयैः ३३
पार्वती वृषभात्तस्मादवरुहयालिलिंग तम् ।
शिवोऽपि प्राब्रवीद्देवं दृष्टस्तेऽद्य पराक्रमः ३४
तव शस्त्रहताः पूर्वं निहता बालकैः कुशैः ।
ब्रह्मादीनामगम्यस्ते प्रभावो गिरिजासुत ३५
न ज्ञायते मया वापि किं किमग्रे करिष्यसि ३६ (४९६६)
इति श्री गणेशपुराणे क्रीडाखण्डे राक्षसवधो नाम नवाधिकशततमोध्यायः ॥१०९॥

क उवाच ।
जयशाली मयूरेशो यात्यग्रे हर्षनिर्भरः ।
पृष्ठतो यान्ति बालास्ते ततो वृषगतः शिवः १
गौतमाद्या मुनिगणा लग्नसिद्ध्यै ययुस्ततः ।
गर्जन्तो गर्जयन्तश्च दिशश्च विदिशोऽपि च २
योजनावधि गण्डक्या अवरुह्य शिख- ण्डिनः ।
अतिष्ठत्स मयूरेशो महार्घासनमुत्तमम् ३
ततः सर्वानुपावेश्य शिवं गणमुनिश्वरान् ।
वाद्यत्सु सर्ववाद्येषु तानाह स मयूरराट् ४
सिन्धुना निहिता कारागृहे शक्रादिदेवता ।
विना तन्मोचनं लग्नसिद्धिर्नैव भविष्यति ५
अतस्तन्मोचनार्थाय प्रेष्यातां सिन्धवे महान् ।
बुद्धिमान्स गृहीत्वा चेदागच्छेत्तान्सुरानथ ६
तदा साम्नैव सर्वेषां कुशलं हि भविष्यति ।
नो चेद्युद्धेन जेष्यामो रणे सिन्धुं महाबलम् ७
मोचयिष्याम तान्देवांस्ततो लग्नं भविष्यति ।
क उवाच।
एवं तद्वचनं श्रुत्वा प्राहुः सर्वे गुणेश्वरम् ८
सम्यगुक्तं मयूरेश सुधिया सदृशं वचः
बालभाऽवेपि ते बुद्धिर्बृहस्पतिसमा शुभा ९
पुष्पदन्तं महाबुद्धिं नीतिशास्त्रविशारदम् ।
प्रेष्यतां सिन्धुनिकटे देवमोचनहेतवे २.११०.१०
वक्तारं बलिनं श्रेष्ठं स्तोत्रसंतोषितेश्वरम् ।
क उवाच ।
तत ऊचे पुष्पदन्तो मयूरेशं सुरेश्वरम् ११
महिमा ते मयूरेश मनोवाचामगोचरः ।
जानन्ति न जना मायामोहितास्तव नित्यदृक् १२
भूभारहरणार्थ त्वमवतीर्णः शिवालये ।
न मां प्रेषय तत्र त्वमन्यं प्रेषय साम्प्रतम् १३
अपारसेनया युक्तं सिन्धुदैत्यं महाबलम् ।
उद्धतं बलिनं द्रष्टुमहं शक्यामि न क्वचित् १४
युद्धमेव करिष्यामि ततो दोर्दण्डतेजसा ।
यदि साम्ना भवेत्कार्यं युद्धं तत्र वृथा मतम् १५
दानं भेदो वृथा दण्डो नीतिरेषा सनातनी ।
एवमाकर्ण्य तद्वाक्यमुवाच पार्वतीपतिः १६
सम्यगुक्तः पुष्पदन्त नीतिमार्गः पुरातनः ।
क्रोधवान्न क्षमः साम्नि केवलं बलवान्परः १७
धरिष्यति महादुष्टं प्रेषितश्चेत्षडाननः ।
प्रेषितो वीरभद्रश्चेत्क्रोधमेव करिष्यति १८
शृंगी चेत्प्रेषितस्तत्र संहारं स विधास्यति ।
प्रमथः प्रेषितो मत्तो न जाने किं करिष्यति १९
प्रेषितश्चेद्भूतराजो मेषयिष्यति तां सभाम् ।
स्त्रीसंभोगरतः स्यात्तु प्रेषितो रक्त- लोचनः २.११०.२०
ततोऽब्रवीन्मयूरेशो निरस्तेषु च तेषु च ।
नन्दी समुद्रगम्भीरो धैर्ये पर्वतसन्निभः २१
बुद्ध्या बृहस्पतिसमो जम्भा- रिसदृशो बलं ।
धूर्तः पराशयज्ञाता प्रेष्यतां सामहेतवे २२
शिव उवाच ।
सम्यगुक्तं मयूरेश ज्ञातासि गुणदोषयोः ।
नन्दिने दीयतां वस्त्रं रत्नानि विविधानि च २३
ततो ददौ मयूरेशस्तानि तस्य शिवाज्ञया ।
आज्ञापयामास च तं गच्छ सिन्धुं महाबलम् २४
यथा देवा विमुच्यंते तथा नीतिर्विधीयताम् ।
स तु नत्वा मयूरेशं स शिवां शिवमेव च २५
गणान्सर्वान्महावाक्यैः स्तुत्वा तं च शिवं शिवाम् ।
उवाच बुद्धिसंपन्नो दिष्ट्योचितमिदं वचः २६
नन्द्युवाच ।
स महां जायते लोके यस्य वः स्यादनुग्रहः ।
अतोऽहं श्रेष्ठतां नीतः साधयिष्ये प्रयोजनम् २७
वः प्रसादेन भूगोलं विधास्ये न्युब्जमंजसा ।
शेषं सूर्यं वो निकटे आनयिष्ये न संशयः २८
क उवाच ।
एवमुक्त्वा ययौ नन्दी सिन्धुदैत्यं बलान्वितः ।
गतः स नगरद्वारं मनोवेगेन धैर्यवान् २९
ध्यायन्गणेशं शम्भुं च शिवां सर्वार्थसाधिकाम् ।
ऋतां कर्तुं प्रतिज्ञां तां प्रार्थयामास चेतसि २.११०.३० (४९९६)
इति श्रीगणेशपुराणे क्रीडाखण्डे दशाधिकशततमोऽध्यायः ।। ११ ०।।