गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०८६-०९०

विकिस्रोतः तः
← अध्यायाः ८१-८५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ८६-९०
[[लेखकः :|]]
अध्यायाः ९१-९५ →

अध्याय ८६ प्रारंभ :-
क उवाच ।
ततोऽस्यांकात्सुतं गौरी नमस्कृत्य समाददे ।
आज्ञां गृहीत्वा प्रायात्स्वं मन्दिरं भृशहर्षिता १
सोऽप्यनुज्ञां ततो गृह्य शिवं नत्वाश्रमं ययौ ।
ततो गौरी चकारास्य सुमुहुर्ते शुभे दिने २
गौतमादीन्समाहूय ब्राह्मणानुपवेश्य च।
द्विजेभ्यो नमया चक्रे सा प्रणम्य स्वयं च तान् ३
सर्वे देवगणास्तत्र नानोपायनप्राणयः ।
आययुस्तं गणाश्चापि गन्धर्वाप्सरसस्तथा ४
उवाच गौरी तान्विप्रानुपवेशनमस्य ह ।
विचार्यं सर्वमुनिभिः कुर्वन्तु द्विजपुंगवाः ५
त ऊचुर्मुनयः सर्वे गुरुवारस्त्रयोदशी।
पौष्णं नक्षत्रमद्यास्ति तस्मात्कार्यो महोत्सवः ६
ततो गृत्समदः शीघ्रं नानारत्नचयं भुवि ।
निधाय च चकाराशु चतुष्कं रत्ननिर्मितम् ७
गणेशपूजनं कृत्वा पुण्याहवाचनं तथा।
दिव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवा सुतम् ८
नीराजयामास च तं पतिवत्स्त्रीभिरादरात् ।
रत्नप्रभाजालगतं नानालंकारदीपितम् ९
उपायनानि ते सर्वे शिवाभ्यां तत्सुताय च ।
वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्तितत्पराः २.८६.१०
साऽपूजयत्ततो विप्रान्रत्नवस्त्रादिकांचनैः ।
आशीर्वादाक्षतांस्तस्मिंश्चिक्षेप सकलार्पितान् ११
भवानि पूजयामास मुनिपत्नीः सकन्यकाः ।
ता ऊचुर्गिरिजे धन्या त्वदन्या नास्ति कुत्रचित १२
एतादृशः सुतो वापि सर्वलक्षणमण्डितः ।
क उवाच ।
एवं वदत्सु सर्वेषु स्त्रीजनेषु महाखलः १३
व्योमासुरो व्योमकर्णो नानामायाविशारदः ।
न बले सदृशस्तस्य कोऽपि त्रिभुवनेऽभवत् १४
स तु द्वारिस्थितं चूतं नानाशाखासमन्वितम् ।
अभेद्यं वारणशतैः कल्पान्तमारुतैरपि १५
प्रविवेश तदा व्योमो मायया स तदन्तरम् ।
यथा दृष्टिवशाद्भूतं विशते दुष्टचेष्टिते १६
दोलयामास तं वृक्षं कल्पान्ते मारुतो यथा ।
द्रुमपातभयात्सर्वे मुनयश्च समागताः १७
भीताः प्रोचुर्विना वायुं कम्पते किं महाद्रुमः ।
तावत्कटकटाशब्दं शुश्रुवुर्वृक्षसंभवम् १८
स्त्रियो गणाश्च सर्वे ते चक्रिरे तु पलायनम् ।
विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता १९
एतस्मिन्नन्तरे वृक्षो निपपातार्भके तदा ।
हस्ताभ्यां निहतस्तेन शतचूर्णोऽपतद्भुवि २.८६.२०
यथा घननिपातेन क्रमुकं दृषदि स्थितम् ।
भ्रमन्ति स्म तदा व्योम्नि तच्छाखाः पल्लवान्विताः २१
ऋषीणामाश्रमाः केचिद्भग्नाः शाखानिपाततः ।
पलायिते जने पेतुः काश्चिच्छाखाः सपल्लवाः २२
ततो व्योमासुरो दुष्टो गतासुर्निपपात ह ।
व्यादायास्यं वमन्रक्तं शतधा तेन सोऽभवत् २३
आययुस्ते ततः सर्वे स्त्रियस्य बालकं तदा ।
ददृशुस्ते यथापूर्वमुपविष्टं निराकुलम २४
सुमेरूनिश्चलं स्वस्थं ततः सर्वे विसिस्मिरे ।
पंचमासेन बालेन महाबलपराक्रमः २५
लीलया हस्ततो दैत्यः स वृक्षः शतधा कृतः ।
हाहाकाररवा गौरो धावति स्म निजं सुतम २६
मुनयस्तामथोचुस्ते हतदैत्यः सुतस्तवः ।
सा ददर्श ततो बालं हिमवत्पर्वतोपपम २७
उत्थाय कटिदेशे तं धृत्वा स्तन्यं ददौ मुदा ।
मरीचिवाक्यं सस्मार प्रशशंस महेश्वरम् २८
यमीश्वरोऽवति सदा तं हन्तुं यः समीहते ।
स एव विलयं याति पतंग इव दीपगः २९
मुनयो योषितः सर्वा ययुः स्वं स्वं निवेशनम् ।
ततो गणा ययुः केचिदक्षतं वीक्ष्य तत्सुतम् २.८६.३०
ऊचुर्धन्यतरा माता रक्षितस्ते सुतोऽसुरात् ।
दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदति ३१
ततः सा शर्करां तेभ्यो दत्त्वाज्ञां प्रददौ शिवा ।
सर्वाभ्यश्च ततो याता दृष्टा तेन निजं गृहम् ३२
य इदं शणुयात्पुण्यमाख्यानं भक्तिमान्नरः ।
न स बाधां लभेत्क्वापि सर्वत्रनिर्भयो भवेत् ३३ (३८३०)
इति श्रीगणेशपुराणे क्रीडाखण्डे भूम्युपवेशवर्णनं नाम षडशीतितमोऽध्यायः ॥८६॥

अध्याय ८७ प्रारंभ :-
क उवाच ।
व्योमासुरस्य भगिनी तस्य दुःखेन दुःखिता।
निशामुखे दर्शदिने समुत्पन्ना क्षुधातुरा १
भक्षयामास महिषाञ्शतसंख्यान्महाबलान् ।
करालकेशी लम्बोष्ठी तालनासा दरीमुखा । २
हलदन्ता कूपनेत्रा श्रोतावरणसंयुता ।
दीर्घस्तनी महाघोरा भूमिस्पृक्वचका खला ३
दीर्घबाहुर्निम्ननाभिर्गोधेव कर्कशा त्वचि ।
नाम चक्रुस्तदा लोकाः शतमाहिष भक्षणात् ४
अन्वर्थं भावदुष्टायाः स्फुटं तु शतमाहिषा।
सा ययौ बन्धुहन्तारं हन्तुं बन्धुप्रियंकरी ५
कमनीयतरा भूत्वा सर्वावयवसुन्दरा ।
नानालंकारसंयुक्ता गौरा षोडशवार्षिकी ६
कृत्वा षोडशशृंगारान्मोहयन्ती कटाक्षतः ।
सा ययौ दुष्टभावेन गिरिजालयमुत्तमम् ७
प्रणनाम शिवां चादौ प्रोवाच परमादरात्।
धन्याऽहं कृतकृत्याऽहं प्राप्ताऽहमीप्सितं फलम् ८
यतस्त्वं सर्वजननी सर्वदेवमयी शुभा ।
सर्वध्येया सर्वसिद्धिः सर्वकारणकारणम् ९
जगन्मोहनदक्षा त्वं पुण्येन दृष्टिमागता ।
क उवाच ।
श्रुत्वा वाचं तदीयां सा प्रोवाच गिरिजा तु ताम् २.८७.१०
उत्तिष्ठोत्तिष्ठ भद्रं ते संतुष्टाऽहं तवेक्षणात् ।
कस्यासि कुत आयासि किमर्थं च वरांगने ११
कामं ते पूरयिष्यामि वद सत्यं ममाग्रतः ।
सोवाच ।
अहं चिरं वियोगार्ता शरणं त्वामुपागता १२
श्रुतं स्यादमरावत्या नायकोऽसुरवर्जितः ।
स लीनः क्वापि गिरिजे सर्वे देवगणा अपि १३
त्वं तु भाग्यवती देवि न वियोगो हरस्य ते ।
सह्यं भवेत्सर्वदुःखमसह्यं तु वियोगजम् १४
पार्वत्युवाच ।
बालोऽयं मम सुभगे हनिष्यति खलान्बलात् ।
मोचयिष्यति देवान्स कालः कश्चित्प्रतीक्ष्यताम् १५
एतदर्थं गुणेशेन धृतो देहो ममालये ।
भूभारोत्तारणार्थाय मुनीनां पालनाय च १६
क उवाच ।
इत्युक्त्वा पूजयामास पादक्षालनपूर्वकम् ।
सखीभिः कुंकुमाद्यैश्च भोजयामास सादरम् १७
सापि भुक्त्वा शिवातल्पे सुष्वापोवाच तत्सखीः ।
गिरिजाबालकं सख्य आनयन्तु ममान्तिकम् १८
विश्वस्ताः सर्वसख्यास्ता ददुर्बालं तु तत्करे।
लालयामास सा स्नेहान्मुखचुम्बनवल्गनैः १९
तज्जिघांसां स विज्ञाय सर्वज्ञः स शिवात्मजः ।
राक्षसीमिति निश्चित्य हस्ताभ्यां श्रोत्रयोरधात् २.८७.२०
नासिकां च ततो भारं महापर्वतसन्निभम् ।
तदंगं पातयामास सा च श्वासनिरोधतः २१
विह्वला परिचिक्षेप पादाघाताशिशौ भृशम् ।
मुंच मुंचेति भाषन्ती कौतुकं द्रष्टुमागताम् २२
कथं हंसि स्त्रियं दुष्ट त्वनागस्कां शिवासमाम् ।
क उवाच ।
तदाक्रंदनमाकर्ण्य सखीभिः सह पार्वती २३
आगता मोचितुं पुत्रं नाशकत्तमुवाच सा ।
न मारयाशु मुंचैनां शक्रस्य महिषीं प्रियाम् २४
श्रुत्वा मातृवचो बालो दूरे चिक्षेप तां तदा।
पपातोपरि व्याजेन क्षणात्सोऽभ्युदतिष्ठत २५
तत्कर्णनासिकाहस्तो दृष्टः सासृकस्रवोऽपि च ।
तदंघ्रिघातात्सा प्राणांस्तत्याज क्षणमात्रतः २६
गतासुं तां शुशोचाथ पार्वती स्नेहनिर्भरा।
उवाच चपलो बालो दुर्यशो जितवानहम् २७
श्रुत्वा शची हतामिन्द्रः किं वागत्य करिष्यति ।
ददर्श पुरतो गत्वा राक्षसीं तां शिवाऽशिवाम् २८
दशयोजनविस्तीर्णां क्षतभूभूरुहां तदा ।
तत्याज शोकं जहृषे प्रशशंस निजं सुतम् २९
आदाय सुतमव्यंगं पार्वती मन्दिरं ययौ ।
विस्मापयत्यसौ बाला शंकिता बालपौरुषम् २.८७.३०
विस्मयं पौरुषे तस्य समपद्यत पार्वती ।
तत्सख्याच्च्छिन्नकर्णां तां छिन्ननासां व्यलोकयन् ३१
कथामस्या लाघवं च कथमस्य बलं शिशो: ।
अहसन्प्रावदन्नित्यं दत्त्वा तालं परस्परम् ३२
ततस्तां राक्षसीं दूराच्चिक्षिपुः प्रमथास्तदा ।
अरिष्टे विहते गौरी ददौ दानानि भक्तितः ३३
ततस्तु सप्तमे मासे प्रवृत्ते निद्रिते जने ।
तमसा सर्वतो व्याप्ते दशदिग्मण्डलेऽखिले ३४
निशीथेऽरण्यपशुषु रुवत्सु दर्दुरेषु च ।
पर्यंके परिसुप्तायां पार्वत्यां दिव्यसंस्तरे ३५
सखीजने निद्रिते च सेवकानां गणे तथा ।
एतस्मिन्नन्तरे दुष्टो नाम्ना यः कमठासुरः ३६
आच्छादयत्स्वदेहेन शिवा प्रांगणमद्भुतम् ।
यस्य स्पर्शेन सहसा शीर्यंते वज्रसंहति ३७
अतिशीतलगात्रः स पार्वणश्चन्द्रमा इव ।
उदिते तु दिवानाथे तत्पृष्ठे विचरंजनाः ३८
केचित्स्नात्वा स्थिता जप्तुं केचिन्निद्रां प्रचक्रिरे ।
स्खलित्वा पतिताः केचिदतिकोमलदेहतः ३९
सिषिचुर्बालिका वारि गोमयैरंगमालिकाः ।
चक्रुस्ततो बहिर्याता सबाला गिरिजा तदा २.८७.४०
आस्वापयत्सुतं गौरी महार्हास्तरणेऽत्र सा ।
सखीस्तत्र च संस्थाप्य ययौ सा सेवितुं शिवम् ४१
एवं ज्ञात्वाऽसौ कमठः स्वस्य पृष्ठमचालयत् ।
भूमिकम्पः कथमिह किं वारिष्टं भविष्यति ४२
इत्यब्रुवन्स्थितास्तत्र गणाश्चकितमानसाः ।
निद्रिताः प्रतिबुद्धास्ते कि जातमिति चाब्रुवन् ४३
तदैव तेन बालेन सर्वज्ञेन विवर्त्तिता।
उदरं तस्य पृष्ठे तु न्यधायि धर्षता भृशम् ४४
चतुर्दशभुवनजं भारं निदधताऽत्र च ।
निरुद्धश्वासवायुः सोऽगांनि स्वानि व्यचालयत् ४५
अस्रवद्रक्तमतुलमस्य देहात्तथाविधात् ।
उड्डानं कर्तुमारेभे नाशकत्कमठस्ततः ४६
ततो गणा ययुः सर्वे ये तत्रासन्सुखोषिताः।
किमरिष्टं समुत्पन्नं मुहुर्भूश्चलते नु किम् ४७
सख्यश्च बालिकाः सर्वाः पार्वतीं सेवितुं ययुः ।
उत्तिष्ठ मातर्बालस्ते नीतः स्याद्वा मृतोऽपि वा ४८
त्वरया पार्वती याता धावमाना बहिः सुतम् ।
ददर्श निश्चलं गौरी सोत्थापयितुमुद्यता ४९
भूगोलभारसदृशं मत्वा तस्थौ विमानसा ।
ततो ममर्द सहसा बालस्तं स ममार च २.८७.५०
ततः सा ददृशे दैत्यं दशयोजनमायतम् ।
प्रसारितमुखं कूर्मं वमन्तं रुधिरं बहु ५१
चूर्णयामास सहसाऽऽश्रमान्नानाविधान्दुमान् ।
ततः सा बालमादाय स्तनपानं ददौ मुदा ५२
न ज्ञायतेऽसुराणां हि नानामायां प्रकुर्वताम् ।
त्रिलोचनप्रसादेन पुनर्लब्धः तुतो मया ५३
यतः कृतान्ताद्बलवान्निहतः कमठासुरः ।
सख्यश्च तद्गणाः प्रापुः पप्रच्छुः क्षेममर्भके ५४
क्षेममित्येव तान्गौरी निजगाद मुदान्विता ।
ततो गणाः खण्डशस्तं कृत्वा दूरतरं जहुः ५५
ववर्षुः पुष्पवर्षाणि तस्मिन्देवगणास्तदा ।
य इदं परमाख्यानं शृणुयाच्छ्रावयेत्तथा ५६
सर्वारिष्टविनिर्मुक्तः सर्वान्कामानवाप्नुयात् ५७ (३८८७)
इति श्रीगणेशपुराणे क्रीडाखण्डे कमठासुरवधो नाम सप्ताशीतितमोऽध्यायः ॥८७॥

अध्याय ८८ प्रारंभ :-
व्यास उवाच ।
अद्भुतानि चरित्राणि श्रुतानि त्वन्मुखाम्बुजात् ।
ब्रह्मन्नघौघहारीणि गुणेशेन कृतानि वै १
तथापि श्रोतुमिच्छा नो नापैति सर्ववित्तम ।
अतो बालस्य चरितं पुनर्मे ब्रूहि सादरम् २
ब्रह्मोवाच ।
शृणुष्वावहितो ब्रह्मन्गुणेशस्य कथां पुनः ।
स्रुतिरस्य च पापानां संहर्त्री धर्ममोक्षदाम् ३
अष्टमे मासि मध्याह्नं ग्रीष्मर्तौ गिरिजा किल ।
ऊष्मणा पीडितां गेहे सा ययौ पुष्पवाटिकाम् ४
अशोकाश्चन्दना यत्र पनसास्रबिभीतकाः ।
मालतीचम्पकाजातीचिंचिणीपिचुमन्दकाः ५
पारिजातकवृक्षाश्च घनच्छायासमन्विताः ।
रम्यं शीतजलं चारु सरः कमलमण्डितम् ६
तत्र मंचकवर्ये सा सख्यानीते शुभास्तरे ।
सुष्वाप गिरिजा बालयुक्ता निःशंकचेतसा ७
सखीभ्यां वीजिता बालव्यंजनेनाश्ममुष्टिना ।
सुषुप्तिमगमद्यावत्तावद्दैत्यो महाबलः ८
तल्पासुर इतिख्यातो वायुरूपोऽविशत्ततः।
मंचकान्तर्गतः सोऽथ तेज साकं ययौ दिवम् ९
तस्य शब्देन संत्रस्ते ते सख्यौ पतिते भुवि ।
आक्रन्दं परमं चक्रे पर्यंकस्था तदा शिवा २.८८.१०
व्योमस्था पर्यदेवत्सा धाव धावेति शंकर ।
किं मया विकृतं देव किमर्थं मामुपेक्षसे ११
अयं दैत्योऽतिबलवान्व्योमाक्रम्य प्रधावति ।
परहस्तगतां कान्तां शक्तः कथमुपेक्षसे १२
अस्य पुत्रस्य योगेन नानादुःखमभून्मम ।
अस्माद्दैत्यान्मृतिर्मे किं सपुत्राया विनिर्मिता १३
अयमेव न जातश्चेत्कथं बन्धनमाप्नुयाम् ।
क उवाच ।
एवामाक्रन्दनं श्रुत्वा उमाबालो महामनाः १४
तदा मुहुर्जगर्जासौ घनवद्गर्जयन्दिशः ।
चकम्पे धरणी तेन ससमुद्रवनाकरा १५
तामद्रष्ट्र्वा तु शोचत्सु गणेषु प्रमथादिषु।
पादाघातेन बालोऽथ मंचकं समताडयत् १६
बिभ्युर्भूतानि सहसा शतधेवाभवन्नभः ।
मंचकः खण्डशस्तेन भूत्वा निपतितो भुवि १७
ततस्तल्पासुरो दृश्यो जातो बालो दधार तम् ।
हस्तेनैकेन जननीं दधारासौ स्वलीलया १८
घनमुक्तं तोयबिन्दुं चञ्च्वेव चातकः क्षणात् ।
स्कन्धारूढां तु तां कृत्वा शिखां वामेन तस्य च १९
ततस्तत्याज भूदेशे तं बालः सहसा बलात् ।
पद्मासनं दैत्यदेहे कृत्वा योगीव तस्थिवान् २.८८.२०
स भूमौ पतितो दूरान्मर्दितो बलवत्तरम् ।
प्राणांस्तत्याज दैत्योऽथ वमन्नास्यादसृग्मुहुः २१
स तु दृष्टो जनैर्दैत्य एकविंशतियोजनः ।
चूर्णयन्वृक्षपाषाणानाश्रमां शरणान्यपि २२
ततो दृष्टो बालकोऽसौ गणः सखिजनैरपि ।
ऊचुस्ते गौरि बालोऽयं रमते कुशली बली २३
सा तु भ्रांत्यैव नाजानाद्गगनं धरणीं शिशुम् ।
मुनयस्तामथोचुस्ते सावधानमना सति २४
भव दैत्यो हतस्तेन धृत्वा रूपं महत्तरम् ।
उन्मील्य नयने पश्य पुनर्बालं शिवं शुभम् २५
क उवाच ।
तद्वाक्यात्प्रतिबुद्धा साऽपश्यद्दैत्यं च बालकम् ।
गौर्युवाच ।
विपरीतं मया दृष्टं मूढो बालेन वा कथम् २६
हतोऽनेन महादैत्य एकविंशतियोजनः ।
मातॄणामृणमुत्तीर्णो बालो मे जीवितप्रदः २७
इत्युक्त्वा बालमादाय कारयामास शान्तिकम् ।
दत्त्वा दानानि च ददौ स्तनपानं शिशोरपि २८
दृष्ट्वा ते कौतुकं तस्य प्रशशंसुर्मुदान्वितः ।
एतस्मिन्नन्तरे घोरं चक्रे शब्दं महासुरः २९
दुन्दुभेः सदृशं सोऽपि ख्यातो दुन्दुभिनामतः ।
यस्य पाणितलाघाताद्धरा चूर्णत्वमागता २.८८.३०
आच्छादितो दिनमणिर्देहेन गगनस्पृशा ।
गणबालस्वरूपेण गौरीबालं जुहाव सः ३१
इत एहि रमावोऽद्य सोऽपि यातस्तदेव तम् ।
स्वांकं कृत्वा तु तं बालं हालाहलफलं ददौ ३२
अद्ध्यद्धीति फलं बालं शीघ्रमित्यब्रवीच्च सः ।
दूरदेशात्समानीतं जन्ममृत्युजरापहम् ३३
स तु जानन्दुष्टभावं फलं तज्जगृहे ततः ।
अभक्षयदयाचत्स फलान्तरमभीः पुनः ३४
क उवाच ।
अमृतं विषतां याति विषं तत्तां शिवेच्छया।
धृत्वा वक्षः स्थलं तस्य तत्क्षणादुदतिष्ठत ३५
तज्जानुनोर्न्यस्य पादौ कराभ्यां जगृहे शिखाम् ।
पराभ्यां श्मश्रुणी गृह्य दोलयामास लीलया ३६
ननर्त जानुभागेऽस्य भूमण्डलभरान्वितः ।
स पीडित उवाचाथ जानुभागादवातर ३७
तव भारेण नृत्येन मम देहोऽतिपीडितः।
मुंच मुंच गमिष्यामि स्वालयं गिरिजासुत ३८
क उवाच ।
एवं संप्रार्थितस्तेन न मोचयति बालकः ।
उदतिष्ठद्बलाद्दैत्यो भग्नदेहस्तु पूर्वतः ३९
बलाच्चकर्ष बालोऽपि मूर्धानमस्य तत्क्षणात् ।
कण्ठनालात्तच्छिरोऽपि बालहस्तगतं बभौ २.८८.४०
रुधिराक्ता मही सर्वा तत्क्षणं समपद्यत ।
शिरःकमलहस्तोऽसौ खेलते गिरिजासुतः ४१
शोणितेन विलिप्तांगे गणा मात्रे न्यवेदयन ।
सा गत्वा पश्यति स्माथ पुत्रं दृष्टवा तथाविधम् ४२
तच्छिरो दूरतः क्षिप्त्वा वस्त्रेण च ममार्ज तम् ।
स्नापयित्वा स्वयं स्नात्वा ददौ स्तन्यं तदा मुदा ४३
ततः सख्यो गणाश्चापुः पप्रच्छुः क्षममभकम् ।
सोवाच परमं क्षेम बालके शिवभक्तित:४४
मरीचिरक्षणाच्चापि कुशलं मम बालके ।
ततस्ते तं निरासुर्वै दूरतो दुष्टदानवम् ४५
ततो हर्षयुता जग्मुर्गणाः सख्यो निजं गृहम् ।
पार्वती हर्षसंयुक्ता सबाला प्राविशद्गृहम ४६ (३९३३)
इति श्रीगणेशपुराणे क्रीडाखण्डे मंचकासुरवधो नामाष्टाशीतितमोऽध्यायः ॥८८॥

अध्याय ८९ प्रारंभ :-
क उवाच ।
ततस्तु दशमे मासे त्रिमुहूर्तागते रवौ ।
किंचिच्च रिंगमाणोऽसौ रमते च शिवासुतः १
पादाभ्यां चालयन्क्वापि गूढं गूढं च भाषते ।
लुण्ठते नर्तते चापि रोदनं कुरुते च ताम २
दृष्ट्वा शिवां च सहसा पृष्ठलग्नो व्रजत्यपि ।
दृष्ट्वा तथाविधं बालं जहृषे पार्वती तदा ३
एतस्मिन्नन्तरे दृष्टो दैत्य आजगराभिधः ।
वमदग्निकणान्दृष्ट्या वज्रासारतनुर्दृढः ४
ललज्जिह्वो दीर्घदेहो ग्रसन्निव महागिरिम् ।
उपविष्टो द्रुमतले द्वे जिह्वे लालयन्मुहुः ५
तं बालो बालभावेन रिंगीत्वा विदधार ह ।
स निनाय च शीघ्रमास्यान्तः सह तेन च ६
अन्तःप्रविष्टे ओष्ठौ स न्यमीलयत वायुभुक् ।
नापश्यदंगणे बालं गौरी विह्वलमानसा ७
अत्र कीडन्स्थितो बालः केन नीतो हतो नु वा ।
शुशोच परमार्तासौ तताड मस्तकं निजम् ८
तावद्गणैर्निषिद्धा सा मा मातर्विमना भव ।
बालप्रभावो विज्ञातः शतशो बलतत्तरः ९
बालस्तदुदरगतो ववृधे च निरुध्य च ।
श्वासं तस्य तु दैत्यस्य पुच्छान्त सोप्यचालयत् २.८९.१०
प्राणवायुस्तु नेत्राभ्यां रुधिरेण विनिर्ययौ ।
विदार्य देहमस्यासौ बहिर्यातोऽम्बिकासुतः ११
चिक्रीड रुधिरार्द्रांगः किं नु पुष्पितकिंशुकः ।
ततो गणास्तं निरीक्ष्य लिहन्तं स्वांगुलिं शिशुम् १२
उच्चैरूचुर्गिरिसुतामयं बालो विनिर्गतः ।
अस्यास्यान्मारयित्वा तं दैत्यमाजगरं खलम् १३
क उवाच ।
तद्वधानन्नरं बालमादाय सत्वरं शिवा ।
स्नापयामास सहसा लालयित्वा स्तनं ददौ १४
क्व गतोऽसि क्षणो बाल त्वां विनाब्दत्वमागतः ।
ततो ददर्शाजगरं विस्तीर्णं शतयोजनम् १५
भयानकमुखं दुष्टं वमन्तं रुधिरं बहु ।
पतितं वृक्षजालानि पातयित्वा गृहाणि च १६
गौर्युवाच ।
अस्मिन्स्थले कियन्तो नु भवेयुर्दैत्यराक्षसाः ।
कियन्तो निधनं प्राप्ता अस्य बालस्य विक्रमात् १७
ततस्तं चिक्षिपुः सर्वे गणा दूरे महासुरम् ।
ततस्त्वेकादशे मासे द्वारदेशे शिवा ययौ १८
सखीभिः पश्यती बालकौतुकानि बहून्यपि ।
कस्यचिद्वदनं बालश्चुम्बते चुम्बयत्यपि १९
आच्छादते चक्षुषी च कस्यचित्पृष्ठगः स्वयम् ।
पिबते मातुरन्यस्याः स्तन्यं गत्वा बलादसौ २.८९.२०
मुखमाच्छाद्य वस्त्रेण बिभीषयति चापरान् ।
मुखं केशान्नासिकां च कर्षते भूषणान्यपि २१
वदते स्खलितां वाणीं परंदृष्ट्वा स्वकान्यपि ।
एतस्मिन्नन्तरे दुष्टो दानवः शलभासुरः २२
ब्रह्मादीनामगम्योऽसौ पर्वतस्कन्धमण्डलः ।
व्योमस्फोटिमहामूर्धा नीलवर्णो यथा घनः २३
जपाकुसुमनयनो मेघस्पृक्शृंगमण्डलः ।
बालान्तिकमुपायातो ग्रसन्निव जगत्त्रयम् २४
तं धर्तुं बालको याति यत्र यत्र स गच्छति ।
एवं तौ सुचिरं कालं भ्रमतः स्म महाजवौ २५
ततः श्रान्तोऽभवद्बालो रुषाऽधावत्तदन्तिकम् ।
दधार सहसा दैत्यं शलभं बलवत्तरम २६
सपक्षौ स्फालयामास श्येनो हस्तगतो यथा ।
बाधते चरणाघातैस्तं बालं शलभासुरः २७
प्रसार्य नयने क्रूरे पश्यती स्म तदा शिशुम ।
मुमुचे तं तदा बालो दधार च पुनःपुनः २८
दर्शयामास जननीं धरापृष्ठे व्यपोथयत् ।
शिवोवाच दयाविष्टा तं बालं क्रूरमानसम् २९
जीवघातो न कर्तव्यो मुंचैनं प्राणिनं शिशो।
बलात्पुनः शिलापृष्ठे हठाच्चिक्षेप बालकः २.८९.३०
स तदा शतधा जातो निपपात च भूतले ।
गर्जयन्गगनं वृक्षान्पातयन्गृहतोरणान ३१
वमन्रक्तं बहु मुखाद्दशयोजनविस्तृतः ।
चूर्णयन्नाश्रमान्वृक्षांस्ततो माता निनाय तम् ३२
बालं संस्थापयामास प्रादात्स्तन्यं च भोजनम् ।
सख्यो निरीक्ष्य तं बालं मृतं दैत्यं तथाविधम् ३३
साधु साध्विति ताः प्रोचुस्तां च पर्वतकन्यकाम् ।
गृहं विवेश गिरिजा ताश्च सख्यो मुदान्विताः ३४
चिक्षिपुर्दूरतो दैत्यं तदाज्ञावशगा गणाः ।
मुमुचुः पुष्पवर्षाणि बालं देवगणास्तदा ३५ (३९६८)
इति श्रीगणेशपुराणे क्रीडाखण्डे शलभासुरवधो नामैकोननवतितमोऽध्यायः॥ ८९ ॥


अध्याय ९० प्रारंभ :-
क उवाच ।
ततो द्वादशमासे तु गिरिजा सुतमद्भुतम् ।
उपविष्टालिभिः सार्धमंके कृत्वा स्वलंकृतम् १
कोटिसूर्यनिभं कोटिभूषणैश्च विराजितम् ।
ततस्तस्या महानासीदुत्सवो नृत्यदर्शने २
बालकानां हरस्याथ ज्ञात्वा वांछां शिशुस्तदा ।
थेथीथेयीति शब्देन ननर्त गिरिजासुतः ३
श्रुत्वा तदीयं तं शब्दं हरो नर्तितुमागतः ।
शिवं नृत्यन्तमालोक्य ननर्त श्रीवरोऽपि च ४
तत इन्द्रादयो देवास्तव नर्तितुमागताः ।
स यथा नर्तते बालस्तेऽपि नृत्यन्ति तादृशम् ५
दर्शयन्ति तथा भावं स यथा दर्शयत्यपि ।
मनुष्याः पशवो वृक्षा यक्षराक्षसपन्नगाः ६
मुनयो मनवो भूपा भुवनानि चतुर्दश ।
एकविंशतिस्वर्गस्थाः सचेतनमचेतनम् ७
बालप्रभावान्ननृते बालच्छन्देन भूतलम् ।
मुनिपत्न्यो देवपत्न्यो ननृतुर्गिरिकन्यया ८
नूपुराणां सिंचितेन क्षुद्रघन्टारवेण च ।
पादाघातस्य शब्देन दिशो विदिश एव च ९
गगनं पर्वता आसन्नादयुक्तास्तदा मुने ।
चकम्पे धरणी शेषो रविश्चन्द्रश्च तारकाः २.९०.१०
ततो नृत्यस्यातिशयं ज्ञात्वा गौरी न्यषेधयत् ।
न चक्रे बालको वाक्यं यदा गौरीसमीरितम् ११
नूपुराख्यो महादैत्यो महाकृष्णतनुर्दृढ ।
पातालचरणो व्योमसंस्पर्शिदृढमस्तकः १२
नूपुरान्तर्गतो दुष्टः सूक्ष्मरूपः शिशोरसौ ।
स बालस्तं बबन्धाशु मायया बलवत्तरम् १३
शृङ्खलाभिश्चतुर्दन्तं यथा मदच्युतं गजम् ।
अंके जग्राह तं बालं पुनरेवाद्रिकन्यका १४
तद्भारेण पिपीडाथ भूभारेण समेन सा।
उवाच वचसा गौरी कथं गुरुतरो भवान् १५
इदानीमेव जातोऽसि तस्मादुत्तर मेऽङतः ।
मम प्राणा गमिष्यन्ति तव भारेण बालक १६
क उवाच ।
श्रुत्वा मातुर्वचो बालः पीडिता सा भृशं तदा ।
उत्ततार बलादंकादुधावाङ्रि युगं शिशुः १७
ततो निसृत्य दैत्योऽसौ व्योम्नि बभ्राम पक्षिवत् ।
तमसाऽव्यापि भूः सर्वा तेन संछादिते रवौ १८
सोऽकस्मान्निपपातोर्व्या शतधा चाभवत्खलः ।
ततस्ते मुनयो देवाः परमानन्दनिर्वृताः १९
तुष्टुवुर्बालरूपं तं परमात्मानमव्ययम् ।
देवर्षय ऊचुः ।
न जानीमो वयं देव रूपाणि तव यन्महः २.९०.२०
लीलामायाश्च विविधा दैत्यदानवनाशिकाः ।
चरणात्त्याजितो दैत्यो रविमण्डललोपकः २१
भ्रमित्वा व्योमनि भृशं पतितः शतधाऽभवत् ।
संहृत्य जीवसंघातान्वृक्षानाश्रमपर्वतान् २२
तव नृत्यं ततो वीक्ष्य सर्वे नृत्यं प्रचक्रिरे ।
क उवाच ।
ततस्ते पुपुजुः सर्वे तं बालं विश्वरूपिणम् ।
नृत्योत्सवे निवृत्ते तु गौतमादीन्विसृज्य सा २३
पार्वती बालमादाय लालयित्वा स्तनं ददौ।
स्त्रिय सर्वा विसृज्याथ विवेश निजमन्दिरम् २४
ततः पुनः कदाचित्स मुनिबालैः समन्वितः ।
गृहाद्बहिः क्रीडनार्थं ययौ चिक्रीड लीलया २५
मल्लयुद्धं च ते चकुर्द्वन्द्वशोऽनेकधा बहु ।
पातयामासुरागृह्य शिखायां ते परस्परम् २६
जघ्नुः शिरः शिरोभिश्च जानुभिर्जानुनी तथा ।
कूर्परं कूर्परेणैव चरणं चरणेन च २७
रुरुहुः पृष्ठभागं ते स्कन्धभागं परस्परम् ।
लत्ताप्रहारान्निर्जघ्नुरुदरे मस्तकेऽपि च २८
केचिच्च पुपुजुर्बालं गन्धपुष्पाक्षतादिभिः ।
केचिन्नीत्वाश्रमपदं भोजयामासुरन्धसा २९
नमश्चक्रुः पदयुगं केचिन्मालां ददुः शुभाम् ।
अविपुत्रस्वरूपेण दैत्यः सिन्धुप्रणोदितः २.९०.३०
यं दृष्ट्वा भयमभ्येति दण्डपाणिर्भयानकः ।
स्वबलेन जघानारींस्तीक्ष्णधारनखो बली ३१
बिरुदं बाहुदेशे स जित्वा सर्वान्बबन्ध ह ।
विशालाक्षो बृहच्छृङगो महागोत्रविदारणः ३२
पुच्छाघातेन जीवानां यश्चक्रे नाशनं खलः ।
उन्मूलयामास द्रुमाञ्शृङ्गाघातेन पतंतान् ३३
पृष्ठलग्नो मनुष्याणां बलान्मारयते बली ।
स ययौ पार्वतीबालं हन्तुकामो महासुरः ३४
पृष्ठतो धावयित्वा स यावन्मारयते तु तम् ।
दधार शृङ्गयोर्बालो हस्ताभ्यां तावदेव हि ३५
रुरोह च स तत्पृष्ठे हयपृष्ठे यथाऽर्भकः ।
ततो मुनिसुताः केचित्पुच्छं धृत्वा व्यकर्षयन् ३६
केचिद्दण्डैश्च लगुडैर्निजघ्नुर्दैत्यपुंगवम् ।
सोऽवमत्य तु ताञ्जघ्ने पुच्छान्तेन स सत्वरम् ३७
निपेतुस्ते तदा भूमौ पुच्छाघातेन पीडिताः ।
दृष्ट्वा तस्य बलं बालोऽवतरच्च दधार तम् ३८
आस्फालयत्तदा पृष्ठं भ्रामयित्वा चिरं तु तम् ।
सहस्रधा विशीर्णांगो ममार सहसाऽसुरः ३९
अन्त्यशब्देन तस्याथ बिभाय भुवनत्रयम् ।
वमन्रक्तं बहु मुखात्प्रसार्य विकृतं मुखम् २.९०.४०
ततो बाला मुनीनां तेऽकथयन्नचलोद्भवाम् ।
अनेन निधनं नीत अविजेयो महासुरैः ४१
निहन्तुं नः समायातः क्रीडता बलशालिना।
क उवाच ।
अम्बा निरीक्ष्य निहतं महादैत्यं सुतं च तम् ४२
आश्चर्यं परमं कृत्वा निनाय निजमन्दिरम् ।
दध्योदनं भ्रामयित्वा बालोपरि जलेन ह ४३
तत्याज दूरतो गेहात्स्तनपानं ततो ददौ ।
तानि खण्डानि दैत्यस्य तत्यजुर्दूरतो गणाः ४४
मुनयो मुनिपत्न्यश्च मुनिबालाः स्त्रियोऽपि च ।
प्रशशंसुः सुतं गौर्या देवाः पुष्पाणि तत्यजुः ४५
आशिषोऽपि ददुर्विप्रा नृत्यन्ते स्माप्सरोगणाः ४६ (४०१४)
इति श्रीगणेशपुराणे क्रीडाखण्डेऽविजयवधो नाम नवतितमोऽध्यायः ॥९०॥