सामग्री पर जाएँ

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०४६-०५०

विकिस्रोतः तः
← अध्यायाः ४१-४५ गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ४६-५०
[[लेखकः :|]]
अध्यायाः ५१-५५ →

अध्याय ४६ प्रारंभ :-
मुनिरुवाच ।
अविमुक्तवियोगेन परितप्तः शिवस्तदा ।
सर्वार्थवशगं ढुण्ढिं नत्वा प्रार्थयदातुरः ॥१॥
शिव उवाच ।
पंचानामपि भूतानां कारणानां च कारणम् ।
चिदानन्दघनो विश्वध्येयो वेदान्तगोचरः ॥२॥
प्रधानं पुरुषश्चासि गुणत्रयविभागकृत् ।
विश्वव्यापी विश्वनिधिर्विश्वरक्षणतत्परः ॥३॥
नानावतारकृच्चासि भूभारहरणोद्यतः ।
देवानां पालने शक्तो दैत्यानां निधने तथा ॥४॥
द्विजानां चैव धर्माणामार्तानां शरणैषिणाम् ।
स्वेच्छया पत्यतां याते त्वयि ब्रह्मस्वरूपिणि ॥५॥
कमन्यं षं शरणं यामि काशीविरहदुःखितः ।
ढुण्ढिरुवाच ।
अन्यानेव प्रेषयसि सर्वविद्याविशारदान् ॥६॥
सर्वदर्शी कियर्थं त्वं मोहमेषि सदाशिव ।
शिव उवाच ।
इदानीमेव गच्छ त्वमविमुक्तं गजानन ॥७॥
दिवोदासस्य विघ्नार्थं मम कार्यार्थसिद्धये ।
मायया मोहय जनं पुण्यं येनास्य हीयते ॥८॥
ढुण्ढिरुवाच ।
यामि शीघ्रं महादेव न चिन्तां कर्तुमर्हसि ।
साधयिष्ये तव हितं दर्शयिष्ये निजां पुरीम् ॥९॥
बहिष्कृत्य दिवोदासं जनपापविभागिनम् ।
मुनिरुवाच ।
इत्युक्त्वा शिवमानम्य पार्वतीं च षडाननम् ॥२.४६.१०॥
प्रदक्षिणीकृत्य तथा नारदे गुरुमेव च ।
प्रस्थितोऽखिलविद्यानां कलानां च निधिर्विभुः ॥११॥
प्राप वाराणसीं पुण्यां पुण्यमवास्य दृष्टवान् ।
ज्योतिर्विदभवत्सद्यस्तस्य पापमलक्ष्य सः ॥१२॥
रुक्मकान्तिर्दिव्यदेहो मुक्तामालाविभूषितः ।
कटिसूत्रं च नाभौ तु महारत्नविभूषितम् ॥१४॥
पीतवस्त्रपरीधानो दिव्यगन्धानुलेपनः ।
कामातिसुन्दरतनुः कामिनीजनमोहनः ॥१५॥
पतिव्रताश्च या नार्यश्चकमुस्ता अपि द्विजम् ।
मनसा चिन्तितं प्रश्नं वदति स्माखिलं तु सः ॥१६॥
अतः पतिव्रता नार्यः प्रश्नं प्रष्टुं तमन्वयुः ।
विहाय बालकान्भर्तृन्भ्रातृनन्यान्सुहृज्जनान् ।
स्वप्नान्वदति लोकानां स्वमायादर्शितानसौ ॥१७॥
सेवतां सर्वलोकानां ददाति सुबहून्वरान् ।
तद्वरस्य प्रभावेण दुष्टः कुष्टो विनश्यति ॥१८॥
पुत्रिण्यः सर्ववन्ध्याश्च जातास्तद्वरदानतः ।
हस्तं दृष्ट्वा महाभाग्यं कर्माणि कथयत्यसौ ॥१९॥
यद्यद्येन च संभुक्त भोक्ष्यमाणं च तत्क्षणात् ॥२.४६.२०॥
विस्मितो नगरे लोकः सर्व आसीन्मुदान्वितः ।
नेदृशो ब्राह्मणोऽदर्शि सर्ववेत्ता गुणाकरः ॥२१॥
न भूतो न भविष्यो वा इति लोका वदन्त्यमुम् ।
पूजयन्ति धनै रत्नैर्ज्ञात्वा प्रत्ययमस्य ते ॥२२॥
हस्ते धृतानि वस्तूनि कथयत्येव तत्क्षणात् ।
दरिद्रस्याप्रयत्नस्य प्रष्टुं यातस्य वेत्त्यसौ ॥२३॥
अभिप्रायं स्वयं तस्य ब्रूते त्रिदिनमन्तरा ।
भविष्यसि धनाढयस्त्वं तथैवासौ भवत्यपि ॥२४॥
गतं नष्टं कथयति यथा यत्तत्तथा भवेत् ।
एवमाचक्षतस्तस्य ढुण्ढेर्विप्रस्वरूपिणः ॥२५॥
द्वित्रिमासैर्गता वार्ता राजकर्णे जनेरिता।
जना ऊचुः ॥
राजपत्न्योऽपि याश्चान्याः पातिव्रत्यपरायणाः ॥२६॥
एतावत्कालपर्यन्तं नो भजन्नन्यदेवताः ।
विना पतिं गतास्तास्तु विनाज्ञां तं निरीक्षितुम् ॥२७॥
नो भविष्यति पुत्रो वा कन्या वेति विचारितुम् ।
सखीभिस्तु निषिद्धास्ता ढुण्ढिरत्रागमिष्यति ॥२८॥
आकार्यं तु ततस्तास्तु रहस्येतमुपानयन् ।
उपवेश्यासने रम्ये राजपत्न्यः प्रपूजिरे ॥२९॥
प्रक्षाल्य चरणद्वन्द्वं तद्दर्शनसुविह्वलाः ।
कस्तुरीचन्दनं तस्य शरीरे पर्यमर्दयन् ॥२.४६.३०॥
निकटे तस्य काचित्तु भूत्वाऽदाद्वीटिकाः स्वयम् ।
पप्रच्छुर्बहुप्रश्नास्तं सर्वां एवाब्रवीच्च सः ॥३१॥
प्रत्यये तु समुत्पन्ने सर्वास्तास्तु विसिस्मिरे ।
एवं ताः प्रत्यहं तस्य दर्शनं पूजनं स्वयम् ॥३२॥
त्यक्त्वा ता गृहकार्याणि चक्रुत्सर्वास्तु तत्पराः ।
नैतादृशो दृष्टपूर्वो भूतभव्यभविष्यवित् ॥३३॥
इत्यब्रुवन्स्तुवन्त्यस्तं सर्वज्योतिर्विदुत्तमम् ।
उत्थिते राज्ञि ताः शीघ्रं विससर्जुः क्षणादमुम् ॥३४॥
पतिभावं परित्यज्य तमेवाचिन्तयन्सदा ।
दिवोदासोऽपि तं ज्ञात्वा समाकार्य ननाम च ॥३५॥
स्वासने तं परिस्थाप्य पुपूजे विष्टरादिभिः ।
गामर्घ्यं च धनं वस्त्रमर्पयामास सादरम् ॥३६॥
यद्यत्तं परिपप्रच्छ तत्सर्वं स मुदाऽब्रवीत् ।
विस्मृत्य निजदेवं स तमेवाचिन्तयन्नृपः ॥३७॥
रहस्ये परिपप्रच्छ प्रश्नान्नानाविधान्बहून् ।
प्रत्यये तु समुत्पन्ने प्रार्थयामास सादरम् ॥३८॥
ग्रामान्धान्यं धनं दास्ये तिष्ठात्र निकटे मम ।
चमत्कारा बहुविधा दृष्टा यस्मान्मया त्वयि।।३९।।
ततो जगाद ढुण्ढिस्तं प्रपञ्चरहितो नृपम्।
स्त्रीपुत्रकन्यागारादि त्यक्वाय वाराणसीमगाम् ॥२.४६.४०॥
न ग्रामा न धनं धान्यं रोचते मेऽस्पृहस्य ते ।
एकं वदामि ते वाक्यं हृदि तत्कर्तुमर्हसि ॥४१॥
इतः सप्तदशे राजन्दिने कोऽपि परः पुमान् ।
आगत्य स वदेद्यत्तत्कर्तव्यमविचारतः ॥४२॥
हितं ते परमं राजन्भविष्यति न संशयः ।
एतावता मया लब्धा ग्रामा धान्यं धनानि च ॥४३॥ ( १९९८ )
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते षट्चत्वारिंशोऽध्यायः ॥४६॥

अध्याय ४७ प्रारंभ :-
राजोवाच ।
अवश्यं मुनिशार्दूल करिष्ये वचनं तव ।
करवाण्यन्यथा चेन्मे शपथोऽस्ति हरस्य ह ॥१॥
गृत्समद उवाच ।
एवं तेन सर्व जनाः काशिस्थाः स्ववशीकृताः ।
त्यक्त्वा सर्वाणि कर्माणि तमेव परिसेविरे ॥२॥
भूतं भव्यं विप्रकृष्टं भविष्यं च विवृण्वता ।
ततो विष्णुर्बौद्धरूपी पंचक्रोशाद्बहिः स्थितः ॥३॥
आगत्य मायया मोहं जनयन्सर्वदेहिनाम् ।
श्रुतिस्मृतिविरुद्धं सोऽपाठीद्धर्मवृषं द्विषन् ॥४॥
सोऽपि स्ववचनात्सर्वान्वशं चक्रे महाजनान् ।
साकारभजनं सर्वं दूषयामास सादरम् ॥५॥
किमर्थं पार्थिवीं मूर्तिरर्च्यते तैजसीरपि ।
सर्वो जनो मूढमनाः परात्मनि हृदि स्थिते॥६॥
वृक्षाणां जीवतां छेदः पशूनामपि हिंसनम् ।
कुरुते स्वस्य वित्तानि परस्मै यः प्रयच्छति ॥७॥
नष्टे देहे तु भूतानि लीयन्ते पंचपंचसु ।
स्वयमेव हि भोक्तव्यं पक्वान्नं सघृतं मुदा ॥८॥
देहात्मा परिपूज्योऽसौ नानाभोगैर्यथासुखम् ।
ततः सर्वे जनाः स्वं स्वं मार्गं मुक्त्वा तथाऽभवन् ॥९॥
ब्राह्मणानपि संत्यज्य ब्रुभुजुर्भोगमुत्तमम् ।
तत्पत्नी कमला नाम पूरयन्ती मनोरथान् ॥२.४७.१०॥
स्थिता वाराणसीवासिर्स्त्रियः सर्वा व्यमोहयत् ।
बोधयामास यत्नेन दुष्टमार्गं दिनेदिने ॥११॥
भिद्यन्ते बुद्धयस्तेषां पुरग्रामनिवासिनाम्।
स्वदेहे भर्तृदेहे योऽन्यस्य देहे स एव तु ॥१२॥
न भिद्यते पुमान्यद्वन्मुखनासाकरादिभिः ।
तथात्मा नैव भिद्येत देहैरेतैश्चतुविधैः ।
एवं प्रलोभिताः कान्ताः पुंसोऽन्यानपि भेजिरे ॥१३॥
ब्राह्मणा अग्निहोत्रेषु यज्ञेषु शिथिलादराः ।
व्रते दाने च होमे च देवब्राह्मणपूजने ॥१४॥
पशूनां यज्ञियानां च छेदने संशयं दधुः ।
परस्परं गृहे जन्तोर्बुभजुर्भोगमुत्तमम् ॥१५॥
स्वयमेव बुभुजिरे श्राद्धानि च व्रतानि च ।
एवं च धर्मलोपोऽभूदेनसो वृद्धिरेव च ॥१६॥
ततो बौद्धो जगामाशु दिवोदासस्य मन्दिरम्।
पूजितः परया भक्त्या स तेन स्वासने शुभे॥१७॥
तत ऊचे दिवोदासं वाक्यं वाक्यविशारदः ।
बौद्ध उवाच ।
शृणु राजन्हितं वच्मि श्रुत्वा तत्कुरु सादरम् ॥१८॥
इयं वाराणसी शूलभृता निर्मायि तेजसा ।
प्रलयेऽपि त्रिशूलाग्ने ध्रियते सर्वजन्तुभिः ॥१९॥
पुण्यवद्भिरिह स्थेयं मृतौ मोक्षमभीप्सुभिः ।
पापात्मानो भैरवेण क्रियन्ते बहिरेव च ॥२.४७.२०॥
रक्षणं पुण्यकर्तॄणां क्रियते तेन तेन च ।
तव पुण्यं स्थितं यावत्तावदत्र स्थितो भवान् ॥२१॥
काश्यां राज्यं प्रकुर्वाण इदानीं न तथा भवान् ।
पापं च संप्रवृत्तं ते राज्ये नरककृन्नृप ॥२२॥
नृप उवाच ।
सम्यगुक्ते त्वया मह्यं करिष्ये वचनं तव ।
ज्योतिर्विदा ढुण्ढिना च प्रोक्तं तत्सत्यमेव तत् ॥२३॥
वद मे त्वं च कश्चासि मद्धितार्थमिहागतः ।
यदि वेत्तुं मया शक्यं तत्त्वं ते पुरुषोत्तम ॥२४॥
क उवाच ।
ततः स करुणाविष्टो दर्शयामास तं नृपम् ।
निजं चतुर्भुजं रूपं शंखचक्रगदाधरम् ॥२५॥
समष्टिव्यष्टिरूपेण चिद्रूपं च प्रदर्शितम्।
ततो नृपो नमस्कृत्य पुपूज परया मुदा।।२६।।
ननर्त परया भक्त्या तद्दर्शनमहोत्सवः।
धन्योऽहमिति त प्राह पितृभ्यां सहितोऽनघ ॥२७॥
पूर्वं राज्यं परित्यज्य तपस्तप्तं मया बहु ।
ब्रह्मणेदं बलान्मह्यं दत्तं राज्यमनुत्तमम् ॥२८॥
त्वद्दर्शनाज्जन्ममृती गते मे नात्र संशयः ।
इदमेव परं याचे त्वमहं शरणं गतः ॥२९॥
मुनिरुवाच ।
इत्युक्तः परमात्माऽसौ प्रोक्तवान्नृपसत्तमम्।
विश्वेश्वर प्रसादाच्च तवापि राजसत्तम ॥२.४७.३०॥
भविता परमा मुक्तिस्त्यक्त्वा राज्यं सुखी भव।
भैरवो दण्डपाणिश्च बहिः कुर्यादतोऽन्यथा ॥३१॥
एवमाकर्ण्य तद्वाक्यं चिन्तां परमिकां ययौ ।
ध्यात्वा विचार्य तद्धेतुं बुबोध सर्वमेव सः ॥३२॥
ज्योतिर्विदं गणेशं च बौद्धं मायाविनं हरिम् ।
प्रणम्य शिरसा भक्त्या कोऽसीति निजगाद तम् ॥३३॥
सोऽपि बुद्ध्वा महाविष्णुर्निजं रूपं समास्थितः ।
चतुर्भुजं शंकचक्रगदापद्मधरं विभुम् ॥३४॥
पीताम्बरसमायुक्तं सर्वलोकाश्रयं परम् ।
उवाच तं नृपः पूज्य धन्योऽहं मम पूर्वजाः ॥३५॥
यन्मोक्षदं पदयुगं दृष्टं पुण्यप्रभावतः ।
देहि मे परमां मुक्तिं मुद्रामेतां गृहाण च ॥३६॥
बलाद्दत्तं ब्रह्मणा मे शास्तु राज्यं शिवो निजम् ।
ततो जगाद तं विष्णुः शिवो मुक्तिं प्रदास्यति ॥३७॥
क उवाच ।
एवमुक्त्वा दिवोदासं महायोगेश्वरो हरिः ।
अन्तर्हितः पुनर्यायाद्बौद्धरूपी निजाश्रमम् ॥३८॥
प्रेषयामास दूतं स शिवागमनहेतवे ।
दिवोदासस्य राज्ये मे धर्मवृद्धिः कृता बहु ॥३९॥
ज्योतिर्विदा गणेशेन त्यक्तं राज्यं नृपेण ते ।
शीघ्रमायाहि विश्वेश निजां वाराणसीं पुरीम् ॥२.४७.४०॥
ततो राजा राजचिह्नं त्यक्त्वा तेपे परन्तपः ।
प्रासादे परमे स्थाप्य शिवलिगं सुविश्रुतम् ॥४१॥
स्वनाम्ना मोक्षदं पुंसां सकामानां तु कामदम् ।
प्रतीक्षन्दर्शनं तस्य शंकरस्यार्थदायिनः ॥४२॥ (२०४०)
इति श्रीगणेशपुराणे क्रीडाखंडे सप्तचत्वारिंशोऽध्यायः ॥४७॥

अध्याय ४८ प्रारंभ :-
मुनिरुवाच ।
त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः।
अवसत्सर्वलोकानां ढुण्ढिस्तत्रार्थदायकः ॥१॥
दूतं च प्रेषयामास शीघमागम्यतामिति ।
शंकराय महाबुद्धिस्ततः स हर्षनिर्भरः ॥२॥
आरुह्य वृषभं देवो ययौ वाराणसीं पुरीम् ।
दिव्यवादित्रनिर्घोषैः स्वगणैः परिवारितः ॥३॥
जैगीषव्यं निराहारं वल्मीकमिव संस्थितम् ।
अनुगृहय ययौ दुण्ढिं प्रणम्य च उवाच तम् ॥४॥
शिव उवाच ।
त्वमेव विश्वेश्वर विश्वरूप विश्वं सृजस्यत्सि हि पासि देव ।
शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश ॥५॥
ब्रह्मापि सृष्टिं कुरुतेंगितात्ते तद्रक्षणं चैव हरिस्थताऽहम् ।
संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य ॥६॥
तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्ध्यै ।
त्वया विना वेदविधिर्वृथा स्यात्त्वदीयशक्त्या सुरशत्रुनाशः ॥७॥
अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान ।
यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष ॥८॥
त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च ।
वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितोहि ॥९॥
त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः ।
त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीना॥२.४८.१०॥
अपेकरूपांघ्रिविलोचन त्वमनेकशीर्षश्रुतिबाहुजिह्वः।
अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः॥११॥
तव प्रसादादविमुक्तमेतद्दृष्टं चिराद्यत्नवताऽखिलेश ।
मुनिरुवाच ।
एवं स्तुत्वा पूज्य प्रार्थयामास शंकरः ॥१२॥
गतं विरहदुःख मे प्राप्य वाराणसीं पुरीम् ।
इदानीं सर्वदा रक्ष मद्भक्तांश्च पुरीमिमाम् पुनः॥१३॥
विना प्रसादं ते न स्यात्काशीवासः कदाचन ।
दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत्॥१४॥
तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा ।
माघे मासि चतुर्थ्यां यो भौमवारे विधूदये ॥१५॥
अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् ।
संहृत्य तस्य संकष्टं स्तोत्रपाठेन यो नुयात् ॥१६॥
तस्यापि सकलान्कामान्यच्छ लक्ष्मीमनेकधा ।
य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः ॥१७॥
पठेत्स्तोत्रं सकृद्वापि भक्तिर्मुक्तिश्च तस्य च ।
अन्वेषयित्वा सर्वार्थान्विदधासि नृणामिह ॥१८॥
अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ।
ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम् । ॥१९॥
स्मरणात्सर्वकार्याणां सिद्धिदं च भविष्यति ।
मुनिरुवाच ।
एवमुक्त्वाऽस्थापयात्स गण्डकीयशिलाकृताम् ॥२.४८.२०॥
मूर्तिं ढुण्ढेर्महादेवः प्रासादे चारुनिर्मिते ।
ततो विवेश भवनं सर्वे देवाः स्वमन्दिरम् ॥२१॥
दिवोदासस्य मुक्तिं स ददौ भक्तस्य शंकरः ।
गृत्समद उवाच ।
एवं विमोहितस्तेन दिवोदासः स्वमायया ॥२२॥
विष्णुना बौद्धरूपेण तस्यास्य हितं कृतम् ।
सर्वं ते कथितं देव सामर्थ्यं ढुण्ढिना कृतम् ॥२३॥
एवं प्रभावो देवोऽसौ यद्वरादुत्थितः सुतः ।
क उवाच ।
एवं गृत्समदः प्रोक्त्वा तस्ये दुण्ढिविचेष्टितम् ॥२४॥
गृहीत्वाज्ञां ययौ शीघ्रं निजमाश्रममण्डलम् ।
तदानीमेव सा पत्रमादाय प्रस्थिता ततः ॥२५॥
ढुण्ढेरायतनं याता नानानारीनरैर्युतम् ।
महोत्सवं प्रकुर्वद्भिर्दृष्ट्वा कीर्तिर्ननाम तम् ॥२६॥
ययौ वाराणसीं पुण्यां मरणा-न्मुक्तिदायिनीम् ।
माघमासे चतुर्थ्यां सा भौमवारे मुदान्विता ॥२७॥
अनेकस्वर्णपात्रस्थैः पक्वान्नैः पायसादिभिः ।
पूजितं भक्तनिवहैर्नृत्यगीतविशारदैः ॥२८॥
नानालंकारसंयुक्तं दिव्यमाल्याम्बरावृतम् ।
नानामणिगणोपेतं नानामुक्ताविभूषितम् ॥२९॥
सुवर्णरत्ननिचयैर्दक्षिणार्थ निवेदितैः ।
न दृश्यते देवमुखमिति चिन्तापराऽभवत् ॥२.४८.३०॥
मयाऽकिंच्चमयाऽस्मै किं निवेद्यमिति साऽनघ ।
सा दूर्वाशमिमन्दारकुसुमैर्मार्गसंचितैः ॥३१॥
पुपूज परया भक्त्या पुत्रोदयमयाचत ।
शमीमन्दारदूर्वाभिर्यथा तुष्टोऽभवत्तयोः ॥३२॥
न तथा द्रव्यनिचयैर्ढुण्ढिराजस्तुतोष ह ।
ततो भक्ता गताः सर्वे स्वस्वमन्दिरमादृताः ॥३३॥
उभौ तौ जननीपुत्रौ सन्निधौ तत्र तस्थतुः ।
तयोर्निराहारतया भक्तिभावेन तोषितः ॥३४॥
आविरासीन्मूर्तिमध्याद् ढुण्ढिराजो महोत्कटः ।
ऊचतुर्मुनिना प्रोक्तं यत्स्वरूपं महेशितुः ॥३५॥
तदेतत्पुण्यनिचर्यैर्दृष्टं साक्षात्सुभास्वरम् ।
सर्वांलंकारसंयुक्तं मुकुटेन विराजितम् ॥३६॥
दशबाहुधरं चारु नेत्रपंकजशोभितम् ।
अनर्घ्यरत्नमुक्तानां बिभ्रद्दाम महत्तरम् ॥३७॥
पीताम्बरयुतं दन्ताविराजितमनुत्तमम् ।
दृष्ट्वैवं परमं रूपं मग्नावानन्दसागरे ॥३८॥
विस्मृतौ पूजनं कर्तुं नमस्कारं च तावुभौ ।
उवाच भगवान्देवो वरं वरय सुव्रते ॥३९॥
सुप्रसन्नाः प्रदास्यामि यत्ते मनसि वर्तते ।
मुक्ताफलैर्न रत्नैश्च द्रव्यैर्नानाविधैरहम् ॥२.४८.४०॥
प्रीतो यथा शमीपत्रैर्मन्दारैरपि शोभने ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं कीर्तिस्तोषमियात्परम् ॥४१॥
देहभावं समासाद्य जगाद द्विरदाननम् ।
किं स्त्रिया वचनं कार्यं सर्वज्ञे सर्वरूपिणि ॥४२॥
आज्ञयाऽथ तथाऽप्यूचे सान्निध्याल्लब्धबोधया ।
कीर्तिरुवाच ।
निष्कलो निरहंकारो निर्गुणोऽसि जगत्प्रभुः ॥४३॥
पूर्णानन्दः परानन्दः पुराणश्च परात्परः ।
दिक्पालरूपी सोमार्कसरित्सागररूपवान् ॥४४॥
त्वमेव पृथिवी वायुराकाशस्तेज एव च ।
जलं तथाऽन्तरिक्षं च गन्धर्वोरगराक्षसाः ॥४५॥
चराचरस्वरूपस्त्वं दीननाथकृपानिधिः ।
विनायकादिरूपेण व्यक्तिं प्राप्तोऽसि सांप्रतम् ॥४६॥
अद्य मे नयने धन्ये जन्म भर्ता सुतोऽप्ययम् ।
पितरौ च कुलं शीलं रूपं ज्ञानं तपोऽपि च ॥४७॥
जन्मान्तरीयपुण्येन दृष्टः क्षिप्रप्रसादनः ।
तवैव चाज्ञया देव स्थापिताऽस्य तवाभिधा ॥४८॥
सपत्न्याऽस्य विषं दत्तं मृत उत्थापितः पुनः ।
गृत्समदेन मुनिना तव भक्त्यैव विश्वराट् ॥४९॥
शमीपत्रैश्च पूजा ते कथिता तव लब्धये ।
मुनिप्रभावाद्दृष्टोऽसि तापत्रयनिवारण ॥२.४८.५०॥
प्रसन्नश्चेद्देहि नाथ भक्तिं मम सुतस्य ते ।
त्रैलोक्येऽपि यशश्चाग्र्यं राज्ये निःसंगवृत्तिताम् ॥५१॥
दीर्घायुः सद्गुणग्रामं बलं कीर्तिं सुखं क्षमाम् ।
विजयं सर्वसंग्रामे द्विजे देवे रतिं पराम् ॥५२॥
ढुण्ढिरुवाच ।
ये ये वरास्त्वया प्रोक्तास्ते ते दत्ता मयाऽनघे ।
सहस्रयज्ञकर्ताऽसौ जीवन्वर्षसहस्रकम् ॥५३॥
शान्तो दान्तो हि मद्भक्तो राज्यं कर्ता
सुतस्तव । चतुर्भिरप्युपायैः स वशे सर्वं करिष्यति ॥५४॥
मम ध्यानं नामजपः सर्वदाऽस्य भविष्यति ।
अन्ते मम स्मृतिं कृत्वा मत्स्वरूपं प्रपत्स्यते ॥५५॥
क उवाच ।
एवं तस्यै वरान्दत्त्वा परितुष्टो विनायकः ।
ददौ स्वपरशुं तस्य पर्शुबाहुरिति स्फुटम् ॥५६॥
चक्रे नाम स्वयं देवस्ततश्चान्तर्हितोऽभवत् ॥५७॥ ( २०९७ )
इति श्रीगणेशपुराणे क्रीडाखंडे कीर्तेर्वरप्रदानं नामाष्टचत्वारिंशोऽध्यायः ॥४८॥

अध्याय ४९ प्रारंभ –
क उवाच ।
एवं लब्धवरा कीर्तिः शेषां रात्रिं निनाय च ।
उषः स्नात्वा प्रपूज्याशु मूर्तिं पुत्रयुता ययौ ॥१॥
हर्षिता दुःखिता देव विरहान्नगरं स्वकम् ।
नानाध्वजपताकाभिः सेकैर्धूपैरलङकृतम् ॥२॥
ढुण्ढिनाम जपन्तौ तौ नृपपत्नीसुतावुभौ ।
ज्ञात्वा गतौ नृयानेन सेनया वाद्यनिस्वनैः ॥३॥
आनिन्ये नगरं कर्णपुरं नाम्ना सुविश्रुतम् ।
मूर्ध्न्याघ्रायाशु तनयं सस्वजे परमादरात् ॥४॥
उवाच परमप्रीतो हर्षगद्गदया गिरा ।
क्षिप्रप्रसादन सुत श्रान्तोऽसि बहुवासरम् ॥५॥
दृष्ट्वा त्वां परमाह्लादं प्राप्तो लब्ध्वा सुधामिव ।
विससर्जाखिलाँल्लोकान्दत्त्वा वस्त्राणि दक्षिणाः ॥६॥
कीर्तिश्च स नृपः पश्चात्परस्परमथोचतुः ।
साऽपि सर्वं नृपायास्मै वृत्तान्तं संन्यवेदयत् ॥७॥
परस्परालिंगनचुम्बनानि हास्यं विनोदं परिचक्रतुस्तौ ।
ताम्बूलविच्छेदमपि प्रहर्षात्कामस्य युद्धं निरपत्रपौ च ॥८॥
ततः कतिपयाहस्सु ज्ञात्वा पुत्रं गुणाकरम् ।
विनीतं सर्वधर्मज्ञं नीतिशास्त्रविशारदम् ॥९॥
अभिषेचनीयसंभारान्कृत्वाहूय वरान्द्विजान् ।
सुहृदः सर्वैः राजन्यानभिषेकं सुते ददौ ॥२.४९.१०॥
शुभे मुहूर्ते संलग्ने सप्तेष्टग्रहसंयुते ।
कृत्वाऽभ्युदयिकं श्राद्धं स्वस्तिवाचनपूर्वकम् ॥११॥
नानाद्रव्ययुतस्तोयैरभिषेकमकारयत् ।
नदत्सु सर्वतुर्येषु ऋग्यजुस्साममन्त्रतः ॥१२॥
संतोष्य ब्राह्मणानन्यान्दक्षिणारत्नदानतः ।
स्वयं च वनवासीयदीक्षां गृह्य च पृच्छ्य च ॥१३॥
विससर्जाखिलान्राजा निजसाधनसंस्थितः ।
ततः परशुबाहुः स प्रशशास महीमिमाम् ॥१४॥
धर्मशास्त्रीयनीत्या च त्यागेन यश आर्जयत् ।
विख्यातस्त्रिषु लोकेषु पराक्रमबलादभूत् ॥१५॥
मन्दारमूर्तिं ढुण्ढैः स कृत्वा कंठे दधार ह ।
शमीं दूर्वां विना पूजां न करोति कदाचन ॥१६॥
नानाभोगाननेकाः स्त्रीर्बुभुजे धर्मतस्तु सः ।
उत्पाद्य पुत्रान्दानानि दत्त्वा वर्षसहस्रकम् ॥१७॥
चकार राज्यं पश्चात्तत्पुत्रे न्यस्य दिवं ययौ ।
कल्पाननेकान्स्वर्गे स स्थितो दुण्ढिस्वरूपवान् ॥१८॥
मुनिरुवाच ।
एवं शम्याः प्रभावस्ते संक्षेपेण निरूपितः।
तत्पूजनस्य पुण्यं च मन्दारस्य प्रसंगतः ॥१९॥
तस्मात्त्वयाऽपि पूज्योऽहं शमीमन्दारतो मुने।
भक्त्या समर्पितं पुष्पं पत्रमिष्टं सुधायते ॥२.४९.२०॥
निषिद्धपत्रपुष्पादि समर्प्य नरकं व्रजेत् ।
यस्य यद्दैवतं मुख्यं तदिष्टमितरेषु वा ॥२१॥
समर्पयन्नभेदेन भक्तो दोषं न चाप्नुयात् ।
एवं पञ्चापि संपूज्य देवांस्तत्परतामियात् ॥२२॥
सात्विको लीयते देवे राजसस्तु सरूपताम् ।
उभाभ्यां चैव सान्निध्यं तामसस्तु सलोकताम् ॥२३॥
प्राप्नुयाद्भजमानस्तु त्रेधा भक्तिर्न वै वृथा।
व्यास उवाच ।
विनायकस्य लोको वै कस्मिंल्लोके च तिष्ठति ॥२४॥
एतं मे संशयं ब्रह्मंश्छेत्तुमर्हसि सांप्रतम् ।
कमन्यं परिपृच्छामि सर्वज्ञं त्वां विहाय भोः ॥२५॥
ब्रह्मोवाच ।
मयाऽपि नारदायोक्तो मुद्गलाय च तेन च ।
काशीराजाय चाख्यातो लोको वैनायकः शुभः ॥२६॥
स कामदायिनीशक्त्या तेनैव निर्मितः पुरा।
निजलोकेतिनामास्य स्वयं चक्रे विनायकः ॥२७॥
काशीराजो विमानस्थो दृष्टवांश्चर्मचक्षुषा ।
यं प्राप्य दुःखं न द्वन्द्वं प्राप्नुते स्त्री पुमानपि ॥२८॥
ब्राह्मं कल्पं च वसति ज्योतिरूपं समाप्य च ।
इक्षुसागरसंभोगं लभते तत्र यः स्थितः ॥२९॥
महाप्रलयवेलायां तिष्ठत्येवाविनाशि यत् ।
तत्पीठं तस्य देवस्य निद्रास्थानं सनातनम् ॥२.४९.३०॥
सेवेते सिद्धिबुद्धी तं सामवेदस्तु गायति ।
कल्पवृक्षो यच्छति तत्कल्पितं मनुजेन यत् ॥३१॥
अकल्पिताः संपदोऽत्र जायन्ते तत्प्रभावतः ।
मयैव वर्णिताः सर्वे देवलोका अनेकशः ॥३२॥
गणेशनिजलोकस्य शक्तिर्नो मम वर्णने।
संक्षेपेण ततोऽख्यायि किमन्यच्छ्रोतुमिच्छसि ॥३३॥ (२१३० )
इति श्रीगणेशपुराणे क्रीडाखंडे शमीमन्दारफलवर्णनं नामैकोनपञ्चाशत्तमोऽध्यायः ॥४९॥

अध्याय ५० प्रारंभ :-
मुनिरुवाच ।
कथं च काशीराजेन प्राप्तं तत्स्थानमुत्तमम् ।
मुद्गलस्योपदेशेन तन्मे शंसितुमर्हसि ॥१॥
क उवाच ।
तीर्थयात्राप्रसंगेन मुद्गलस्तं नृपं ययौ ।
स पूजयित्वा पप्रच्छ सर्वज्ञं तं मुनिं नृपः ॥२॥
नृप उवाच ।
विनायकस्य लोकः कः प्राप्यते स कथं मया।
मुनिरुवाच । स्वानन्दभुवनेत्येवं निजलोकेति च द्वयम् ॥३॥
वैनायकस्य लोकस्य विख्यातम् नाम वर्तते ।
उत्पत्स्यते यदा दैत्यौ देवान्तकनरान्तकौ ॥४॥
विनायकोऽपि तौ हन्तुं मानुषेऽवतरिष्यति ।
स तु बालकरूपेण लीला अद्भुतविक्रमाः ॥५॥
करिष्यति नृलोकेऽस्मिन्स्वेच्छाचारी महाबलः।
शुक्लस्य भक्तियुक्तस्य दरिद्रस्य गृहे यदा ॥६॥
भुक्त्वा दत्त्वामोघलक्ष्मीं शुक्लायेन्द्रस्य दुर्लभाम् ।
विवाहार्थं समानीतो दर्शयिष्यति पौरुषम् ॥७॥
यदा ते गृहमागच्छेत्तदा तद्भक्तितो नृप ।
काशीराज महाबाहो निजलोकमवाप्स्यसि ॥८॥
क उवाच ।
एवमुक्त्वा गते तस्मिन्काशीराजो महामतिः ।
गणेशभक्तिं कुर्वाणः कालाकाङ्क्षी बभूव ह ॥९॥
ततो बहुतिथे कालेऽवतीर्णोऽसौ विनायकः।
कश्यपस्य गृहे यो वै लीलाविग्रहवान्विभुः ॥२.५०.१०॥
हता नानाविधा दैत्याः क्रीडा नानाविधाः कृताः ।
दारिद्र्यं हृतवान्सद्यः शुक्लस्यादन्गृहे तदा ॥११॥
काशिराजस्य भवनं पुनरागान्महाबलः ।
हतौ महाबलौ दैत्यौ देवान्तकनरान्तकौ ॥१२॥
स्वानन्दभवनं यातः क्षीरसागरमध्यगम् ।
काशीराजस्तु विरहाच्चिन्तयन्सर्वदा तु तम् ॥१३॥
आलिंगति नरं कंच्चिदयमेव विनायकः ।
इति मत्वा सभामध्ये सर्वं तादात्मकं जगत् ॥१४॥
पश्यति स्म दिवारात्रौ सोऽपि तन्मयतामियात् ।
निराहारः कदाचित्स तिष्ठति स्म नृपस्तदा ॥१५॥
ग्रासमात्रं कदाचित्स भुनक्ति च यथामति ।
कदाचिद्धसते क्वापि नृत्यति स्म नृपस्तदा ॥१६॥
निद्राति बहुकालं तं पश्यन्स्वप्ने विनायकम् ।
एवं नृपे स्थितेऽमात्याश्चिन्तामापुः सुदारुणाम् ॥१७॥
यदि लोका विजानीयुः परचक्रं पतेत्तदा ।
एवं चिन्तयतां तेषाममात्यानां नृपालये ॥१८॥
तदैव मुद्गलो ध्यानं विसृज्य नृपतिं ययौ।
तद्दर्शनप्राप्तबोधः प्रणनाम नृपो मुनिम् ॥१९॥
उपवेश्यासन पश्चात्संपूज्य च यथाविधि ।
बद्धांजलिरुवाचाथ धन्यो वंशोजनुर्मम ॥२.५०.२०॥
पितरौ मन्दिरं नेत्रे धन्यं त्वद्दर्शनान्मुने ।
यत्प्रसादात्परं स्थानं संसारतारणं नृणाम् ॥२१॥
अवमानान्महद्दुःखं तं त्वा पुण्येन दृष्टवान् ।
तमुवाच ततो विप्रो वाचा तस्य सुतोषितः ॥२३॥
मुनिरुवाच ।
त्वादृशस्तु विनीतात्मा नैव दृष्टो न च श्रुतः।
पूजनात्परितुष्टोऽहं वांछितं ते ददाम्यहम् ॥२३॥
क उवाच ।
तद्वाक्यपरितुष्टोऽसौ काशीराजो जगाद तम् ।
अनेनैव च देहेन स्वानन्दभुवनं मुने ॥२४॥
इच्छेयं च चिरं तत्र स्थातुं नैव च संपदः ।
तत ऊचे मुद्गलोऽसौ परितुष्टस्तया गिरा ॥२५॥
अनेन जडदेहेन स्वानन्दभुवनं नृप ।
प्राप्स्यसे त्वं गणेशस्य पुनरावृत्तिवर्जितः ॥२६॥
भुक्त्वाऽन्नसंपदः पंचसहस्रपरिवत्सरान् ।
ब्रह्मकल्पमयं कालं ततः स्वानन्दमाप्स्यसि ॥२७॥
नृप उवाच ।
कीदृक्स लोकः किन्नामा वद सत्यं मुने मम ।
केन पुण्येन गम्योऽसौ श्रुता लोका मयाऽखिलाः ॥२८॥
मुद्गल उवाच ।
श्रृणु राजन्मयाऽश्रावि महिमा कपिलान्मुनेः ।
सामान्यतः सर्वलोकाः प्रसिद्धा ये श्रुतास्त्वया ॥२९॥
गहना गतिरत्यन्तमस्य लोकस्य भूपते ।
दिव्यलोकेति नामास्य निजलोकेति चापरम् ॥२.५०.३०॥
स कामदायिनीपीठे संतिष्ठति विनायकः ।
विस्तीर्णं पंचसाहस्रयोजनानि महामते ॥३१॥
रत्नकांचनभूमौ स राजते भासयन्दिशः ।
स्वानन्दनामा दिव्योऽयमिक्षुसागरमध्यगः ॥३२॥
न वेदैर्न च दानैश्च व्रतयज्ञैर्जपेरपि ।
तपोभिर्विविधैश्चा प्राप्यते नैव कर्हिचित ॥३३॥
विनायकस्य कृपया प्राप्यते नित्यभक्तितः।
समष्टिव्यष्टिरूपोऽत्र सदा तिष्ठति विघ्नराट् ॥३४॥
पादैः स सप्तपातालं व्याप्य शेषशिरांसि च ।
कूर्मं च कमठं चैव श्रोत्राभ्यां च दिशोऽखिलाः ॥३५॥
केशैर्व्योमापि संरोध्य स्थित आधारपंकजे ।
भ्रूमध्येऽप्यग्निचक्रे तं द्विपत्रे ध्याति पुण्यकृत् ॥३६॥
खेचरीमुद्रया युक्तो नान्यो ध्यातुं न च क्षमः ।
सहस्रपत्रं ब्रह्मांण्डसरोजं विलसत्प्रभम् ॥३७॥
तत्र तेजःस्वरूपोऽस्ति हृदि द्वादशपत्रकम् ।
दशपत्रं नाभिचक्रं लिंगे षटपत्रकं शुभम् ॥८३॥
षोडशारं कण्ठदेशे तत्र सर्वत्र विघ्नराट् ।
तेजोरूपी दीप्यमानः सत्यलोके यथा विधिः ॥३९॥
द्वादशारं तु वैकुण्ठं तत्र विष्णुः सदा स्थितः ।
कण्ठाब्जे पंचवक्त्रोऽसौ कैलासे सगणो यथा ॥२.५०.४०॥
सोमसूर्याग्निनेत्रोऽसौ भूमण्डलमहोदरः ।
एकविंशतिस्वर्गात्स व्याप्य चौषधिरोमवान् ॥४१॥
सरितः सागरा यस्य घनेबिन्दुर्विभात्यसौ ।
ब्रह्मांडे भान्ति यस्यैव ब्रह्माण्डानि तु रेणुवत् ॥४२॥
त्रयस्त्रिंशत्कोटिदेवा जीवा ये च सहस्रशः।
औदुम्बरगता भान्ति मशका इव तद्गता ॥४३॥
रचनां तस्य लोकस्य संक्षेपेण ब्रुवे नृप ।
तुंगं यन्मेरुशिखरं तत्कैलासशिरस्पृहम् ॥४४॥
सहस्रयोजनं शून्यमगम्यं मुनिपुङ्गवैः।
तत्र एका शक्तिरुच्चैर्भ्रामिका नाम नामतः ॥४५॥
यत्संमताद्द्रुवन्त्येव भ्रमराः शुभ्र एव च ।
पद्मासनगताधारशक्तिस्तन्मस्तके स्थिता ॥४६॥
चामीकरनिभा यास्तन्मस्तके कामदायिनी ।
कोटिसूर्यनिभा तस्या मूर्ध्नि पीठं महत्तरम् ॥४७॥
विकरालं जटाभारं बिभ्रती वदनं तथा ।
सहस्रसूर्यसङ्काशा भासयन्ती दिशो दश ॥४८॥
विस्तीर्णं दशसाहस्रयोजनं तावदायतम् ।
असंख्यसूर्यसङ्काशं तन्मध्ये योजनायतम् ॥४९॥
स्वानन्दभवनं भाति यत्र काञ्चनरत्नजाः ।
असंख्याता गृहा भान्ति भास्वरा गजमौक्तिकाः ॥२.५०.५०॥
तस्यैव कृपया प्राप्यो दुःखमोहविवर्जितः ।
तदुत्तरे भाति परं इक्षुसागर एव तु ॥५१॥
सहस्रपत्रसंयुक्ता तन्मध्ये पद्मिनी शुभा ।
सहस्रपत्रं कमलं तस्यां भाति यथा शशी ॥५२॥
तत्कर्णिकागतस्तल्पो रत्नकांचननिर्मिताः।
दिव्याम्बरयुतः शेते नृप तत्र विनायकः ॥५३॥
सिद्धिबुद्धी सदा तस्य पादसंवाहनं मुदा ।
कुर्वाते परया भक्त्या सामवेदस्त्रिमूर्तिमान् ॥५४॥
गानं करोति शास्त्राणि मूर्तिमन्ति स्तुवन्ति तम् ।
पुराणानि च सर्वाणि वर्णयन्त्यस्य सद्गुणान् ॥५५॥
बालरूपधरस्तत्र शुण्डादण्डविराजितः ।
कोमलांगोऽरुणनिभो विशालाक्षो विषाणवान् ॥५६॥
मुकुटी कुण्डली राजत्कस्तूरीतिलकः स्वराट् ।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥५७॥
मुक्तामणिगणोपेतं सरत्नं दाम संदधत् ॥५८॥
अनन्तकोटिसूर्योजाश्चन्द्रार्धकृतशेखरः ।
स्मरणात्पापहा सद्यः स्मृता गङ्गा यधा नृणाम् ॥५९॥
तेजोवती ज्वालिनी च शक्ती पर्यङकपार्श्वयोः ।
सहस्रादित्यसङकाशे तिष्ठतो नृप सर्वदा ॥२.५०.६०॥
न शीतं न जरा तत्र क्लमः स्वेदोऽथ तन्द्र्यपि ।
क्षुधा तृषा वा दुखं वा न कदाचन जायते ॥६१॥
आनन्दहृदमग्नास्ते तत्रासन्ये सुपुण्यतः ।
विश्वव्यापी बालरूपी यत्र तिष्ठति विश्ववित् ॥६२॥
मुद्गल उवाच ।
एवं ते कथितो लोको गणेशस्य यथामति ।
तस्मादनन्यभक्त्या त्वं तमेवाराधय प्रभो ॥६३॥
क उवाच ।
एवमुक्त्वा गतः स्थानं स्वकीयं मुद्गलो मुनिः ।
काशीराजो गणेशस्य भजने तत्परोऽभवत् ॥६४॥
सहस्रपञ्चवर्षाणि कृत्वा राज्यमनेन ह ।
देहेन यानमारुह्य गतः स्वानन्दधाम तत् ॥६५॥ ( २१९५ )
इति श्रीगणेशपुराणे क्रीडाखंडे गणेशलोकवर्णनं नाम पच्चाशत्तमोऽध्यायः ॥५०॥