गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०५१-०५५

विकिस्रोतः तः
← अध्यायाः ४६-५० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ५१-५५
[[लेखकः :|]]
अध्यायाः ५६-६० →

अध्याय ५१ प्रारंभ :-
व्यास उवाच ।
कथमाराधितस्तेन काशीराजेन विघ्नराट् ।
कथं च चर्मदेहेन गतः स्थानमनुत्तमम् ॥१॥
एतन्मे शंस भगवञ्शृण्वंस्तृप्यामि न क्वचित् ।
क उवाच ।
सम्यक्शृणु महाबुद्धे कथां पापप्रणाशिनीम् ॥२॥
कथयामि महाबुद्धे इतिहासं पुरातनम् ।
यथा निर्वासनो भूपः स्वानन्दभवनं गतः ॥३॥
महिमानं परिज्ञाय मुद्गलाज्ज्ञानसागरात् ।
कायेन मनसा वाचा गणेशे भक्तिमानभूत् ॥४॥
गोदानानि महाभक्त्या गजादानान्यनेकशः ।
रथाश्वगृहधान्यानि दश दानान्यजानपि ॥५॥
विनायकप्रीतये स ददात्येव दिने दिने ।
मिष्टान्नभोजनैर्विप्रांस्तोषयित्वा धनादिभिः ॥६॥
गणेशदृढभक्तिं स याचते स्म दिने दिने ।
माघशुक्लचतुर्थ्यां स भौमवारे शुभे दिने ॥७॥
स्नानं चक्रे उषःकाले सन्ध्यां नित्यविधिं तथा ।
भूषयित्वा तथात्मानं नानालंकरणांशुकैः ॥८॥
आकायं सकलांल्लोकान्ब्राह्मणान्सुहृदोऽपरान् ।
पूजयामास विविधै रत्नरंशुकसंचयैः ॥९॥
वारंवारं पश्यति स्म विमानागमनं नृपः ।
सभातो गन्तुकामांस्तान्निषेधति मुहुर्मुहः ॥२.५१.१०॥
ततो विनायको ज्ञात्वा कालं तस्य महात्मनः ।
प्रेषयामास दूताभ्यां विमानं द्युतिमत्तरम् ॥११॥
गणेश उवाच ।
प्रमोदामोद गत्वा तु काशीराजं धरातले ।
मद्भक्तमत्रानय ते विमानवरमास्थितम् ॥१२॥
क उवाच ।
तदाज्ञां प्राप्य तं नत्वा दिवो लोकादुभौ तदा ।
दिव्यं विमानमादाय काशीराजं समीयतुः ॥१३॥
तत्तेजोधर्षिता लोका मेनिरे प्रलयानलम् ।
केचिच्च मेनिरे व्यभ्रे विद्युत्पातमिवागतम् ॥१४॥
तर्कयामासुरपरे पतन्तं रविमण्डलम् ।
घण्टानां चैव तूर्याणां गन्धर्वाप्सरसां स्वनम् ॥१५॥
श्रुत्वाऽन्ये जज्ञिरे यानं गणेशकृपयागतम् ।
अङ्गणे काशिराजस्य समुत्तीर्णं श्रिया लसत् ॥१६॥
आगतौ राजनिकटे प्रमोदामोदसंज्ञकौ ।
गणौ दिव्याम्बरधरौ दिव्यभूषाविराजितौ ॥१७॥
दिव्यमाल्यानुलेपाद्यैर्दिव्यदीप्त्या स्मराविव ।
विनायकस्वरूपौ तौ नत्वा राजा निजासने ॥१८॥
उपविश्य प्रपूज्याशु यावत्पृच्छति तौ नृपः ।
तावत्तावूचतुर्दूतौ सर्वलोकेऽथ ... ॥१९॥
शृणु राजन्प्रवक्ष्यामि वाक्यं वैनायकं शुभम् ।
न भक्तस्त्रिषु लोकेषु त्वत्तः प्रतीकरो नृपः।
त्वां ध्यायंति दिवारात्रं शृण्वति शृण्वति त्वद्गुणान्वदतेऽनिशम्॥२.५१.२०॥
धन्योऽसि जन्मसाफल्यं कृतं पुण्यवता त्वया ।
त्वद्दर्शनात्क्षिप्रतरं नष्टं पापं तमो महत् ॥२१॥
न जानीवस्तपः किं ते कृतं जन्मान्तरेषु च।
परब्रह्मस्वरूपोऽयं बालरूपी विनायकः ॥२२॥
भवतां गृहमागत्य नानालीला अदर्शयत् ।
देवस्य देवभक्तस्य महिमा नैव गोचरः ॥२३॥
यतो विनायको देवस्त्वां चिन्तयति सर्वदा ।
त्वदर्थं प्रेषितं यानं दिव्यं वैभवसंयुतम् ॥२४॥
न यावो दिव्यलोकं त्वां तदाज्ञावशवर्तिनौ ।
शीघ्रमानयतां काशीराजमित्याह नौ विभुः ॥२५॥
शृण्वत्सु सर्वलोकेषु शुश्राव स वचस्तयोः ।
अमृताब्धौ निमग्नोऽभूदानन्दाश्रु सृजन्मुहुः ॥२६॥
देहावस्थां पुनर्लब्ध्वा प्रणम्य तौ उवाच सः ।
धन्यं जन्म च पितरौ निष्ठा भक्तिश्च सम्पदा ॥२७॥
यद्दुर्लभो मया दृष्टौ चरणौ वां शुभावहौ ।
विनायकस्वरूपेण प्राप्तौ नेतुं परं स्थलम् ॥२८॥
इक्षुसागरमध्यस्थं दुर्दर्शं चर्मचक्षुषाम् ।
यन्निर्गुणं चिदानन्दं परं ब्रह्म सनातनम् ॥२९॥
विश्वोत्पत्तिस्थितिलयहेतुभूतमगोचरम् ।
यदणुभ्योऽप्यणुतरं स्थूलात्स्थूलतरं च यत्॥२.५१.३०॥
सर्वत्रगमसक्तं च साकारं गुणभोक्तृ च ।
नानारूपमरूपं च भूभारहरणोद्यतम् ॥३१॥
तेन मे रङकभूतस्य कृपेयं महती कृता।
इत्युक्त्वा स नमस्कृत्य सर्वानालिंग्य प्रेक्ष्य च ॥३२॥
दूतावूचे त्वारुहतं प्रणिपातपुरः सरम् ।
पश्चादहं समारोक्ष्ये विमानं मर्त्यदुर्लभम् ॥३३॥
अमात्याभ्यां नमस्कृत्य पुत्रं दत्वा तयोः करे।
प्रजानां पालनं कार्यं धर्मेण च बलेन च ॥३४॥
मुद्गलेन च तत्प्रोक्तमनुभूतमिदं मया ।
इत्युक्त्वा चर्मदेहेन रुरोह यानमुत्तमम् ॥३५॥
अधिष्ठितं तु दूताभ्यां पूजिताभ्यामनेकधा ।
आरुढस्य च तत्रास्य देहोऽभूद्रविसन्निभः ॥३६॥
दिव्यैर्गन्धैरलंकारैस्ताभ्यां संपूजितोंऽशुकैः ।
गतौ तौ वायुवेगेन दर्शयन्तौ च तौ नृपम् ॥३७॥
भूतप्रेतपिशाचानां लोकं दुष्कृतकर्मणाम् ।
यत्र ते विकृताकारा ऊर्ध्वपादा अधोमुखाः ॥३८॥
पृष्ठभागमुखाः केचिन्मस्तकाक्षास्तथाऽपरे ।
हृदि नेत्राः पृष्ठनेत्राः सूक्ष्मकण्ठा महोदराः ॥३९॥
यथा रश्मौ जालगते भ्रमन्ति परमाणवः ।
तथा भ्रमन्ति गगनेऽनेकरूपाः सुदुःखिनः॥२.५१.४०॥
कोऽयं लोको दूतवरौ ब्रूतं म इति सोऽब्रवीत् ॥४१॥ (२२३६)
इति श्रीगणेशपुराणे क्रीडाखण्डे एकपंचाशत्तमोऽध्यायः ॥५१॥

अध्याय ५२ प्रारंभ :-
दूतावूचतुः ।
प्रेतभूतपिशाचानां लोकोऽयं राजसत्तम ।
निन्दापैशून्यतास्तेयकृतो यान्त्यत्र भूपते ॥१॥
ततोऽग्रे पश्यति स्मासौ लोकावसुररक्षसाम् ।
यत्र ते विविधाकारा ऊर्ध्वकेशा भयानकाः॥२॥
घोरास्याश्च ललज्जिह्वा मेघनादाधरोपमाः।
अग्निकुण्डनिभांस्तान्स दृष्ट्वा पप्रच्छ तौ पुनः ॥३॥
केषामिदं पुरं दूतौ गदतं मेऽनुपच्छतः ।
तावूचतुरयं लोको दुष्टदानवरक्षसाम् ॥४॥
श्रौतस्मार्तक्रियाहीना अत्र तिष्ठन्ति पापिनः ।
तदग्रे स ददर्शाथ लोकं गन्धर्वसेवितम् ॥५॥
रौप्यस्वर्गगृहा यत्र रत्नकांचनभूमयः ।
नरनार्यः कामरत्यो नृत्यगानविशारदाः ॥६॥
अतिसौख्यकरं तं स दृष्ट्वा पप्रच्छ तौ पुनः।
केषामिदं पुरं दूतौ गदतं मेऽनुपृच्छतः ॥७॥
तावूचतुः ।
गन्धर्वनगरं चेदं देवस्थानेषु गायकाः।
प्राप्नुवन्ति महापुण्यादिदं पुरमनुत्तमम् ॥८॥
सिद्धचारणयक्षाणां गुह्यकानां पुरं महत् ।
नानाव्रतैस्तथा दानैर्गम्यं पुण्यसमुच्चचैः ॥९॥
दूतौ च तौ नृपं पश्चाद्दर्शयेतां गरीयसीम्।
इन्द्रस्य नगरीं रम्यामश्वमेधशतार्जिताम् ॥२.५२.१०॥
सुवर्णरत्नगोदानरथाश्वगजदानतः।
गम्यां तीर्थाभिषेकाद्यैः पुण्यैर्नानाविधैरपि॥११॥
यत्रेन्द्रभवनं रम्यं दर्शयेतामुभौ नृपम् ।
नृपो निरीक्ष्य तौ प्रोचे यच्छ्रुतं दृष्टमेव तत् ॥१२॥
अग्निलोकं ततोऽग्रे तौ दर्शयेतां नृपं शुभम् ।
यत्राग्निहोत्रिणो वह्नितेजसो भान्त्यनेकशः ॥१३॥
ततोऽग्रे दर्शयेतां तौ यमलोकं शुभाशुभम् ।
यत्र पुण्यकृतो यान्ति तथा पापकृतोऽपि च ॥१४॥
स धर्मः सुकृतां भाति क्रूरो दुष्कृतकर्मणाम् ।
सुकृतः सर्वभोगांस्तु दुष्कृतो नरकानपि ॥१५॥
भुंजते प्राणिनः स्वस्वकर्मभोगाननेकशः ।
कुम्भीपाके च पच्यन्ते छिद्यन्ते चासिपत्रकैः ॥१६॥
अयोघनेन ताड्यन्ते कृत्यन्ते कण्टकैरपि ।
तामिस्रं चान्धतामिस्रे कृमिकुण्डे सपूयके ॥१७॥
पात्यन्ते नरके घोरे दुष्कृतः प्राणिनः स तान् ।
निरीक्ष्यामीलयन्नेत्रे यातं यातमिति ब्रुवन् ॥१८॥
ततोऽग्रे दर्शयेतां तौ कौबेरं लोकमुत्तमम् ।
अत्याश्चर्यकरं शक्रलोकादतिवरं परम् ॥१९॥
रत्नकांचनयुक्तानि गृहाणि दीप्तिमन्ति च ।
रत्नकांचनदानेन तुलादानैश्च कोटिशः ॥२.५२.२०॥
प्राप्नुवन्ति महाभागाः कौबेरं लोकमुत्तमम् ।
ततोऽग्रे दर्शयेतां तौ वारुणं लोकमुत्तमम् ॥२१॥
तीर्थान्न दानतो लभ्यं कुबेरभवनातिगम् ।
अप्सु सर्वे शुष्कदेहा वसन्ति सुखभोगिनः ॥२२॥
वापीकूपतडागानां दृश्यन्ते जलदायिनः ।
ततोऽग्रे दर्शयेतां तौ वायुलोकं सुखावहम् ॥२३॥
ददते व्यजनं ग्रीष्मे सौशीरं कर्पुरं जलम् ।
वसन्ति वायुलोके ते स्वेच्छानातिविहारिणः ॥२४॥
ततोऽग्रे दर्शयेतां तौ सूर्यलोकं दुरासदम् ।
पंचाग्निसाधनरताः सूर्यभक्तिपरायणाः ॥२५॥
अवाप्तकामा मुनयः सर्वे ते सूर्यवर्चसः ।
निवसन्ति निराबाधा ब्रह्मकल्पशतं नराः ॥२६॥
नाक्षत्रं चन्द्रलोकं च दर्शयेतां नृपं ततः ।
मुक्ताफलसुवर्णानां दानेन सोमयागतः॥२७॥
प्राप्नुवन्ति महात्मानो लोकमेनं सुपुण्यतः ।
गोलोकं च ततोऽग्रे तौ दर्शयेतां नृपं तदा ॥२८॥
गोसहस्राणि ये दद्युर्ब्राह्मणेभ्यो यथाविधि ।
रोमसंख्यैस्तु कल्पैस्ते गोलोके निवसन्ति हि ॥२९॥
सत्यलोकं ततोऽग्रे तौ दर्शयेतां चिरन्तनम् ।
सत्यव्रता वेदविदो वेदाध्ययनतत्पराः ॥२.५२.३०॥
सदाचाराः शास्त्रविदः पुराणपाठकाश्च ये।
अन्नदानरता यज्ञकर्तारस्तीर्थसेविनः ॥३१॥
अप्रतिग्राहका विप्राः परोपकृतिकारिणः ।
तपस्विनो दानपराः सत्यलोकं व्रजन्ति ते ॥३२॥
गव्यूत्यष्टसहस्रेण विस्तीर्णं तावदायतम् ।
यत्र ब्रह्मा मुनिगणैर्गणै राजर्षिणां परैः ॥३३॥
देवर्षीणां दानवानां गन्धर्वाप्सरसां तथा ।
स्तूयमानो दिवारात्रं सेव्यते भक्तितत्परैः ॥३४॥
यत्रेन्द्र भवनामानि गृह्याणि परिता लसन् ।
तं दृष्टवा नृपतिर्लोकं विस्मितः प्राह तौ तदा ॥३५॥
नृप उवाच ।
धन्योऽस्म्यनुगृहीतोऽस्मि गणेशेन कृपावता ।
भवद्भ्यां च यतो दृष्टाः स्वर्गलोकाः सुदुर्लभाः॥३६॥
क उवाच।
तं पुनर्दर्शयेतां तौ वैकुण्ठं विश्रुतं त्रिषु ।
लोकेषु तत्र गच्छन्ति वैष्णवा भक्तितत्पराः॥३७॥
सर्वलोकेषु श्रेष्ठं तं नोपमा यस्य विद्यते ।
शेपो न वर्णने शक्तोऽनेकवक्त्रो न चात्मभूः ॥३८॥
उर्जंस्नायी झषस्नायी मेषस्नायी तिलान्नदः ।
गोदो गीताध्ययनवान्प्राणिनां चोपकृच्च यः ॥३९॥
विष्णुलोकं व्रजत्याशु सहस्र पंचयोजनम् ।
सूर्यचन्द्रप्रकाशानि विश्वकर्मकृतानि च ॥२.५२.४०॥
मन्दिराणि प्रभासन्ति रत्नकांचन राजतैः ।
येषु ना प्रविशत्येव तमोरत्नमरीचिभिः ॥४१॥
परिवारयुतो लक्ष्म्या यत्र तिष्ठति दैत्यहा ।
जहर्ष नृपवर्योऽसौ दृष्ट्वा तत्पुण्यसंचयात् ॥४२॥
ततोऽग्रे दर्शयेतां तौ कैलासं गिरिशालयम् ।
मेरोस्तु शिखरे रम्येऽयुतयोजनविस्तृते ॥४३॥
रविचन्द्रप्रकाशानि हर्म्याणि यत्र भान्ति च ।
यत्र पंचाक्षरजपा रुद्राध्यायजपाश्च ये ॥४४॥
अनेकसाधनरताः पुण्यवन्तो व्रजन्ति ह ।
तं दृष्टवा प्राह नृपतिर्विनायकप्रसादतः ॥४५॥
दृष्ट्वा सर्वे देवलोकाः पुण्यदा दर्शनान्नृणाम् ।
ततोऽग्रेण रविश्चन्द्रः सहस्रयोजनावधि ॥४६॥
विमानप्रभया याति न च पश्यन्ति किंचन ।
मेघनादनिभं शब्दं शुश्राव दुःसहं नृपः ॥४७॥
गिरिवर्यप्रकाशानां भ्रमराणां समन्ततः ।
कस्य शब्दः श्रूयतेऽयमिति पप्रच्छ तौ नृपः ॥४८॥
कदा द्रक्ष्यामि देवस्य पादपद्ममिति स्फुटम् ।
ददर्श पुरतो राजा शक्तिं भ्रामरिकां दृढाम् ॥४९॥
अनेकादित्यसङकाशां ब्रह्माण्डग्राससाहसाम् ।
प्रसारितमुखां भीमां दृष्ट्वा मूर्छामियान्नृपः ॥२.५२.५०॥
आश्वास्य निन्यतुस्तं तु दूतावग्रे नृपं तदा ।
तत आधारशक्तिं स ततोऽप्यतिभयङकराम् ॥५१॥
दृष्टवा चकम्पे नृपतिर्भ्रामरीमस्तके स्थिताम् ।
करालकेशां लम्बोष्ठीं दीर्घजिह्वां प्रभायुताम् ॥५२॥
आश्वासितो व्रजन्नग्रे सोऽपश्यत्कामदायिनीम् ।
आधारशक्तिं संविष्टां योजनायुतविस्तृताम् ॥५३॥
भ्रमन्ति पर्वता यस्याः श्वासवायुविवर्तनात् ।
वज्रातिनिष्ठुरैर्देहैर्यस्यास्तिष्ठति सा पुरी॥५४॥
वदतः स्म नृपं दूतौ पश्य स्वानन्दपत्तनम् ।
यद्ध्यानपरितृप्तोऽसि कोटिसूर्यनिभं शुभम् ॥५५॥
रत्नकांचनसंभिन्ना भाति यत्र गृहाः परे ।
मुक्तारजतसूर्याश्मनिमिताश्च सहस्रशः ॥५६॥
नीलाश्मकुट्टिमा यत्र पुमांसो यत्र वह्निभाः ।
यत्र वापीकूपतडागा भान्ति च सरांसि च ॥५७॥
स्वच्छशीताम्बुनीलानि पीतरत्नतटानि च ।
यदम्बुपानान्न जरा न क्षुद्रोगो नृणां भवेत् ॥५८॥
आक्रीडा विमला नानावृक्षवल्लीविराजिताः।
दिव्यौषध्यो दिवा सूर्यकोटिभा भान्ति यत्र च॥५९॥
चन्द्रपृष्ठे प्रपश्यन्ति कलंकरदिते मुखम् ।
विलासिनीजना यत्र सर्वदाऽधोगते निशि॥२.५२.६०॥
यत्रपुष्पवनामोदः श्रमं हन्ति विहारिणाम् ।
इक्षुसागरतीरं तत्प्राप्योत्तेरुर्मुदा युताः ॥६१॥
इति श्रीगणेशपुराणे क्रीडाखंडे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

अध्याय ५३ प्रारंभ –
ब्रह्मोवाच ।
पपुरिक्षुरसं पुण्यनिचयैर्लभ्यमंजसा ।
तन्मध्ये पद्मिनी श्वेता सहस्रदलपद्मयुक् ॥१॥
सहस्रकिरणप्रख्यं तस्यां यत्पद्ममुत्तमम् ।
तन्मध्ये तस्य देवस्य पर्यंकोतिमनोहरः ॥२॥
दिव्यास्तरणसंपन्नो दिव्यधूपैः सुधूपितः।
दिव्यनानाकुसुमवान्स्वप्रभै रत्नसंचयैः ॥३॥
भासयन्प्रभया सर्वा दिशो विदिश एव च ।
व्यजनैर्वीज्यमानः स तत्र शेते विनायकः
॥४॥ कोटिचन्द्रनिभो नानालंकारो नागभूषणः ।
रम्भास्तम्भनिभं शुण्डादण्डं रदनसुन्दरम् ॥५॥
दधद्दिव्याम्बरच्छन्नो भालनेत्रः किरीटवान् ।
कुण्डले चांगदे मुद्रा कटिसूत्रं महाधनम् ॥६॥
सिद्धिबुद्धी सिद्धिहेतू पादौ सर्वहतोऽस्य ह।
अणिमागरिमाश्वेतचामरैर्वीजितः स्म ह ॥७॥
ज्वालिनी तेजिनी दीप्यमाने चोभयतः स्थिते ।
दिव्यगन्धेन लिप्तांगो दिव्यमालाविभूषितः ॥८॥
महिमा प्रथिमादाय स्थिते दृष्टिसमीपतः ।
जवं गण्डूषपात्रं च छत्रं कांचनरत्नयुक् ॥९॥
ततो दूतौ करे धृत्वा तं नृपं पुरतोऽस्न तु ।
ईक्षेते वागवसरं ततो देवोऽन्वबुध्यत ॥२.५३.१०॥
तौ दूतावूचतुर्देवमानीतोऽयं तवाज्ञया।
प्रणम्य च स्थितौ दूरं तदाज्ञापेक्षकावुभौ ॥११॥
तस्मिन्प्रबुद्धे राजा स प्रणनाम कृतांजलिः ।
उवाच परमप्रीत्या धन्यो वंशो ममाद्य ह ॥१२॥
पितरौ जन्म विद्या च तपो दृष्टिः सुतादयः ।
येन मे दर्शितं ब्रह्म ध्येयं पदयुगं तव ॥१३॥
न ब्रह्मलोके कैलासे शक्रलोकेऽपि वैभवः ।
एतादृशोऽदर्शि मया नान्यलोकेऽपि कश्चन ॥१४॥
दूतावूच आस्यतां स ततस्तौ च निषेदतुः ।
तत्तोऽपश्यद्बालरूपं द्विभुजं स विनायकम् ॥१५॥
येन तौ निहतौ दैत्यौ देवान्तकनरान्तकौ ।
अतिगौरं कोमलांगे हिमकर्पूरसन्निभम् ॥१६॥
न शशाक तदा वक्तुं बाष्परुद्धमहागलः ।
आनन्दाश्रुनदी पूरैरासिंचस्तत्पदद्वयम् ॥१७॥
विज्ञाय तन्महाभक्तिमुत्थाप्यालिंग्य विघ्नराट् ।
मूर्ध्न्याघ्रातश्च पितृवद्बहुकालगतः सुतः ॥१८॥
देवोऽपि बाष्पकण्ठोऽभूदुभौ रोमांचसंयतौ ।
उभौ सुखाब्धि संमग्नौ देहातीतौ यथा मुनी ॥१९॥
उवाच वचनं पश्चाद्बालरूपी विनायकः ।
त्वद्गृहेऽनेकधा तात क्रीडता यत्कृतं मया ॥२.५३.२०॥
तत्क्षान्तं हि त्वया सर्वं शुभं वा यदि वाऽशुभम् ।
निहता बहवो दैत्या धराभारश्च संहृतः ॥२१॥
पालिताः साधुलोकाश्च स्थापिता धर्मसेतवः ।
तवाज्ञया पुनर्यातः कश्यपं सृष्टिकारकम् ॥२२॥
प्रणम्य तं निजं लोकं प्राप्तोऽमुं सर्ववैभवम् ।
त्वामेव परिचिन्त्याहं विश्रान्तिं न लभे क्वचित ॥२३॥
तवादिभावं ज्ञात्वाऽहं मुद्गलं मुनिपुंगवम् ।
अप्रेषयं तव गृहे तदनुग्रहतस्त्वया ॥२४॥
प्राप्तं स्थानं मुद्गलेन भक्तेनेदं त्वयाऽपि च ।
यदगम्यं सदा देवैर्ब्रह्माद्यैर्मुनिपुंगवैः ॥२५॥
क उवाच ।
पीत्वा वागमृतं तस्य नृपो नत्वा पुनःपुनः ।
उवाच धैर्यमालम्ब्य तुष्टाव च यथामति ॥२६॥
नृप उवाच ।
नमामि ते नाथ पदारविन्दं ब्रह्मादिभिर्ध्येयतमं शिवाय ।
यत्पद्मपाशासिपरश्वधादिचिह्नितं विघ्नहरं निजानाम् ॥२७॥
यदर्च्यते विष्णुशिवादिभिः सुरैरनेककार्यार्थकरैर्नरैश्च ।
अनेकशो विघ्नविनाशदक्षं संसारतप्तामृतवृष्टिकारि ॥२८॥
नमामि ते नाथ मुखारविन्दं त्रिलोचनं वह्निरवीन्दुतारम् ।
कृपाकटाक्षामृतसेचनेन तापत्रयोन्मूलनदृष्टशक्ति ॥२९॥
नमामि ते नाथ करारविन्दमनेकहेतिक्षतदैत्यसंघम् ।
अनेकभक्ताभयदं सुरेश संसारकूपोत्तरणावलम्बम् ॥२.५३.३०॥
त्वमेव सत्त्वात्मतया बिभर्षि सृजस्यजो राजसतामवाप्य ।
तमोगुणाधारतया च हंसि चराचरं ते वशगं गणेश ॥३१॥
यः शुद्धचेता भजतेऽनिशं त्वामाक्रम्य विघ्ना परिधावसि त्वम् ।
स त्वां वशे कृत्य सुखं हि शेते वत्सं यथा गौरिव धावसि त्वम् ॥३२॥
येऽन्ये भजन्तः समवाप्य तापान्संसारचक्रे बहुधा भ्रमन्तः ।
कदापि तेऽनुग्रहमाप्य तेऽपि भजन्ति मानुष्यमवाप्य तेऽपि ॥३३॥
धरारजः कोऽपि मिमीत नाके तारा गणं वारिमुचां च धाराः ।
नालं गुणानां गणानां हि कर्तुं शेषो विधाता तव वर्षपूगैः ॥३४॥
निराकृतेस्ते यदि नाकृतिः स्यादुपासनाकर्मविधिर्वृथा स्यात् ।
गुणप्रपंचः प्रकृतेर्विलासा जनस्य भोगश्च तथा कथम् स्यात् ॥३५॥
सत्संगतिश्चेत्सदनुग्रहः स्यात्सकर्मनिष्ठा सदनुस्मृतिश्च ।
चित्तस्य शुद्धिर्महती कृपा ते ज्ञानं विमुक्तिश्च न दुर्लभा स्यात् ॥३६॥
क उवाच ।
इति स्तोत्रं समाकर्ण्य परितुष्टो विनायकः ।
उवाच काशीराजं स वरं वृणु हृदि स्थितम् ॥३७॥
नृप उवाच ।
जातं वरस्य कृत्यं मे यत्राहं हि समागतः ।
इतः पुनर्जन्ममृती न स्यातां तद्विधीयताम् ॥३८॥
क उवाच ।
स्तोत्रेण प्रीतस्तं प्राह तथेति दिव्यदेहिनम् ।
स्थापयामास निकटे कल्पकोटियुगावधि ॥३९॥
मुने स्तोत्रं मया तस्मात्प्राप्तं तस्य प्रसादतः ।
नारदाय मया प्रोक्तं नारदो गौतमाय च ॥२.५३.४०॥
प्राह सोऽपि मुनीन्सर्वान्सर्वकामफलप्रदम् ।
ज्ञानेन्द्रे मोक्षदं विघ्ननाशनं पावनं परम्॥४१॥
यः पठेत्स लभेद्भक्तिं गणेशसन्निधौ नरः ।
विद्याकामो लभेद्विद्यां त्रिसन्ध्यं यः पठेन्नरः ॥४२॥
पुत्रकामो लभेत्पुत्रांजयकामो लभेज्जयम् ।
एवं सर्वं समाख्यातं यद्यत्पृष्टं त्वया मुने ॥४३॥
आख्यानं काशिराजस्य किमन्यच्छ्रोतुमिच्छसि ।
भृगुरुवाच ।
इति श्रुत्वा ब्रह्मवाक्यं व्यासो निःसंशयो गिरः ॥४४॥
पुनः पप्रच्छ सुमतिर्विस्तरेण कथान्तरम् ।
व्यास उवाच ।
शुक्लस्यातिदरिद्रस्य हृतं दारिद्र्यमादरात् ॥४५॥
भुक्त्वा कदन्नं तद्गेहे काशिराजं समेत्य च ।
किं चकार स देवोऽपि काशिराजश्च तद्वद ॥४६॥
कथं तौ निहतौ दैत्यौ भूभारश्च कथं हृतः ।
स्थापितश्च कथं धर्मस्तन्मे शंस यथाविधि ॥४७॥
क उवाच ।
कथयामि समासेन चरितं बालरूपिणः ।
हृत्वा शुक्लस्य दारिद्र्यं यद्यत्तेन कृतं मुने ॥४८॥ (२३४५)
इति श्रीगणेशपुराणे क्रीडाखंडे राज्ञस्यानन्दप्राप्तिवर्णनं नाम त्रिपंचाशत्तमोऽध्यायः ॥५३॥

अध्याय ५४ प्रारंभ :-
क उवाच ।
भुक्त्वा शुक्लगृहे देवो यावत्क्रीडति चत्वरे ।
क्षणं सुष्वाप मध्ये स ततो नागरिका जनाः ॥१॥
भोजनाय समारम्भं कृत्वा मुनिसुतस्य ह ।
काशिराजगृहं तावदाकारयितुमागताः ॥२॥
तानूचे काशिराजस्तु क्रीडन्क्रीडन्नितो गतः ।
पश्यन्ति स्म ततो लोका गृहेगृहे विनायकम् ॥३॥
शुक्लस्य स गृहं यात इति केचित्समूचिरे ।
ततो जना निनिन्दुस्तं देवं शुक्लमकिंचनम् ॥४॥
जना ऊचुः ।
उष्ट्रस्तु कण्टकान्भुंक्ते हित्वा कोमलपल्लवान् ।
अस्मानाढयान्विहायासौ दरिद्रस्य गृहं गतः ॥५॥
वृथैवेश्वरतां नीतो राज्ञा बालो यदीश्वरः ।
स्यादयं चेत्तदा कुर्यात्संतुष्टिं सर्वचेतसाम् ॥६॥
कदन्नं तदपि स्वल्पं कथं भोक्ष्यति बालकः ।
केचित्सत्पुरुषास्तेषु तमानयितुमुत्सुकाः ॥७॥
इतस्ततः प्रधावन्ति विज्ञातुं विनायकम् ।
पप्रच्छुर्मार्गगांल्लोकान्क्वचिद्दृष्टो विनायकः ॥८॥
पृष्ट्वा पृष्ट्वा व्रजन्ति स्म जनास्तद्भक्ति
तत्पराः । केचिदुचुः शुक्लगृहं गतः स्यादिति तान्प्रति ॥९॥
ते शीघ्रं तद्गृहं याता ज्ञात्वा सुप्तं विनायकम् ।
अतिष्ठन्सात्त्विकास्तूष्णीं प्रबुद्धः स्याद्यदा विभुः ॥२.५४.१०॥
तदैनं प्रार्थयामेति राजसास्तु तमब्रुवन् ।
उत्तिष्ठ याहि रे भौक्तुमन्नं पर्युषितं भवेत् ॥११॥
त्वदर्थं नगरे लोकाः कोलाहलं प्रकुर्वते ।
दरिद्रस्यास्य शुक्लस्य शुक्लभिक्षारतस्य ह ॥१२॥
पर्याप्तिश्चास्य भिक्षाया जायते न कदाचन ।
न जलं कोऽपि पिबति तस्य गेहे कथं भवान् ।
भुक्तवान्कुत्सितं चान्नं कश्यपस्यात्मजोऽपि सन् ॥१३॥
केचित्तं विविधैर्वाक्यैर्निनिन्दुस्तुष्टुवुः परे ।
मुनिरुवाच ।
एवं श्रुत्वा सर्ववाक्यमुवाच कश्यपात्मजः ॥१४॥
देव उवाच ।
भक्त्योपपादितं चान्नं भुक्तमद्य यथेच्छतः ।
पदमात्रं हि गन्तुं मे शक्तिस्तृप्तस्य नास्ति च ॥१५।
ग्रासमात्रं हि भोक्तुं मे वांछा नास्त्यधुना जनाः ।
क उवाच ।
एवं निष्ठुरतां ज्ञात्वा जनास्ते विरसास्तदा ॥१६॥
ऊचुः परस्परं केचित्कर्तव्यं किं हि बालके ।
सोऽपि विह्वलतां ज्ञात्वा पुरवासिजनस्य ह ॥१७॥
एकोऽनन्तत्वमापेदे घटाकाश इव क्षणात् ।
जलकुम्भगतो यद्वत्सविताऽनेकरूपवान् ॥१८॥
प्रतिगृहं गतो नानाक्रीडासक्तोऽभवद्विभुः ।
क्वचित्सोपान मार्गेषु क्वचिद्दोलागतोऽपि च ॥१९॥
क्वचिच्च पर्यंकगतः क्वचित्सौधगतोऽपि च।
क्रीडते हसते क्वापि गृहबालैर्भुनक्ति च ॥२.५४.२०॥
अध्येति क्वापि शास्त्राणि पाठयत्यपि कुत्रचित् ।
तं दृष्ट्वा स्वगृहं यातं काशिराजेन संयुतम् ॥२१॥
जहृषे स गृहस्वामी धन्योऽहमिति चाब्रवीत् ।
एवं सर्वगृहे राजसहितोऽसौ विनायकः ॥२२॥
क्वचिदभ्यज्यते तैलैः स्नाति क्वापि शुभैर्जलैः ।
पादप्रक्षालनं क्वापि क्रियते परमादरात् ॥२३॥
उपचारैः षोडशभिः पूज्यते क्वापि भक्तितः ।
भुज्यते परमान्नेन बालभावाद्यथा तथा ॥२४॥
क्वचिन्नानापरिमलैः कस्तूरीचन्दनादिभिः ।
अर्च्यते सुमनोभिश्च नैवेद्यैर्विविधैरपि ।
सेव्यते गृहपत्नीभिः शिशुभिः सेवकैरपि ॥२५॥
भुक्त्वा यथेष्ठं सुष्वाप पादसंवाहनादिभिः ।
वेदापरायणरतः क्वापि गानरतस्तु सः ॥२६॥
शृणोति सत्कथां क्वापि हरेरपि कथां क्वचित् ।
क्वचिच्च प्रमदानृत्यं पश्यति स्म नृपेण सः ॥२७॥
आरार्तिक्यैश्च विविधैः क्वापि नीराज्यते विभुः ।
क्वचिच्च पाशहस्तोऽसौ क्रीडते क्षुद्रबालकैः ॥२८॥
पुराणं वाच्यते क्वापि धर्मशास्त्रं स्मृतिस्तथा।
एवं सर्वगृहे भुक्त्वा सर्वेषां कामपूरकः॥२९॥
यस्य यस्य यथा वांच्छा तथा तां व्यदधाद्विभुः।
सुप्रसन्नो महादेवो यथाकल्पद्रुमोऽपि च॥२.५४.३०॥
यथा चिन्तामणिः कामधेनुर्वाऽखिलकामदा।
दीननाथेति यन्नाम कृतं तत्सार्थकं तदा॥३१॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिर्गृहे गृहे ।
दृष्ट्वेत्थं काशिराजाऽसौ भ्रान्त ऊचे निजान्प्रति॥३२॥
अयं विनायको बालः सन्निधौ मम तिष्ठति।
स कथं सर्वगृहगः पूज्यते सर्वमानवैः।।३३॥
गृहे गृहे तु स कथं तिष्ठत्यत्रापि साम्प्रतम् ।
यो मामाकारयति तं वदामि च पुनः पुनः॥३४॥
विना विनायकं यामि कथं भोक्तुं भवद्गृहे ।
गृहमध्यस्थितं चान्नं भुंजे काश्यपसंयुतः ॥३५॥
तं भुक्तवन्तं त्यक्त्वैव बहिस्थमत दृष्टवान् ।
इतस्ततोऽब्रुवंल्लोका दृढविस्मितमानसाः ॥३६॥
नानागृहगतो भुंक्ते काशिराजयुतो विभुः ।
आकर्ण्य वचनं तेषां हसन्नूचे नृपः स तान् ॥३७॥
विना मां स कथं यातो भोक्तुं नानागृहानिति ।
ततो गृहाणि द्वित्रीणि गत्वा राजा हि दृष्टवान् ॥३८॥
स्वं च कश्यपपुत्रं च भुक्तवन्तं गृहे गृहे ।
एतस्मिन्नन्तरे प्राप्तौ स्नात्वा तौ मुनिसत्तमौ ॥३९॥
भुक्त्यर्थं भ्रममाणौ तौ सनकश्च सनन्दनः ।
पुरीं महोत्सवयुतां विनायकमयीं शुभाम् ॥२.५४.४०॥
यद्यद्गृहं प्रविशतस्तत्र तत्र विनायकम् ।
पश्यतः स्मरतस्तौ तु यातः स्म बहिरेव च ॥४१॥
भुक्तं च भुक्तवन्तं च सुप्तं क्रीडन्तमेव च ।
जपन्तं च पठन्तं च पाठयन्तं च पश्यतः ॥४२॥
एवं सर्वत्र तं दृष्ट्वा परस्परमथोचतुः ।
न स्थलं भोजनार्थाय दृश्यतेऽथात्र निर्मलम् ॥४३॥
यावः शुक्लगृहं कर्ता स नानातिथ्यमादरात् ।
इत्युक्त्वा तद्गृहं यातो दृष्टस्तत्रापि काश्यपः ॥४४॥
अधोमुखौ क्षुधार्तौ तौ यातः स्म नगराद्बहिः।
पश्यतः स्म परां मूर्तिं स्फुटां वैनायकीं शुभाम् ॥४५॥
अन्तर्हदि च नेत्रे स्वे निमील्योन्मील्य वा पुनः।
अधश्चोर्ध्वं चान्तराले दिक्षु चैव विदिक्षु च ॥४६॥
तस्थतुस्तौ ततः पश्चाद्ध्यानस्तिमितवीक्षणौ ।
क्षणमुद्धाट्य नयने विनायकस्वरूपिणम् ॥४७॥
परस्परं पश्यति स्म सनकस्तं परोऽपि तम् ।
यं देवं तौ ध्यायतः स्म पश्यतस्तं विनायकम् ॥४८॥
सर्वव्यापी सर्वरूप आविरासीत्तयोः पुरः।
दशबाहुः सिंहगतः सिद्धिबुद्धिविराजितः ॥४९॥
सुप्रकाशं किरीटं च कुण्डले चांगदे दधत् ।
दिव्यगन्धं च माल्यं च नागं चन्द्रार्द्धमेव च ॥२.५४.५०॥
कस्तूरीतिलकं दिव्ये वसने दशनप्रभे।
सौम्यतेजाः सुमनसां दुष्टानां दुर्निरीक्षणः ॥५१॥
त्यक्त्वा भ्रमन्तु तत्त्वज्ञौ प्रणमेतां विनायकम् ।
बद्ध्वा करपुटं तौ तं तुष्टुवाते महामती ॥५२॥
तौ ऊचतुः ।
नित्यमद्वैतमपरं परं ब्रह्म सनातनम् ।
तमेव परया भक्त्या पंचभूतात्मकं विभुम् ॥५३॥
चराचरगतं सर्वरूपिणं परमेश्वरम् ।
भ्रमन्ति यस्य रोमाञ्चगता ब्रह्माण्डकोटयः ५४
स कथं स्तवनीयोऽसौ वेदान्तानामगोचरः ।
आवयोर्वाञ्छितं देव त्वया ज्ञात्वा प्रपूरितम् ॥५५॥
न विद्मो महिमानं ते बालरूपधरस्य ह ।
भूभारहरणार्थाय काश्यपं रूपमुत्तमम् ॥५६॥
क उवाच ।
अन्तर्दधे तु तद्रूमुपभयोः स्तुवतोः पुरः ।
न पश्यतो यदा रूपं तदा तौ श्रमवर्जितौ ॥५७॥
प्रासादं परमं कृत्वा मूर्तिं वैनायकीं शुभाम् ।
ब्रह्मवादित्रघोषैश्च यथा दृष्टं शुभे दिने ॥५८॥
स्थापयामासतुर्नाम वरदोऽयं विनायकः ।
गणेशतीर्थमिति च तत्र यत्सर उत्तमम् ॥५९॥
स्थापितं नाम तस्यापि तत्र तत्ख्यातिमागमत् ।
अत्र स्नानेन दानेन गणेश पूजनेन च॥२.५४.६०॥
सर्वांन्कामानवाप्नोति हित्वा पापं पुरातनम् ।
तत्रेयुर्मुनयः सर्वे देवाश्च सदिगीश्वराः ॥६१॥
दृष्ट्वा संपूजितं देवं स्तुत्वा नत्वा ययुः पुनः ।
मुनिरुवाच ।
एवं तौ बालरूपस्य प्रभावं द्रष्टुमागतौ ॥६२॥
दृष्टप्रभावौ संतुष्टौ स्वस्थानमापतुः परम् ।
य इदं शृणुयाद्भक्त्या बालस्य चरितं शुभम् ॥६३॥
सर्वान्कामानवाप्नोति प्रेत्यं ब्रह्ममयो भवेत् ।
न बालग्रहपीडा स्यात्सर्वत्र विजयी भवेत् ॥६४॥ (२४०९)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते चतुःपंचाशत्तमो ऽध्यायः ॥५४॥

अध्याय ५५ प्रारंभ :
मुनिरुवाच ।
तयोस्तु गतयोः पश्चान्मोहापन्नो महानृपः ।
काशिराजो हयारूढो भ्रमति स्म गृहे गृहे ॥१॥
विनायकमचक्षाणः क्व गतो भोक्त्युमित्युत ।
विहाय मां कथं यातो मिष्ठान्नं भोक्तुमेकशः ॥२॥
गृहे गृहे पर्यपृच्छत्क्व गतोऽसौ विनायकः ।
इदानीं बहिरायातो भुक्त्वा क्रीडितुमुत्सुकः ॥३॥
काशिराजेन सहितो वृथा त्वं पृच्छसे कथम् ।
एवं निराकृतः सर्वैः पुरवासिजनैरसौ ॥४॥
परमं श्रममापन्नो कुटुम्ब्यकिंचनो यथा ।
केचिदूचुः शुक्लगृहे क्रीडतेऽसौ विनायकः ॥५॥
ततो हर्षयुतः शुक्लगृहं यातो नृपस्तदा ।
ददर्श चांगणे तस्य बालं वृषगतं विभुम् ॥६॥
दृष्ट्वा तं वृषभारूढं त्रिनेत्रमिव चापरम् ।
प्रणम्य परया भक्त्या बद्धांजलिपुटोऽब्रवीत् ॥७॥
नृप उवाच ।
न बाले साधुचरितं न ज्ञानं स्नेह एव च ।
विहाय मां कथं भुक्तं मिष्टान्नं विविधं त्वया ॥८॥
क उवाच ।
एवमाकर्ण्य तद्वाक्यमुवाच स विनायकः ।
यत्र यत्र मया भुंक्ते तत्र भुक्तं त्वयाऽपि च ॥९॥
मिथ्या त्वं भाषसे मन्द बालस्वमसि बुद्धितः ।
वदिष्यन्ति जनाः सर्वे पच्छेति च ससाक्षिकम् ॥२.५५.१०॥
श्रुत्वा वैनायकं वाक्यं जना ऊचुर्नृपं तदा ।
इदानीं हि त्वया भुक्तं विनायकसमीपतः ॥११।
कथं मिथ्या भाषसे त्वं वृद्धः सन्नृपसत्तम ।
ततः प्रकृतिमापन्नो ज्ञातवान्स नृपोऽब्रवीत् ॥१२॥
अज्ञेया ते परा माया योगिनामपि मोहिनी।
धन्योऽसि सर्वरूपेण सर्वत्र मानितो यतः ॥१३॥
क उवाच ।
रोमांचांचितगात्रः स ध्यानमेवान्वपद्यत ।
ततो वैनायकं रूपं स्वयमेवान्वपद्यत ॥१४॥
यथा जलं जलं क्षिप्तं जलत्वं प्रतिपद्यते ।
पुनर्मायाबलेनासौ भिन्नमूर्तिर्नृपोत्तमः ॥१५॥
स तु तं शिबिकारूढं निनाय निजमन्दिरम् ।
नानावादित्रनिर्घोषैर्नृत्यैर्गीतैरनेकशः ॥१६॥
शुशुभे बालकोऽतीव देवेषु मदनो यथा ।
अनुयाति सपत्नीको भक्त्या शुक्लः शनैः शनैः ॥१७॥
परावर्त्य मुखं दृष्टो बालेन व्रीडता भृशम् ।
कथं प्रयातो दत्त्वाऽस्मै वरं कं च न तोषकम् ॥१८॥
इत्येवं मनसा तस्मै ददौ सम्पत्तिमुत्तमाम् ।
कुबेरसम्पदः श्रेष्ठां सर्वाश्चर्यकरीं विभुः ॥१९॥
शुक्लः परावृत्तो दीनः सपत्नीको महामनाः ।
कदन्नभक्षणाद्देवो रुष्टः किं त्विति चिन्तयन् ॥२.५५.२०॥
नापश्यतां पर्णकुटीं चिन्तां परमिकां ययौ ।
ततस्तु सेवकाः शुक्लं सुगन्धतैलमर्दनैः ॥२१॥
स्नापयित्वाऽप्यलंचक्रुर्भूषणैः कांचनांशुकैः ।
तथैव तस्य पत्नीं च बलादिव नियोजिताः ॥२२॥
अत्याश्चर्ययुतौ चोभौ पश्यतः सर्वसम्पदः ।
रत्नकांचनभित्तीश्च मंचान्नानासनानि च ॥२३॥
मुक्तामणिगणैश्चित्राण्यनेकानि स्थले स्थले ।
कांचनानि च भाण्डानि वस्त्राण्याच्छादनानि च ॥२४॥
भक्ष्याण्यनेकरूपाणि खाद्यानि विविधानि च ।
दृष्ट्वेत्थं सकलं चौभौ परस्परमभाषताम् ॥२५॥
किमिदं भवनं क्षुद्रं जातमिन्द्रगृहोपमम् ।
ततः शुक्लोऽब्रवीत्पत्नीं विनायकप्रसादतः ॥२६॥
सर्वं जानीहि सुभगे न समक्षं महाविभुः ।
ददाति तु पराक्षेऽसौ अल्पमात्रेण तोषयन् ॥२७॥
स्वयं दत्तं बहुतरमल्पमेव हि मन्यते ।
भक्त्योपपादितं स्वल्पं मन्यते बहुलं विभुः ॥२८॥
तस्माद्भयेन कामेन स्नेहेन रिपुभावतः ।
स्मर्तव्यो नमनीयश्च स्तव्यः पूज्यो हिताय च ॥२९॥
मुनिरुवाच । ततस्तु नगरे गुप्तौ नरान्तकसमीरितौ ।
आस्तां दूतौ चिरं कालं शूरश्च चपलस्तथा ॥२.५५.३०॥
यच्चण्डशब्दात्त्रैलोक्यं कम्पतेऽश्वत्थपत्रवत् ।
यच्छिरःकम्पतः कम्पं यान्ति देवाः सवासवाः ॥३१॥
पराक्रमे बले शब्दे त्रैलोक्ये न समस्तयोः ।
अयं तु शिबिकामध्ये हन्तव्यो मुनिदेहजः ॥३२॥
यतोऽनेन हता दैत्या बलिनः पूर्वमागताः ।
तेषां प्रतिकृतिः कार्येत्येवमूचुः परस्परम् ॥३३॥
विद्युद्रूपं समास्थाय गर्जतः स्म महारवौ ।
तत्तेजसा प्रतिहतचक्षुषा वीरसंचयाः ।
किमिदं किमिदमिति चुक्रुशुर्भृशविह्वलाः ॥३४॥
एतस्मिन्नन्तरे प्राप्तौ शिबिकानिकटं तु तौ ।
वाहाः पलायिताः सर्वे त्यक्त्वा तं च विनायकम् ॥३५॥
धृतौ विनायकेनोभौ हस्ताभ्यां बलिनौ बलात् ।
उत्पाटितुं धरण्या स भ्रामयामास तावुभौ ॥३६॥
करुर्णाद्रमनाः पश्चात्स्थापयामास भूतले।
हन्तव्यः पुरुषेणासौ यः पराक्रमतोऽधिकः ॥३७॥
मशके निहते कः स्यात्पुमर्थः पुरुषस्य ह ।
ततः पप्रच्छ तौ कस्य दूतौ वा कथ्यतामिति ॥३८॥
स्वशक्त्या तु कृते यत्ने न दोषः पुरुषस्य ह ।
एवं तद्वचनं श्रुत्वा प्रोचतुः पुरतः स्थितौ ॥३९॥
करुणाब्धिर्भवान्ख्यातो दिननाथः पिताऽसि नः ।
सेककृच्चोपनेता च विद्यादोऽभयदोऽपरः ॥२.५५.४०॥
अन्नदः पंचपितरो विख्याता भुवनत्रये ।
आवां दूतौ गुप्तरूपौ नरान्तकसमीरितौ ॥४१॥
तव विघ्नकरौ देव रक्षितौ कृपया त्वया ।
भूतं भव्यं भवच्चैव सर्वं जानासि सर्ववित् ॥४२॥
ये ये वैरेण त्वां याता हतास्ते क्षणमात्रतः ।
एतस्मिन्नन्तरे पौरा विनायकमथाब्रुवन् ॥४३॥
किमेतौ रक्षितौ देवदुष्टौ लोकभयंकरौ ।
अनयोरुपकारस्तु कृतोऽपकृतये भवेत् ॥४४॥
पन्नगाय पयो दत्तं विषमेव हि जायते ।
मुनिरुवाच ।
तानुवाच ततो देवः पूर्वमेवानयोर्मया ॥४५॥
अभयं दत्तमधुना विपरीतं कथं भवेत् ।
इत्युक्त्वाऽमोचयत्तौ स ततो राजाऽब्रवीत्पुनः ॥४६॥
अपराधानसंख्यातान्क्षान्त्वा तौ मोचितौ रिपू ।
मरणे जीवने जन्तोरिच्छा ते कारणं मता ॥४७॥
इत्युक्त्वा मन्दिरं प्राप्तौ काशिराजविनायकौ ।
नत्वा तौ सर्वलोकाश्च स्वं स्वं भवनमागमन् ॥४८॥
प्रशंसन्तो नृपं नानारूपिणं च विनायकम् ॥४९॥(२४५८)
इति श्रीगणेशपुराणे क्रीडाखंडे दूतमोचनं नाम पंचपंचाशत्तमोऽध्यायः ॥५५॥