आश्वलायन श्रौतसूत्रम्/अध्यायः ८/खण्डः ८

विकिस्रोतः तः
सोम व्यूळ्ह दशरात्रः

व्यूल्हश्चेत् पृष्ट्यस्योत्तरे त्र्यहे मध्यन्दिनेषु गायत्रांस्तृचानुपसंशस्य तेषु निविदो दध्यात् १ इमं नु मायिनं हुवे त्यमु वः सत्रासाहं मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामस्ययं ह येन वा इदमुप नो हरिभिः सुतमिति २ त्रैष्टुभान्येषां तृतीय-सवनानि ३ चतुर्थेऽहन्या देवो यातु प्र द्यावेति वासिष्ठं प्र ऋभुभ्यः प्रशुक्रैत्विति वैश्वदेवं । वैश्वानरस्य सुमतौ क ईं व्यक्ता अग्निं नर इत्याग्निमारुतं । अष्टादशोत्तमे विराजः ४ द्विपदा एकादश मारुते । एकविंशतिवैश्वदेवसूक्ते ५ पञ्चमस्योदुष्य देवः सविता दमूना इति तिस्रो मही द्यावापृथिवी इह ज्येष्ठे इति चतस्र ऋभुर्विभ्वास्तुषेजनमिति वैश्वदेवं । हविष्यान्तं वपुर्नु तदग्निर्होता गृहपतिः स राजेति तिस्र इत्याग्निमारुतं । उत्तमा वैश्वदेवसूक्ते साध्यासा । उत्तमा जातवेदस्ये ६ सर्वत्राध्यासानुपसमस्य प्रणुयात् ७ षष्ठस्योदुष्य देव इति गार्त्समदं किमु श्रेष्ठ उप नो वाजा इति त्रयोदशार्भवञ्चतस्रश्च वैश्वदेवसूक्ते तृचमन्त्यमुद्धरेदिति वैश्वदेवं ८ अहश्च कृष्णं मध्वोवो नाम सप्रत्नथेत्याग्निमारुतं । इति पृष्ट्यः ९


८.८।१ व्यूळ्हश् चेत् पृष्ठ्यस्य उत्तरे त्र्यहे मध्यंदिनेषु गायत्रांस् तृचान् उपसंशस्य तेषु निविदो दध्यात् । (सोम व्यूळ्ह दशरात्र)
८.८।२ इमम् नु मायिनम् हुवे त्यम् उ वः सत्रासहम् मरुत्वान् इन्द्र मीढ्वस् तम् इन्द्रम् वाजयामस्य् अयम् ह येन वा इदम् उप नो हरिभिः सुतम् इति । (सोम व्यूळ्ह दशरात्र)
८.८।३ त्रैष्टुभान्य् एषाम् तृतीय सवनानि । (सोम व्यूळ्ह दशरात्र)
८.८।४ चतुर्थे अहन्य् आ देवो यातु प्र द्याव इति वासिष्ठम् प्र ऋभुभ्यः प्रशुक्र एत्व् इति वैश्वदेवम् । वैश्वानरस्य सुमतौ क ईम् व्यक्ता अग्निम् नर इत्य् आग्निमारुतम् । अष्टादश उत्तमे विराजः । (सोम व्यूळ्ह दशरात्र)
८.८।५ द्विपदा एकादश मारुत एकविंशतिर् वैश्वदेव सूक्ते । (सोम व्यूळ्ह दशरात्र)
८.८।६ पञ्चमस्य उद् उ ष्य देवः सविता दमूना इति तिस्रो मही द्यावा पृथिवी इह ज्येष्ठे इति चतस्र ऋभुर् विभ्वा स्तुषे जनम् इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र)
८.८।६ वपुर् नु तद् अग्निर् होता गृहपतिः स राजा इति तिस्र इत्य् आग्निमारुतम् उत्तमा वैश्वदेव सूक्ते साध्या सा । उत्तमा जातवेदस्ये । (सोम व्यूळ्ह दशरात्र)
८.८।७ सर्वत्र अध्यासान् उपसमस्य प्रणुयात् । (सोम व्यूळ्ह दशरात्र)
८.८।८ षष्ठस्य उद् उ ष्य देव इति गार्त्समदम् किम् उ श्रेष्ठ उप नो वाजा इति त्रयोदश आर्भवम् चतस्रश् च वैश्वदेव सूक्ते तृचम् अन्त्यम् उद्धरेद् इति वैश्वदेवम् । (सोम व्यूळ्ह दशरात्र)
८.८।९ अहश् च कृष्णम् मध्वो वो नाम सप्रत्नथा इत्य् आग्निमारुतम् । इति पृष्ठ्यः । (सोम व्यूळ्ह दशरात्र)