कथासरित्सागरः/लम्बकः ९/तरङ्गः ३

विकिस्रोतः तः
Jump to navigation Jump to search

ततोऽन्येद्युरलंकारवतीपार्श्वस्थितं सखा ।
नरवाहनदत्तं तं मरुभूतिर्व्यजिज्ञपत् ।। १
पश्य पश्य वराकोऽयं देव कार्पटिकस्तव ।
चर्मखण्डैकवसनो जटालः कृशधूसरः ।। २
सिंहद्वाराद्दिवारात्रं शीते वाप्यातपेऽपि वा ।
न चलत्येव तन्नास्य किमद्यापि प्रसीदसि ।। ३
काले दत्तं वरं ह्यल्पमकाले बहुनापि किम् ।
तद्यावन्म्रियते नैष तावदस्य कृपां कुरु ।। ४
तच्छ्रुत्वा गोमुखोऽवादीत्साधूक्तं मरुभूतिना ।
किं पुनर्नापराधोऽस्ति तव देवात्र कश्चन ।। ५
क्षयो यावन्न वृत्तो हि पापस्य परिपन्थिनः ।
तावद्दानप्रवृत्तोऽपि दातुं शक्नोति न प्रभुः ।। ६
परिक्षीणे पुनः पापे वार्यमाणोऽपि यत्नतः ।
ईश्वरः प्रददात्येव कर्मायत्तमिदं किल ।। ७
तथा च लक्षदत्तस्य राज्ञः कार्पटिकस्य च ।
लब्धदत्तस्य देवैतां कथामाख्यामि ते शृणु ।। ८
अभूल्लक्षपुरं नाम नगरं वसुधातले ।
तत्रासील्लक्षदत्ताख्यस्त्यागिनामग्रणीर्नृपः ।। ९
लक्षादूनं न दातुं स जानाति स्म किलार्थिने ।
संबभाषे तु यं तस्मै ददौ लक्षाणि पञ्च सः ।। १०
तुतोष यस्मै स पुनर्निर्द्रारिद्र्यं चकार तम् ।
लक्षदत्त इति ख्यातं नाम तस्यात एव तत् ।। ११
तस्यैको लब्धदत्ताख्यः सिंहद्वारे दिवानिशम् ।
तस्थौ कार्पटिकश्चर्मखण्डैककटिकर्पटः ।। १२
स निबद्धजटः शीतवर्षे ग्रीष्मातपेऽपि वा ।
न चचाल ततः क्षिप्रं स राजा च ददर्श तम् ।। १३
तथा तस्य चिरं तत्र तिष्ठतः क्लेशवर्तिनः ।
न स राजा ददौ किंचिद्दातापि सकृपोऽपि सन् ।। १४
अथैकदा स नृपतिर्जगामाखेटकाटवीम् ।
स च तं लगुडं बिभ्रदन्वक्कार्पटिको ययौ ।। १५
तत्र तस्य ससैन्यस्य वाहनस्थस्य धन्विनः ।
व्याघ्रान्वराहान्हरिणान्बाणवर्षेण निघ्नतः ।। १६
अग्रतः पादचारी सन्स कार्पटिक एककः ।
जघान लगुडेनैव वराहान्हरिणान्बहून् ।। १७
स दृष्ट्वा विक्रमं तस्य चित्रं शूरः कियानयम् ।
इति दध्यौ स राजान्तर्न त्वस्मै किंचिदप्यदात् ।। १८
कृताखेटः स नगरं स्वसुखायाविशन्नृपः ।
स च कार्पटिकस्तस्थौ सिंहद्वारे च पूर्ववत् ।। १९
कदाचिदेकसीमान्तगोत्रजावजयाय सः ।
लक्षदत्तो ययौ राजा युद्धं चास्याभवन्महत् ।। २०
तत्र युद्धे स तस्याग्रे राज्ञः कार्पटिको बहून् ।
दृढखादिरदण्डाग्रप्रहारैरवधीत्परान् ।। २१
जितशत्रुः स राजा च निजं प्रत्याययौ पुरम् ।
न च तस्मै ददौ किंचिदपि दृष्टपराक्रमः ।। २२
एवं कार्पटिकस्यात्र लब्धदत्तस्य तिष्ठतः ।
व्यतीयुः पञ्च वर्षाणि तस्य काष्ठेन जीवतः ।। २३
षष्ठे प्रवृत्ते दृष्ट्वा तमेकदा दैवयोगतः ।
स राजा जातकरुणो लक्षदत्तो व्यचिन्तयत् ।। २४
नाद्याप्यस्य मया दत्तं चिरक्लिष्टस्य किंचन ।
तद्युक्त्या किचिदेतस्मै दत्त्वा पश्याम्यहं न किम् ।। २५
किं नामास्य वराकस्य वृत्तः पापक्षयो न वा ।
किं ददाति न वाद्यापि लक्ष्मीरस्य च दर्शनम् ।। २६
इत्यालोच्य नृपः स्वैरं भाण्डागारं प्रविश्य सः ।
रत्नैर्भृतं मातुलुङ्गं समुद्गकमिव व्यधात् ।। २७
चकार सर्वास्थानं च स विधाय बहिः सभाम् ।
तत्र च प्राविशन्सर्वे पौरसामन्तमन्त्रिणः ।। २८
तन्मध्ये च प्रविष्टं तं राजा कार्पटिकं स्वयम् ।
इतो निकटमेहीति जगाद स्निग्धया गिरा ।। २९
ततः कार्पटिकः श्रुत्वा लब्धदत्तः प्रहर्षवान् ।
अग्रे सविधमागत्य राज्ञस्तस्योपविष्टवान् ।। ३०
ततस्तमवदद्राजा ब्रूहि किंचित्सुभाषितम् ।
तदाकर्ण्य पपाठैतामार्यां कार्पटिकोऽथ सः ।। ३१
पूरयति पूर्णमेषा तरङ्गिणीसंहतिः समुद्रमिव ।
लक्ष्मीरधनस्य पुनर्लोचनमार्गेऽपि नायाति ।। ३२
श्रुत्वैतत्पाठयित्वा च भूयस्तुष्टः स भूपतिः ।
सद्रत्नपूर्णं तस्मै तन्मातुलुङ्गफलं ददौ ।। ३३
यस्य तुष्यति राजायं दारिद्र्यं तस्य कृन्तति ।
शोच्यः कार्पटिकस्त्वेष यमाहूयैवमादरात् ।। ३४
मातुलुङ्गमिदं दत्तं तुष्टेनानेन भूभृता ।
कल्पवृक्षोऽप्यभव्यानां प्रायो याति पलाशताम् ।। ३५
इति सर्वेऽपि तद्दृष्ट्वा तत्रास्थाने विषादिनः ।
अज्ञातपरमार्थत्वात्स्वैरमूचुः परस्परम् ।। ३६
स तु कार्पटिको मातुलुङ्गमादाय निर्ययौ ।
आययौ चाग्रतस्तस्य भिक्षुरेको विषीदतः ।। ३७
स राजबन्दिनामा तद्दत्त्वा शाटकमग्रहीत् ।
तस्मात्कार्पटिकान्मातुलुङ्गं दृष्ट्वा मनोरमम् ।। ३८
प्रविश्य च स भिक्षुस्तद्राज्ञे फलमढौकयत् ।
राजा च तत्परिज्ञाय श्रमणं पृच्छति स्म तम् ।। ३९
मातुलुङ्गं कुत इदं भदन्त भवतामिति ।
ततः कार्पटिकं सोऽस्मै तद्दातारं शशंस तम् ।। ४०
अथ राजा विषण्णश्च विस्मितश्च बभूव सः ।
अहो अद्यापि न क्षीणं पापं तस्येति चिन्तयन् ।। ४१
स्वीकृत्य मातुलुङ्गं तदुत्थायास्थानतः क्षणात् ।
चकार दिनकर्तव्यं लक्षदत्तः स भूपतिः ।। ४२
सोऽपि कार्पटिको गत्वा सिंहद्वारे यथास्थितः ।
कृतभोजनपानादिरासीद्विक्रीतशाटकः ।। ४३
द्वितीयेऽह्नि स राजा च सर्वास्थानं तथैव तत् ।
विदधे तत्र सर्वे च सपौराः प्राविशन्पुनः ।। ४४
दृष्ट्वा कार्पटिकं तं च प्रविष्टं सोऽथ भूमिभृत् ।
तथैवाहूय पुनरप्युपावेशयदन्तिके ।। ४५
पाठयित्वा च भूयोऽपि तामेवार्यां प्रसादतः ।
गूढरत्नं ददौ तस्मै मातुलुङ्गं तदेव सः ।। ४६
अहो द्वितीये दिवसे तुष्टोऽस्यायं वृथा प्रभुः ।
किं तावदेतदित्यत्र सर्वे दध्युः सविस्मयाः ।। ४७
स च कार्पटिको विप्रो हस्ते कृत्वा तु तत्फलम् ।
राजप्रसादं सफलं मन्वानो निर्ययौ बहिः ।। ४८
तावत्तस्याययौ कोऽपि विषयाधिकृतोऽग्रतः ।
प्रविविक्षुस्तदास्थानं द्रष्टुकामो महीक्षितम् ।। ४९
स दृष्ट्वा मातुलुङ्गं तद्वव्रे कार्पटिकात्ततः ।
आददे शकुनापेक्षी दत्त्वास्मै वस्त्रयोर्युगम् ।। ५०
प्रविश्य च नृपास्थानं पादनम्रो नृपाय तत् ।
मातुलुङ्गं ददावादौ ततोऽन्यत्प्राभृतं निजम् ।। ५१
परिज्ञाय च तद्राज्ञा फलं स विषयाधिपः ।
कुत एतत्तवेत्युक्तोऽवोचत्कार्पटिकादिति ।। ५२
अहो ददाति नाद्यापि लक्ष्मीस्तस्येह दर्शनम् ।
इत्यन्तश्चिन्तयन्तोऽथ राजाभूद्विमना वशम् ।। ५३
उत्तस्थौ मातुलुङ्गं तद्गृहीत्वास्थानतश्च सः ।
सोऽथ कार्पटिको वस्त्रयुग्मं प्राप्यापणं ययौ ।। ५४
चक्रे भोजनपानादि विक्रीयैकं च शाटकम् ।
द्वितीयं च द्विधा कृत्वा वाससी द्वे व्यधत्त सः ।। ५५
ततस्तृतीयेऽपि दिने सर्वास्थानं स पार्थिवः ।
व्यधात्तथैव सर्वश्च प्रविवेश पुनर्जनः ।। ५६
तस्मै प्रविष्टाय च तन्मातुलुङ्गं तथैव सः ।
भूयोऽप्याहूय तामार्यां पाठयित्वा नृपो ददौ ।। ५७
विस्मितेष्वथ सर्वेषु सोऽपि कार्पटिको बहिः ।
गत्वा राजविलासिन्यै तददाद्बीजपूरकम् ।। ५८
सा तस्मै राजसंमानतरुवल्लीव जङ्गमा ।
जातरूपं ददौ पुष्पमिवाग्रफलसूचकम् ।। ५९
तत्स विक्रीय तदहस्तस्थौ कार्पटिकः सुखम् ।
विलासिन्यपि सा राज्ञः प्रविवेशान्तिकं तदा ।। ६०
तस्मै च स्थूलरम्यं तन्मातुलुङ्गमढौकयत् ।
सोऽपि तत्प्रत्यभिज्ञाय तां पप्रच्छ तदागमम् ।। ६१
ततो जगाद सा दत्तमिदं कार्पटिकेन मे ।
तच्छ्रुत्वा स नृपो दध्यौ लक्ष्म्या सोऽद्यापि नेक्षितः ।। ६२
मन्दपुण्यो न यो वेत्ति मत्प्रसादमनिष्फलम् ।
मामेव चैतान्यायान्ति महारत्नान्यहो मुहुः ।। ६३
इति ध्यात्वा गृहीत्वा तत्स्थापयित्वा च रक्षितम् ।
मातुलुङ्गं स उत्थाय चक्रे भूपतिराह्निकम् ।। ६४
चतुर्थेऽह्नि च सोऽकार्षीद्राजास्थानं तथैव तत् ।
पूर्यते स्म च तत्सर्वैः सामन्तसचिवादिभिः ।। ६५
ततस्तत्र तमायातं भूयः कार्पटिकं नृपः ।
उपवेश्याग्रतः प्राग्वत्स तामार्यामपाठयत् ।। ६६
ददौ च मातुलुङ्गं तत्तस्मै तच्च द्रुतोज्झितम् ।
तस्य हस्तार्धसंप्राप्तं द्विधाभूत्पतितं भुवि ।। ६७
पिधानसंधिभग्नाच्च तस्माद्रत्नानि निर्ययुः ।
भासयन्ति तदास्थानं महार्घाणि बहूनि च ।। ६८
तानि दृष्ट्वाप्नुवन्सर्वे परमार्थमजानताम् ।
त्र्यहं मृषा भ्रमोऽभून्नः प्रसादस्त्वीदृशः प्रभोः ।। ६९
एतच्छ्रुत्वाब्रवीद्राजा मया युक्त्यानया ह्ययम् ।
दर्शनं श्रीर्ददात्यस्य किं न वेति परीक्षितः ।। 9.3.७०
पापान्तश्च त्र्यहं नास्य प्राप्तः प्राप्तोऽस्य सोऽद्य तु ।
तेनैव दर्शनं लक्ष्म्या दत्तमेतस्य सांप्रतम् ।। ७१
इत्युक्त्वा तानि रत्नानि ग्रामान्हस्त्यश्वकाञ्चनम् ।
दत्त्वा चकार सामन्तं स तं कार्पटिकं प्रभुः ।। ७२
उत्तस्थौ च ततः स्नातुमास्थानात्संस्तुवज्जनात् ।
ययौ कार्पटिकः सोऽपि कृतार्थो वसतिं निजाम् ।। ७३
एवं यावन्न पापान्तो वृत्तस्तावन्न लभ्यते ।
प्रभुप्रसादो भृत्येन कृतैः कष्टशतैरपि ।। ७४
इत्याख्याय कथामेतां मन्त्रिमुख्यः स गोमुखः ।
नरवाहनदत्तं तं जगाद स्वप्रभुं पुनः ।। ५
तद्देव जाने नैतस्य नूनं कार्पटिकस्य ते ।
वृत्तः पापक्षयोऽद्यापि येन नास्य प्रसीदसि ।। ७६
श्रुत्वैतद्गोमुखवचो हन्त साध्वित्युदीर्य च ।
तस्मै कार्पटिकाख्याय निजकार्पटिकाय सः ।। ७७
वत्सेश्वरसुतः सद्यः प्रददौ ग्रामसंचयम् ।
हस्त्यश्वं हेमकोटिं च सद्वस्त्राभरणानि च ।। ७८
तदैव राजसदृशः सोऽभूत्कार्पटिकः कृती ।
कृतज्ञे सत्परीवारे प्रभौ सेवाफला कुतः ।। ७९
एवं स्थितस्य तस्यात्र जातु सेवार्थमाययौ ।
नरवाहनदत्तस्य दाक्षिणात्यो युवा द्विजः ।। 9.3.८०
प्रलम्बबाहुनामा च स वीरस्तं व्यजिज्ञपत् ।
कीर्त्याकृष्टस्तवैषोऽहं पादौ देव समाश्रितः ।। ८१
पदात्पदं च देवस्य पदातिर्न चलाम्यहम् ।
गजवाजिरथैर्भूमौ गच्छतो नाम्बरे पुनः ।। ८५
विद्याधरेन्द्रता यस्माच्छ्रूयते भाविनी प्रभोः ।
दिने दिने स्वर्णशतं दीयतां वृत्तये मम ।। ८३
एवमुक्तवते तस्मै तत्किलातुलतेजसे ।
नरवाहनदत्तस्तां ददौ वृत्तिं द्विजातये ।। ८४
तत्प्रसङ्गाच्च वक्ति स्म गोमुखो देव सेवकाः ।
भवन्त्येवंविधा राज्ञां तथा च श्रूयतां कथा ।। ८५
अस्तीह विक्रमपुरं नाम्ना पुरवरं महत् ।
तत्र विक्रमतुङ्गाख्यो बभूव नृपतिः पुरा ।। ८६
तैक्ष्ण्यं कृपाणे यस्याभून्न दण्डे नयशालिनः ।
धर्मे च सततासक्तिर्न तु स्त्रीमृगयादिषु ।। ८७
तस्मिंश्च राज्ञि कुलयो रजःसु गुणविच्युतिः ।
सायकेष्वविचारश्च गोष्ठेषु पशुरक्षिणाम् ।। ८८
तस्य वीरवरो नाम शूरो मालवदेशजः ।
स्वाकृतिश्चाययौ राज्ञो विप्रः सेवार्थमेकदा ।। ८९
यस्य धर्मवती नाम भार्या वीरवती सुता ।
पुत्रः सत्त्ववरश्चेति त्रयं परिकरो गृहे ।। 9.3.९०
सेवापरिकरश्चान्यत्त्रयं कट्यां कृपाणिका ।
पाणौ करतलैकस्मिंश्चर्मान्यस्मिन्सुदर्पणम् ।। ९१
इयन्मात्रे परिकरे वृत्तयेऽर्थयते स्म सः ।
प्रत्यहं नृपतेस्तस्माद्दीनारशतपञ्चकम् ।। ९२
राजा च स ददौ तस्मै वृत्तिं तां लक्षितौजसे ।
पश्यामि तावदेतस्य प्रकर्षमिति चिन्तयन् ।। ९३
ददौ च तस्य चारान्स पश्चाज्जिज्ञासितुं नृपः ।
कुर्यादियद्भिर्दीनारैः किं द्विबाहुरसाविति ।। ९४
स च वीरवरस्तेषां दीनाराणां दिने दिने ।
शतं हस्ते स्वभार्याया भोजनादिकृते ददौ ।। ९५
शतेन वस्त्रमाल्यादि क्रीणाति स्म शतं पुनः ।
स्नात्वा हरिहरादीनामर्चनार्थमकल्पयत् ।। ९६
द्विजातिकृपणादिभ्यो ददावन्यच्छतद्वयम् ।
एवं स विनियुङ्क्ते स्म नित्यं पञ्चशतीमपि ।। ९७
तस्थौ च पूर्वमध्याह्नं सिंहद्वारेऽस्य भूपतेः ।
कृत्वाह्निकादि चागत्य तत्रैवासीन्निशां पुनः ।। ९८
एतां तद्दिनचर्यां च नित्यं चारा न्यवेदयन् ।
राज्ञे तस्मै ततस्तुष्टः स तांश्चारान्न्यवर्तयत् ।। ९९
सोऽपि वीरवरस्तस्य राज्ञस्तस्थौ दिवानिशम् ।
स्नानादिसमयं मुक्त्वा सिंहद्वारे धृतायुधः ।। 9.3.१००
अथात्र तं वीरवरं जेतुमिच्छन्निवाययौ ।
शूरप्रतापासहनो गर्जितोग्रो घनागमः ।। १०१
तदा च वर्षति घने घोरो धाराशरावलीः ।
न स वीरवरः सिंहद्वारात्स्तम्भ इवाचलत् ।। १०२
राजा विक्रमतुङ्गश्च प्रासादाद्वीक्ष्य तं सदा ।
आरुरोह स जिज्ञासुः प्रासादं तं पुनर्निशि ।। १०३
सिंहद्वारे स्थितः कोऽत्रेत्युपरिष्टाज्जगाद सः ।
तच्छ्रुत्वाहं स्थितोऽत्रेति सोऽपि वीरवरोऽभ्यधात् ।। १०४
अहो अयं महासत्त्वः सुमहत्पदमर्हति ।
सिंहद्वारं न यो मुञ्चत्यम्बुदे वर्षतीदृशे ।। १०५
इति यावच्च स श्रुत्वा विचिन्तयति भूमिभृत् ।
तावद्दूरात्सकरुणं रुदतीमशृणोत्स्त्रियम् ।। १०६
दुःखितो मे न राष्ट्रेऽस्ति तदेषा का नु रोदिति ।
इत्यालोच्याब्रवीद्राजा स तं वीरवरं तदा ।। १०७
भो वीरवर कापि स्त्री दूरे रोदित्यसौ शृणु ।
कैषा किं दुःखमस्याश्चेत्यत्र गत्वा निरूपय ।। १०८
तच्छ्रुत्वा स तथेत्युक्त्वा गन्तुं प्रववृते ततः ।
धुन्वन्करतलं वीरवरो बद्धासिधेनुकः ।। १०९
दृष्ट्वा तं प्रस्थितं मेघे ज्वलद्विद्युति तादृशे ।
धारानिपातसंरुद्धरोदोरन्ध्रे सकौतुकः ।। 9.3.११०
सकृपश्चावतीर्यैव प्रासादात्तस्य पृष्ठतः ।
अलक्षितः खड्गपाणिः प्रतस्थे सोऽपि भूमिपः ।। १११
स चानुसर्पन्रुदितं गुप्तान्वागतभूपतिः ।
गत्वा बहिः पुरादेकं प्राप वीरवरः सरः ।। ११२
हा नाथ हा कृपालो हा शूर त्यक्ता त्वया कथम् ।
वत्स्यामीति च तन्मध्ये रुदतीं स्त्रीं ददर्श ताम् ।। ११३
का त्वं शोचसि कं नाथमिति पृष्टा च तेन सा ।
उवाच पुत्र मामेतां विद्धि वीरवर क्षितिम् ।। ११४
तस्या विक्रमतुङ्गो मे राजा नाथोऽद्य धार्मिकः ।
मृत्युश्च भविता तस्य तृतीयेऽहनि निश्चितम् ।। ११५
एतादृशश्च भूयोऽपि पतिः स्यात्पुत्र मे कुतः ।
तेनैतमनुशोचामि स्वात्मानं च सुदुःखिता ।। ११६
अहं हि भावि पश्यामि दिव्यदृष्ट्या शुभाशुभम् ।
त्रिदिवस्थो यथाद्राक्षीत्सुप्रभो देवपुत्रकः ।। ११७
स हि पुण्यक्षयात्स्वर्गात्पतनं भावि दिव्यदृक् ।
सप्ताहात्सूकरीगर्भे संभवं चैक्षतात्मनः ।। ११८
ततः स सूकरीगर्भवासक्लेशं विभावयन् ।
देवपुत्रोऽन्वशोचत्तान्दिव्यान्भोगान्सहात्मना ।। ११९
हा स्वर्ग हा हाप्सरसो हा नन्दनलतागृहाः ।
हा वत्स्यामि कथं क्रोडीगर्भे तदनु कर्दमे ।। 9.3.१२०
इत्यादि विलपन्तं तं श्रुत्वाभ्येत्य सुराधिपः ।
पप्रच्छ सोऽपि स्वं तस्मै दुःखहेतुमवर्णयत् ।। १२१
ततः शक्रो जगादैनमस्त्युपायोऽत्र ते शृणु ।
व्रजोंनमः शिवायेति जपञ्शरणमीश्वरम् ।। १२२
तं गत्वा शरणं हित्वा पापं पुण्यमवाप्स्यसि ।
येन प्राप्स्यसि न क्रोडयोनिं स्वर्गान्न च च्युतिम् ।। १२३
 इत्युक्तो देवराजेन सुप्रभोऽथ तथेति सः ।
उक्त्वा नमःशिवायेति शंभुं शरणमग्रहीत् ।। १२४
तन्मयः स दिनैः षड्भिस्तत्प्रसादान्न केवलम् ।
निक्षिप्तः सूकरीगर्भे यावत्स्वर्गादुपर्यगात् ।। १२५
सप्तमेऽह्नि च तं स्वर्गे तत्रापश्यञ्शतक्रतुः ।
वीक्षते यावदधिकं लोकान्तरमसौ गतः ।। १२६
इत्थं शुशोच स यथा दृष्ट्वाघं भावि सुप्रभः ।
तथैव भाविनं मृत्युं दृष्ट्वा शोचामि भूभृतः ।। १२७
एवमुक्तवतीं भूमिं तां स वीरवरोऽव्रवीत् ।
यथाम्ब सुप्रभस्याभूदुपायः शक्रवाक्यतः ।। १२८
तथा यद्यस्ति राज्ञोऽस्य रक्षोपायस्तदुच्यताम् ।
इति वीरवरेणोक्ते पृथिवी तमुवाच सा ।। १२९
एक एवास्त्युपायोऽत्र स्वाधीनः स तवैव च ।
तच्छ्रुत्वैव च सोऽवादीद्धृष्टो वीरवरो द्विजः ।। 9.3.१३०
तर्हि ब्रूहि द्रुतं देवि यदि श्रेयो भवेत्प्रभोः ।
प्राणैर्मे पुत्रदारैर्वा तज्जन्म सफलं मम ।। १३१
इत्युक्तवन्तमवदत्सा तं वीरवरं क्षितिः ।
अस्त्यत्र चण्डिकादेवी यैषा राजकुलान्तिके ।। १३२
तस्यै सत्त्ववरं पुत्रमुपहारी करोषि चेत् ।
ततो जीवति राजासौ नास्युपायोऽपरः पुनः ।। १३३
श्रुत्वैतद्वसुधावाक्यं धीरो वीरवरस्तदा ।
यामि देवि करोम्येतदधुनैवेत्युवाच सः ।। १३४
कोऽन्यः स्वामिहितस्त्वादृग्भद्रं तेऽस्तु व्रजेति भूः ।
उक्त्वा तिरोऽभूत्सर्वं च राजा सोऽन्वागतोऽशृणोत् १३५
ततो विक्रमतुङ्गेऽस्मिन्राज्ञि च्छन्नेऽनुगच्छति ।
द्रुतं वीरवरस्तस्यां रात्रौ स स्वगृहं ययौ ।। १३६
तत्र प्रबोध्य भार्यायै धर्मवत्यै शशंस सः ।
स्वपुत्रमुपहर्तव्यं राजार्थे वचनाद्भुवः ।। १३७
सा तच्छ्रुत्वाब्रवीत्कार्यमवश्यं स्वामिनो हितम् ।
तत्पुत्रश्चाद्य भवता प्रतिबोध्योच्यतामिति ।। १३८
ततः प्रबोध्य बालाय तस्मै वीरवरेण तत् ।
ऊचे तदुपहारान्तं राजार्थे यद्भुवोदितम् ।। १३९
तच्छ्रुत्वा स यथार्थाख्यो बालः सत्त्ववरोऽभ्यधात् ।
प्रभुकार्योपयुक्तासुः पुण्यवांस्तात नास्मि किम् ।। 9.3.१४०
भुक्तं मया तदन्नं यच्छोधनीयं मयापि तत् ।
तन्नीत्वा तत्कृते देव्या उपहारी कुरुष्व माम् ।। १४१
इत्यूचिवांसं तं सत्त्ववरं वीरवरः शिशुम् ।
सत्यं भवसि मज्जात इत्यवोचदविक्लवम् ।। १४२
एतद्विक्रमतुङ्गः स राजा श्रुत्वा बहिः स्थितः ।
अचिन्तयदहो सर्वे समसत्त्वा अमी इति ।। १४३
ततो वीरवरः स्कन्धे सुतं सत्त्ववरं स तम् ।
भार्या धर्मवती चास्य पृष्ठे वीरवती सुताम् ।। १४४
गृहीत्वा जग्मतुस्तौ द्वौ रात्रौ तच्चण्डिकागृहम् ।
राजा विक्रमतुङ्गश्च पश्चाच्छन्नो ययौ तयोः ।। १४५
तत्रावतारितः स्कन्धात्पित्रा सत्त्ववरोऽथ सः ।
बालोऽपि धैर्यराशिस्तां नत्वा देवीं व्यजिज्ञपत् ।। १४६
देवि मूर्धोपहारेण मम जीवतु नः प्रभुः ।
नृपो विक्रमतुङ्गोऽत्र शास्तु च क्ष्मामकण्टकाम् ।। १४७
एवमुक्तवतस्तस्य साधु पुत्रेत्युदीर्य सः ।
कृष्ट्वा करतलां सूनोश्छित्त्वा वीरवरः शिरः ।। १४८
प्रददौ चण्डिकादेव्यै राज्ञः श्रेयोऽस्त्विति ब्रुवन् ।
नास्त्यहो स्वामिभक्तानां पुत्रे वात्मनि वा स्पृहा ।। १४९
साधु वीरवर प्रत्तं स्वामिनो जीवितं त्वया ।
अपि प्राणैः सुतस्येति शुश्रुवे वाक्तदा दिवः ।। 9.3.१५०
तच्चातिविस्मिते राज्ञि सर्वं पश्यति शृण्वति ।
बाला वीरवती तस्य भ्रातुर्वीरवरात्मजा ।। १५१
हतस्योपेत्य मूर्धानमाश्लिष्य परिचुम्ब्य च ।
हा भ्रातरिति चाक्रन्द्य हृत्स्फोटेन व्यपादि सा ।। १५२
दृष्ट्वा सुतामपि मृतां सा तं वीरवरं तदा ।
भार्या धर्मवती दैन्येनाब्रवीद्रचिताञ्जलिः ।। १५३
राज्ञः शिवं कृतं तावत्तदनुज्ञां प्रयच्छ मे ।
यावदात्तमृतापत्यद्वयाग्निं प्रविशाम्यहम् ।। १५४
बाला यत्रेयमज्ञानाप्येवं भ्रातृशुचा मृता ।
का शोभा जीवितेनात्र नष्टेऽपत्यद्वयेऽपि मे ।। १५५
निश्चयेनेति जल्पन्ती तां स वीरवरोऽब्रवीत् ।
एवं कुरुष्व किं वच्मि नहीदानीमनिन्दिते ।। १५६
अपत्यशोकैकमये संसारेऽस्ति सुखं तव ।
तत्प्रतीक्षस्व यावत्ते रचयामि चितामहम् ।। १५७
इत्युक्त्वात्र स्थितैर्देवीक्षेत्रनिर्माणदारुभिः ।
न्यस्तापत्यशवां चक्रे दीपाग्निज्वलितां चिताम् ।। १५८
ततो धर्मवती भार्या पादौ तस्य प्रणम्य सा ।
जन्मान्तरेऽपि मे भूयादार्यपुत्र पतिर्भवान् ।। १५९
शिवं राज्ञोऽस्तु चेत्युक्त्वा साध्वी तस्मिंश्चितानले ।
ज्वालाजटाले न्यपतच्छीतलहृदलीलया ।। 9.3.१६०
तत्स विक्रमतुङ्गश्च दृष्ट्वा गुप्तस्थितो नृपः ।
केनैषामनृणोऽहं स्यामित्यासीद्ध्यानमोहितः ।। १६१
ततो वीरवरः सोऽपि धीरचेता व्यचिन्तयत् ।
संपन्नं स्वामिकार्यं मे साक्षाद्दिव्या हि वाक्छ्रुता ।। १६२
भुक्तान्नपिण्डः संशुद्धः प्रभोस्तदधुना मया ।
सर्वमिष्टं व्ययीकृत्य भरणीयं कुटुम्बकम् ।। १६३
एकस्यात्मभरित्वेन न चकास्त्येव जीवितम् ।
तत्किं नात्मोपहारेणाप्यर्चयाम्यम्बिकामिमाम् ।। १६४
इति वीरवरः सत्त्वनिष्ठः संकल्प्य चण्डिकाम् ।
देवीं तां वरदां पूर्वं स स्तोत्रेणोपतस्थिवान् ।। १६५
महेश्वरि नमस्तुभ्यं प्रणताभयदायिनि ।
संसारपङ्कमग्नं मां शरणागतमुद्धर ।। १६६
त्वं प्राणशक्तिर्भूतानां त्वयेदं चेष्टते जगत् ।
सृष्टेरादौ स्वसंभूता स्वयं दृष्टासि शंभुना ।। १६७
ज्वलन्ती विश्वमुद्भास्य दुर्निरीक्ष्येण तेजसा ।
उच्चण्डाकाण्डबालार्ककोटिपङ्क्तिरिवोदिता ।। १६८
भुजानां चक्रवालेन संछादितदिगन्तरा ।
खङ्गखेटककोदण्डशरशूलादिधारिणा ।। १६९
संस्तुतासि च तेनैव देवेनैवं त्रिशूलिना ।
नमस्ते चण्डि चामुण्डे मङ्गले त्रिपुरे जये ।। 9.3.१७०
एकानंशे शिवे दुर्गे नारायणि सरस्वति ।
भद्रकालि महालक्ष्मि सिद्धे रुरुविदारिणि ।। १७१
त्वं गायत्री महाराज्ञी रेवती विन्ध्यवासिनी ।
उमा कात्यायनी च त्वं शर्वपर्वतवासिनी ।। १७२
इत्यादिभिर्नाममिस्त्वां देवि स्तुतिपरं हरम् ।
श्रुत्वा स्कन्दो वसिष्ठश्च ब्रह्माद्यास्त्वां च तुष्टुवुः ।। १७३
स्तुवन्तस्त्वां च भगवत्यमरा ऋषयो नराः ।
ईप्सिताभ्यधिकान्कामान्प्राप्ताश्च प्राप्नुवन्ति च ।। १७४
तन्मे प्रसीद वरदे गृहाण त्वमिमामपि ।
मच्छरीरोपहारार्चां श्रेयो राज्ञोऽस्तु मत्प्रभोः ।। १७५
इत्युदीर्य शिरश्छेत्तुं यावदिच्छति स स्वकम् ।
उदभूद्भारती तावदशरीरा नभस्तलात् ।। १७६
मा कार्षीः साहसं पुत्र सत्त्वेनैवामुना ह्यहम् ।
सुप्रीता तव तन्मत्तः प्रार्थयस्वेप्सितं वरम् ।। १७७
तच्छ्रुत्वा सोऽब्रवीद्वीरवरस्तुष्टासि देवि चेत् ।
राजा विक्रमतुङ्गस्तज्जीवत्वन्यत्समाशतम् ।। १७८
भार्यापत्यानि जीवन्तु मम चेति वरेऽर्थिते ।
तेन भूयः समुदभूदेवमस्त्विति वाग्दिवः ।। १७९
तत्क्षणं ते च जीवन्तस्त्रयोऽप्युत्तस्थुरक्षतैः ।
देहैर्धर्मवती सत्त्ववरो वीरवती च सा ।। 9.3.१८०
ततो वीरवरो हृष्टो बोधितान्देव्यनुग्रहात् ।
नीत्वा तान्स्वगृहं सर्वान्राज्ञो द्वारमगात्पुनः ।। १८१
नृपो विक्रमतुङ्गश्च तद्दृष्ट्वा हृष्टविस्मितः ।
गत्वा पुनस्तं प्रासादमारोहत्स्वमलक्षितः ।। १८२
सिंहद्वारे स्थितः कोऽत्रेत्युपरिष्टादुवाच च ।
तच्छ्रुत्वाधःस्थितो वीरवरस्तं प्रत्युवाच सः ।। १८३
अहं स्थितोऽत्र तां च स्त्रीं वीक्षितुं गतवानहम् ।
देवतेव च सा क्वापि दृष्टनष्टेव मे गता ।। १८४
श्रुत्वैतत्कृत्स्नवृत्तान्तं दृष्ट्वा सोऽत्यन्तमद्भुतम् ।
भूभृद्विक्रमतुङ्गोऽत्र रात्रावेको व्यचिन्तयत् ।। १८५
अहो अपूर्वः कोऽप्येष पुरुषातिशयो बत ।
यः करोतीदृशं श्लाघ्यमुल्लेखं न च शंसति ।। १८६
गम्भीरोऽपि विशालोऽपि महासत्त्वोऽपि नाम्बुधिः ।
अचलेन महावातस्पर्शेऽपि स्पर्धतेऽमुना ।। १८७
परोक्षं निशि येनैवं पुत्रदारव्ययेन मे ।
प्राणाः प्रदत्तास्तस्यास्य कुर्यां कां प्रत्युपक्रियाम् ।। १८८
इत्याद्याकलयन्राजा प्रासादादवतीर्य सः ।
प्रविश्याभ्यन्तरं रात्रिं स्मयमानो निनाय ताम् ।। १८९
प्रातश्च स महास्थाने तस्मिन्वीरवरे स्थिते ।
तदीयं कथयामास तद्रात्रिचरिताद्भुतम् ।। 9.3.१९०
ततः संस्तूयमानस्य सर्वैर्वीरवरस्य सः ।
बबन्ध तस्य ससुतस्यापि पट्टं नराधिपः ।। १९१
प्रादाद्बहूंश्च विषयानश्वान्रत्नानि वारणान् ।
दश काञ्चनकोटीश्च वृत्तिं षष्टिगुणामपि ।। १९२
तत्क्षणाद्राजतुल्यश्च सोऽभूद्वीरवरो द्विजः ।
उच्छ्रितेनातपत्रेण कृतार्थः सकुटुम्बकः ।। १९३
इति स कथां कथयित्वा विदधानः प्रस्तुतोपसंहारम् ।
नरवाहनदत्तं तं पुनरवदद्गोमुखो मन्त्री ।। १९४
एवं देव क्ष्माभृतामेकवीरा भृत्याः केचित्पुण्ययोगान्मिलन्ति ।
ये स्वाम्यर्थे त्यक्तदेहाद्यपेक्षाः सम्यग्लोकौ द्वौ सुसत्त्वा जयन्ति ।। १९५
तदेष तादृग्विध एव दृश्यते द्विजप्रवीरस्तव देव सेवकः ।
नवागतः सत्त्वगुणाधिकाधिकः प्रलम्बबाहुः स्थिरसौष्ठवाकृतिः ।। १९६
इति निजसचिवादुदारसत्त्वो विपुलमतेरवधार्य गोमुखात्सः ।
नरवाहनदत्तराजपुत्रो हृदि परितोषमनुत्तमं बभार ।। १९७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलंकारवतीलम्बके तृतीयस्तरङ्गः ।

तुलनीय - वेतालपञ्चविंशति