कथासरित्सागरः/लम्बकः १८/तरङ्गः ४
ततोऽस्य विक्रमादित्यस्यैकदात्र कथान्तरे ।
राज्ञी कलिङ्गसेनाख्या सपत्नीरेवमब्रवीत् ।। १
राज्ञा मलयवत्यर्थे यत्कृतं न तदद्भुतम् ।
सदा विषमशीलो हि देवोऽयं प्रथितो भुवि ।। २
अहं न परिणीता किमवस्कन्द्यामुना बलात् ।
मद्रूपां पुत्रिकां दृष्ट्वा गतेनानङ्गनिघ्नताम् ।। ३
एतन्निमित्तमाख्याता कथा कार्पटिकेन या ।
देवसेनेन मे तां वः कथयामि निशम्यताम् ।। ४
परिणीतास्म्यविधिना कथं राज्ञेति दुःखिताम् ।
मामेत्याश्वासयन्नेवं स हि कार्पटिकोऽब्रवीत् ।। ५
मा स्म मन्युं कृथा देवि श्रद्धया परया ह्यसि ।
परिणीतातिसंरम्भादत्रामूलात्कथां शृणु ।। ६
अहं कार्पटिको भूत्वा सेवां कुर्वन्भवत्प्रभोः ।
अटव्यां दूरतोऽद्राक्षं महान्तं क्रोडमेकदा ।। ७
दंष्ट्राविशङ्कटमुखं तमालश्यामलच्छविम् ।
कृष्णपक्षं शशिकलाः खादन्तमिव रूपिणम् ।। ८
एत्य चावेदितो देवि मया राज्ञे तथैव सः ।
राजापि तद्रसाकृष्टो निरगान्मृगयाकृते ।। ९
मृगाटवीं च संप्राप्य कुर्वन्व्याघ्रमृगक्षयम् ।
आवेदितं मया दूराद्वराहं पश्यति स्म तम् ।। 18.4.१०
दृष्ट्वाद्भुतं च तं मत्वा कंचित्कारणसूकरम् ।
रत्नाकराख्यमारोहदश्वमुच्चैःश्रवःसुतम् ।। ११
मध्याह्ने हि सदा भानुर्मुहूर्तं व्योम्नि तिष्ठति ।
तत्कालं चारुणेनाश्वा मुच्यन्ते स्नानपानयोः ।। १२
एकदोच्चैःश्रवा मुक्तस्तदा रविरथाद्वने ।
दृष्टामुपेत्य राज्ञोऽश्वां तं तुरंगमजीजनत् ।। १३
तस्मिन्नारुह्य वाताश्वे जवादन्वपतच्च तम् ।
वराहं विद्रुतं राजा भूमिं दूराद्दवीयसीम् ।। १४
तत्र दृष्टिपथात्सोऽस्य नष्टोऽभूत्क्वापि सूकरः ।
उच्चैःश्रवःसुतादश्वात्तस्मादपि जवाधिकः ।। १५
ततो राजा तमप्राप्य दूरोज्झितपरिच्छदः ।
एकमन्वागतं दृष्ट्वा मामेवं परिपृष्टवान् ।। १६
अपि जानासि कियतीं वयं भूमिमुपागताः ।
तच्छ्रुत्वा देवि राजानं प्रत्यवोचमहं तदा ।। १७
योजनानां शतानि त्रीण्यागताः स्मः प्रभो इति ।
ततो राजाब्रवीत्तर्हि त्वं पद्भ्यां कथमागतः ।। १८
एवं सविस्मयेनाहं राज्ञा पृष्टस्तमब्रवम् ।
देवास्ति पादलेपो मे वृत्तान्तं चात्र तं शृणु ।। १९
पूर्वं भार्यावियोगेन तीर्थयात्राविनिर्गतः ।
पथि देवकुलं सायं सोद्यानं प्राप्तवानहम् ।। 18.4.२०
तत्र चाहं निशां नेतुं प्रविष्ठोऽपश्यमन्तरे ।
स्त्रियमेकामतिष्ठं च तत्रातिथ्यादृतस्तया ।। २१
रात्रौ च सा नभस्येकमोष्ठं कृत्वापरं भुवि ।
व्यात्तास्या प्राह मामीदृग्दृष्टं क्वापि मुखं त्वया ।। २२
ततोऽसिधेनुमाकृष्य सभ्रूभङ्गमबिभ्यता ।
त्वया चेदृक्पुमान्दृष्टः क्वापीत्युक्ता मयापि सा ।। २३
अथ सौम्यवपुर्भूत्वा साव्रवीन्मामवैकृता ।
यक्षी चण्ड्यभिधानाहं तुष्टा धैर्येण चास्मि ते ।। २४
तदिदानीं मम ब्रूहि किं प्रियं करवाणि ते ।
एवमुक्तवतीं तां च यक्षिणीमहमभ्यधाम् ।। २५
परितुष्टासि चेत्सत्यं तत्कुरुष्व तथा मम ।
अक्लेशेन यथा तीर्थान्यटेयं निखिलान्यपि ।। २६
एवं मयोक्ता यक्षी सा पादलेपमदान्मम ।
तेन तीर्थान्यहं भ्रान्तस्त्वं चेहाद्यानुधावितः ।। २७
तेनैव प्रत्यहं चाहमिहागत्याटवी भुवि ।
भुक्त्वा फलान्युज्जयिनीमेत्य सेवां करोमि ते ।। २८
इति देवि मया राजा विज्ञप्तोऽन्तरमन्यत ।
प्रसन्नदृष्टिकथितं योग्यं मामनुयायिनम् ।। २९
भूयो मयैवं विज्ञप्तो राजा देवानयाम्यहम् ।
सुस्वादूनि फलानीह भुज्यन्ते प्रभुणा यदि ।। 18.4.३०
नाहं भोक्ष्ये न मे किंचिदुपयुक्तं भवान्पुनः ।
भुङ्क्तां किंचित्परिश्रान्त इति राजादिशच्च माम् ।। ३१
ततः कर्कटिकां तत्र संप्राप्याहमभक्षयम् ।
तया चाजगरोऽभूवमहं भक्षितमात्रया ।। ३२
दृष्ट्वा चाजगरीभूतमकस्माद्देवि मां तदा ।
देवो विषमशीलोऽभूत्सविषादः सविस्मयः ।। ३३
एकाकी चात्र वेतालं भूतकेतुं समस्मरत् ।
प्राङ्नेत्ररोगादृष्ट्यैव मोचयित्वा वशीकृतम् ।। ३४
स वेतालः स्मृतायातः प्रह्वो राजानमब्रवीत् ।
किं स्मृतोऽस्मि महाराज निदेशो दीयतामिति ।। ३५
अथ राजाब्रवीदेतं भद्र कार्पटिकं मम ।
सहसाजगरीभूतं प्रापय प्रकृतिं निजाम् ।। ३६
वेतालोऽप्यवदद्देव नास्ति शक्तिर्ममेदृशी ।
शक्तयो नियता वारि वैद्युताग्निं नु हन्ति किम् ।। ३७
ततो राजाब्रवीत्तर्हि यामः पल्लीमिमां सखे ।
अतो बुध्येत भिल्लेभ्यः कोऽप्युपायः कदाचन ।। ३८
इत्यालोच्य सवेतालो राजा पल्लीं जगाम ताम् ।
तत्र साभरणं दृष्ट्वा तं चौरा पर्यवारयन् ।। ३९
किरतां शरवर्षाणि तेषां पञ्चशतानि च ।
भूतकेतुः स वेतालो राजादेशादभक्षयत् ।। 18.4.४०
शेषाः पलाय्य गत्वा तत्स्वसेनापतयेऽब्रुवन् ।
एकाकिकेसरी नाम स चागात्सबलः क्रुधा ।। ४१
भृत्यस्यैकस्य च मुखाद्बुद्ध्वा प्रत्यभिजानतः ।
सेनापतिः स राजानमेत्य जग्राह पादयोः ।। ४२
ततो निवेदितात्मानं प्रह्वं प्रत्यभिनन्द्य तम् ।
पृष्ट्वा च कुशलं राजा सेनापतिमभाषत ।। ४३
मम कार्पटिको भुक्त्वा फलं कर्कटिका वने ।
गतोऽजगरतां तस्य युक्तिं तन्मुक्तये कुरु ।। ४४
एतद्राजवचः श्रुत्वा सेनापतिरुवाच सः ।
देवानुगोऽयं मत्पुत्रायास्मै तं दर्शयत्विति ।। ४५
ततः स तेन तत्पुत्रो वेतालेन सहैत्य माम् ।
ओषधीरसनस्येन पूर्ववन्मानुषं व्यधात् ।। ४६
उपागच्छाम च ततो हृष्टा राजान्तिकं वयम् ।
राजा च तमुदन्त मां पादानतमबोधयत् ।। ४७
एकाकिकेसरी सोऽथ भिल्लसेनापतिर्निजम् ।
गृहमभ्यर्थ्य राजानमनैषीदस्मदन्वितम् ।। ४८
अपश्याम च तत्तस्य सदनं शबरीवृतम् ।
दन्तिदन्तचितोत्तुङ्गभित्ति व्याघ्रच्छदच्छवि ।। ४९
वासांसि बर्हिपिच्छानि हारा गुञ्जाफलस्रजः ।
मातङ्गमदनिष्यन्दो यत्र स्त्रीणां च मण्डनम् ।। 18.4.५०
तत्र सेनापतेर्भार्या परिचर्यां व्यधात्स्वयम् ।
राज्ञो मृगमदामोदिवासा मुक्ताद्यलंकृता ।। ५१
स्नातभुक्तस्ततो राजा तत्र वृद्धांस्तदात्मजान् ।
सेनापतिं च तरुणं दृष्ट्वा तं परिपृष्टवान् ।। ५२
सेनापते ममाश्चर्यमिदं तावत्त्वयोच्यताम् ।
तरुणस्त्वं त्वदीयास्तु पुत्रा वृद्धा अमी कथम् ।। ५३
एवं स राज्ञा गदितः शबरेन्द्रोऽब्रवीदिदम् ।
महत्येषा कथा देव श्रूयतां यदि कौतुकम् ।। ५४
चन्द्रस्वामीति विप्रोऽहं मायापुर्यां पुरावसम् ।
सोऽहं वनमगां जातु दार्वर्थं पितुराज्ञया ।। ५५
तत्र मे मर्कटो मार्गं रुद्ध्वातिष्ठदबाधकृत् ।
आर्तेन चक्षुषा पश्यन्मार्गमन्यं प्रदर्शयन् ।। ५६
न खादत्येव मां तावत्तद्गच्छामि वरं पथा ।
एतत्प्रदर्श्यमानेन पश्याम्यस्याशयं कपेः ।। ५७
इत्यालोच्याथ तेनाहं मार्गेण प्रस्थितोऽभवम् ।
स च मे मर्कटोऽग्रेऽग्रे प्रायात्पश्यन्विवृत्य माम् ।। ५८
गत्वा च दूरमारोहज्जम्बूवृक्षं स मर्कटः ।
तत्पृष्ठे च लताजालघने दृष्टिमदामहम् ।। ५९
लतावलयबद्धाङ्गीमपश्यं चात्र वानरीम् ।
एतदर्थमनेनाहमानीत इति चाविदम् ।। 18.4.६०
ततोऽहं वृक्षमारुह्य वल्लीवलयपाशकम् ।
छित्त्वा परशुना तं च वानरीं ताममोचयम् ।। ६१
अथावतीर्य वृक्षात्तौ वानरो वानरी च सा ।
अवतीर्णस्य मे पादावगृह्णीतामुभावपि ।। ६२
स्थापयित्वा च मे पादलग्नां तां वानरीं क्षणम् ।
गत्वा स कपिरानीय मह्यं दिव्यमदात्फलम् ।। ६३
तदादाय गृहीत्वाहमिन्धनान्यागमं गृहम् ।
तत्र चाभक्षयं भार्यासहितस्तत्फलोत्तमम् ।। ६४
तस्मिन्भुक्ते जरारोगौ सभार्यस्य गतौ मम ।
ततस्तत्रोदभूदस्मद्देशे दुर्भिक्षविप्लवः ।। ६५
तदाक्रान्तश्च तत्रत्यो जनो यातो यतस्ततः ।
अहं दैवादिमं देशं सभार्यः प्राप्तवान्क्रमात् ।। ६६
इह काञ्चनदंष्ट्राख्यस्तदाभूच्छबराधिपः ।
तस्य शस्त्रमुपादाय भृत्यतामहमाश्रयम् ।। ६७
आयोधनेषु दृष्ट्वा च तेषु तेष्वग्रयायिनम् ।
सोऽथ काञ्चनदंष्ट्रो मां सेनापत्येऽभिषिक्तवान् ।। ६८
एकभक्त्या च स मया ततोऽप्याराधितः प्रभुः ।
मह्यमेवान्तकालेऽत्र राज्यं प्रादादपुत्रकः ।। ६९
इहस्थस्य च मे यातान्यब्दानां सप्तविंशतिः ।
शतानि न जरा चास्ति मम तत्फलभक्षणात् ।। 18.4.७०
एवं स्वोदन्तमाख्याय स राजानं सविस्मयम् ।
एकाकिकेसरी भूयो भिल्लराजो व्यजिज्ञपत् ।। ७१
तन्मया वानरफलाद्यत्कृतं चिरजीवितम् ।
पूर्णं ततोऽद्य संप्राप्तं फलं त्वत्पाददर्शनम् ।। ७२
अतोऽहमर्थये देव यो गृहागमनान्मयि ।
दर्शितोऽनुग्रहोऽद्यायं परितोषं स नीयताम् ।। ७३
भार्यायां क्षत्रियायां मे देवोत्पन्नास्ति कन्यका ।
अनन्यतुल्या रूपेण नाम्ना मदनसुन्दरी ।। ७४
कन्यारत्नं च तद्देवादृते नान्यत्र शोभते ।
तत्प्रयच्छामि तां तुभ्यमुद्वहस्व यथाविधि ।। ७५
दासोऽहं च धनुर्लक्षद्वयेनानुगतः प्रभो ।
इति तेनार्थितो राजा स तथेत्यन्वमन्यत ।। ७६
शुभे लग्ने च तां तस्य तनयां परिणीतवान् ।
मुक्ताकस्तूरिकाभारभृतोष्ट्रशतदायिनः ।। ७७
सप्तरात्रमुषित्वा च राजा प्रस्धितवांस्ततः ।
तया मदनसुन्दर्या सभिल्लानीकया सह ।। ७८
अत्रान्तरेऽश्वापहृते राज्ञि तन्मृगयावने ।
स्थितमस्मद्बलं विग्नं क्षत्ता भद्रायुधोऽभ्यधात् ।। ७९
अलं विषादेनायाति नचिरादेव वः प्रभुः ।
नास्य दिव्यप्रभावस्य किंचिदत्यहितं भवेत् ।। 18.4.८०
किं न स्मरथ यद्गत्वा पातालात्परिणीय च ।
नागकन्यां सुरूपाख्यामेककः स इहागतः ।। ८१
गन्धर्वलोकं गत्वा च वीरः प्रत्यागतस्ततः ।
तारावलीमुपादाय गन्धर्वाधिपकन्यकाम् ।। ८२
इत्युक्त्वाश्वासिताः सर्वे तेन भद्रायुधेन ते ।
अतिष्ठन्नटवीद्वारे राज्ञो मार्गावलोकिनः ।। ८३
राजापि स्पष्टमार्गेण समं शबरसैनिकैः ।
तस्यां मदनसुन्दर्यां प्रक्रामन्त्यां यथेच्छया ।। ८४
प्राविशत्तुरगारूढः सवेतालो मया सह ।
वनं तत्पूर्वदृष्टस्य वराहस्य दिदृक्षया ।। ८५
प्रविष्टस्य च तत्रागाद्वराहस्तस्य सोऽग्रतः ।
दृष्ट्वैव च स राजा तमवधीत्पञ्चभिः शरैः ।। ८६
हतस्य तस्य धावित्वा वेतालेन विदारितात् ।
उदराद्देवि निरगादकस्मात्सुभगः पुमान् ।। ८७
को भवानिति यावत्तं राजा पृच्छति विस्मयात् ।
जङ्गमाद्रिनिभस्तावदागात्तत्र वनद्विपः ।। ८८
आपतन्तं तमारण्यं राजा दृष्ट्वैव कुञ्जरम् ।
एकेनैव पृषत्केन मर्माहतमपातयत् ।। ८९
तस्यापि पाटितात्तेन वेतालेनोदरान्तरात् ।
पुरुषो निरगाद्दिव्यः स्त्री च सर्वाङ्गसुन्दरी ।। 18.4.९०
प्रष्टुकामं च राजानं वराहोदरनिर्गतः ।
स पुमानवदद्राजन्स्वोदन्तं शृणु वच्मि ते ।। ९१
आवां देवकुमारौ द्वौ भद्राख्योऽयमहं शुभः ।
तौ भ्रमन्तावपश्याव कण्वं ध्यानस्थितं मुनिम् ।। ९२
गजसूकरयो रूपमावाभ्यां क्रीडया कृतम् ।
कृत्वा च त्रासितो मोहान्महर्षिः शपति स्म नौ ।। ९३
अटव्यामीदृशावेव भवतं गजसूकरौ ।
विक्रमादित्यभूपेन हतौ मुक्तिमवाप्स्यथः ।। ९४
इत्यावां मुनिशापेन गजसूकरतां गतौ ।
त्वयाद्य मोचितौ स्त्री तु स्वोदन्तं वक्त्वियं स्वयम् ।। ९५
एतं च सूकरं कण्ठे पृष्ठे च स्पृश वारणम् ।
कृपाणचर्मणी दिव्ये तवैतौ हि भविष्यतः ।। ९६
इत्युक्त्वा सद्वितीयः स तिरोऽभूत्तौ च भूपतेः ।
क्रोडद्विपौ करस्पृष्टौ संपन्नौ खङ्गचर्मणी ।। ९७
ततः सा स्त्री स्ववृत्तान्तं पृष्टा सत्येवमब्रवीत् ।
भार्याहं धनदत्ताख्यस्योज्जयिन्यां वणिक्पतेः ।। ९८
सा हर्म्यतलसुप्ताहमागत्यानेन दन्तिना ।
निगीर्यैवमिहानीता न चास्यान्तः पुमानभूत् ।। ९९
भिन्नोदरात्तु निर्यातः पुमानस्मान्मया सह ।
एवमुक्तवतीं राजा दीनां तामवदत्स्त्रियम् ।। 18.4.१००
धीरा भव गृहान्भर्तुर्भवतीं प्रापयाम्यहम् ।
समं मदवरोधेन गच्छ प्रक्रमनिर्भया ।। १०१
इत्युक्त्वानाययित्वा तां वेतालेन समर्पयत् ।
राज्ञ्यै मदनसुन्दर्यै प्रक्रामन्त्यै पृथक्पथा ।। १०२
प्रत्यागतेऽथ वेताले तत्रापश्याव कानने ।
अकस्माद्राजकन्ये द्वे भूरिभव्यपरिच्छदे ।। १०३
आनाययच्च मां प्रेष्य तयो राजा महत्तरान् ।
कुतः के कन्यके चैते इति पृष्टाश्च तेऽब्रुवन् ।। १०४
अस्ति द्वीपं कटाहाख्यं केतनं सर्वसंपदाम् ।
अन्वर्थनामा तत्रास्ति नृपतिर्गुणसागरः ।। १०५
तस्याजनि महादेव्या नाम्ना गुणवती सुता ।
निर्मातुरेव धातुर्या रूपेणाश्चर्यदायिनी ।। १०६
तस्याश्च सिद्धेरादिष्टः सप्तद्वीपेश्वरः पतिः ।
ततश्च तत्पिता राजा सोऽमन्त्रयत मन्त्रिभिः ।। १०७
विक्रमादित्यदेवोऽस्या योग्यो मे दुहितुर्वरः ।
तत्पाणिग्रहणायैतां तस्यैव प्रेषयाम्यहम् ।। १०८
इति संमन्त्र्य वहने जलधौ सपरिच्छदाम् ।
आरोप्य सधनो तां च स राजा व्यसृजत्सुताम् ।। १०९
सुवर्णद्वीपनिकटं प्राप्तं दैवान्न्यगीर्यत ।
सराजकन्यं सजनं वहनं शफरेण तत् ।। 18.4.११०
स चाब्धिवेलया नीत्वा विधिगत्येव रोधसि ।
क्षिप्तस्तद्द्वीपसंलग्नो महामत्स्योऽवसन्नवान् ।। १११
दृष्ट्वैव तत्र धावित्वा नानाप्रहरणो जनः ।
व्यापाद्याश्चर्यमत्स्यस्य तस्योदरमपाटयन् ।। ११२
निरगाच्च ततः पूर्णं जनैस्तद्वहनं महत् ।
बुद्ध्वैतद्विस्मयादागात्तत्र तद्द्वीपभूपतिः ।। ११३
स चन्द्रशेखरो राजा गुणसागरभूभृतः ।
स्यालो जनाद्वहनगाद्यथातत्त्वमबुध्यत ।। ११४
ततो बुद्ध्वा गुणवतीं भागिनेयीं स तां नृपः ।
प्रवेश्य राजधानीं स्वामानन्दादुत्सवं व्यधात् ।। ११५
अन्येद्युश्च सुतां चन्द्रवतीं नाम स भूपतिः ।
विक्रमादित्यदेवाय दातुं प्राक्परिकल्पिताम् ।। ११६
गुणवत्या तया साकं तत्कृते विभवोत्तराम् ।
प्रास्थापयत्प्रवहणे सुमुहूर्तेऽधिरोपिताम् ।। ११७
ते इमे तीर्णजलधी प्रक्रामन्त्यौ क्रमादिह ।
राजकन्ये उभे प्राप्ते वयं परिकरोऽनयोः ।। ११८
इह प्राप्तांश्च नः क्रोडवारणावभ्यधावताम् ।
सुमहान्तौ ततोऽस्माभिरेवमाक्रन्दितं प्रभो ।। ११९
आगते विक्रमादित्यदेवस्यैते स्वयंवरे ।
कन्यके लोकपालास्तत्तस्य धर्मेण रक्षत ।। 18.4.१२०
तच्छ्रुत्वावोचतां तौ नः क्रोडेभौ व्यक्तया गिरा ।
धीरा भवत भीर्नास्ति राजनामग्रहेण वः ।। १२१
इहैव तं च राजानमागतं द्रक्ष्यथाधुना ।
इत्युक्त्वा तौ गजक्रोडौ दिव्यौ कौचिदितो गतौ ।। १२२
एषोऽस्मदीयवृत्तान्त इत्युक्ते तैर्महत्तरैः ।
अयं स एव राजेति देवि तानहमब्रवम् ।। १२३
ततस्ते पादपतिता हृष्टास्ते राजकन्यके ।
तस्मै गुणवतीचन्द्रवत्यौ राज्ञे समर्पयन् ।। १२४
राजाप्यादिश्य वेतालं सुन्दर्यौ ते अनाययत् ।
सार्धं मदनसुन्दर्या समं तिस्रोऽपि यान्त्विति ।। १२५
स्वयं च तेन वेतालेनागतेन ततः क्षणात् ।
मया च सहितः प्रायादुत्पथेनैव देवि सः ।। १२६
गच्छतां च वनेऽस्माकं रविरस्तमुपागमत् ।
तत्कालं तत्र चास्माभिरश्रावि मुरजध्वनिः ।। १२७
कुतो मुरजशब्दोऽयमिति राजनि पृच्छति ।
वेतालः सोऽब्रवीद्देवकुलं देवात्र विद्यते ।। १२८
दिव्यकौतूहलं तच्च निर्मितं विश्वकर्मणा ।
तत्रैष मुरजध्वानः संध्याप्रेक्षणके प्रभो ।। १२९
इत्युक्तवान्स वेतालो राजा चाहं च कौतुकात् ।
तत्रागच्छाम संयम्य तुरगं प्रविशाम च ।। 18.4.१३०
अपश्यामार्चितं चात्र तार्क्ष्यरत्नमयं महत् ।
लिङ्गं तदग्रे चोदग्रदीपकं प्रेक्षणीयकम् ।। १३१
अनृत्यन्सुचिरं तत्र दिव्यरूपा वरस्त्रियः ।
चतुर्विधेन वाद्येन गानगान्धर्वयोगिना ।। १३२
प्रेक्ष्यान्ते दृष्टमस्माभिस्तत्राश्चर्यं प्रविश्य यत् ।
स्तम्भस्थपुत्रिकास्वन्तर्नर्तक्यो लयमागताः ।। १३३
गायना वादकाद्याश्च चित्रस्थपुरुषेष्वपि ।
तद्दृष्ट्वा विस्मिते राज्ञि स वेतालोऽब्रवीदिदम् ।। १३४
मायेयमीदृशी दिव्या विश्वकर्मकृताक्षया ।
सततं हि भवत्येतत्संध्ययोरुभयोरपि ।। १३५
इत्युक्ते तेन तत्रान्तर्भ्रमन्तौ वयमेकतः ।
सविशेषामपश्याम रूपेण स्तम्भपुत्रिकाम् ।। १३६
राजा तु तां विलोक्यैव तल्लावण्यविमोहितः ।
शून्यः स्तब्धः क्षणं सोऽपि स्तम्भोत्कीर्ण इवाभवत् ।। १३७
अब्रवीच्च न पश्यामि रूपेणानेन चेदहम् ।
सजीवामङ्गनां तन्मे किं राज्यं किं च जीवितम् ।। १३८
एतच्छ्रुत्वा स वेतालोऽवादीन्नैतद्दुरासदम् ।
कलिङ्गसेना नामास्ति कलिङ्गाधिपतेः सुता ।। १३९
तां दृष्ट्वा रूपकारेण तद्रूपघटनेप्सुना ।
वर्धमानपुरीयेण कृतेयं सालभञ्जिका ।। १४०
तद्गत्वोज्जयिनीं तस्मात्कालिङ्गान्नृपतेः प्रभो ।
तामर्थयस्व तत्कन्यां विक्रमेण हराथवा ।। १४१
इति वेतालवचनं न्यधाद्राजा तथा हृदि ।
ततो नीत्वात्र तां रात्रिं प्रातः संप्रस्थिता वयम् ।। १४२
यान्तश्चाशोकवृक्षस्य तलेऽपश्याम पूरुषौ ।
भव्यौ द्वौ तौ च राजानमुत्थायानमतां ततः ।। १४३
कौ युवां किमरण्यस्थाविति राज्ञोक्तयोस्तयोः ।
एको वक्ति स्म देवैतच्छ्रूयतां कथयाम्यहम् ।। १४४
धनदत्ताभिधानोऽहमुज्जयिन्यां वणिक्सुतः ।
सोऽहं हर्म्यतले जातु संसुप्तो भार्यया सह ।। १४५
प्रातः प्रबुध्य पश्यामि यावत्सा तत्र नास्ति मे ।
भार्या हर्म्ये न चान्येषु प्रासादोपवनादिषु ।। १४६
न तस्याश्चित्तमन्यादृक्क्लृप्तोऽत्र प्रत्ययस्तथा ।
यदि साध्व्यस्मि तदियं न म्लायेद्ध्रुवमित्यसौ ।। १४७
माला मह्यं तया दत्ता सा चाम्लानैव वर्तते ।
तन्न जाने क्व याता सा नीता भूतादिना नु किम् ।। १४८
इति संचिन्तयश्चिन्वन्नाक्रन्दन्विलपन्रुदन् ।
अतिष्ठं तद्वियोगाग्निज्वलितोऽहमभोजनः ।। १४९
बान्धवाश्वासितः किंचित्कृताहारोऽथ दुःखितः ।
ब्राह्मणान्भोजयन्नासं देवागारे कृतस्थितिः ।। १५०
तत्र जातु परिश्रान्तो विप्रो मामयमभ्यधात् ।
मया विश्रमितश्चायं स्नानाहारादिना तदा ।। १५१
कुतस्त्वमिति पृष्टश्च भुक्तोत्तरमसौ मया ।
वाराणसीसमीपस्थाद्ग्रामादस्मीत्यभाषत ।। १५५
मद्भृत्याख्यातमद्दुःखस्तत एषोऽब्रवीत्पुनः ।
आत्मावसादितो मित्त्र किमनुद्योगिना त्वया ।। १५३
व्यवसायी हि दुष्प्रापमपि प्राप्नोति तत्सखे ।
उत्तिष्ठ तव भार्यां तामन्विष्यावः सखास्मि ते ।। १५४
कथं सान्विष्यते यस्या दिङ्मात्रं नैव बुध्यते ।
इत्युक्तवन्तमथ मां प्रीत्या भूयोऽब्रवीदयम् ।। १५५
मैवं किं केसटो न प्रागसंभाव्यसमागमाम् ।
प्राप रूपवतीं भार्यां तथा चैतत्कथां शृणु ।। १५६
पुरे पाटलिपुत्रेऽभूद्धनाढ्यब्राह्मणात्मजः ।
केसटाख्यो द्विजयुवा रूपे काम इवापरः ।। १५७
स भार्यां सदृशीं प्रेप्सुः पित्रोरविदितो गृहात् ।
निर्गत्य देशान्बभ्राम तांस्तांस्तीर्थापदेशतः ।। १५८
क्रमाच्च नर्मदातीरं प्राप्तो जातु ददर्श सः ।
महान्तमागतं तेन जन्ययात्राजनं पथा ।। १५९
दृष्ट्वा च दूरात्तन्मध्यादेत्यैकस्तं द्विजाग्रणीः ।
संभाष्य केसटं वृद्धः प्राह सप्रणयं रहः ।। १६०
त्वत्तोऽहमर्थये किंचिल्लीलासाध्यं च तत्तव ।
मम तूपकृतिः पूर्णा करोषि यदि वच्मि तत् ।। १६१
तच्छ्रुत्वा केसटोऽवादीदार्य शक्यं ब्रवीषि चेत् ।
तन्निश्चितं मया कार्यं भवतूपकृतिस्तव ।। १६२
ततो वृद्धद्विजोऽवादीच्छृणु पुत्रास्ति मे सुतः ।
स चाग्रणीर्विरूपाणां सुरूपाणां भवानिव ।। १६३
दन्तुरश्चिपिटघ्राणः कृष्णः कातरलोचनः ।
पृथूदरो वक्रपादः शूर्पकर्णपुटश्च सः ।। १६४
तादृशस्य कृते स्नेहात्कृत्वा रूपाभिवर्णनम् ।
ब्राह्मणाद्रत्नदत्ताख्यात्कन्यका याचिता मया ।। १६५
सा च रूपवती नाम पित्रा दातुं प्रतिश्रुता ।
तेनान्वर्थाभिधा तस्मै सोऽद्य पाणिग्रहस्तयोः ।। १६६
तदर्थमागता एते वयं दृष्टे च मत्युते ।
न संबन्धी सुतां दद्यादारम्भोऽयं वृथा भवेत् ।। १६७
उपायं ध्यायता चात्र मया लब्धो भवानिह ।
तद्वाचा प्रतिपन्नं द्रागिदं मे वाञ्छितं कुरु ।। १६८
अस्माभिः सममागत्य कन्यां तां परिणीय च ।
मत्पुत्राय प्रयच्छाद्य वध्वास्त्वं ह्यनुरूपकः ।। १६९
तच्छ्रुत्वा तं तथेत्युक्तवन्तमादाय केसटम् ।
नौभिः स नर्मदां तीर्त्वा पारं वृद्धद्विजो ययौ ।। १७०
प्राप्य चैकं पुरं सोऽथ व्यश्रमत्सानुगो बहिः ।
आकाशपथिकोऽस्ताद्रौ तावदर्कोऽप्युपाविशत् ।। १७१
प्रसर्पति तत्रो ध्वान्ते जलोपान्ते स केसटः ।
उपस्प्रष्टुं गतोऽद्रक्षीद्राक्षसं घोरमुत्थितम् ।। १७२
भक्षयाम्यहमेष त्वां क्व मे केसट यास्यसि ।
इत्युक्तवन्तं च स तं राक्षसं केसटोऽभ्यधात् ।। १७३
मा स्म मां भक्षयेस्तावत्त्वामुपैष्याम्यहं पुनः ।
ब्राह्मणस्य प्रतिज्ञातं कार्यं निर्वाह्य निश्चितम् ।। १७४
तच्छ्रुत्वा कारयित्वा च शपथं सोऽथ राक्षसः ।
मुमोच केसटं सोऽपि तज्जन्यबलकं ययौ ।। १७५
ततः स वृद्धविप्रस्तं वरमण्डनमण्डितम् ।
आदाय केसटं जन्यैः समं तत्प्राविशत्पुरम् ।। १७६
तत्र सज्जितवेदीकं रत्नद्त्तगृहं च सः ।
प्रावेशयत्केसटं तं विविधातोद्यनादितम् ।। १७७
केसटश्च स तां सम्यगुपयेमे वराननाम् ।
कन्यां रूपवतीं तत्र पित्रा प्रत्तमहाधनाम् ।। १७८
ननन्द स्त्रीजनश्चात्र तुल्यौ वीक्ष्य वधूवरौ ।
सा च रूपवतीं प्राप्तं दृष्ट्वा तं तादृशं वरम् ।। १७९
तस्याः सख्योऽपि तं दृष्ट्वा जज्ञिरे जातमन्मथाः ।
विषादविस्मयाक्रान्तः स त्वासीत्केसटस्तदा ।। १८०
रात्रौ च शयनीये तं चिन्तासक्तं पराङ्मुखम् ।
प्रियं रूपवतीं दृष्ट्वा व्याजसुप्तं चकार सा ।। १८१
निशीथे सोऽथ सुप्तां तां मत्वा निर्गत्य केसटः ।
राक्षसस्यान्तिकं तस्य सत्यं पालयितुं ययौ ।। १८२
सापि रूपवती स्वैरमुत्थायानुपलक्षिता ।
सकौतुका तं भर्तारमन्वियाय पतिव्रता ।। १८३
प्राप्तं च केसटं तत्र राक्षसः स जगाद् तम् ।
साधु भोः पालितं सत्यं महासत्त्वोऽसि केसट ।। १८४
पुरं पाटलिपुत्रं तद्देसटश्च पिता त्वया ।
पवित्रितस्तदायाहि यावद्वा भक्षयाम्यहम् ।। १८५
तच्छ्रुत्वा सहसोपेत्य रूपवत्यभ्यधादिदम् ।
मां खाद भक्षिते ह्यस्मिन्पत्यौ का मे गतिर्भवेत् ।। १८६
भिक्षा ते गतिरित्युक्ते रक्षसा साप्युवाच तम् ।
को मे भिक्षां महासत्त्व दास्यतीह स्त्रिया इति ।। १८७
यो न दास्यति भिक्षां ते याचितस्तस्य यास्यति ।
शतधा शिर इत्युक्ते राक्षसेन च साब्रवीत् ।। १८८
तर्हि त्वमेव मे देहि भर्तृभिक्षामिमामिति ।
अददच्च ममाराशु शीर्णमूर्धा स राक्षसः ।। १८९
साथ केसटमादाय तच्चारित्रातिविस्मितम् ।
आगाद्रूपवती वेश्म तावच्चाक्षीयत क्षपा ।। १९०
श्वोभूते च कृताहारं तज्जन्यबलकं ततः ।
प्रस्थाय नर्मदातीरं संप्राप सवधूवरम् ।। १९१
ततो वधूं रूपवतीं नावमारोप्य सानुगाम् ।
स मुख्यवृद्धविप्रोऽन्यां नावमारोहदात्मना ।। १९२
केसटं तु पृथङ्नावि स्वीकृत्याभरणादि सः ।
आरोपयच्छठः कृत्वा नाविकैः सह संविदम् ।। १९३
ततः स सवधूजन्यः पारं तीर्त्वा ययौ द्विजः ।
नदीमध्येन दूरं तु दाशैर्निन्ये स केसटः ।। १९४
तत्र क्षिप्त्वा महत्योघे नावं तां केसटं च ते ।
वृद्धद्विजादात्तधना बाहुतीर्णापगा ययुः ।। १९५
केसटस्तु सनौकोऽपि नद्या हृत्वोत्तरङ्गया ।
क्षिप्तोऽम्बुधौ वातवशान्न्यस्तोऽभूदूर्मिणा तटे ।। १९६
तत्रायुषः सशेषत्वात्समाश्वस्य व्यचिन्तयत् ।
अहो प्रत्युपकारोऽयं कृतस्तेन द्विजेन मे ।। १९७
किं वा तेनैव नाख्याता तस्य निर्धर्ममूर्खता ।
युनक्ति भार्यया पुत्रं परेण परिणाय्य यत् ।। १९८
इति संचिन्तयन्यावदास्ते तत्र स विह्वलः ।
विचरत्खेचरीचक्रा तावत्तस्याययौ क्षपा ।। १९९
तस्यां विनिद्रस्तुर्ये स यामे कलकलं दिवि ।
श्रुत्वा ददर्श सुभगं खाद्भ्रष्टं पुरुषं पुरः ।। २००
त्रस्तश्चिरादविकृतं तं विभाव्य स केसटः ।
को भवानिति पप्रच्छ ततस्तं सोऽब्रवीत्पुमान् ।। २०१
त्वं मे ब्रूहि भवान्कोऽत्र ततो वक्ष्याम्यहं तव ।
तच्छ्रुत्वा केसटस्तस्मै स्ववृत्तान्तमवर्णयत् ।। २०२
ततः स पुरुषोऽवादीत्तुल्यावस्थोऽसि तर्हि मे ।
तदिदानीं स्ववृत्तान्तं तव वच्मि सखे शृणु ।। २०३
अस्ति वेणानदीतीरे पुरं रत्नपुराख्यया ।
तत्र कंदर्पनामाहमाढ्यपुत्रो गृही द्विजः ।। २०४
सोऽहं प्रदोषे तोयार्थी वेणामवतरन्नदीम् ।
तस्यां स्खलित्वा पतितो वार्योघेण हृतोऽभवम् ।। २०५
दूरं नीत्वा तया रात्र्या तेनाहं च दिनागमे ।
आयुर्बलात्कच्छगते तरुखण्डे निवेशितः ।। २०६
शाखावलम्बेनारुह्य रोधस्याश्वस्य चान्तिके ।
मातृदेवगृहं शून्यं तत्रापश्यमहं महत् ।। २०७
तस्मिन्प्रविश्य दृष्ट्वान्तः स्फुरन्तीरिव तेजसा ।
मातॄरहं शान्तभयो नत्वा स्तुत्वा व्यजिज्ञपम् ।। २०८
भगवत्यः परित्राणं कुरुध्वं कृपणस्य मे ।
अहमेव हि युष्माकं प्राप्तोऽद्य शरणागतः ।। २०९
इति विज्ञप्य नद्योघपरिक्लिष्टस्य तत्र मे ।
विश्राम्यतः शनैर्मित्त्र विश्रान्तिं वासरोऽप्यगात् ।। २१०
आगात्तारास्थिमालाढ्या ज्योत्स्नाभूतिसिता ततः ।
शशिशुभ्रकपाला च रौद्री रजनितापसी ।। २११
तत्कालं चात्र जानामि ततो मातृगणान्तरात् ।
निर्गत्य योगिनीग्रामः परस्परमभाषत ।। २१२
अद्य चक्रपुरेऽस्माभिर्गन्तव्यं चक्रमेलके ।
इह च श्वापदाकीर्णे रक्षास्य ब्राह्मणस्य का ।। २१३
तदेष स्थाप्यतां नीत्वा यत्रैतस्य शुभं भवेत् ।
आनेष्यामः पुनश्चैनमेषोऽस्माञ्शरणं श्रितः ।। २१४
इत्युक्त्वा खेन नीत्वा मामलंकृत्य निधाय च ।
पुरे क्वापि गृहे कस्याप्याढ्यविप्रस्य ता गताः ।। २१५
तत्र पश्यामि यावच्च कन्योद्वाहाय सज्जिता ।
वेदो लग्नश्च संप्राप्तो न जन्यबलकं पुनः ।। २१६
ततस्तत्र स्थितं दिव्यवरवेषं विलोक्य माम् ।
अयं तावद्वरः प्राप्त इति सर्वोऽब्रवीज्जनः ।। २१७
ततो नीत्वैव मां वेदीमानीयालंकृतां सुताम् ।
गृहस्थोऽत्र स विप्रस्तां मह्यं प्रादाद्यथाविधि ।। २१८
दिष्ट्या तुल्यवरप्राप्तेरस्याः सुमनसोऽधुना ।
सौन्दर्यं सफलीभूतमित्यन्योन्यं स्त्रियोऽभ्यधुः ।। २१९
ततः कृतविवाहोऽत्र तया सुमनसा सह ।
महोपचारसुखितः प्रासादे सुप्तवानहम् ।। २२०
अथास्मिन्पश्चिमे यामे योगिन्यश्चक्रमेलकात् ।
आगत्य ताः स्वयुक्त्या मां हृत्वैवोदपतन्नभः ।। २२१
यान्तीनां नभसा तासामन्याभिर्मज्जिहीर्षुभिः ।
साकं प्रवृत्तयुद्धानामहं हस्तादिह च्युतः ।। २२२
न च तद्वेद्मि नगरं यत्र सा सुमना मया ।
परिणीता न जाने च किमिदानीं भविष्यति ।। २२३
इत्येष विधिना दत्ता या मे दुःखपरम्परा ।
सा सुखान्तैव संपन्ना ममाद्य त्वत्समागमात् ।। २२४
इत्युक्तवन्तं कंदर्पं केसटस्तमुवाच सः ।
मा भैषीर्मित्त्र नेदानीं योगिन्यः प्रभवन्ति ते ।। २२५
अस्ति मे तादृशी शक्तिः काप्यप्रतिहता यतः ।
सहैव च भ्रमिष्यावो विधिः श्रेयो विधास्यति ।। २२६
अन्योन्यं वदतोरेवं व्यतीयाय तयोर्निशा ।
प्रातस्ततः प्रयातः स्म तौ च तीर्णाम्बुधी उभौ ।। २२७
क्रमाद्भीमपुरं नाम नगरं प्रापतुश्च तौ ।
सह केसटकंदर्पौ रत्ननद्याः समीपगम् ।। २२८
तत्र तौ तन्नदीतीरे श्रुत्वा कलकलं तदा ।
गत्वा ददृशतुर्मत्स्यमापूरिततटद्वयम् ।। २२९
समुद्रवेलया क्षिप्तं बद्धं कायमहत्तया ।
मांसार्थिभिः पाट्यमानं नानाशस्त्रकरैर्जनैः ।। २३०
पाट्यमानस्य निरगादुदरात्तस्य चाङ्गना ।
साश्चर्यजनदृष्टा च सा भीताशिश्रियत्तटम् ।। २३१
ततस्तां वीक्ष्य कंदर्पो हृष्टोऽभाषत केसटम् ।
वयस्य सेयं सुमना यामहं परिणीतवान् ।। २३२
न जाने पुनरेतस्या वासो मत्स्योदरे कथम् ।
तत्तूष्णीमिह तिष्ठावो यावद्व्यक्तिर्भविष्यति ।। २३३
तथेति केसटेनोक्ते तत्रावस्थितयोस्तयोः ।
का त्वं किमेतदिति सा पृष्टाभूत्सुमना जनैः ।। २३४
ततः कृच्छ्रेण सावादीदहं रत्नाकरे पुरे ।
जयदत्ताभिधानस्य विप्रचूडामणेः सुता ।। २३५
सुमना इति नाम्नास्मि साहं भव्येन केनचित् ।
परिणीतानुरूपेण निशि ब्राह्मणसूनुना ।। २३६
तद्रात्रावेव सुप्ताया गतः क्वापि स मे पतिः ।
यत्नान्विष्टोऽपि मत्पित्रा न च प्राप्तः कुतोऽपि सः ।। २३७
ततोऽस्मि पतिता नद्यां तद्वियोगाग्निशान्तये ।
निगीर्णानेन मत्स्येन संप्राप्तेह विधेर्वशात् ।। २३८
इति तां वादिनीमेवं निर्गत्य जनमध्यतः ।
आश्लिष्य यज्ञस्वामीति विप्र एकोऽब्रवीदिदम् ।। २३९
एह्येहि पुत्रि भवती भगिनीदुहिता मम ।
यज्ञस्वामीति हि भ्राता सोदर्यो मातुरस्मि ते ।। २४०
तच्छ्रुत्वा मुखमुद्धाट्य सुमनास्तमवेक्ष्य सा ।
मातुलं प्रत्यभिज्ञाय सास्रा जग्राह पादयोः ।। २४१
क्षणं त्यक्त्वाश्रु चावादीत्तं तु काष्ठानि देहि मे ।
आर्यपुत्रवियुक्ताया अग्नेरन्या न मे गतिः ।। २४२
बोध्यमानापि सा तस्मान्निश्चयान्न चचाल यत् ।
तत्परीक्षिततच्चित्तः कंदर्पस्तामुपाययौ ।। २४३
तमुपागतमालोक्य प्रत्यभिज्ञाय धीमती ।
सुमनाः पादयोस्तस्य पतित्वा प्ररुरोद सा ।। २४४
जनेन पृच्छ्यमाना च तेन सा मातुलेन च ।
अयं स मम भर्तेति निजगाद मनस्विनी ।। २४५
ततः सर्वेषु हृष्टेषु यज्ञस्वामी निनाय ताम् ।
स्वगृहं तत्पतिं तं च कदर्पं केसटान्वितम् ।। २४६
तत्र तान्वर्णितस्वस्ववृत्तान्तान्सकुटुम्बकः ।
उपचारेण महता प्रीत्या परिचचार सः ।। २४७
गतेष्वहःसु कदर्पं केसटोऽत्र जगाद तम् ।
अभीष्टभार्याप्राप्त्या त्वं प्राप्तस्तावत्कृतार्थताम् ।। २४८
तत्सभार्योऽधुना गच्छ निजं रत्नपुरं पुरम् ।
अकृतार्थो गमिष्यामि न स्वदेशमहं पुनः ।। २४९
तीर्थान्येव भ्रमन्देहं क्षपयिष्याम्यमुं सखे ।
तच्छ्रुत्वा केसटं यज्ञस्वामी तत्र स्थितोऽवदत् ।। २५०
किमुद्वेगाद्वदस्येवं सर्वं जीवद्भिराप्यते ।
कुसुमायुधवृत्तान्तं तथा च शृणु वच्मि ते ।। २५१
देवस्वामीत्यभूच्चण्डपुराख्ये नगरे द्विजः ।
तस्यातिरूपा कन्याभून्नाम्ना कमललोचना ।। २५२
शिष्यश्च विप्रपुत्रोऽभून्नाम्नास्य कुसुमायुधः ।
स शिष्यः सा च तत्कन्या प्रीतावास्तां परस्परम् ।। २५३
एकदा निश्चिता दातुं पित्रान्यस्मै वराय सा ।
कन्या सखीमुखेनाशु तं स्माह कुसुमायुधम् ।। २५४
तातो मां दातुमन्यस्मै प्रतिपन्नो भवांश्च मे ।
पूर्वसंकल्पितो भर्ता तद्युक्त्या हर मामितः ।। २५५
ततोऽस्याः सोऽपहाराय कृतसंविद्बहिर्निशि ।
अस्थापयद्वेगसरीं भृत्यं च कुसुमायुधः ।। २५६
स्वैरं निर्गत्य चारूढा तस्यां भृत्येन तेन सा ।
न तस्य निकटं निन्ये निन्ये स्वीकर्तुमन्यतः ।। २५७
दूरं नीता च सा तेन रात्रौ कमललोचना ।
प्राप्यैक नगरं प्रातस्तमाह स्म च सा सती ।। २५८
त्वत्स्वामी क्व स मद्भर्ता तं प्रापयसि किं न माम् ।
तच्छ्रुत्वा स शठोऽवादीदेकिकां तां विदेशगाम् ।। २५९
अहं त्वां परिणेष्यामि किं तेन स कुतोऽधुना ।
श्रुत्वैतत्साब्रवीत्प्राज्ञा त्वं हि मे सुतरां प्रियः ।। २६०
त्वमेवात्र न किं सद्यः परिणेयोऽस्यहो मम ।
................ . ।। २६१
ततस्तां नगरोद्याने स्थापयित्यैव दुर्मतिः ।
स विवाहोपकरणं जगामानेतुमापणम् ।। २६२
तावत्पलाय्य गत्वा सा कन्या वेगसरीयुता ।
मालाकारस्य कस्यापि वृद्धस्य प्राविशद्गृहम् ।। २६३
तत्रोक्तनिजवृत्तान्ता तस्थौ सा तेन सत्कृता ।
सोऽप्यप्राप्य कुभृत्यस्तामुद्यानाद्विमुखो ययौ ।। २६४
गत्वा चोवाच पृच्छन्तं प्रभुं तं कुसुमायुधम् ।
ऋजुस्त्वं वेत्सि न स्त्रीणां कुटिलानां हि चेष्टितम् ।। २६५
नैव सा निरगात्तावद्दृष्टो यावदहं जनैः ।
तत्रान्यैस्तैरवष्टब्धो हृता वेगसरी च सा ।। २६६
दैवात्कथंचिदधुना पलाय्याहमिहागतः ।
तच्छ्रुत्वा विमृशंस्तूष्णीमासीत्स कुसुमायुधः ।। २६७
एकदा प्रेरितः पित्रा विवाहाय व्रजंश्च सः ।
तत्प्राप नगरं यत्र स्थिता कमललोचना ।। २६८
तत्रावासितजन्यौघमुद्याने निकटस्थिते ।
एकं भ्रमन्तं कमललोचना सा ददर्श तम् ।। २६९
शशंस मालाकाराय तस्मै सा यद्गृहे स्थिता ।
सोऽपि गत्वोक्तवृत्तान्तस्तं तस्याः पतिमानयत् ।। २७०
तत्संभृतोपकरणस्ततः सुचिरकाङ्क्षितः ।
वरवध्वोस्तयोः सद्यो विवाहो निरवर्तत ।। २७१
अथ तं पापभृत्यं स निगृह्य कुसुमायुधः ।
परिणीयापि कमललोचनाप्राप्तिकारणम् ।। २७२
द्वितीयामपि कन्यां तां यद्विवाहार्थमागमत् ।
ताभ्यां वधूभ्यां सहितो हृष्टः स्वं देशमाययौ ।। २७३
इत्थं भवति भव्यानामचिन्त्योऽपि समागमः ।
तत्केसट त्वमप्येवमचिरात्प्राप्स्यसि प्रियाम् ।। २७४
एवं तेनोदिते यज्ञस्वामिना तस्थुरस्य ते ।
कान्यप्यहानि कंदर्पसुमनःकेसटा गृहे ।। २७५
प्रस्थिताश्च स्वदेशं ते ततः प्राप्य महाटवीम् ।
जज्ञिरेऽन्योन्यविभ्रष्टा वन्येभापातसंभ्रमात् ।। २७६
तेषां स केसटो गच्छन्नेकाकी दुःखितः क्रमात् ।
प्राप्य काशिपुरीं मित्त्रं कंदर्पं प्राप्तवांस्ततः ।। २७७
तेन साकं ययौ तच्च निजं पाटलिपुत्रकम् ।
पित्राभिनन्दितस्तत्र कंचित्कालमुवास सः ।। २७८
अवर्णयद्रूपवतीविवाहप्रभृति स्वकम् ।
कंदर्पोदन्तपर्यन्तं पित्रोर्वृत्तान्तमत्र सः ।। २७९
अत्रान्तरे सा सुमना हस्तिभीतिपलायिता ।
वनं विवेश तत्रास्या ययौ चास्तं दिवाकरः ।। २८०
हा हार्यपुत्र हा तात हाम्बेत्यत्र निशागमे ।
शोचन्ती दावदहने क्षेप्तुं तनुमियेष सा ।। २८१
तावत्तद्योगिनीचक्रं कंदर्पस्य कृपापरम् ।
योगिनीस्ता विजित्यान्यास्तत्प्रापायतनं निजम् ।। २८२
तत्र संस्मृत्य कंदर्पं स्वविज्ञानादवेत्य च ।
भार्यां तस्य वने भ्रष्टां मन्त्रयांचक्रिरे च ताः ।। २८३
कंदर्पः पुरुषो धीरो वाञ्छितं प्राप्नुयात्स्वयम् ।
तद्भार्या तु वने भ्रष्टा ध्रुवं बाला त्यजेदसून् ।। २८४
तत्तां रत्नपुरं नीत्वा क्षिपामो येन तत्र सा ।
कंदर्पस्य पितुर्गेहे सपत्न्या सह तिष्ठति ।। २८५
इति संमन्त्र्य गत्वा तद्वनमाश्वास्य चात्र ताम् ।
योगिन्यस्ताः सुमनसं नीत्वा रत्नपुरे जहुः ।। २८६
गतायां निशि सा तत्र भ्रमन्ती सुमनाः पुरे ।
उच्यमानं जनेनेदं शुश्राव परिधावता ।। २८७
एषानङ्गवती भार्या कंदर्पस्य द्विजन्मनः ।
पत्यौ क्वापि गते कालं कंचित्तत्प्राप्तिवाञ्छया ।। २८८
स्थिता साध्वी तमप्राप्य निराशा निर्गताधुना ।
अग्निं प्रवेष्टुं दुःखिभ्यां श्वशुराभ्यामनुदुता ।। २८९
एतच्छ्रुत्वैव सुमना तच्चितास्थानमाशु सा ।
गत्वानङ्गवतीमेवं तामुपेत्य न्यवारयत् ।। २९०
आर्ये मा साहसं कार्षीः स हि जीवति ते पतिः ।
इत्युक्त्वा मूलतः कृत्स्नं तद्वृत्तान्तं शशंस सा ।। २९१
अदर्शयच्च कंदर्पदत्तं रत्नाङ्गुलीयकम् ।
ततः सर्वेऽभ्यनन्दंस्तां सत्यं विज्ञाय तद्वचः ।। २९२
अथानङ्गवतीं तुष्टां वधूं सुमनसं च ताम् ।
संपूज्य कंदर्पपिता गृहे तुष्टो न्यवेशयत् ।। २९३
तावत्स सुमनःप्राप्त्यै भ्रान्तुं पाटलिपुत्रकात् ।
कंदर्पोऽनिच्छतोऽनुक्त्वा केसटस्य ययौ ततः ।। २९४
केसटोऽपि गते तस्मिन्दुःखी रूपवतीं विना ।
गृहादविदितः पित्रोः प्रायाद्भ्रान्तुमितस्ततः ।। २९५
कंदर्पोऽपि भ्रमन्दैवात्तत्प्राप नगरं किल ।
यत्र रूपवतीं तां स केसटः परिणीतवान् ।। २९६
जनकोलाहलं श्रुत्वा किमेतदिति तत्र तम् ।
कंदर्पं परिपृच्छन्तं पुमानेकोऽब्रवीदिदम् ।। २९७
एषा रूपवती भर्त्रा केसटेन विनोद्यता ।
मर्तुं कलकलस्तेन शृणु वृत्तान्तमत्र च ।। २९८
इत्युक्त्या केसटोद्वाहराक्षसोदन्तकौतुकम् ।
रूपवत्याश्रितं प्रोच्य स पुमानब्रवीत्पुनः ।। २९९
ततस्तं वञ्चयित्वैव वृद्धविप्रः स केसटकम् ।
आदाय तां रूपवतीं पुत्रार्थं प्रययौ ततः ।। ३००
केसटस्तु न विज्ञातः क्व यातः परिणीय ताम् ।
रूपवत्यप्यपश्यन्ती केसटं साब्रवीत्पथि ।। ३०१
आर्यपुत्रं न पश्यामि किं सर्वेषु व्रजत्स्विह ।
तच्छ्रुत्वा दर्शयन्पुत्रं तं स वृद्धद्विजोऽभ्यधात् ।। ३०२
सोऽयं मत्तनयः पुत्रि भर्ता ते दृश्यतामिति ।
ततो रूपवती वृद्धांस्तत्रस्थानब्रवीत्क्रुधा ।। ३०३
कोऽयं कुरूपो भर्ता मे मरिष्याम्येव निश्चितम् ।
येन ह्यः परिणीतास्मि तं प्राप्स्यामि न चेत्पतिम् ।। ३०४
एवं वदन्ती त्यक्तान्नपाना राजभयेन सा ।
पितुरेव गृहं तेन वृद्धविप्रेण नायिता ।। ३०५
तत्रोक्ततद्द्विजव्याजां शोचंस्तामवदत्पिता ।
कोऽसाविति कथं ज्ञेयः परिणेता स पुत्रि ते ।। ३०६
ततो रूपवती स्माह तात पाटलिपुत्रकात् ।
देसटाख्यद्विजसुतः केसटाख्यः स मत्पतिः ।। ३०७
रक्षोमुखान्मया ह्येतच्छ्रुतमित्यभिधाय सा ।
कृत्स्नं तस्मै समाचख्यौ वृत्तान्तं पतिरक्षसोः ।। ३०८
ततः स तत्पिता गत्वा दृष्ट्वा रक्षो मृतस्थितम् ।
संजातप्रत्ययोऽतुष्यद्दंपत्योस्तत्त्वतस्तयोः ।। ३०९
पतिप्राप्त्याशयाश्वास्य सुतां तां प्राहिणोच्च सः ।
अन्वेषन्केसटपितुः पार्श्वं पाटलिपुत्रकम् ।। ३१०
ते तत्र गत्वा नचिरादागत्यैवमिहाब्रुवन् ।
दृष्टः पाटलिपुत्रस्थः सोऽस्माभिर्भर्तृदेसटः ।। ३११
केसटः क्व स ते पुत्र इति पृष्टश्च तत्र सः ।
सबाष्पमब्रवीदस्मान्केसटोऽत्र कुतः सुतः ।। ३१२
स ह्यागतोऽपि कंदर्पनाम्नि मित्रे सहागते ।
इतो रूपवतीदुःखात्क्वाप्यनुक्त्वैव मे गतः ।। ३१३
एतत्तस्य वचः श्रुत्वा क्रमाद्वयमिहागताः ।
इत्युक्तेऽन्वेषकै रूपवती पितरमभ्यधात् ।। ३१४
नास्त्यार्यपुत्रप्राप्तिर्मे तदग्निं प्रविशाम्यहम् ।
भर्त्रा विनाकृता तात तिष्ठेयं हि कियच्चिरम् ।। ३१५
एवं ब्रुवाणा न यदा निषेद्धुं तेन पारिता ।
तदा रूपवती साद्य निर्गता मर्तुमग्निना ।। ३१६
तस्याः सख्यावुभे कन्ये तद्वन्मर्तुं विनिर्गते ।
एका शृङ्गारवत्याख्या ह्यनुरागवती परा ।। ३१७
तद्विवाहे स ताभ्यां हि दृष्टः प्राक्केसटो युवा ।
तद्रूपहृतचित्ताभ्यां भर्तृत्वे पर्यकल्प्यत ।। ३१८
इत्थं कोलाहलमिदं जनस्यात्रेति तेन सः ।
कंदर्पः पुरुषेणोक्तो ययौ तासां चितान्तिकम् ।। ३१९
ततो दूरात्कलकलं निवार्योपेत्य च द्रुतम् ।
अवोचदग्निमर्चन्तीमेवं रूपवतीं स ताम् ।। ३२०
अलं ते साहसेनार्ये जीवत्येव स केसटः ।
स भर्ता तव मित्त्रं मे कंदर्पं मामवेहि च ।। ३२१
इत्यूचिवान्वृद्धविप्रच्छद्मनौकाधिरोहणात् ।
आरभ्य केसटोदन्तं कथयामास सोऽखिलम् ।। ३२२
ततः संवादसंजातप्रत्यया सा पितुर्गृहम् ।
हृष्टा रूपवती ताभ्यां सखीभ्यां प्राविशत्सह ।। ३२३
कंदर्पोऽपि च तत्पित्रा प्रीत्योपचरितस्तदा ।
सुरक्षितश्च तत्रैव तस्थौ तदनुरोधतः ।। ३२४
तावत्स केसटो दैवात्प्राप रत्नपुरं भ्रमन् ।
कंदर्पस्य गृहं तत्र तद्भार्ये यत्र ते स्थिते ।। ३२५
परिभ्रमन्तं तं तत्र हर्म्यात्कंदर्पभार्यया ।
दृष्ट्वा सुमनसा हर्षादूचिरे श्वशुरादयः ।। ३२६
आर्यपुत्रसुहृत्सोऽयं संप्राप्तः केसटोऽधुना ।
अस्मात्प्रवृत्तिर्बुध्येत शीघ्रं संभाव्यतामिति ।। ३२७
ततो गत्वैव तैरुक्त्वा यथावस्तु स केसटः ।
आनीतस्तां सुमनसं दृष्ट्वाहृष्यदुपागताम् ।। ३२८
विश्रान्तश्च क्षणात्पृष्टस्तस्यै वन्येभसंभ्रमात् ।
आरभ्य कंदर्पगतं स्वं च वृत्तान्तमब्रवीत् ।। ३२९
सत्कृतो दिवसान्कांश्चिदास्ते यावच्च तत्र सः ।
लेखहस्तः पुमांस्तावदागात्कंदर्पपार्श्वतः ।। ३३०
यत्र रूपवती नाम त्वत्सुहृत्परिणीतवान् ।
केसटस्तत्र कंदर्पः स्थितो रूपवती च सा ।। ३३१
इति चोवाच स पुमाल्लेखार्थोऽभूत्तथैव च ।
कंदर्पपित्रे स्वोद्वाहं केसटोऽवर्णयच्च सः ।। ३३२
ततः कृतोत्सवोऽन्येद्युः कंदर्पानयनाय सः ।
तत्पिता प्राहिणोद्दूतं प्रियाप्राप्त्यै च केसटम् ।। ३३३
केसटोऽपि ययौ साकं लेखहारेण तेन सः ।
तं देशं यत्र सा रूपवती पितृगृहे स्थिता ।। ३३४
तत्र संभावयामास स तां रूपवतीं चिरात् ।
सोत्सवां हृतसंतापस्तोयदश्चातकीमिव ।। ३३५
कंदर्पेण समागम्य परिणिन्ये च ते अपि ।
रूपवत्या वयस्ये द्वे पूर्वोक्ते प्रेरितस्तया ।। ३३६
ते चानुरागशृङ्गारवत्यौ रूपवतीं च ताम् ।
आदायापृष्टकंदर्पः स्वदेशं केसटो ययौ ।। ३३७
कंदर्पोऽपि सदूतस्तद्गत्वा रत्नपुरं ततः ।
संजग्मे सुमनोनङ्गवतीभ्यां बन्धुभिस्तदा ।। ३३८
निजनिजदेशगतौ तौ रूपवतीसुमनसौ प्रिये प्राप्य ।
केसटकंदर्पावथ भुञ्जानौ तस्थतुर्भोगान् ।। ३३९
इति विधुरविधातृविप्रयुक्ताः पुनरपि यान्ति समागमं प्रियाभिः ।
अकलितगहनावधीनि दुःखान्यपि विषमाण्यवतीर्य धीरसत्त्वाः ।। ३४०
तच्छीघ्रमुत्तिष्ठ सखे व्रजावश्चिन्वंस्त्वमप्याप्स्यसि जातु भार्याम् ।
को वेद दैवस्य गतिं मयैव मृतापि भार्याधिगता सजीवा ।। ३४१
इत्येवमाख्याय कथामनेन प्रोत्साहितश्चानुगतश्च सख्या ।
भ्रमन्भुवं प्रापमिमामथात्र सक्रोडमद्राक्षमहं गजेन्द्रम् ।। ३४२
उद्गीर्य तेन च गजेन पुनर्निगीर्णा तामेव चित्रमवशां स्ववधूमपश्यम् ।
तं चिन्वतापि करिणं चिरदृष्टनष्टं दृष्टा मयाद्य सुकृतैरिह देवपादाः ।। ३४३
एवं तस्योक्तवतो वणिक्सुतस्याथ विक्रमादित्यः ।
आनाय्य तां स राजा गजवधलब्धां समर्पयद्भार्याम् ।। ३४४
तौ च विचित्रसमागममुदितावन्योन्यकथितवृत्तान्तौ ।
श्रीविषमशीलसंस्तुतिमुखरमुखौ दंपती तदाभूताम् ।। ३४५
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे विषमशीललम्बके चतुर्थस्तरङ्गः ।