वास्तुसूत्रोपनिषत्/तृतीयः प्रपाठकः

विकिस्रोतः तः
Jump to navigation Jump to search

तृतीयः प्रपाठकः

शैलभेदनम्

शिल्पव्याख्यानम् आाशृणुतेदम् । वास्तुषडङ्गमध्ये एते शैलभेदनोपायाः तथेति समुपविशन्ति ते । आथर्वणाङ्गिरसशिल्पकाश्यप उवाच भगवन्तं पिप्पलादम्, अस्मान् वदन्तु शिल्पाचारे भेदनार्थं यद् यद् श्रेय इति। यत् कतिधा अलभ्यमुवाच त्वां पृच्छामीतिः, पृच्छेति होवाच । का शैलभेदनस्य गतिः, के प्रयोजयन्ति । प्रस्तावनाक्रमेण प्रस्तरे खिलपञ्जरार्थं रेखाकरणे

रूपस्य भावो मुख्यः ॥ ३.१ ॥

भावात् प्रेरणा प्रसरति, प्रेरणया दिव्यबोधः सञ्जायते । तत्क्रिया दिव्यत्वमुपलभन्ते मनुष्याः । तेषां मनोवृत्त्यां रूपस्य भावज्ञापनार्थं रूपकर्माणि सावधानेन स्थापका आचरन्ति । रूपमध्ये किञ्चित् सौम्यं किञ्चिदुग्रं च ।

भावानुसारतो रेखाविधानमिति ज्ञेयम् ॥ ३.२ ॥

एतद् यो जानाति स मर्मज्ञ: । स लोके मान्यो भवति ग्रामे वास्तूद्गीथरूपेण ख्यातो भवति । नृपे चाक्र3 रूपेण ।

तेषां बहुधाकृत्यं श्रेयः ॥ ३.३ ॥

ते शैलं छिन्दन्ति, रूपाण्युत्खोदयन्ति। रूपाङ्गानि रेखानुपाते पातयन्ति। अङ्गयोर्मध्ये क्षीणकूटाङ्गानि भिन्दन्ति। कूटाद् यत्त्यक्तशिला उद्वृत्तास्तच्छिलाः निक्षिपन्ति समन्त्रेणेति त्यागः। अङ्गान्युत्थितकूटानि नीचानि, एतन्न्यासबोधः।

न्यासार्थ कालबोधो ध्येय इति ॥ ३.४ ॥


1.मूर्तिदर्शनमात्रेण यद्भावो मनसि जायते सा रूपप्रेरणा ।
2.रूपमध्ये यथाकीलं कीलाभासे यदङ्गकः । यो जानाति इमं भावं मर्मज्ञः स इति स्मृतः ॥ शिल्परत्नकोषे द्वितीयसर्गे १८ श्लोके उक्तम् ॥
3चाक्र: स्थापति-श्रेष्ठ इति पाटवचाक्रशतपथे उक्तम् ।


“उत्धितानि कूटानि, ग ।
 

172
न रात्रौ, न दशें, न सूर्यसोमयोः सङ्गमे, न सन्ध्यायां वा उषायां चरन्ति श्रेष्ठ रूपकारा: । तेऽ भिधृतार्थमुदुम्बरद्विपक्षान्4 निखाय रूपशिलामवरोधयन्ति । तद् रोधनम् । रोधनकाले पर्जन्यपूजने जटावेदं5 पठेदिति पठनोपासनेन रसविज्ञातन्यायेन ऋषयः शैलाचार्या भिन्दन्ति शैलम्।

तद्भेदनेऽभिमन्त्रयन्ति खनित्राणि ॥ ३.५ ॥

ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं हूँ (दुर्गे) भगवति शमय स्वाहा ॥
इति खनित्रप्रयोगमन्त्रः । मन्त्रात् कालो विनश्यति, भयं व्यपोहति । एतज्ज्ञानेन अग्निहोत्रं चरन्ति वैश्वानरे जुह्वति। यथाङ्गारेषु भस्मार्थं जुहुयात् पापानां तथा शिल्पकारा रूपार्थमग्निहोत्रमाचरन्ति वैश्वानरे जुहूतीति।
वास्तुयज्ञात् खनित्रबाधो व्यपोहति । कुशङ्का विनश्यन्ति । खनित्रप्रयोगे दौर्बल्यबोधे मन्त्रं मनसि ध्यायन्ति ।
मन्त्रः- ॐ चक्षुरसि चक्षुर्मे दाः स्वाहा ।
परिपाणमसि परिपाणं मे दा: स्वाहेति ॥ (अथर्ववेद २.१७.६ - ७ )
एषा क्रिया ध्येया, य एवं वेद ।
अथाङ्गिरसादय उद्गातारः पप्रच्छुः कश्च खनित्रप्रकार इति ।

खनित्रपञ्चकं श्रेष्ठम् ॥ ३.६ ॥

शृणुत, केनोपायेन शिल्पोद्गातारो भेदनकर्त्तनाद्याचरन्ति । खनित्रकर्म न वै रूपे सोमशालायां स्थण्डिलकरणे होतारः प्रयोजयन्ति । यथा बृहस्पतेर्गृहशालाप्रकरणे लोकवास्तूपाख्याने पूर्वं वेदे उक्तम्6। खनित्रापप्रयोगे रूपाण्यपरूपाणि भवन्ति । कुक्कुटिका7 अपरूपाणि पूजयन्ति न ब्राह्मणा: । तत् खनित्रप्रयोगे श्रेष्ठान् तद्भेदान् वदामि ।


4.दारवी मुष्टिमानेन कीलान् सङ्गृह्य यत्नतः । चतुःपार्श्वे यदा शिला तदा तु अवरोधनम् । इति शिल्परत्नकोषे रोधनक्रिया ।
5.गाथां गायन्ति गाथिनः यथा कुन्तापसूक्तानि अथर्ववेदे (२०.१२७.१) उक्तानि । इदं जनाः उप श्रुत नराशंस स्तविष्यते इत्यादि जटाक्रमेण पठन्ति गाथिनः ।
6अथर्वसंहितायां ३.१२: शालायां ध्रुवा-स्तम्भः अश्वावती भित्तिः, स्थूणा-वंशस्तम्भः । कुम्भ-धारककाष्ठानि ; निर्माणेऽपि खनित्रप्रयोजनं भवति ।
7.वनवासिनः ।


“अभिज्ञानन्यायेण, ग ।
"पञ्चखनित्राणि श्रेष्टांश्व', क;
 पञ्चखनित्रं, ग ।
 5মালা: , ग ।


 173
भेदास्तु लाञ्जी, लाङ्गली, गृध्रदन्ती, सूचीमुखा, वज्रा इति । सर्वे आयसा द्विविधा भवन्ति क्षीणाः प्रशस्ताश्च । मुषलधरुभे मुषलदण्डेन खनित्रं घातयन्ति प्रयोजयन्ति शिलाभेदने तत् । सर्वास्त्राणि तीक्ष्णानि, गवाम्बुपुटितानि । ततः इङ्गिडलेपितानि चर्मशाणितानि च ।

रूपप्रकर्षार्थं रूपाङ्गं स्निग्धमिति ॥ ३.७ ॥

सौम्येन छेदयन्ति ये ते शस्त्रिणः । शस्त्रं द्विमुखी घूर्णिकेतिे,
अयोमुखास्त्राणि पालाशशलाकां वहन्ति’, इदं तेषां रूपम् । अथ , आङ्गिरसः पप्रच्छ भगवन्तं पिप्पलादं , केन वज्रमिव कठिनशिलां खनित्रेण भिन्दन्ति वास्तुकाराः । तं होवाच वक्ता

शिल्पकाराः प्रलेपयन्ति द्रावकरसम् ॥ ३.८ ॥

शङ्खद्राव - कुष्ठरस-सैन्धवखर्पर-उकत्सवल्कलचूर्णेन9 सहितं शिलाद्रवणार्थमेवं
खननमाचरन्ति भद्रेण10 स्थापकाः ।

एषा हेतिविद्या श्रेष्ठा ॥ ३.९ ॥

रक्षार्थं पर्णमणिः परिधेयः ॥ ३.१० ॥


खनित्रकर्मणि रक्षार्थं पाठामूलिकां धारयन्तीति स कवचः । मन्त्रेण सह धारयन्ति पर्णमणिम् । अनेन मन्त्रेण
ॐ शं नो देवी पृश्निपर्ण्यशं निर्ऋत्यां अकः । उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ।
(अथर्ववेद २.२५.१)

भेदनादङ्गसौभगं11 प्रभवति।।३.११।।

यथा देहे तथा दैवाङ्गे गुल्फवलयकुक्ष्यादयः, उष्णीषमेखलादयः खोदयन्ति सौभगेन, उड्डुपयन्ति कुक्षशिलाः, विसृजन्ति तच्छिलामिति।
८.मण्डलकरणार्थं सूचीमुखाकृति ( रज्ज्वे) शोणप्रस्तरन्यासितशस्त्रविशेषः ।
९.प्रस्तरभेदिवृक्षस्य वल्कलं माहेन्दपर्वतारण्ये उपलब्धम् इति ।
१०.यथाविहितलक्षणानुपातेन इति भद्रोपायः ।
११.ग्रन्थिरेखा वलिः पर्वाण्यङ्गरागं यथोचितम् । प्रकृत्यानुसृतेः कुर्यात्तदङ्गसौभगं स्मृतम् शिल्पागमे तृतीयाध्याये १४ श्लोके उक्तम् ।
स्निग्धेन क । प्रबोधार्थं सौम्येण छेदन्ति ख ग ।
"पालासदण्ड शलाकहस्त इति । ख ।
पच्चाहोरात्र, ग ।


 


174

रेखानुपातेनाङ्गानि निधेयानीति श्रेष्ठकृत्यम् ॥ ३.१२ ॥

एतेन वास्तुवेदविधानेन रेखानुपातेऽङ्गन्यासो विधेयः ।

गाथानुप्रासे’ लक्षणं व्यक्तं भवति ॥ ३.१३ ॥

यथा गाथाया: कथास्तथा रूपलक्षणान्याचरन्ति रूपकार-रूपज्ञा: , तथा व्यक्तरूपं सम्भवति । यद् रूपस्य ह्रावभावादि प्रत्यक्षं तद् व्यक्तरूपम् । रूपादुपासका भावसिद्धिमुपलब्धयन्ति यज्ञेन ध्यानमिति प्रयोग:12 ।।

ध्यानप्रयोगे रूपसौष्ठवं स्पष्टं भवति ॥ ३.१४ ॥

 तथा ह्रि ध्यानरूपं कथयन्ति वास्तुकाराः ।

यथा प्रकृतिस्तथा रूपलक्षणम् ॥ ३.१५ ॥

रूपस्य स्वभावानुक्रमेण रूपाणि भवन्ति । तेषां तत्तद्गुणाः प्रभवन्ति कामचारीणां हृदये इति । कामो13 जनानां ध्रुवावृत्तिरिति ।

अङ्गानि अर्धाकले14 सुषमं15 ध्येयानि ॥ ३.१६ ॥

अर्चायां श्रेष्ठं पूर्णाकलं वर्त्तुलाङ्गं, न श्रेष्ठमितिभित्ये

हर्सावधि उभयदिशि चोर्ध्वे न वर्धयेत् ॥ ३.१७ ॥

उष्णीषमेखलादि अपवृजिनेन रेखाकारे उत्थिते दर्शयन्, भेदनकाले रूपशिलोपरि शङ्खद्रावं सिञ्चयन् , अपवेनात् संरक्षयेदिति क्रमः ।

रक्षाविधानेन विघ्नघातयः ॥ ३.१८ ॥

रक्षाविधानेन विघ्ना विनश्यन्ति । खोदनारम्भे * ॐ होजा होजा शतकेशि वृष मे संरक्षय इति ब्रूयात् स्थापकः। अविघ्नेन कररेखादि गात्रलक्षणानि दृषदि दैवभावेन कर्तव्यम्। तद्गुणात् सिद्धिं प्राप्नुवन्ति काम्येन वा, अकाम्येन सायुज्यं प्रददाति एतदर्थं भेदनकारुकर्म श्रेष्ठम्।


12.ध्यानानुसृतं यद्रूपं तद्रूपो ध्यानविग्रहः, शिल्परत्नकोशे ४५५ तमे श्लोके ।
13कामस्तदग्रे समवर्त्तताधि मनसो रेतः प्रथमं यदासीत् । इति नासदीये ।
14.शिलाया अपृथक् संलग्नरूपेण सर्वाङ्गं यत्र सुषमं तदर्धाकलम् ।
15. सदा यौवनसम्पन्नं पेशिग्रन्थिविवर्जितम्। देवलक्षणसंयुक्तं रूपं सुषमममुच्यते शिल्पागमे।


अनुक्रमे घ" ।
 "उपलभन्ते इति युक्तम्, घ ।
वृषिते इत्यधिकपाठः ङ । ।


 
175

रेखान्वितमङ्गपातनं भेदने मुख्यम् ।

रेखाक्रमेण भेदनं चतुर्धा ज्ञेयम् ॥ ३.१९ ॥

न्यासविधानेन तदेकाश्रयि, युगलाश्रयि, खण्डाश्रयि, स्पर्शीतेति। यदा पूर्णरेखायां रूपाङ्गं निपतति तदेकाश्रयि। यदा रूपस्य प्रभवाङ्गं सम्मुखाङ्गं वा भिन्नरेखामाश्रयति तद् युगलाश्रयि। यदा तत् पृथगङ्गं भिन्नरेखायां वा मूलरेखायां केवलमङ्गाङ्गं निपतति, अध ऊर्ध्वे च तत् खण्डाश्रयि। यदा अङ्गाशः केवलं किञ्चिद् रेखाचुम्बितस्तत् स्पर्शिता हीनम्16। नेम्यवलम्बिताङ्गं कदा श्रेष्ठं भवति।

नेम्योत्तरे रूपाङ्गं न वर्धयेत् ॥ ३.२० ॥

इति पातनानुशासनम् । भेदनकालेऽवाग् भवेत् । गाथाकथाः सततं स्मरेत् । रूपप्रारम्भे खनित्राणि प्रोक्षयेत् प्रोक्षणमन्त्रेण । तत्प्रभावेन दोषा अरिष्टा विनश्यन्ति ।

खनित्रचालनविधिर्ध्येयविशेषः ॥ ३.२१ ॥

वामहस्ते जरठेन खनित्रमवरोधयेत् । कनिष्ठिकायां रोधयेत् खनित्रम् । इति कृत्यम्। दक्षिणकरे कुटुम्भकं धारयेत् भेदनार्थं दैवलक्षणानि रूपकर्मणि वेदयन्ते । इति भेदनविधिव्याख्यानम् ।
वाक्कायमनोमार्गेण चर्चाक्षेण मुनिश्रोतॄणामुपनिधानेन शैलभेदनभ्रस्कक्रम इति तृतीयप्रपाठकः ।


तथा अङ्गनि केवल रेखाचुम्बित अङ्गस्य तदरेखा अवलम्बने तद स्पर्शीतमिति | ङ I