वास्तुसूत्रोपनिषत्/चतुर्थः प्रपाठकः

विकिस्रोतः तः
Jump to navigation Jump to search

 
चतर्थ: प्रपाठक:

अङ्गप्रयोगः

अथ पिप्पलादः प्रहृष्टो होवाच - शिल्पजिज्ञासुत्रय, वाग्ररूपाणि च तस्याङ्गज्ञानमाहुः” । पुरा ब्रह्मैकं सत्यमस्ति । तज्ज्ञानेन हृदयाकाशे तद् ब्रह्मैव। ज्योतिः तस्य ज्ञानविज्ञानं विज्ञाय एवं यत्किञ्च वाचा तद्रूपेण विज्ञानवाचा प्रपन्नेनाचरन्ति । य एवं वेद । यत्र भावना शून्या तन्निर्गुणं गुणत्वभावनया सगुणं भवति । सगुणान् मनः स्थूलं भवति ।

प्रतीतात् प्रतीक:"॥ ४.१ ॥

प्रतीत-प्रतीक-प्रतिमा-क्रमेण त्रीणि मुख्यानि । यदा ज्योतिर्मण्डलानुभासे ब्रह्म उपलभ्यते तत् प्रतीतम् । यथा विज्ञानमयपुरुषः । यश्चक्षुषा।
न पश्यति येन चक्षूंषि पश्यन्तीति । यदुपमोपमेयक्रमेण अनुभवभावान् प्रदर्शयति तत् प्रतीकम् । “अङ्गुष्ठमात्रः पुरुषः इत्यादि - वाक्येन । या सपर्यायामानन्दं प्रददाति सा प्रतिमेति ।

रूपादङ्गानि सञ्जायन्ते ॥ ४.२ ॥

तद्भावादूपं रूपं प्रतिरूपं जायते । यथा पुरुषे । इति ज्ञानं ज्यायम्: यत्रान्यैर्द्विधो भवति तदितरज्ञानं निश्चितं भवति । एतदेव सत्यम् । तदितर इतरं जिघ्रति । तदितर इतरं पश्यति । तदितर इतरं शृणोति । तदितर इतरमभिवदति । तदितर इतरं मनुते । तदितर इतरं जानाति । यत्र इतराभावं यः पश्यति तत् केन कं विजानीयादिति याज्ञवल्केन उक्तम् । य एवं वेद |

अतो द्विधा ब्रह्म रूपवद् भवति ॥ ४.३ ॥

- - -- - -- -- --- - -- - -

  • ज्योतिः प्रतीकभावनाङ्गुष्ठम् ।

"आश्रु, ग, घ ।
"इत्थधिकपाठः, क ।
एकेन एक विजानीयात्, ग । केन एक, क, ख। ज्ञातारं अपरे केन विजानीयादिति
ख, ङ ।
- -- - -- - -- -- - -- - --

178
स्थापकाः सपयार्थं शैले रूपाणि चरन्ति 2 ।।

रूपार्थं कोष्ठका मुख्याः ॥ ४.४ ॥

यथा शुल्वे तथा च शिल्पे । विना कोष्ठकं रूपस्य भावः सम्यङ् न भवति । सपर्यायां क्षुण्णता जायत इति । ऊध्र्वग पार्श्वग क्रमेण चूर्णेन रेखाविभाजनमिति कोष्ठविद्या ग्राभार्थम् ।

वर्गीकरणं मुख्यकृत्यम् ॥ ४.५ ॥

यज्ञार्थमिदं शुल्वं कारुकर्मार्थं शिल्पमिति ज्ञेयम् । इति सुलभक्रिया । एवं वेदे । रज्ज्वास्तावत् प्रसारणे वर्गीकरणमिति तस्य भावः । यावत् प्रमाणं क्षेत्रशैलं , तत्र रेखा अविकृतं प्रकुर्वन्ति मानदण्डैः शिल्पकाराः । तेन बृहद्वर्गाः बहुधा भवन्ति क्षीणाकृतौ । एकः द्वौ द्वौ चत्वारः । चत्वारो द्विगुणितेन अष्टौ ।
एवं क्रमेण बहुधा कोष्ठका भवन्ति गुणवर्धनेनेति । यथा शुल्वविभाजने युग्मम् अयुग्मं यज्ञमेखलादीनर्धप्रमाणेन चिकीर्षाक्रमेण वर्द्धयन्ति तथा स्थापकाः ।

कोष्ठकान्तराले रूपस्यावयवो ध्येयः ॥ ४.६ ॥

स्थापकाः परिमिताङ्गावयवादि मानन्ति [मीयन्ते] । अयं तालनिर्यासो चिकीर्षाक्रमेण ।

परिमिताङ्गहाराद् भावलक्षणानि जायन्ते ॥ ४.७ ॥

अपरिमिताङ्गानां तेषां भाववैलक्षण्यं भवति, इति दोषः । कुण्डस्य कोष्ठके व्यतिक्रान्ते होतारो मूका भवन्ति, तथा च मूर्त्याम् ।

कोष्ठके व्यतिक्रान्ते रूपमवद्यं भवति ॥ ४.८ ॥

स्थापकाः पैशाचत्वं लभन्ते । अथ शुल्वविद्याशिल्पविद्ययोः को भेदः ? किं तस्य सन्धानमुपलभन्ते, किं पार्थक्यमिति वदन्तु धर्मपुरुषाः पिप्पलादाः ।

शुल्वं यज्ञस्य साधनं शिल्पं रूपस्य साधनम् ॥ ४.९ ॥

इति भेदः । शुल्वकारा दण्डरज्जुसहितं कुण्डस्थण्डिल'-शाला-योनिमेखला-यूपादि निर्णयन्ति ।
- - - - - -- - -- - -- - -- - - -
2तत्त्वज्ञानेन चित्तस्य विक्रियाऽभावावेशेन मनसः विक्रिया इति । तत्त्वबोधात् चित्तं स्थिरं भवति, भावप्रचोदने मनः तत्त्वबोधे प्रविलीयते, विसर्ग इव द्वयोः एका गतिः, अतो द्विधा एकत्वमिति परिणामः
- - - -- - -- - -- - -- -- - -- -
अङ्गरागात्, क
रूपकोष्ठके, घ। कोष्ठमध्ये, ग।
अविद्य, क, ग।
शिल्पकाश्यपादि, ख अधिकपाठः
- -- - -- - -- - -- - -- - -- -
 
179

शिल्पकाराणां रूपशैले रूपशालादि ध्येयम् ॥ ४.१० ॥

इति तेषां पार्थक्यं न मर्मणि भेदो जायते ।

यूपाद् रूपं रूपाद् यूप इति स्वभावः ॥ ४.११ ॥

 आहुः श्रोतारः केन रूपेण शुल्वकाराः कारुरीत्या यूपं निर्धारयन्ति यथा पूर्ववेदाचारेण ।

यूपस्य मानं ध्येयम् ॥ ४.१२ ॥

शृणुत वास्तुकाराः । यजमानस्य त्रिमुष्टिकमानेन रेखामानय । तद्दैर्घ्येण सह द्विह्रस्वरेखया वामगं त्रिहुतैकं चर, इति त्रिहुतीकरणम् । तत ऊर्ध्वं वामे च संकीर्णत्रिहुतं सृजयन् लम्बमानेन चतुरस्रैकम् आचर, इति वर्गीकरणम् । तद् वर्गद्विखण्डेन विभाजितक्षीणैकभागो यूपस्योत्थानं ज्ञेयम् ।

षड्भागस्य प्रयोगो ध्येयः ॥ ४.१३ ॥
 
तत्र पार्श्वक्षेत्रे षडुपक्षेत्रलाभार्थमिदं विभाजनम्3 । तद्षड्भागेभ्यो निम्नैकभाग पार्थिवाङ्गं प्रोत्थनार्थं , भूमिर्देवता । तदुत्तराद्विभागोऽधोऽङ्गं मेखलाबन्धनानन्तरं न्यासार्थं स मैथुनकाण्डः, रुद्रो देवता । तदुत्तरे द्वौ भागावुत्तमाङ्गं प्राणाऽऽवाह्नार्थं प्रजापतिर्देवता । तदुत्तरैकभागस्तुङ्गाङ्गं ध्वजारोपणार्थं सविता देवता । एवं क्रमेण

पुरुषस्य रूपे'ऽङ्गचत्वारोऽष्टाङ्गक्रमेणोपजायन्ते ॥ ४.१४ ॥

पार्थिवाङ्गं , कर्माङ्गं, अधोङ्गं, प्रजननाङगं, उत्तमाङ्गं, प्राङ्गं, तुङ्गाङ्गं, ज्योतिरङ्गं, क्रमेण पुरुषाकलेष्टाङ्गपुरुषस्य रूपम्।
शिल्पकाश्यपधीराः पप्रच्छुः। प्रियधा किं रूपस्य तालम्, कस्तस्य भावो लक्षणञ्च सम्बन्धमिति। तदवगमाय उपज्ञाक्रमेण पिप्पलादो वव्रे।
- - -- - -- - -- - -- -- - -
3. यूपस्य ध्वजमानार्थं त्रिवृतकरणध्येयं मध्यनिर्धारणार्थं च निम्नोर्ध्वे लघुभागस्य मानसम्प्राप्त्यर्थमिदं मानमिति भावः।
- - -- - -- - -- --- - -- -
 
- - -- -- - - -- - - -- - -
 
180

पालाशदण्डरज्जुसंयोगे रेखामानय ॥ ४.१५ ॥

शैले कोष्ठकानामुत्थितक्रमेण रेखामाचरेत् । पयसा शोणशैलचूर्ण संयोगेन धीराः कोष्ठकान् प्रकुर्वन्ति । कोष्ठमध्ये पादाच्छिरोऽवधि रूपमुपलब्धव्यमिति

निम्नादूर्ध्वावधि सदा रेखादीनाचर ॥ ४.१६ ॥

सा हि उत्थितक्रिया । स रुद्रपतिः पुरुष एवं वेदे ।

पुरुषस्तम्भ इव स्तम्भो वै यज्ञस्य रूपम् ॥ ४.१७ ॥

दशयज्ञस्याधारः4 स5 वृषस्तम्भः पितृयज्ञार्थम्, रुद्रप्रीतये । प्रजापतिरेव वास्तोष्पतिः स हि प्राणजागृतिरितिे । -

पुरुषस्य अङ्गानां स्तम्भेन सह तुलनम्

यथा स्तम्भस्य दशाङ्गं तथा दशयज्ञप्रज्ञाश्च ॥ ४.१८ ॥

निम्ने पादः, दर्भमेखला रज्जुन्यायेन निर्मिता । तदुत्तरे दण्डवत् पिप्पले उदुम्बरे वा तत्र मेखला वलयाकृतिः । तदुत्तरे स्तम्भस्य दण्डविलं विष्णुर्देवता, तदुत्तरे स्तम्भस्य कटिरविशदशरावाकृतिः | तत्सम्मुखे मृगपादो यथा पङ्के तथानाभिः श्रुवस्य गर्भाकृतिः । तदुत्तरे सौम्यस्तम्भाकृतिः, अम्बालिका देवता। तदुत्तरे चतुरस्रकूटशाला, आवास इव स्तम्भस्य हृदयम् । तच्छालायाः रुद्रो देवता । शतकेशी शतशीर्षा वृषः6, स ज्योतिः प्रणवरूपस्तारकः, तदुत्तरे स्तम्भस्य कण्ठः स शरावाकृतिः ।
- - -- - -- - - --- - -- - - -- - -- - -- - - - -
4विंशो हि पुरुषो दश द्वादशाङ्गुल्यो दश यो ह्या इति शतपथे उक्तम् |
दशेन्द्रियस्याधारः पुरुष इत्यर्थः। यथा पुरुषे दशाङ्गं तथा पिप्पलादीयपितृमेधेन स्तम्भाकृतियूपे दशाङ्गं कल्पयन्ति ऋषय़ः
5 अष्टारयूपदेवता प्रतिष्ठायां वास्तुकर्मणि प्रयोजनं भवति । षोडशार यूप विष्णुमहायज्ञे प्रयोजनं भवति । वृषस्तम्भो मृताहे पितृयज्ञे' वृषोत्सर्गे प्रयोजनमिथुनस्तम्भस्य प्रचलन नास्ति । (उत्कलभाषायाम) प्रथम द्वितीय पथररे करिब वृषस्तम्भं वट विल्व उदुम्बररे करिब ।।
6रुद्र वृषरूपेण शुक्लयजुर्वेदे उक्तं च धर्मवृषभमिति “वृष वै धर्मः” पैप्पलादसंहृितायां १ खण्डे हिरण्यशृङ्गेो वृषभो य समुद्रादुदाचरंत्” । स वृष हि इन्द्र सखा शतवालो” इति अथर्ववेदे ३ उक्तम् । तद्वृष पितृरूपेण पितृयूपस्यावासे उपासयन्ति, पितॄणां रुद्रः, इति तस्य भाव: ।
- -- - -- - -- -- -- - -- - - -- - -- - -- -

181
स्वाहा देवता । तदुत्तरे स्तम्भस्य मूर्द्धमण्डलम्, सविता देवता, एवं क्रमेण दशयज्ञानुरूप दशाङ्गस्तम्भं होतरः समुपदिशन्ति |

स्थापकाचार्या स्तम्भाद्रूपं बोधयन्ति ॥ ४.१९ ॥

पुरुषसमरीत्या दशाङ्गमेतदुच्चै- समदशकोष्ठके, आचरन्ति पुरुषाकलं । यदेतद् वेदे ।

स्तम्भः कामचारिणस्त्रिधामानयन्ति ॥ ४.२० ॥

याज्ञिका यज्ञे विड्वङ्गं प्रोथयन्ति ऐशान्ये पितृमेधे ।

दैवयज्ञार्थं यूपः ॥ ४.२१ ॥

तथा हि अङ्गे शुल्वकारा मूर्द्धानं दण्डं च मानयन्ति । दण्डो भद्रो वा , अष्टiशो विश्वांशो वा यथाकाम्य इति, पार्थिवाः पशुमेधेन अरिमर्दनं कुर्वन्ति
कृत्स्नसिद्धिलाभार्थमाहुतयन्ति ।

तदा पितृमेधार्थं वृषस्तम्भं मिथुनस्तम्भं कामचारा होमे रोपयन्ति ॥ ४.२२ ॥

वृषभः


प्रशस्तदण्डशिलायामूर्ध्वे शुकरमैथुनरूपम्., एतत्प्रयोगेण अरिः स्थाणुर्भवति स्तम्भ इव । पार्थिवाः पशुमेधिनः भोग्यप्रयोगमाचरन्ति । एवं वेदे प्रयोगे च, यत्किञ्च विजिज्ञास्यो यूपः, तद्रूपं केनैतत् पुरुषस्योद्भवं भवति रूपे । पिप्पलाद होवाच आथर्वणाङ्गिरस केन कोष्ठके पुरुषश्चाक्षुषो भवति ।

तद्बोधे मानुषा रूपज्ञा भवन्ति ॥ ४.२३ ॥

तं ह् वक्ष्यामीति भगवान् पिप्पलादः सुप्रसन्नः तस्मै सौम्यपिप्पलादः होवाच ।
आहुः शिल्पाचार्यास्तदेतत्सत्यम् । यथाऽऽदित्य उदयन् प्राच्या दिशः प्राणं सञ्चारयति तथा

पुरुषस्य रूपाकले कोष्ठकस्याधो भावरूपं प्रसरति ॥ ४.२४ ॥

182
सा हि स्तम्भस्य दशाङ्गोदितक्रिया । यथा दशयज्ञे दशकर्मणि कर्मोन्मेषो भवति7। यथा हि पुरुषः कर्ता, बोधा, रसयिता, मन्ता, स्रष्टा, श्रोता. द्रष्टा, ज्ञाता च विज्ञानात्मा ब्रह्म भवति तथा दशाङ्गे मनुष्या दशकर्माचरन्ति। एतद्भावे दशकोष्ठके पुरुषश्चाक्षुषो भवति। पादः, पादपर्वतः, दण्डः, दण्डगुल्फः, एतान्यङ्गान्यधोङ्गानीति। जानुकटिपर्वतान्तद्वयं मध्याङ्गमिति। उदरहृदयद्वयमुत्तमाङ्गमिति। कण्ठमूर्धद्वयं तुङ्गाङ्गमिति, एवं कल्पयन्ति
रूपकाराः । इति पुरुषस्य दशाङ्गम्। पुरुषो दशाङ्गुलमितेि भावः। ।
पूर्वं वेदेन उक्तम् । स हि ब्रह्मणो विकल्परूपेण प्रत्यक्षं भवति' ।। 8

दशाङ्गयूपे रूपे इति तस्य भावः समानः ॥ ४.२५ ॥

एतदर्थं कोष्ठकान् कल्पयन्ति रूपकाराः ।

ब्रह्मकीलाधारः, ब्रह्मकीलेन9 सह क्षेत्रं विभाजय ।४.२६।।

ब्रह्मकीलमध्यगरेखया द्वैतांशे ब्रह्मकीलेन सह क्षेत्रं विभाजयन्ति। यथा धरायां मेरुकीलं, पशौ पृष्ठास्थि, वृक्षे सुषीरं, जीवे जीवात्मा, तथा रेखा
हि सत्यम् । रेखा रूपस्य कारणम् । ततो रेखायो दशकोष्ठकान् विभाजय उत्तिष्ठक्रमेण, येन समोपक्षेत्राणि लभेरन् ।
कति कति खण्डितानि भवन्ति । न्यूनातिरिक्तार्थं कारुज्ञा आद्यत्रिषण्णवक्षेत्राणि विभाजयन्ति । द्वौ द्वाविति क्रमेण दशकोष्ठकेषु चत्वारः खण्डिताः षडखण्डिताश्च । एवं दशकोष्ठका भुवनसंख्यका भवन्ति । यथा पिण्डे ब्रह्माण्डं कल्पयन्ति ऋषयः । यथाऽथर्ववेदिनां श्राद्धे !0 पितृयज्ञे पिण्डार्थं वज्रेण मण्डलमाचारन्ति ।
वैश्वदेवे तथा दशकोष्ठकानाचरन्ति11 । एवं क्रमेण पादः तदुत्तरे पादपर्वतेऽर्धांशः तदुत्तरे एकांशदण्डाः । तदुत्तरे गुल्फोऽर्धखण्डितांशः ।
- - - - - - -- - - - -- - - -- - -- - - - - -
'पञ्च प्रयाजाः दैवपुजने, आाज्यभागः, प्रधानयागः, स्विष्टकृत्, प्राशित्रावदानम्,
शंयुवाक्, पत्नीसंयाज इति दशकर्मभेदे दशयज्ञाङ्गसंयोगशीर्षरूपेण विष्णुक्रमः तस्य दशाङ्गस्य भावः | :
8 प्रत्यक्षदर्शनं सम्भवति ।
9ब्रह्मकील इति मध्यरेखा, ग ।
10अष्टकाश्राद्धे इन्द्रः विश्वेदेवाः प्रजापतिः, सप्तपुरुषार्थः पिप्पलादीयब्राह्मणाः ।
11যথা- मनुष्यगर्भान्तरे भ्रूणे कृमि-मज्जा-अस्थि-मांस-मेद-स्नायु रक्त - केशात्मक - शिराछन्दे - चर्मादि दशास्तरणयुक्तं दशकोष्ठकं कल्पयन्ति शिशुवेदोपनिषदि - आाथर्वणीयाः (घः, ड) ।
- - - -- - - - -- - - - -- - -- - - - -- - -
“दशाङ्गे उदितक्रिया, ग ।
"प्रकटो भवति, ग ।
एतद् दशकोष्ठमाचरन्ति, ख ।
“जीवसत्ता, ग ।
- - -- -- - -- - -- - - -- - -- - -- --

183
तदुत्तरे जानुद्व्यर्धांशसंयोगः । तदुत्तरे कटिरर्धांशखण्डितांशः ।
तदुत्तरे द्व्यर्धसंयोगे सम्मुखे मृणालमूलाकृतिर्विलाकारं नाभिः । तदुत्तरे
उदरमेकार्धसंयोगे पीनाङ्गमिति । तदुत्तरेऽष्टावधि हृदयम् । तदुत्तरे कण्ठः
अर्धखण्डितांशे।
तदुत्तर एकार्धसंयोगे मूर्धेत्युत्तमाङ्गम्। इदं दशकोष्ठकेषु रूपं चाक्षुषं भवति।

अङ्गादङ्गं सञ्जायते ॥ ४.२७ ॥

इयं हि रचना । स हि न्यासः । अध ऊध्वविधिं गच्छन्ति दिव्यतांं’ क्रमेणोत्थितकरपादादयः प्रविधाङ्गानि।

रेखासंयोगे तत्क्षेत्रेऽङ्गानि सौभगानि भवन्ति ॥ ४.२८ ॥

अग्निरेखायामुत्थिताङ्गानि। अप्पार्श्वगरेखायां स्थिराङ्गानि। मारुतरेखायां वेगप्रदर्शनाङ्गानि। एतन्निपातनेन रूपाणि मन आकर्षयन्ति। तदुत्तरम् -

क्षेत्रनेमिं रोधयेदिति ॥ ४.२९ ॥

रोधनरेखाचतसृणां मध्ये कोष्ठकानाचरन्ति स्थापकाः । एवं क्रमेण शिल्पकाश्यपाः रूपार्थं खिलपञ्जरं ध्येयमिति व्याख्यानं वास्तूद्गीथत्रय
प्रबोधनार्थ भगवान् पिप्पलादो वव्रे ।
इति वाक्कायमनोमार्गेण पिप्पलादीयवास्तुसूत्रे सम्प्रदानचर्चाक्षेण मुनि श्रो तारमुपनिधानेन अङ्गोत्तिष्ठादमानबोधनमिति चतुर्थप्रपाठकः
- - -- - - -- - - - -- - -- - - -- - - - - -- - - -

    • यथा शतपथे स्वर्णपुरुषरूपेण प्रजापतिरूपं कल्पयन्ति होतारः षष्ठाध्याये उक्तम् ।
  • दिवं, क । दिव्यभावं, ख ।

 "क्षेत्रनेमिरोधनार्थमिति पातनसूत्रचत्वारं ज्यायमिति । ख, ग ।
- - - -- - - -- - - -- - - - -- - -- - - --- - -