याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/आशौचप्रकरणम्

विकिस्रोतः तः
Jump to navigation Jump to search

ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः ।
आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः । । ३.१ । ।

यमसूक्तं तथा गाथा जपद्भिर्लौकिकाग्निना ।
स दग्धव्य उपेतश्चेदाहिताग्न्यावृतार्थवत् । । ३.२ । ।

सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः ।
अप नः शोशुचदघं अनेन पितृदिङ्मुखाः । । ३.३ । ।

एवं मातामहाचार्य प्रेतानां उदकक्रिया ।
कामोदकं सखिप्रत्ता स्वस्रीयश्वशुरर्त्विजाम् । । ३.४ । ।

सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा । । ३.५ । ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः ।
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः । । ३.६ । ।

कृतोदकान्समुत्तीर्णान्मृदुशाद्वलसंस्थितान् ।
स्नातानपवदेयुस्तानितिहासैः पुरातनैः । । ३.७ । ।

मानुष्ये कदलीस्तम्भ निःसारे सारमार्गणम् ।
करोति यः स सम्मूढो जलबुद्बुदसंनिभे । । ३.८ । ।

पञ्चधा संभृतः कायो यदि पञ्चत्वं आगतः ।
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना । । ३.९ । ।

गन्त्री वसुमती नाशं उदधिर्दैवतानि च ।
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । । ३.१० । ।

श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । । ३.११ । ।

इति संश्रुत्य गच्छेयुर्गृहं बालपुरःसराः ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः । । ३.१२ । ।

आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । । ३.१३ । ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनां अपि ।
इच्छतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमान् । । ३.१४ । ।

आचार्यपितृउपाध्यायान्निर्हृत्यापि व्रती व्रती ।
संकटान्नं च नाश्नीयान्न च तैः सह संवसेत् । । ३.१५ । ।

क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्क्षितौ ।
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् । । ३.१६ । ।

जलं एकाहं आकाशे स्थाप्यं क्षीरं च मृन्मये ।
वैतानाउपासनाः कार्याः क्रियाश्च श्रुतिचोदनात् । । ३.१७ । ।

त्रिरात्रं दशरात्रं वा शावं आशौचं इष्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि । । ३.१८ । ।

पित्रोस्तु सूतकं मातुस्तदसृग्दर्शनाद्ध्रुवम् ।
तदहर्न प्रदुष्येत पूर्वेषां जन्मकारणात् । । ३.१९ । ।

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् । । ३.२० । ।

हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ।
प्रोषिते कालशेषः स्यात्पूर्णे दत्त्वोदकं शुचिः । । ३.२१ । ।

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु ।
त्रिंशद्दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः । । ३.२२ । ।

आदन्तजन्मनः सद्या अचूडान्नैशिकी स्मृता ।
त्रिरात्रं आव्रतादेशाद्दशरात्रं अतः परम् । । ३.२३ । ।

अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ।
गुर्वन्तेवास्यनूचानं आतुलश्रोत्रियेषु च । । ३.२४ । ।

अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ।
निवासराजनि प्रेते तदहः शुद्धिकारणम् । । ३.२५ । ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् ।
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक्शुचिः । । ३.२६ । ।

महीपतीनां नाशौचं हतानां विद्युता तथा ।
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः । । ३.२७ । ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् ।
सत्रिव्रतिब्रह्मचारि दातृब्रह्मविदां तथा । । ३.२८ । ।

दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि हि कष्टायां सद्यः शौचं विधीयते । । ३.२९ । ।

उदक्याशुचिभिः स्नायात्संस्पृष्टस्तैरुपस्पृशेत् ।
अब्लिङ्गानि जपेच्चैव गायत्रीं मनसा सकृत् । । ३.३० । ।

कालोऽग्निः कर्म मृद्वायुर्मनो ज्ञानं तपो जलम् ।
पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः । । ३.३१ । ।

अकार्यकारिणां दानं वेगो नद्याश्च शुद्धिकृत् ।
शोध्यस्य मृच्च तोयं च संन्यासो वै द्विजन्मनाम् । । ३.३२ । ।

तपो वेदविदां क्षान्तिर्विदुषां वर्ष्मणो जलम् ।
जपः प्रच्छन्नपानानां मनसः सत्यं उच्यते । । ३.३३ । ।

भूतात्मनस्तपोविद्ये बुद्धेर्ज्ञानं विशोधनम् ।
क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता । । ३.३४ । ।