बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९० (संक्रान्तिजन्मशान्त्यध्यायः)

विकिस्रोतः तः
← अध्यायः ८९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ९१ →

अथ संक्रान्तिजन्मशान्त्यध्यायः ॥ ९०॥


घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा ।
मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ १॥

संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् ।
शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ २॥

नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये ।
गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ ३॥

स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् ।
पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ ४॥

तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम ।
पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ ५॥

पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा ।
धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ ६॥

राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् ।
तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ ७॥

पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् ।
कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ ८॥

प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् ।
अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ ९॥

चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् ।
प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ १०॥

ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् ।
त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ ११॥

उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् ।
आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ १२॥

उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ।
मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ १३॥

अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् ।
अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ १४॥

कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।
स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ १५॥

त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् ।
अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ १६॥

अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः ।
मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ १७॥

ततः स्विष्टकृतं हुत्वाअभिषेकं च कारयेत् ।
ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ १८॥