बृहत्पाराशरहोराशास्त्रम्/अध्यायः ८८ (भर्दावमदुर्योगशान्त्यध्यायः)
दिखावट
(अध्यायः ८८ (भर्दावमदुर्योगशान्त्यध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ८७ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ८९ → |
अथ भर्दावमदुर्योगशान्त्यध्यायः ॥ ८८॥
अथाऽहं संप्रवक्ष्यामि भद्रायामवमे तथा ।
व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ १॥
जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज ।
प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ २॥
दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही ।
पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ ३॥
शङ्करस्याऽभिषेकं च घृतदीपं शिवालये ।
आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ ४॥
हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः ।
ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ ५॥