विष्णुधर्मोत्तरपुराणम्/खण्डः ३/अध्यायाः १०१-१०५

विकिस्रोतः तः
← अध्यायाः ९६-१०० विष्णुधर्मोत्तरपुराणम्
अध्यायाः १०१-१०५
वेदव्यासः
अध्यायाः १०६-११० →

3.101
मार्कण्डेय उवाच ।।
अथार्चाशौचानन्तरं पवित्रकस्यार्चायाः कुर्यात् ।।
तत्र कमलकर्णिकायां ध्रुवा द्यौरिति मन्त्रेण दक्षिणशिरस्कं प्राक्छिरसं वा शय्यायां स्थापयेत्।।
अतः पञ्चवर्णैः पञ्चभिरास्तरणैरास्तरयेत्।
शुद्धावत्यश्चोदीरयेत्।
ततो युवा सुवासा इति प्रच्छादनपटं दद्यात् ।।
गण्डोपधानं च ।
ततो गर्भमयं सप्तशीर्षमनन्तं नागं कुर्यात् ।
तं च शयने स्थापयेत् ।।
ततो जीवस्यावाहनं कुर्यात शिवसंकल्पं चोदीरयेत् ।
ततस्त्वनन्तस्यावाहनं प्रयोजयेत् ।
ततोर्घ्यपाद्यमाचमनीयमनुलेपनमाल्यदीपधूपमधुपर्कप्रापणकमात्राभिः प्रत्येकं सावित्रेणानन्तरमर्चयेत् ।।
ततः सर्पसाम ।
नमोस्तु सर्पेभ्य इति योगेयोगेति मन्त्रं चोदीरयेत् ।।
अनन्तमाहात्म्यं च वा वदेत् ।।
ततो ध्रुवा द्यौरिति मन्त्रेणानन्तोपरि श्रीभगवदर्चा पवित्रके स्थापयेत् ।।
ततो जीवस्यावाहनं कुर्यात् ।
शिवसङ्कल्पं जपेत् ।
ततो भगवन्तमावाहयेत् ।
ततः सर्वे भून्यस्तजानवः प्रणामं कुर्युः आगतश्च भगवानिति ब्रूयुः ।
ततः शङ्खपटहभेरीजयशब्दैः पूजयेयुः ।
ततोऽर्घ्यपाद्याचमनीय स्नानीयानुलेपनमाल्यधूपदीपमधुपर्कप्रापणकमात्रादानैः श्रीभगवन्तं प्रत्येकं सवित्रेणार्चयेत् ।
ततः स्वस्ति न इन्द्र इति जपेत् ।
ततो युवासुवासा इति श्रीभगवन्तं महता वासोयुगेनाच्छादयेत् युञ्जते मन इति पुष्पैरवकिरेत् ।
बोधश्चमा प्रतिबोधश्चेति सिद्धार्थैरवकिरेत् ।
प्रादुरभावानिति वाचयेत् ।
एवमधिवासनं कार्यम् ।।
अधिवासिते च भगवति अर्चास्थण्डिले वेदिं प्रतिष्ठाप्य आसनानि पादपीठानि च अर्चाशौचविधानेन वेदिमासनानि च शोधयेत् ।
ततः शङ्करगीतोक्तविधिना इज्यां सात्त्वतः कुर्यात् ।
इज्यासमकालमेव होमस्थण्डिले होता होमं वेदीशौचमासनानां सकृदेव विधत्ते ।।
इज्याहोमो तु कर्तव्यो प्रत्यहं त्वधिवासिते ।
पूजनं गीतनृत्यैश्च प्रतिष्ठा यावदागता ।
अधिवासनमेतत्ते मया सम्यगुदाहृतम् ।। १ ।।
इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० अधिवासनवर्णनो नामैकाधिकशततमोऽध्यायः .।।१०१।।
3.102
।। मार्कण्डेय उवाच ।।
आवाहयाम्यहं जीवं बीजं सर्वगतं प्रभुम् ।।
पञ्चभावस्थितं देहे पञ्चधा च स्थितं पुनः ।। १ ।।
वायव्येन तु भावेन पञ्चधावस्थितं पुनः ।।
आग्नेयेन तु भावेन पञ्चधावस्थितं तथा ।। २ ।।
वारुणेन च भावेन पञ्चधावस्थितं प्रभुम् ।।
भूतात्मकत्वेन तथा पञ्चधावस्थितं पुनः ।। ३ ।।
परमात्मानमत्युग्रमनुग्रं जगदीश्वरम् ।।
सर्वगं सर्वधातारं सर्वेशमपराजितम् ।। ४ ।।
अत्यर्थसूक्ष्मं वरदं क्षेत्रज्ञं प्रभुमीश्वरम् ।।
।भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतम् ।। ५ ।।
गुणाधारं जगद्योनिं महद्भ्योपि महत्तरम् ।।
जीवदेव त्वमभ्येहि प्रविशार्चामिमां स्वयम् ।। ६ ।।
कुरुष्व देवदेवेश सजीवं च तथानघ ।।
इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ।। ७ ।।
इति श्रीवि० ध० तृ० ख० मा० व० सं० जीवावाहनं नाम द्वयुत्तरशततमोऽध्यायः ।। १०२ ।।
3.103
वज्र उवाच ।।
आवाहनानि मे ब्रूहि देवतानां भृगूत्तम ।।
भवन्त्यावाहिता मन्त्रैर्यस्मात्सन्निहिताः सुराः ।। १ ।।
मार्कण्डेय उवाच ।।
आवाहनानि ते वच्मि देवानां यदुनन्दन ।।
अथोक्तवर्जं केषांचित्केषांचित्पुनरेव ते ।। २ ।।
सर्वस्यावाहनस्यान्ते श्लोकार्धं परिकीर्तितम् ।।
इदमर्घ्यं च पाद्यं च धूपोऽयं प्रतिगृह्यताम् ।। ३ ।।
आवाहयाम्यहं देवौ नासत्यौ सूर्यनन्दनौ ।।
आगच्छेतां महाभागौ वरदौ चाश्विनौ शुभौ ।। ४ ।।
वसूनावाहयिष्यामि देवानष्टौ वरप्रदान् ।।
आयान्तु वरदा देवा वसवः पापनाशनाः ।। ५ ।।
विश्वानावाहयिष्यामि देवानद्भुततेजसः ।।
आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ।। ६ ।।
आवाहयाम्यङ्गिरसो देवानद्भुततेजसः ।।
आयान्त्वङ्गिरसो देवा महाबल पराक्रमाः ।। ७ ।।
रुद्रानावाहयिष्यामि त्रिनेत्रान्वृषवाहनान् ।।
आयान्तु वरदा रुद्रास्त्रैलोक्यवरदाः शुभाः ।। ८ ।।
आवाहयिष्याम्यादित्यान् वरदान्दीप्ततेजसः ।।
आयान्तु वरदाः सूर्याः सर्वे ते तेजसोल्बणाः ।। ९ ।।
भृगूनावाहयिष्यामि देवान्दीप्ततपोधनान् ।।
आयान्तु भृगवो देवा वरदा दीप्ततेजसः ।। 3.103.१० ।।
सुरानावाहयिष्यामि मरुतस्तेजसाधिकाः ।।
आयान्तु मरुतो देवा वरदा भुवनेश्वराः ।। ११ ।।
सुरानावाहयिष्यामि सर्वानेव दिवौकसः ।।
आगच्छन्तु सुराः सर्वे मन्त्रपूजाभिलाषिणः ।। १२ ।।
दैत्यानावाहयिष्यामि महाबलपराक्रमान् ।।
आयान्तु दैत्या धर्मिष्ठा देवदेवानुगा मम ।। १३ ।।
आवाहयिष्ये गन्धर्वान्रूपद्रविणसंयुतान् ।।
आयान्तु सर्वगन्धर्वा वरदाः कामरूपिणः ।। १४ ।।
यक्षानावाहयिष्यामि धनाध्यक्षसमन्वितान् ।।
आयान्तु वरदा यक्षास्त्रैलोक्यविदिता मम ।। १५।।
आवाहयिष्यामि तथा राक्षसान्विविधायुधान्।।
आयान्तु राक्षसा वीरा देवदेवानुयायिनः ।। १६ ।।
आवाहयिष्यामि तथा विद्याधरगणानहम् ।।
विद्याधराः समायान्तु विविधाः गगनङ्गमाः।।१७।।
आवाहयिष्यामि तथा किन्नरान्देवगायनान्।।
आयान्तु किन्नराः सर्वे सुस्वरास्तु सुलोचनाः ।। १८।।
नागानावाहयिष्यामि भुजगान्सर्पगोचरान।।
आयान्तु वरदा नागास्त्रैलोक्यविदिता मम ।। १९ ।।
अहमावाहयिष्यामि तथैवाप्सरसः शुभाः ।।
समायान्तु महाभागा देवयोषा ममोज्ज्वलाः ।। ।।। 3.103.२० ।।
अहमावाहयिष्यामि सर्वास्त्रिदशपत्नयः ।।
आयान्तु वरदाः सर्वास्तप्तचामीकरप्रभाः ।। २१ ।।
आवाहयिष्यामि तथा वरदा देवमातरः ।।
आयान्तु वरदाः सर्वा सुवेशाः सुखदाः शिवाः ।। २२ ।।
पितॄनावाहयिष्यामि सूक्ष्मरूपधरानहम् ।।
आयान्तु पितरः सर्वे गणस्थास्तु पृथक्पृथक् ।। २३ ।।
आवाहयिष्यामि तथा सुपर्णान्बलवत्तरान् ।।
सुपर्णास्तु समायान्तु विष्णुतेजोपबृंहिताः ।। २४ ।।
आवाहयामि वरदान्सर्वानेव प्रजापतीन् ।।
प्रजाध्यक्षाः समायान्तु त्रैलोक्यपरिपालकाः ।। २५ ।।
आवाहयामि देवेन्द्रान्देवान्भुवननायकान् ।।
आयान्तु देवनाथा मे वरदाः कामरूपिणः ।। २६ ।।
मनूनावाहयिष्यामि प्रभुत्वे जगतः स्थितान् ।।
आयान्तु मनवः सर्वे तपसा नष्टकिल्बिषाः ।। २७ ।।
आवाहयिष्याम्योषध्यः सर्वप्राणिधराः शुभाः ।।
ओषध्यश्च समायान्तु सर्वाः कामप्रदाः शुभाः ।। २८ ।।
ऋषीनावाहयिष्यामि तपसा द्योतितप्रभान् ।।
आयान्तु ऋषयः सिद्धाः सर्वे मे दीप्ततेजसः ।।
शैलानावहायिष्यामि सर्वौषधिसमन्वितान् ।। २९ ।।
आयान्तु भूधराः शैलाः सर्वे मे स्थावरेश्वराः ।।
द्रुमानावाहयिष्यामि नानारूपधरानहम ।। 3.103.३० ।।
द्रुमाः सर्वे समायान्तु मनोमारुतरंहसः ।।
आवाहयिष्यामि तथा पातालान्सर्वगोचरान् ।। ३१।।
आयान्तु सर्वे पाताला दैत्यस्थाना ह्यविन्दिताः ।।
द्वीपानावाहयिष्यामि सर्वानद्भुतधारिणः ।। ३२ ।।
आयान्तु द्वीपा लोकानां स्थानभूता जगत्प्रियाः ।।
लोकानावाहयिष्यामि स्थानभूतान्मनोहरान् ।। ३३ ।।
आयान्तु लोकाः सकलाः सर्वे मे भूतभावनाः ।।
आवाहयिष्यामि तथा समुद्राञ्जगतः प्रियान् ।। ३४ ।।
समुद्रा मे समायान्तु रसाधारा जगत्प्रियाः ।।
वर्षानावाहयिष्यामि सर्वभूताश्रयानिह ।। ३५ ।।
आगच्छन्तु तथा चेह वर्षाः सर्वमनोहराः ।।
आवाहयिष्यामि तथा चतुरः सागरानहम् ।। ३६ ।।
सागराः शीघ्रमायान्तु सर्वे तोयधरा मम ।।
नदीस्त्वावाहयिष्यामि वरदा लोकमातरः ।। ३७ ।।
आयान्तु वरदा नद्यः सर्वपापहराः शुभाः ।।
आवाहयिष्यामि तथा सर्वानभ्रगणानहम् ।। ३८ ।।
आयान्त्वभ्रा महाभागाः सर्वे चाशुचरा मम ।।
आवाहयिष्यामि तथा पिशाचान्सर्वगानहम्।।
पिशाचास्तु समायान्तु सर्वे मे कामरूपिणः।।३९।।
आवाहयिष्यामि तथा स्कन्दस्य पार्श्वगानहम् ।। 3.103.४० ।।
नानारूपाः समायान्तु स्कन्दस्य पार्श्वगा मम ।।
आवाहयिष्यामि तथा देवानां पार्षदानहम् ।। ४१ ।।
नानारूपाः समायान्तु देवानां पार्षदा मम ।।
आवाहयिष्यामि तथा हरस्य पार्षदानहम् ।।
नानारूपाः समायान्तु हरस्य पार्षदा मम ।। ४२ ।।
आवाहयिष्यामि तथा मातरो लोकमातरः ।। ४३ ।।
आयान्तु मातरो देव्यो वरदाः सर्वगाः शुभाः ।।
ग्रहानावाहयिष्यामि सर्वलोकेश्वरानहम् ।। ४४ ।।
ग्रहाः सर्वे समायान्तु दीप्ता भुवननायकाः ।।
आवाहयिष्यामि तथा नक्षत्रान्वरदानहम् ।। ४५ ।।
आयान्तु सर्वे नक्षत्राः सर्वे भुवननायकाः ।।
दिशस्त्वावाहयिष्यामि प्रागाद्याः सुमनोहराः ।। ४६।।
आगच्छन्तु दिशः सर्वाः सर्वभूतसुखावहाः।।
वीथ्यस्त्वावाहयिष्यामि दिव्या नवग्रहाश्रयाः।। ४७ ।।
आयान्तु वीथ्यः सकला ग्रहनक्षत्रमण्डिताः ।।
अहमावाहयिष्यामि मुहूर्तान्सूक्ष्मरूपिणः ।। ४८ ।।
मुहूर्ताः शीघ्रमायान्तु कालस्यावयवाः शुभाः ।।
ऋतूनावाहयिष्यामि षडहं भुवनेश्वरान् ।। ४९ ।।
आयान्तु ऋतवः सर्वे जगच्चक्रप्रवर्तकाः ।।
आवाहयिष्यामि तथा पञ्चसंवत्सरानहम्।।3.103.५०।।
आयान्तु वत्सराः सर्वे कालचक्रप्रवर्तकाः ।।
युगानावाहयिष्यामि चतुरो दीप्ततेजसः।।५१।।
आगच्छन्तु युगाः सर्वे चतुर्मूर्तिव्यवस्थिताः ।।
अहमावाहयिष्यामि मनूंश्चैव चतुर्दश।।५२।।
मन्वन्तराः समायान्तु त्रिदशावधिसंस्थिताः ।।
कालमावाहयिष्यामि देवं सावयवं शुभम् ।।५३।।
आगच्छ भगवन्काल देवदेव जनार्दन ।।
देवानावाहयिष्यामि यज्ञमूर्तिधरानहम् ।।५४।।
देवाः सर्वे समायान्तु वरदा बहुरूपिणः ।।
ग्रहमावाहयिष्यामि विद्यास्थानान्यशेषतः।।५५।।
सर्वाणीह समायान्तु लोकानां हितकाम्यया।।
शास्त्रानावाहयिष्यामि शान्तान्दर्शनवत्थितान्।।५६।।
शस्त्राणि शीघ्रमायान्तु चमूनां मण्डनं परम्।।
अस्त्राण्यावाहयिष्यामि त्रैलोक्यस्य हितानि वै।।५७।।
सर्वे चेह समायान्तु धर्मसेतुप्रवर्तकाः ।।
अहमावाहयिष्यामि वेदशास्त्राण्यनेकशः ।। ५८ ।।
वेदशास्त्राः समायान्तु जगद्रक्षणतत्पराः ।।
अहमावाहयिष्यामि सर्वांस्त्रिदशवाहनान् ।। ५९ ।।
इह सर्वे समायान्तु सर्वे त्रिदशवाहनाः ।।
नागानावाहयिष्यामि देवपुत्रान्महाबलान ।। 3.103.६० ।।
देवोपवाह्या नागेन्द्राः शीघ्रमायान्तु सत्वराः ।।
निधीनावाहयिष्यामि शङ्खपद्मपुरोगमान् ।।
आयान्तु निधयः सर्वे सर्वलोकैकभावना ।।६१ ।।
आह्वानकार्यं यदि सङ्गमध्यादेकस्य कार्यं यदुवंशनाथ ।।
कार्यादथेहा तु तदेकवत्स्यादाह्वानमन्त्रस्य यथानुरूपाः ।। ६२ ।।
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रतिष्ठाकल्पे देवसंवाह्वानं नाम त्र्युत्तरशततमोऽध्यायः ।। १०३ ।।
3.104
मार्कण्डेय उवाच ।।
आवाहयाम्यहं देवं ब्रह्माणं परमेष्ठिनम् ।।
जगतोऽस्य समुत्पत्तिस्थितिसंहारकारणम् ।। १ ।।
चतुर्वेदं चतुर्वक्त्रं चातुर्वर्ण्यप्रभुं प्रभुम् ।।
चतुराश्रमगोप्तारं वरदं भूतभावनम् ।। २ ।।
पद्मयोनिं जगद्योनिं यज्ञयोनिं जगत्पतिम् ।।
आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम् ।। ३ ।।
यज्ञेशं यज्ञमूर्तिं च त्रैलोक्यस्यैककारणम् ।।
सर्वगं नारदं सौम्यं परमं परमेश्वरम् ।। ४ ।।
भूतभव्यभवन्नाथं योगज्ञेयं सनातनम् ।।
आगच्छ भगवन्ब्रह्मन्यजमानस्य वृद्धये ।। ५ ।।
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ।।
आवाहयाम्यहं देवं देवदेवं हुताशनम् ।।६ ।।
जगतोऽस्य समुत्पत्तिस्थिति संहारकारकम् ।।
देवमूर्तिं तदाधारं सर्वदेवमुखं प्रभुम् ।। ७ ।।
पिङ्गेक्षणं पिङ्गजटं धूमकेतुं विभावसुम् ।।
शुकयानगमं देवं सर्वाभरणभूषितम् ।। ८ ।।
सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ।।
तेजोमूर्तिं दुराधर्षं सप्तजिह्वं महाबलम् ।। ९ ।।
सप्तार्चिषं सप्तमुनिं समित्सप्तकमच्युतम् ।।
विष्णोरंशमनिर्देश्यं भानवं जातवेदसम् ।। 3.104.१० ।।
पावनं पुष्टिदं सौम्यं भक्तानां भूतिवर्धनम् ।।
याजकं यजमानं च पुष्ट्या विभज सर्वशः ।। ११ ।।
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ।।
आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ।। १२ ।।
सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्तितः ।।
प्रविश्यार्चामिमां सम्यङ् मया भक्त्या विनिर्मिताम् ।। १३ ।।
इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ।।
ध्रुवमावाहयिष्यामि सर्वदेव गणेश्वरम् ।। १४ ।।
निबद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः ।।
एहि मे ध्रुव देवेश केशवाचिन्त्यविक्रम ।। १५ ।।
सर्वग्रहगणाध्यक्ष सर्वलोकनमस्कृत ।।
आवाहयिष्याम्याकाशं विमानशतमण्डितम् ।। १६ ।।
तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः ।।
एहि मे भगवन्सौम्य निरालम्ब नभस्तल ।। १७।।
अप्रमेयातिगम्भीर विमानशतमण्डित ।।
ऊर्ध्वमावाहयिष्यामि चानन्तां महतीं दिशम् ।। १८ ।।
अप्रमेयां निरालम्बां चन्द्रसूर्यांशुवर्जिताम् ।।
आगच्छेह महाभागे सततं सिद्धसेविते ।। १९ ।।
अनन्ते विपुले देवि निर्मले हितकारिणि ।।
आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ।। 3.104.२० ।।
नागदैत्योरगगणैः सततं च निषेविताम् ।।
गम्भीरे विपुले भीमे बहुस्थानातिमण्डिते ।। २१ ।।
एहि मे रत्नबहुले बहुरूपे महाबले।।
आवाहयिष्ये वरदं सहस्रांशुं दिवाकरम् ।।
तेजोमूर्तिं दुराधर्षं भक्तानामभयप्रदम्।।
एहि देव जगन्नाथ ऋक्सामयजुषां पते ।।२३।।
त्रैलोक्यमण्डले दीप सर्वव्याधिविनाशन ।।
आवाहयाम्यहं देवमादित्यमुदकेशयम् ।। २४ ।।
स्निग्धवैदूर्यसङ्काशं वरुणं सुमहाद्युतिम् ।।
एहि देव जलाध्यक्ष यादोगणमहेश्वर ।। २५ ।।
नागदैत्योरगगणैः सततं सेविताच्युत ।।
आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ।। २६ ।।
ओषधीशं द्विजाध्यक्षं नयनानन्दकारकम ।।
एहि मे भगवञ्चन्द्र शशाङ्क मृगलाञ्छन ।। २७ ।।
भक्तानुकम्पिन्सततं सर्वनक्षत्रपूजित ।।
भौममावाहयिष्यामि तेजोमूर्तिं दुरासदम् ।। २८ ।।
भद्रमूर्तिमनिर्देश्यं वक्त्रं रुधिरसप्रभम् ।।
एहि मे भगवन्भौम अङ्गारकसमप्रभ ।। २९ ।।
त्वयि सर्वं समायत्तं भूतलेऽस्मिञ्शुभाशुभम् ।।
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम् ।। 3.104.३० ।।
देवारिसेनामथनं पार्वत्यानन्दवर्धनम ।।
एहि देव कुमाराद्य महिषासुरतस्कर ।। ३१ ।।
कार्तिकेय जगन्नाथ मयूरवरवाहन ।।
बुधमावाहयिष्यामि बोधनं जगदीश्वरम् ।। ३२ ।।
चान्द्रिं ग्रहगणाध्यक्षं तेजोमूर्तिं दुरासदम् ।।
एहि शीतांशुजाचिन्त्य जगज्जिष्णो जनार्दन ।। ३३ ।।
महाबल महाभाग महाबाहो महाद्युते ।।
विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम् ।। ३४ ।।
अतसीकुसुमश्यामं पीतवाससमच्युतम् ।।
एहि मे देवदेवेश प्रजानिर्माणकारक ।। ३५ ।।
नारायण सुदुष्पार महेष्वास धनुर्धर ।।
शक्रमावाहयिष्यामि देवं सुरगणेश्वरम् ।। ३६ ।।
वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम् ।।
एहि देव सहस्राक्ष देवारिबलसूदन ।। ३७।।
ऐरावतग धर्मज्ञ शचीहृदयनन्दन ।।
जीवमावाहयिष्यामि देवेश्वरपुरोहितम् ।। ३८ ।।
बृहस्पतिं बृहद्वाक्यं वेदवेदांगपारगम् ।।
एहि जीव महाभाग जीवभूत महीतले।।३९।।
सम्यग्वृद्धिस्तवायत्ता सततं भूमिवर्धन ।।
देवीमावाहयिष्यामि पार्वतीं वरदामुमाम् ।।3.104.४०।।
हरस्य दयितां भार्यां चार्वङ्गीं भूतिवर्धिनीम् ।।
एहि देवि जगन्मातर्मेनाहृदयनन्दिनि।।४१।।
पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये।।
शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम्।।४२।।
नित्यं सर्वधनाध्यक्षं तपसा द्योतितप्रभम ।।
एहि शुक्र महाभाग षोडशार्चे वरप्रद।।४३।।
प्रभुस्त्वं वरदो नित्यं वर्षावर्षस्य निग्रहे।।
आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम् ।। ४४ ।।
भक्तानुकंपिनं देवं प्रजानिर्माणकारकम् ।।
एहि देव प्रजाध्यक्ष प्रजानिर्माणकारक ।।४५।।
त्वयि देव समायत्तं प्रजानामभवोद्भवम् ।।
सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम् ।। ४६ ।।
तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ।।
एहि तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक ।।४७।।
त्वयि सर्वं ममायत्तं राज्ञां भूमौ शुभाशुभम् ।।
आवाहयाम्यहं देवं गजवक्त्रं गणेश्वरम् ।।४८।।
विघ्नेशं विघ्नहर्तारं पार्वती हृदयप्रियम् ।।
एहि देव गणाध्यक्ष लम्बोदर महाभुज ।। ४९ ।।
कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम्।।
राहुमावाहयिष्यामि दैत्येंद्रं ग्रहतां गतम् ।।3.104.५०।।
केशवाप्तवरं वीरं तपसा दग्धकिल्बिषम् ।।
एह्येहि दैत्यप्रवर वरदाचिन्त्यविक्रम ।। ५१ ।।
तमोमूर्ते दुराधर्षं विपरीताम्बराम्बर ।।
आवाहयाम्यहं देवं विश्वकर्माणमच्युतम् ।। ५२ ।।
सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम् ।।
एहि देववराचिन्त्य सर्वशिल्पप्रवर्तक ।। ५३ ।।
एहि देववराचिन्त्य सदा शिल्पप्रवर्तक ।।
त्वयि सर्वेश सर्वेषां कर्मणामाश्रिता गतिः ।। ५४ ।।
केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम् ।।
ब्राह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम् ।। ५५ ।।
धूमकेतो इहाभ्येहि हुताशनसमप्रभ।।
शिखाकरालविकच पूजकार्तिविनाशन।।५६।।
आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम् ।।
एहि साधारणे देवि ज्येष्ठे दक्षसुते शुभे।।५७।।
आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम् ।।
एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने।।५८।।
आवाहयामि वरदामिल्विलां शशिवल्लभाम् ।।
एहि मे इल्विले देवि मृदुकर्मसु शोभने।।५९।।
रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम् ।।
एहि शङ्कर सर्वात्मन्महागणगणेश्वर ।।3.104.६०।।
आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञितम् ।।
एह्यार्द्रे चारुसर्वाङ्गि दारुणे रुद्रसम्मिते ।।६१ ।।
आवाहयिष्यामि दितिं तपसा दग्धकिल्बिषाम् ।।
आदित्यारणि धर्मज्ञे एहि देवि महाव्रते ।। ६२ ।।
ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम् ।।
पुनर्वसौ इहागच्छ चरकर्मप्रसाधक ।। ६३ ।।
तिष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञितम ।।
एहि पुष्य महाभाग पोषं वर्धय सर्वतः ।। ६४ ।।
सर्पानावाहयिष्यामि त्रैलोक्यानन्तगोचरान् ।।
आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु ते ।। ६५ ।।
आवाहयामि चाश्लेषां भक्तानां श्रीविवर्धिनीम् ।।
आश्लेषे त्वमिहाभ्येहि दारुणे विजयप्रदे ।। ६६ ।।
पितॄनावाहयिष्यामि मर्त्यमूर्तिधरानहम् ।।
आयान्तु पितरः शीघ्रं सुधाकव्यभुजोऽव्ययाः ।। ६७ ।।
मघामावाहयिष्यामि उग्रनक्षत्रमञ्जसा ।।
एहि मे सुभगे देवि सर्वाघविनिषूदनि ।। ६८ ।।
भगमावाहयिष्यामि भक्तसौभाग्यवर्धनम्।।
एहि देववराचिन्त्य भक्तसंकटनाशक ।। ६९ ।।
ऋक्षमावाहयिष्यामि पूर्वफल्गुनसंज्ञकम् ।।
एहि भागि महाभाग उग्रकर्मप्रसाधक ।। 3.104.७० ।।
आवाहयिष्याम्यर्यम्णमादित्यं तेजसां निधिम् ।।
अर्यमंस्त्वं समभ्येहि भक्तसङ्कटनाशन ।। ७१ ।।
ऋक्षमावाहयिष्यामि उत्तराफल्गुनीं शुभाम् ।।
एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि ।। ७२ ।।
हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा ।।
एहि सावित्र धर्मज्ञ भक्तानां पापनाशक ।। ७३ ।।
आवाहयाम्यहं देवं त्वष्टारमसितद्युतिम् ।।
एहि मे भगवंस्त्वष्टः प्रजापालनतत्पर ।। ७४ ।।
चित्रामावाहयिष्यामि चित्रमूर्तिं मनोहराम् ।।
एहि मे वरदे देवि मृदुकर्मप्रसाधिके ।। ७५ ।।
वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम् ।।
देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय ।। ७६ ।।
स्वातिमावाहयिष्यामि नित्यमुत्तरसर्वगाम् ।।
देवि स्वाति त्वमभ्येहि चरकर्मसु शोभने ।। ७७ ।।
आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ ।।
इंद्रात्रेहि जगन्नाथ एह्यग्ने विजयप्रद ।। ७८ ।।
ऋक्षमावाहयिष्यामि विशाखामग्रतेजसम् ।।
विशाखे त्वमिहाभ्येहि देवि साधारणे शुभे ।। ७९ ।।
मित्रमावाहयिष्यामि देवं दीप्तांशुतेजसम् ।।
एहि मित्र महाभाग भक्तानामभयं कुरु ।। 3.104.८० ।।
ऋक्षमावाहयिष्यामि त्वनुराधां वरप्रदाम् ।।
अनुराधे त्वमभ्येहि मृदुकर्मसु शोभने ।। ८१ ।।
शक्रोस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव ।।
ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम् ।। ८२ ।।
ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ।।
देवमावाहयिष्यामि निर्ऋतिं वीरवन्दितम् ।। ८३ ।।
एहि देव विरूपाक्ष महाबल सदाश्रय ।।
मूलमावाहयिष्यामि नक्षत्रं दारुणं महत् ।। ८४ ।।
एहि मूल महाभाग भक्तानामभयप्रद ।।
आपस्त्वावाहयिष्यामि सर्वगा वरदाः शुभाः ।।८५।।
आपस्त्वावाहयिष्यामि पूर्वाषाढेति संज्ञितम् ।।
एहि त्वमुग्रे वरदे पूर्वाषाढेतिसंज्ञिते ।। ८६ ।।
ऋक्षमावाहयिष्यामि यत्तदभिजिदुच्यते ।।
एहि धिष्ण्यवरिष्ठाय क्षिप्रकर्मप्रसाधक ।। ८७ ।।
ऋक्षमावाहयिष्यामि श्रवणं सर्वकामदम् ।।
प्रसन्नस्त्वं समभ्येहि चरकर्मप्रसाधक ।। ८८ ।।
धनिष्ठे त्वमिहाभ्येहि चरकर्मप्रसाधिके ।। ८९ ।।
ऋक्षमावाहयिष्यामि नाम्ना शतभिषां शुभाम् ।।
आगच्छ त्वं शतभिषे चरकर्मसु शोभने ।। 3.104.९० ।।
अजैकपादं वरदं रुद्रमावाहयाम्यहम् ।।
आगच्छ रुद्र वरद त्रिशूलपरमायुध ।। ९१ ।।
ऋक्षमावाहयिष्यामि पूर्वभद्रपदामहम् ।।
एहि भद्रपदे पूर्वे उग्रकर्मप्रसाधनि ।। ९२ ।।
आहिर्बुध्न्यं महाभागं रुद्रमावाहयाम्यहम् ।।
आहिर्बुध्न्य समभ्येहि जटाजूटोपशोभित ।।९३।।
ध्रुवमावाहयिष्यामि देशे भद्रपदोत्तराम् ।।
एहि त्वं सुमहाभागे मम भद्रपदोत्तरे ।। ९४ ।।
आवाहयाम्यहं देवं पूषणं पापनाशकम् ।।
पूषन्सम्यगिहाभ्येहि सर्वकल्मषनाशक ।। ९५ ।।
ऋक्षमावाहयिष्यामि रेवतीं भीरुदर्शनाम् ।।
एहि रेवति धर्मज्ञे मृदुकर्मप्रसाधके ।। ९६ ।।
ऋक्षमावाहयिष्यामि क्षिप्रमश्विनि संज्ञकम् ।।
एह्यश्विनि महाभागे वरदे कामदायिनि ।। ९७ ।।
यममावाहयिष्यामि धर्मराजमथाच्युतम् ।।
एहि धर्मभृतां श्रेष्ठ वैवस्वत महाभुज ।। ९८ ।।
ऋक्षमावाहयिष्यामि उग्रं भरणिसंज्ञकम् ।।
एहि त्वं देवि भरणि सुभगे चारुदर्शने ।।९९।।
प्राचीमावाहयिष्यामि सूर्योदयविभूषणाम ।।
एहि त्वं वरदे पूर्वे शुभकर्मप्रसाधनि ।। 3.104.१०० ।।
दिशमावाहयिष्यामि वरदां पूर्वदक्षिणाम् ।।
वह्निप्रिये समभ्येहि वरदे पूर्वदक्षिणे ।। १०१ ।।
अहमावाहयिष्यामि दक्षिणां दक्षिणां दिशम् ।।
दक्षिणे त्वं समभ्येहि सर्वकर्मशुभप्रदे ।। १०२ ।।
दिशमावाहयिष्यामि शुभां दक्षिणपश्चिमाम् ।।
एहि त्वं नैर्ऋते देवि सततं भूतिवर्धिनि ।। १०३ ।।
दिशमावाहयिष्यामि वारुणीं वरदां सदा ।।
आगच्छ पश्चिमे देवि वरदे वरुणप्रिये ।।१०४।।
आवाहयिष्यामि दिशं वायवीं पश्चिमोत्तराम् ।।
वरदे त्वं समभ्येहि वायव्ये पश्चिमोत्तरे ।। १०५ ।।
आवाहयामि धनदं देवं वैश्रवणं प्रभुम् ।।
राजराज समभ्येहि सर्वयज्ञेश्वराधिप ।। १०६ ।।
दिशमावाहयिष्यामि सौम्यां धनदपालिताम् ।।
उत्तरे त्वं समभ्येहि सर्वधर्मफलप्रदे ।। १०७ ।।
दिशमावाहयिष्यामि शुभां प्रागुत्तरामहम् ।।
एहि त्वं सुभगे देवि सततं शिवपालिते ।। १०८ ।।
सर्वानावाहयिष्यामि पूर्णकुम्भेषु सागरान् ।।
रत्नाध्यक्षाः समायान्तु चत्वार इह सागराः ।। १०९ ।।
ऐशान्यां दिशि यः कुम्भः पूर्वस्तस्यां तु सागरः ।।
आयातु शीघ्रमेवेह तरङ्गोर्मिसमाकुल ।। 3.104.११० ।।
शीघ्रमभ्येहि निलय यादसां पूर्वसागर ।।
तरङ्गशतसंक्रांत बालभास्करमण्डल ।। १११ ।।
आग्नेये च समायात दक्षिणे दक्षिणः शिवः ।।
बहुरत्नप्रभापुञ्जविमिश्र सलिलाशय ।। ११२ ।।
यादसां निलयाभ्येहि क्षिप्रं दक्षिणसागर ।।
तरङ्गधौत पादाग्र त्रिकूटशिखराच्युत ।। ११३ ।।
पश्चिमायाः समायातु कुम्भे दक्षिणपश्चिमे ।।
रत्नपुञ्जमहाज्वालाविराजितमहोदक ।। ११४ ।।
तरङ्गमण्डिताभ्येहि क्षिप्रं पश्चिमसागर ।।
अस्तार्कबिम्बसंक्रान्तगतमण्डलदुर्दृश ।। ११५ ।।
उत्तरश्च तथाभ्येतु कुम्भे वै पश्चिमोत्तरे ।।
हिमाद्रिशिखरच्छायाक्षीरोदसदृशः प्रभुः ।। ११६ ।।
महापवित्रसलिल शीघ्रमुत्तरसागर ।।
इहाभ्येहि महाभाग यजमानाभिवृद्धये ।। ११७ ।।
आवाहितानां कर्तव्यं भूमौ कृत्वा ततः शिरः ।।
प्रणाममभिवादं च ततो मन्त्रमुदीरयेत् ।। ११८ ।।
भवतां हि प्रसादेन भवतां प्रतिपूजने ।।
प्रयतिष्ये यथाशक्त्या तन्मेऽनु्ज्ञातुमर्हथ ।। ११९ ।।
युष्माकं पूजनं कर्तुं केन शक्यं यथाविधि ।।
युष्मत्पूजाविहीनेन केन लभ्यं महत्फलम् ।।3.104.१२०।।
ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजनम् ।।
वरदाः प्रयतिष्यामि तन्मेऽनुज्ञातुमर्हथ ।।१२१ ।।
स्वांस्वां दिशमधिष्ठाय दिक्पाला दीप्ततेजसः ।।
उत्सादयन्तु सकलान्विघ्नान्यान्समुपस्थितान ।। १२५ ।।
विनायका विघ्नकराः समोग्रा यज्ञद्विषो ये पिशिताशनाश्च ।।
सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ता विदिशः प्रयान्तु ।। १२३ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मादिदेवाह्वान वर्णनो नाम चतुरुत्तरशततमोध्यायः ।।१०४।।
3.105
मार्कण्डेय उवाच ।।
लोकानावाहयिष्यामि हंसरूपान्मनोहरान्।।
आयान्तु वाहनत्वेन ये स्थिताः परमेष्ठिनः ।।१।।
वृषमावाहयिष्यामि चतुष्पादं ककुद्मिनम् ।।
वृषाभ्येहि महाभाग धर्ममूर्ते वरप्रद।।२।।
शूलमावाहयिष्यामि गुणाधारं महाद्युतिम्।।
एहि शूल महाभाग दैत्यनाथगणान्तक ।। ३ ।।
अहमावाहयिष्यामि देवं नन्दीश्वरं प्रभुम् ।।
अभ्येहि नन्दिन्भगवन् सर्वलोकनमस्कृत ।। ४ ।।
आवाहयामि वरदं वीरभद्रं महाबलम् ।।
अभ्येहि वीरभद्राय महागणगणेश्वर ।। ५ ।।
ज्वरमावाहयिष्यामि त्रिपादं त्रिभुजं प्रभुम् ।।
ज्वराभ्येहि महाभाग सततं चरणोज्ज्वल ।। ६ ।।
देवीमावाहयिष्यामि भद्रकालीं सुखप्रदाम् ।।
आगच्छ वरदे दुर्गे सर्वलोकनमस्कृते ।। ७ ।।
आवाहयामि पौलोमीं वरदां नित्यनन्दिनीम ।।
शक्रपत्नि त्वमभ्येहि वरदे कामरूपिणि ।। ८ ।।
नागमावाहयिप्यामि तथैरावणसंज्ञितम् ।।
इहाभ्येहि महाभाग शक्रनाग जयावह ।। ९ ।।
वज्रमावाहयिष्यामि सर्वभेदकमाशुगम् ।।
शीघ्रं वज्र त्वमभ्येहि सर्वदुष्टनिबर्हण ।। 3.105.१०।।
हयानावाहयिष्यामि छन्दोरू पान्मनोहरान् ।।
आगच्छन्तु ममाद्येह तुरगा व्योमगोचराः ।। ११ ।।
अहमावाहयिष्यामि दण्डसंज्ञं बलोत्कटम् ।।
दण्ड शीघ्रमिहाभ्येहि महाबलपराक्रम ।।१२।।
अहमावाहयिष्यामि पिङ्गलं सुमहाबलम् ।।
लोकसाक्षिस्त्वमभ्येहि पिङ्गलाय महाबल ।।१३ ।।
ध्वजमावाहयिष्यामि चित्रं सूर्यसमप्रभम् ।।
धर्म शीघ्रं त्वमभ्येहि सूर्यध्वजगताच्युत ।। १४ ।।
देवीमावाहयिष्यामि सूर्यभां कामरूपिणीम् ।।
देवि त्वं तूर्णमागच्छ सर्वलोकनमस्कृते ।।। ।। १५ ।।
राज्ञीमावाहयिष्यामि सूर्यपत्नीं सुरूपिणीम्।।
आगच्छ वरदे राज्ञि जगद्धारिणि पूजिते ।।१६।।
अहमावाहयिष्यामि सूर्यपत्नीं सुवर्चसाम्।।
ध्याये देवि त्वमागच्छ कृताकृतविचारिणि ।।१७।।
अहमावाहयिष्यामि दशचन्द्रमसो हयान् ।।
सर्वे शीघ्रमिहायान्तु चन्द्राश्वाः कामरूपिणः।।.।।
अहमावाहयिष्यामि कान्तिं त्रिदशवल्लभाम् ।।
कान्ते शीघ्रं त्वमभ्येहि शशाङ्कदयिते शुभे ।।१९।।
शोभामावाहयिष्यामि काङ्क्षितां भुवनेश्वरीम् ।।
शोभे शीघ्रं त्वमभ्येहि सर्वलोकैकसुन्दरि।। 3.105.२० ।।
दिनमावाहयिष्यामि समस्तध्वान्तनाशकम् ।।
दिन शीघ्रं त्वमभ्येहि दर्शिताखिलमण्डल ।। ।।
रात्रिमावाहयिष्यामि सर्वभूतसुखावहाम् ।।
रात्रि देवि त्वमभ्येहि सर्वभूतवरप्रदे ।२२।।
सन्ध्यामावाहयिष्यामि देवीं ब्राह्मणपूजिताम् ।।
आगच्छ वरदे सन्ध्ये सर्वभूतनमस्कृते ।। २३ ।।
स्वाहामावाहयिष्यामि वह्नेर्भागं विभावरीम् ।।
स्वाहेभ्येहि महाभागे वरदे कामरूपिणि ।। २४।।
वेदानावाहयिष्यामि शुभरूपधरानहम् ।।
आयान्तु वाहनत्वेन धूम्रकेतुव्यवस्थिताः ।। २५ ।।
आवाहयिष्ये महिषं महाबलपराक्रमम् ।।
आगच्छेह महाभाग सर्वदुष्टनिबर्हण ।। २६ ।।
दण्डमावाहयिष्यामि सर्ववाहनपूजितम् ।।
एहि दण्ड महाभाग सर्वसत्त्वविनाशन ।। २७ ।।
देवीमावाहयिष्यामि धूम्रोर्णां चारुलोचनाम् ।।
आगच्छ देवि धूम्रोर्णे सर्वलोकनमस्कृते ।। २८ ।।
कालमावाहयिष्यामि सर्वत्राहतपूजितम् ।।
कालाभ्येहि महाभाग सर्वसत्त्वभयङ्कर ।। २९ ।।
मृत्युमावाहयिष्यामि देवीं सर्वहरामहम् ।।
देवि मृत्यो त्वमभ्येहि सर्वगे कामरूपिणि ।। 3.105.३० ।।
आवाहयामि वरदं चित्रगुप्तं सुखप्रदम् ।।
चित्रगुप्त समभ्येहि सर्वत्रसमदर्शन ।। ३१ ।।
अहमावाहयिष्यामि विरूपाक्षं महाबलम् ।।
विरूपाक्ष समभ्येहि निशाचरगणेश्वर ।। ३२ ।।
उष्ट्रमावाहयिष्यामि महामोहमिति श्रुतम् ।।
उष्ट्राभ्येहि महाभाग महाग्रीव महागते ।। ३३ ।।
गौरीमावाहयिष्यामि जलाधिपतिसुन्दरीम् ।।
एहि गौरि महादेवि वरदे कामरूपिणि ।।३४।।
हंसानावाहयिष्यामि समुद्रेण सुपूजितान्।।
आयान्तु वरदा हंसा रसाचारा विहङ्गमाः ।। ३५ ।।
पाशमावाहयिष्यामि सर्वाकर्षणतत्परम् ।।
पाशाभ्येहि महाभाग सर्वसत्त्ववशङ्कर ।। ३६ ।।
गङ्गामावाहयिष्यामि सर्वकल्मषनाशिनीम् ।।
गङ्गे शीघ्रं त्वमभ्येहि पीयूषसदृशोदके ।। ३७ ।।
अहमावाहयिष्यामि यमुनां च यमानुजाम् ।।
आगच्छ यमुने देवि सर्वकल्मषनाशिनि ।। ३८ ।।
शिवामावाहयिष्यामि वायोः पत्नीं प्रभावतीम् ।।
शिवेभ्येहि महाभागे वरदे कामरूपिणि ।। ३९ ।।
अहमावाहयिष्यामि शिबिकां परमायताम् ।।
शिबिके त्वमिहाभ्येहि सर्वसत्त्वसुखङ्करि ।। 3.105.४० ।।
नरमावाहयिष्यामि नराधिपतिवाहनम् ।।
नर शीघ्रं त्वमभ्येहि तथा नृपतिनायक ।। ४१ ।।
शङ्खमावाहयिष्यामि निधिप्रवरमुत्तमम् ।।
शीघ्रं शङ्ख त्वमभ्येहि धनाधिपतिवल्लभ।। ४२ ।।
पद्ममावाहयिष्यामि निधिप्रवरमुत्तमम् ।।
पद्म शीघ्रं त्वमभ्येहि महाविभवकारक ।। ४३ ।।
देवीमावाहयिष्यामि पार्वतीं हरवल्लभाम् ।।
देवि शीघ्रं त्वमभ्येहि महाविभवकारिके ।। ४४ ।।
अहमावाहयिष्यामि जयन्तं शक्रनन्दनम् ।।
जयन्त शीघ्रमभ्येहि सर्वासुरविमर्दन ।। ४५ ।।
आवाहयिष्ये वरदं पुष्करं कामगं शुभम् ।।
पुष्कर त्वमिहाभ्येहि सर्वज्ञानप्रकाशक।।४६।।
ज्योत्स्नामावाहविष्यामि त्रैलोक्यस्यैकसुन्दरि ।।
आगच्छ वरदे ज्योत्स्ने सर्वभूतसुखङ्करि ।।४७।।
अहमावाहयिष्यामि त्वामेव नलकूबरम् ।।
समभ्येहि महाभाग धनदस्यात्मसम्भव ।। ४८।।
आवाहयिष्यामि तथा रविपुत्रं यमाग्रजम् ।।
सूर्यपुत्र समभ्येहि भक्तकल्याणकारक ।।४९।।
धर्ममावाहयिष्यामि सर्वलोकसुखावहम् ।।
धर्माभ्येहि महाभाग जगतां परिपालक ।।3.105.५०।।
अर्थमावाहयिष्यामि सर्वलोकसुखावहम् ।।
अर्थभ्येहि महाभाग सर्वबाधाविनाशक।।५१।।
काममावाहयिष्यामि फलं सर्वस्य कारण ।।
काम शीघ्रं त्वम भ्येहि सर्वप्राणिहृदि स्थित।।५२।।
रात्रिमावाहयिष्यामि देवीं सर्वजगत्प्रियाम् ।।
अभ्येहि वरदे देवि रति त्वमपराजिते।।५३ ।।
निद्रामावाहयिष्यामि सर्वलोकसुखप्रदाम् ।।
आगच्छ वरदे निद्रे त्रैलोक्यपरिमोहिनि।।५४।।
आवाहयिष्ये वरदां महादेवीं सरस्वतीम्।।
शीघ्रं देवि त्वमभ्येहि सर्वकामवरप्रदे ।। ५५ ।।
अहमावाहयिष्यामि तथा धन्वतरिं प्रभुम् ।।
धन्वन्तरे त्वमभ्येहि क्षीरोदार्णवसम्भव ।।५६।।
अहमावाहयिष्यामि उच्चैःश्रवसमश्वपम् ।।
हयराज समभ्येहि क्षीरोदार्णवसंभव ।। ५७।।
येषामावाहनं प्रोक्तं तेषां मन्त्रमिदं पठेत् ।।
अश्विनौ प्रणतः स्तौमि दर्भपाणिरतन्द्रितः ।। ५८ ।।
आवाहनानां च गणं तथोक्तं महाशुभं पापहरं पवित्रम् ।।
आवाहिताः सन्निहितास्त्ववश्यं देवा भवन्त्युत्तमवंशजाताः ।। ५९ ।।
इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे लोकाद्यावाहनवर्णनो नाम पञ्चोत्तरशततमोऽध्यायः ।। १०५।।