स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/विषयानुक्रमणिका

विकिस्रोतः तः

अथ प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ॥ (७-४) ॥

१ कलौ युगे प्राप्ते विष्णोः क्वाऽऽवासस्थानमिति शौनकादिभिः पृष्टेन सूतेन कलियुग- स्थितिवर्णनम्, तत्र स्वावतारादिकानि कार्याणि कृत्वा श्रीकृष्णे देवेऽनन्ते स्वस्थानं गते लुप्रप्रायधर्मं कलिं दृष्ट्वा क्व वाऽस्मत्सदृशानां स्थितिर्भाव्येति मनसः विचिन्त्य ऋषीन्प्रत्युद्दालकोक्तिः, तदुद्दालकवाक्यं श्रुत्वा कलिकालसंपीडितज- नानां मुक्तिप्राप्त्यर्थमुपायं योजयितुमृषीणा ब्रह्मणोऽग्रे गमनम्, उद्दालकाद्यृषि- भिर्ब्रह्मस्तुतिकरणम्, ततो ब्रह्मपृच्छयर्षिभिः स्वागमनकारणकथनम्, तदा ब्रह्मणा 'नाहं विष्णोरवस्थितिं जानामि' इत्युत्तरदानम्, ब्रह्मोत्तरं श्रुत्वा प्राणत्यागकरणे प्रवृत्तानृषीन्दृष्ट्वा ब्रह्मणा ऋषिभिः सह प्रह्लादसमीपे गमनम्, प्रह्लादेन सर्व- र्षीणां ब्रह्मणश्चातिथ्यकरणम्, ब्रह्ममुखेनर्षिभिः प्रह्लादाय स्वागमनकारणकथनम्, ऋपिभिः प्रह्लादाय कलियुगे भगवत्स्थितिविषयकप्रश्नकरणम् ..... २७९ १

२ प्रह्लादेन ऋषीन्प्रत्युत्तरं दातुं कलियुगस्यारम्भस्थितिवर्णनम्, तत्रोद्धवकृष्णयोः संवादे प्रवृत्ते तावद्दुर्वाससो यात्रां कर्तुं प्रवृत्तस्य गोमतीतीरं प्रत्यागमनमिति श्रुत्वा कृष्णरुक्मिण्योस्तत्र दुर्वासोर्दर्शनार्थं गमनम्, ततो दुर्वाससा कृष्णाय कुशलादिप्रश्नकरणम्, ततो मिथः कुशलं कथयित्वा श्रीकृष्णेन दुर्वाससे द्वारकां प्रत्येतुमाग्रहकरणम्, दुर्वाससा स्वागमार्थं प्रार्थयानं कृष्णं प्रति स्वस्वभाव- निवेदनम् , तथापि कृष्णस्यात्याग्रहं दृष्ट्वा कृष्णरुक्मिण्यौ रथवाहकत्वे नियोज्य दुर्वाससो द्वारकागमनप्रवृत्तिवर्णनम्, मध्येमार्गं तृषितां रुक्मिणीं दृष्ट्वा श्रीकृष्णेन पादाक्रान्त्या धरातलं निर्भिद्य पातालतो भोगावत्या आनयनम्, ततो रुक्मिण्या श्रीकृष्णानीतभोगावतीजलस्य प्राशनकरणम्, दुर्वाससा 'मदा- ज्ञया विना रुक्मिण्या जलप्राशनं कृतम् इति मत्वा तदसहमानेन तस्यै रुक्मिण्यै शापदानम्- ततो दुर्वाससा रथादवरुह्य भूमाववस्थितिकरणम्, ततः श्रीकृष्णेन रुक्मिण्या च दुर्वासस आश्वासनम्, ततो दुर्वाससं स्वगृहं नीत्वा तदृषिपादोदक-
क्षालनेन स्वदेहकृतार्थीकरणम्... ... ..... ... २८० १

३ रुक्मिण्या दुर्वासोदत्तशापं स्मृत्वा बहुशोककरणम्, रुक्मिण्यग्रे नारदागमनम्, नारदेन बहुप्रकारेण रुक्मिण्यै वोधं कृत्वा रुक्मिण्या सह रुक्मिणीशाप-निवृत्त्यर्थं भागीरथीतीर्थे गमनम् तत्र भागीरथीतीरस्थरुक्मिणीवने सुखेन रममाणाया रुक्मिण्या वृत्तान्तं क्षुत्वा 'स्ववाक्यं कथं मृषा भवेत् इति मनसि कृत्वा दुर्वाससा भागीरथ्यै रुक्मिणीवनस्थितेभ्योऽन्यवृक्षेभ्यश्च शापदानम्, ततो रुक्मिण्या मरणे निश्चयकरण्य, कण्ठपाशकरां रुक्मिणीं मरणोद्यतां ज्ञात्वा गरुडमारुह्य श्रीकृष्णस्य तत्रागमनम, ततो दुर्वाससाऽपि 'मया किमिदं कृतम् इत्येव स्वयं पश्चात्तापं कृत्वा रुक्मिणीसमीपमेत्य श्रीरुक्मिणीकृष्णयोः क्षमया सन्तोषीकरणम्, रुक्मिणीदुःखशापमोचनकरणम्. ... ... २८१ १

४ श्रीकृष्णदुर्वाससोः परस्परं वरं दत्त्वा गोमतीतीरे स्वस्वषोडशकलया जनोपकारार्थ-मावासकरणम्, तत्र गोमतीतीरमाहात्म्यवर्णनम्, समासतो द्वारकामथुरा-माहात्म्यवर्णनम्, तत्र बृहस्पतीन्द्रसंवादे कलिकालमाहात्म्यवर्णनप्रसंगः, तत्र चक्रर्तार्थाद्यनेकतीर्थस्नानदानादिना कलिकालोद्भूतोन्मत्तम्लेच्छादिबाधाविनाश इति कथयित्वा बृहस्पतिना सेन्द्रदेवानां सांत्वनकरणम्, द्वारकायात्राविधि-वर्णनम्. ..... ............... २८३ १

५ प्रह्लादर्षिसंवादे सनत्कुमारतपोबलेन भगवत्प्रादुर्भाववृत्तान्तवर्णनपुरःसरं गोमत्युत्प-
त्तिमाहात्म्यवर्णनम्-..... -......... -. २८५

६ कृष्णपूजाविधानवर्णनम्, स्नानदानब्राह्मणभोजनमाहात्म्यवर्णनम्. - -. -. २८६ २

७ चक्राख्यतीर्थमाहात्म्यवर्णने षोडशोपचारपूजनविधिक्रमवर्णनम्, तत्रार्घ्यमंत्रकथनम्, गोमत्युदधिसंगमतीरस्थचक्रतीर्थमाहात्म्यवर्णनम् .. - २८८ १

८ गोमत्यर्घ्यदानमंत्रवर्णनम् , स्नानविधिवर्णनम्, विश्वेदेवपूजनपूर्वक श्राद्धमाहात्म्यवर्णनम्, गोमतीसंगमस्नानमाहात्म्यवर्णनम्, गोमतीतीरस्थ भगवत्स्वरूपमाहात्म्यवर्णनम् २८८ २

९ रुक्मिणीह्रदमाहात्म्यवर्णनम् ... ...... ..... २९० १

१० कृकलासतीर्थमाहात्म्यवर्णने नृगेण राज्ञा यज्ञादिकं विधाय तत्र नित्यं विप्रेभ्यः सालंकृतगोसहस्रदानकरणवृत्तान्तवर्णनम्, ततो राज्ञैकस्मिन्दिने जैमिनिसंज्ञक-र्षये गोदानकरणम्, ततस्तस्या गोर्ब्राह्मणगृहान्निर्गत्य नृगराजगोष्ठाने गम-नम्, पश्चान्नृगेण तस्या एव गोरन्यब्राह्मणाय दानकरणम्, तां गृहीत्वा गच्छतो ब्राह्मणस्य मध्येमार्गे जैमिनिना दर्शनम्, नृगदत्तां स्वकीयां स्वावासान्निर्गतां गां दृष्ट्वा तेन ब्राह्मणेन सह जैमिनिना वादकरणम् ,मिथः प्रजल्पतोस्तयोर्जैमिनिब्राह्म-णयोर्नृगमंदिरे गमनम्, ततस्ताभ्यां कृकलासो भव इति राज्ञे शापप्रदानम्, तच्छा-पेन कृकलासत्वं गतस्य नृगस्य राज्ञः कृष्णेन निजकरेणोद्धरणकरणम्, श्रीकृष्णेन नृगराजाय वरदानम्, विमानमारुह्य श्रीकृष्णप्रसादतो नृगस्य स्वर्गे गमनम्, कृकलासापरनामकनृगतीर्थमाहात्म्यवर्णनम् - . - - ... २९० २

११ विष्णुपदतीर्थमाहात्म्यवर्णनम्- ...... - -. ... ... २९२ १

१२ गोप्रचारतीर्थमाहात्म्यवर्णने कंसवधोत्तरं श्रीकृष्णेनोद्धवस्य स्वकुशलकथनार्थं गोपी-कुशलज्ञानार्थं गोप्युपदेशविधानार्थं च गोकुले संप्रेषणम्, उद्धवमागतं दृष्ट्वा नंदा-दिभिरुद्धवस्यातिथ्यासनादिसत्कारकरणम्, गोपीभिरुद्धवायागमनकारणप्रश्नक-रणम्, उद्धवेनापि स्वागमनकारणं श्रीकृष्णादीनां क्षेमं च कथयित्वा गोपीदुःख-सांत्वनकरणम्, गोपीभिः पृथक्त्वेन प्रणयकोपभङ्गया श्रीकृष्णलीलावर्णनम्, ततः श्रीकृप्णदिदृक्षयोत्कण्ठितानां तासां गोपिकानां समूहेन सहोद्धवस्य मयस-रस्यागमनम्, गोपीभिः कृतं शोकं ज्ञात्वा श्रीकृष्णस्याकस्मात्तत्र सरस्यागमनम्, श्रीकृष्णदर्शनेन गोपीनां बह्वाह्लादः, श्रीकृष्णगोपीसंवादे तत्सरसि स्नानदानपू-
जादिविधिमंत्रकथनम्, मयनिर्मितसरोमाहात्म्यवणर्नम्-....... .... २९२ २

१३ मयसरस उत्पत्तिवर्णनम्, तत्रैव गोपीभिः श्रीकृष्णाज्ञयाऽन्यसरोर्निर्माणकरणम्, तत्रैव गोपीसरसि श्रीकृष्णेन स्वावस्थानकरणम्, श्रीकृष्णेन स्वमुखतो गोपीसरस्तीर्थमाहात्म्यवर्णनम्. ................ २९४ १

१४ ब्रह्मसरोमाहात्म्यवर्णनम्, इन्द्रसरोमाहात्म्यवर्णनम्, पञ्चनदतीर्थमाहात्म्यवर्णनम् २९५ २

१५ ऋषितीर्थसिद्धेश्वरमाहात्म्यवर्णनम्... .... २९६ २

१६ गदातीर्थनागतीर्थभद्रतीर्थचित्रातीर्थचन्द्रभागातीर्थमहिषर्तार्थमुक्तिद्वारकालिन्दीसरस्तीर्थादि तत्रस्थतीर्थवृन्दमाहात्म्यवर्णनम्. ............ २९७ १

१७ श्रीकृष्णपूजनविधिक्रमवर्णनम्, भगवत्परिचारकवर्गकथनपूर्वकरुक्मिगर्वपरिहारवृत्तान्तवर्णनम्.... . २९८ १

१८ यजनदानप्राणायामाद्यन्यकर्मतोऽपि श्रीकृष्णदर्शनस्य फलाधिक्यवर्णनम्, त्रिवि-क्रमतीर्थवर्णने वलिनिग्रहादिवृत्तान्तस्य समासतो वर्णनम्, गोमतीसंगमस्थचक्र-तीर्थेऽनेकतीर्थान्यटतो दुर्वासस आगमनम्, यावद्दुर्वासाः स्नानाय प्रवृत्तस्तावद्दै-त्यैर्दुर्वाससं प्रति बहुताडनकरणम्, ततो दैत्यकृतताडनेन दुःखितस्य दुर्वाससो बलिद्वाःस्थवामनाय दैत्यकृतां निजदुर्दशां निवेदयितुं पातालं प्रति गमनम्, वामनाय चक्रतीर्थगतसर्ववृत्तान्तकथनं च.... ....... २९९ २

१९ वामनेन तद्दुर्वाससो वचनं श्रुत्वा पराधीनत्वान्नैव मयि स्वातन्त्र्यमिति दुर्वाससं कथयित्वा यदि बलेराज्ञा भवेत्तर्ह्यहं दैत्यनाशार्थमागमिष्यामीति च शंसित्वा दुर्वाससं प्रति बलेराज्ञाग्रहणाय प्रेरणम्, ततो बलिना दुर्वाससः प्रार्थनामनङ्गी-कृत्य भगवतश्चरणयोर्दृढग्रहणम्, ततो भगवता स्वरूपस्य वृद्धिकरणपूर्वकं दुर्वा-ससा बलभद्रेण च सह चक्रतीर्थे गमनम्, तत्र चक्रतीर्थे कृष्णबलरामदुर्वाससामा-गमनोत्तरं दुर्वाससः स्नानाद्याह्निकविधिविधानवर्णनम् ......... ३०० २

२० तत्र गोमतीतीरस्थचक्रतीर्थे वेदाध्ययनकारिणं दुर्वाससमवेक्ष्य तं प्रति ताडनं कर्तुं तत्प्रदेशरक्षकस्य दैत्यस्यागमनम्, समागतं तं दैत्य दृष्ट्वा श्रीकृष्णेन तस्य दैत्यस्य
सुदर्शनचक्रेण शिरश्छेदकरणम्, तं दैत्यं निहतं दृष्ट्वाऽन्यदैत्यैः श्रीकृष्णबलरा-माभ्यां सह युद्धवर्णनम्, ततः कुशदैत्यस्य बलरामश्रीकृप्णाभ्यां युद्धवर्णनम्, तत्र श्रीकृष्णेन कुशराक्षसं हस्तगतं कृत्वा तस्योपरि शिवलिंगस्थापनवृत्तांतवर्णनम् ३०१ १

२१ ततः कुशराक्षसश्रीकृष्णसंवादे गोमतीतीरस्थक्षेत्रस्थभगवत्पूजामाहात्म्यवर्णनम् ... ३०३ २

२२ रुक्मिणीपूजनमाहात्म्यवर्णनम्- .... -. ... .-... ३०३ २

२३ श्रीकृष्णकथाफलश्रुतिवर्णनम्, द्वारकायां श्रीकृष्णदर्शनफलवर्णनम्, रुक्यिणीदर्शन-फलवर्णनम्, द्वारवतीगमनदर्शनस्मरणफलकथनम्, स्वर्गं गन्तुं निश्रेणीभूताया द्वारकाया माहात्म्यवर्णनप्रसंगेन चन्द्रशर्मब्राह्मणवृत्तान्तवर्णनम्, तत्र चन्द्रशर्मणो द्वारकापुर्यगमनेन शैवव्रतानां नैष्फल्यं दृष्ट्वा तत्पितृभिः स्वप्न आगत्य तस्मा उपदेशकरणम्, पितृणामुपदेशं श्रुत्वा चन्द्रशर्मणा ब्राह्मणेन द्वारकागमनेन पितॄणां नरकतः समुद्धरणवर्णनम्, द्वारकाश्रयकरणफलकथनम्, द्वारकागमन-माहात्म्यतुलसीधारणमाहात्म्यवर्णनम्-... ... .... ३०५ १

२४ द्वारकागमनपूर्वककृष्णदत्तवरग्रहणादिद्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनम् ३०९ १
 
२५मार्कण्डेयेन्द्रद्युम्नसंवादे वञ्जुलीद्वारकागंगागयागोविन्द गोमती गोकुल गीता गोपीचंद-नमाहात्म्यवर्णनम्... ...... ......... ३११ १
 
२६ कोटिजन्मार्जितचतुर्विधपापक्षालनोपायकधनम्, भगवद्भक्तलक्षणवर्णनम्, हरि-जागरफलकथनम्, गोहिरण्यतिलवस्त्रादिदानफलकथनम्, भागवतस्कादगो-पीचरितगीतानामसहस्रकादिनित्यपठनफलकथनम्, द्वादशीजागरमाहात्म्यवर्णनम्... ... .... ३१२ २

२७ विष्णोर्द्वादशीजागरस्य सर्वतोऽपि वरेण्यत्ववर्णनपुरःसरं माहात्म्यवर्णनम्-.. ३१३ २

२८ विष्णोर्द्वादशीजागरस्थले सर्वदेवतातीर्थक्षेत्रागमनवर्णनम्, द्वादशीजागरमाहात्म्यवर्णनम्...... ............ -.. ३१४ १

२९ पापिजनसंसर्गादशुद्धिं गताया गौतम्या नारदाद्यृषीन्प्रति स्वाशुद्धिनिरसनोपाय-विज्ञानाय प्रश्नकरणम्, तस्या गौतम्याः प्रश्नस्योत्तरं दातुमशक्यतया विमोहि-तान्नारदादीन्दृष्ट्वा गौतम्या शोककरणम्, ततो गौतमीदुःखपरिहाराय दिव्य-वाण्या द्वारकाक्षेत्रं गच्छेति गौतम्यै कथनम्, ततो द्वारकागमनोत्सुकतापूर्वक-गोमतीवर्णनम् ३० नारदगौतमयोर्द्वारकागमनोत्सुकतादर्शनम्, द्वारकां प्रति गोदावर्यादितीर्थक्षेत्रदेव-महर्षिगमनोत्सवयात्रावर्णनम्............ .. ३१६ २

३१ सर्वतीर्थक्षेत्राणां तत्रागमनवर्णनम्, मूर्तिमतीद्वारवतीदर्शनम,... ... ३१७ १

३२ नारदादिभिर्द्वारकागमनं कृत्वाऽऽह्लादवशान्नृत्यकरणम्, शङ्करादिदेवैर्गौतमाद्यृषिभि- र्गौतम्यादितीर्थक्षेत्रैरपि द्वारकायां नृत्यकरणम्; ततः सर्वैर्भगवद्दर्शनं गृहीत्वा भगवत्स्तुतिकरणम्, विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनम् ... .... ३१८ १

३३ द्वारकायाः समन्ततः सर्वदिक्षु काशीगयाप्रयागाद्यनेक- तीर्थक्षेत्रादिकृतनिवासवर्णनम् ३२० १

३४ द्वारकापान्थदर्शनमात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्त-पूर्वकं दिलीपकृतद्वारकायात्रामाहात्म्यवर्णनम् ..... ... ३२० २

३५ द्वारकाक्षेत्रस्थस्थावरजङ्गमपदार्थानां माहात्म्यवर्णनम्, द्वारकावासमाहात्म्यम्, द्वार-कायां भगवद्दर्शनमाहात्म्यम्, द्वारकानाममाहात्म्यवर्णनम्..... ३२२ १

३६ द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनम्......... ३२३ १

३७ द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजन-फलादिकथनम्-... ... .......... ३२३ २

३८ गोमतीतीरगतद्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनम्. ..... . ३२४ १

३९ द्वादशीव्रतादिमाहात्म्यवर्णनम् .. ३२५ १

४० कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनम्........ ३२६ १

४१ गोमतीस्नानकृष्णपूजनयतिभोजनदानश्राद्धादिसत्फलवर्णनम् ...... ३२७ १

४२ वृषोत्सर्गादिक्रियाकरणद्वारकामाहात्म्यश्रवणादिफलवर्णनम् ... ... ३२७ १

४३ द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्ला-दद्विजसंवादसमाप्त्यनन्तरं बलिना सह द्विजैः कृतस्य द्वारकायात्राविधेर्वर्णनम् ३२८ १

४४ स्कान्दमहापुराणश्रवणपठनपुस्तकप्रदान पौराणिकव्यासपूजन माहात्म्यवर्णनपूर्वकं सम-स्तस्कान्दमहापुराणग्रन्थसमाप्त्युपसंहारपूर्वकं शौनकादिमहर्षिकृतसूतसत्कारवृत्ता-न्तवर्णनम् . ... ३२८ २

इति श्रीप्रभासखण्डे चतुर्थं द्वारकामाहात्म्यम् ॥ ( ७-४) ॥