सामग्री पर जाएँ

गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०८१-०८५

विकिस्रोतः तः
← अध्यायाः ७६-८० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ८१-८५
[[लेखकः :|]]
अध्यायाः ८६-९० →

अध्याय ८१ प्रारंभः-
क उवाच।
ततःसा पार्वती हृष्टा सखीजनमगान्निजम्।
वृत्तान्तं सर्वमाचख्यौ हृष्टरूपोऽपि सोऽभवत् १
ततत्प्रभृति सा देवी गुणेशमानसाऽभवत्।
पश्यति स्मान्यबालं सा गुणेशोऽयं भवेदिति २
गृहीतुं धावति तदा तन्मात्रा सा निषिध्यते ।
न क्वापि विश्रमं याति गुणेशध्यानतत्परा ३
तन्नाम जपते नित्यं तन्मयं लोकते जगत् ।
पप्रच्छ च सखीः सर्वा गुणेशो यास्यते कदा ४
पित्रा मे कथितं पूर्वं व्रतमीशाप्तये शुभम् ।
पार्थिवस्य गणेशस्य पूजनं च यथाविधि ५
तेन व्रतप्रभावेण प्राप्ताऽस्मि शंकरं प्रियम् ।
पुनस्तदाचरिष्यामि गुणेशप्राप्तयेऽधुना ६
ततो भाद्रचतुर्थ्यां सा कृत्वा मूर्तिं मुदान्विता ।
उपचारैः षोडशभिः पुपूज च गजाननीम्७
षड्भिर्ध्यानादिकः पंचामृतवस्त्रैरनेकशः ।
यज्ञोपवीतगंधैश्च धूपदीपैर्यथाविधि८
नानापुष्पैश्च नैवेद्यैर्नानाविधफलैरपि ।
ताम्बूलैरार्द्रपूगैश्च लवंगादिसमन्वितैः ९
दूर्वाभिश्च शमीपत्रैर्दक्षिणाभिरनेकशः ।
आरार्तिक्यैर्विचित्रैश्च मन्त्रपुष्पैः स्तवैरपि २.८१.१०
प्रदक्षिणाप्रार्थनाभिर्ब्राह्मणानां च पूजनैः ।
परितुष्टा मूर्तिरसौ पार्थिवी चेतनामगात् ११
तदैव प्रभया तस्याः कोटिसूर्यप्रभा जिता ।
कल्पानलार्चिर्विजिताऽनन्तचन्द्रप्रभा हृता १२
हतनेत्रप्रभा गौरी मूर्छिता पतिता भुवि ।
मुहूर्तात्सावधाना सा प्रोवाच जगदीश्वरम् १३
किं मया विकृतं देवपूजनेन च तर्कये।
अभिचारोऽथवा केन प्रयुक्तोऽयं न वेद्मि तम् १४
कथं मे विफलो यत्नो जातो देव कृपानिधे ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्याः सौम्यतेजा अभूत्प्रभुः १५
सा तदैवाभवद्धृष्टा बालं वीक्ष्य पुरोगतम् ।
असंख्यवक्त्रनयनमसंख्यांघ्रिशिरोधरम् १६
असंख्यमुकुटं सूर्यचन्द्राग्निलोचनं विभुम् ।
मुक्तामणिमयीं मालां बिभ्रन्तं दीप्तिमत्परम् १७
अनेकायुधहस्तं च सर्वावयवसुन्दरम् ।
दृष्ट्वा तु पार्वती रूपं पवित्रं परमाद्भुतम् १८
अतर्कयच्चेतसा सा निमील्य नयने शुभे ।
कम्पमानांगा यष्टिः सा कर्तव्यं नाभ्यपद्यत १९
चिन्तितं किं मया दृष्टमरिष्टमद्भुतं नु किम् ।
उन्मील्य नयनेऽपश्यद्दिव्यदृष्टिर्धरात्मजा २.८१.२०
तावच्छिवोपदिष्टं तदवेदीच्च जगाद च ।
पार्वत्युवाच ।
अस्यैव मायया भ्रान्ता न जानामि विभुं प्रभुम् । २१
पप्रच्छ तं ततः कस्त्वं कुत आगमनं तव ।
किमर्छ त्वं गुणेशश्चेद्भवितासि वदस्व माम्२२
क उवाच ।
इति तद्वचनं श्रुत्वाऽवदत्स पुरुषो महान् ।
स्वनेन नादयन्सर्वा दिशो विदिश एव च २३
देव उवाच ।
यं ध्यायसि दिवारात्रावनुष्ठानवती शुभे ।
सोऽहं गुणेशस्ते गेहेऽवतीर्णः परमः पुमान् २४
परात्परतरो यस्मादवदं त्वा वरार्थिनीम्।
यास्ये ते पुत्रतां देवि यत्कृत्यं मे शृणुष्व तत् २५
उभयोः सेवनं कार्यं सिन्धुदैत्यविनाशनम् ।
अमराणां पदप्रातिं कृत्वा यास्ये निजं पदं२६
क उवाच।
पीत्वा वाक्यामृतं तस्य प्रीता सा गिरिजात्मजा।
उवाचेह परं भाग्यं परमं मे तपःफलम्२७
नायकोऽनन्तकोटीनां ब्रह्माण्डानां विभुर्मया ।
दृष्टश्चिदानन्दघनो यस्मात्सृष्टमनेकशः २८
पंचभूतानि ब्रह्मेशहरिश्चन्द्रेन्द्र भास्कराः।
नक्षत्राणि च गन्धर्वा यक्षा मुनिगणा द्रुमाः २९
शैलाः पक्षिगणाः सर्वे भुवनानि चतुर्दश ।
स्थावरं जंगमं यस्मात्सचेतनमचेतनम् । २.८१.३०
स त्वं मम कुमारत्वं प्राप्तोऽसीति विडम्बनम् ।
अथ त्वां प्रार्थयेदेव प्राकृतो भव साम्प्रतम् ३१
येन ते लालनं कुर्यां सेवनं परमादरात्। क उवाच ।
यावद्वदति सैवं तु ददर्श पुरतस्तु तम् ३२
षड्भुजं चन्द्रसुभगं लोचनत्रयभूषितम् ।
सुनास सुभ्रु वदनं स्थूलवक्षसमीश्वरम् ३३
ध्वजांकुशोर्ध्वरेखाब्जचिह्नितं पादपंकजम् ।
कोटिस्फटिकसंकाशं कोटिचन्द्रप्रभं विभुम् ३४
हेमतारानिभान्केशान्दधन्तं बालरूपिणम् ।
कुर्वन्तं प्रथमं शब्दं कम्पयन्तं वसुन्धराम् ३५
जनाः स्थानानि मर्यादां तत्यजुस्तस्य शब्दतः ।
नीरसा वृक्षनिचयाः सपल्लवचयास्तदा ३६
जाता गावो बहुक्षीरास्त्रैलोक्यं जहृषे पुनः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिरथापतत् ३७
दृष्ट्वा बालं तु गिरिजा हस्ताभ्यां जगृहे मुदा।
स्नापयामास पयसा तप्तेन स्नेहभावतः ३८
प्रस्नुतौ पाययामास स्तनौ परमहर्षिता।
शिवोऽपि जहृषे तेन शिशुना परमेण ह ३९ (३५९४)
इति श्री गणेशपुराणे क्रीडाखण्डे गणेशाविर्भावोनामैकाशीतितमोऽध्यायः ॥८१॥

अध्याय ८२ प्रारंभ :-
क उवाच ।
ततः शिवगणाः शम्भुं वृत्तान्तं तं न्यवेदयन् ।
आश्चर्यं परमं देवं शिवा पुत्रसमन्विता १
जाता पुत्रावलोकार्थं ततो याहि निजं स्थलम् ।
एवं गणवचः श्रुत्वा तुतोष गिरिजापतिः २
आगत्य वीक्ष्य तं बालमद्भुतं शशिसन्निभम् ।
स्फटिकाद्रिनिभं कुन्दधवलं कञ्जलोचनम् ३
आश्चर्यं परमं लेभे प्रोवाच च वचस्तदा ।
शिव उवाच ।
नायं बालोऽनादिसिद्धो जराजन्मविवजितः ४
लीलाविग्रहवानेष स्वप्रकाशो गुणातिगः ।
शुद्धसत्त्वमयः सर्वजीवेशो भुवनेश्वरः ५
मुनिध्येयोऽखिलाधारो ब्रह्मभूतोऽखिलप्रदः ।
क उवाच ।
एवमुक्त्वा कराभ्यां स बालमादत्त शंकरः ६
लालयित्वा हृदि स्थाप्य सर्वहृत्स्थोऽपि यः सदा ।
पुनरूचे च गिरिजां शिवोऽशिवहरो विभुः ७
परमात्मा गुणातीतः पुत्रतां ते समागतः ।
परानुष्ठानतो देवि साक्षाद्दृष्टो विभुस्त्वया ८
क उवाच ।
ततो विप्रान्समाहूय पूजयित्वा गणाधिपम् ।
पुण्याहं वाचयित्वा च मातृपूजनपूर्वकम् ९
कृत्वाऽभ्युदयिकं श्राद्धं प्राशयित्वा घृतं मधु ।
अभिमन्त्र्य शिशुं भूमिं गिरिजा तं स्तनं ददौ २.८२.१०
गौतमादीन्पूजयित्वा ददौ दानान्यनेकशः ।
ततस्ते तदनुज्ञाता नाम प्रोचुर्महर्षयः ११
अयं ते बालतां यातोऽनादिसिद्धोऽखिलेश्वरः।
निर्माता सर्वलोकानां चराचरगुरोर्गुरुः १२
मायावी वेदवेदान्तागोचरो मध्यगे रवौ।
अवतीर्णः सुमुहर्ते कीर्तिमाविष्करिष्यति १३
भाद्रशुक्लचतुर्थ्यां तु शशिवारे च वायुमे ।
सिंहलग्ने पच्चशुभग्रहयुक्तेऽभवत्सुतः १४
श्रीमान्पराक्रमयुतोऽद्भुतकर्मा महाबलः ।
भविष्यति च लोकानां भक्तानामतिसौख्यदः १५
एकादशदिने शम्भो कुरु नामास्य सुन्दरम् ।
क उवाच ।
एवमुक्त्वा गताः सर्वे मुनयो निजमन्दिरम् १६
हरो बालं विनिक्षिप्य गिरिजाशयने शुभे ।
विसृज्य लोकानखिलान्बहिरायान्मुदान्वितः १७
ततः शेषो ययौ तत्र फणाच्छायामथाकरोत् ।
नीरजस्कां धरां चक्रुर्मेघास्तत्र सुखो ववौ १८
मारुतो मालतीगन्धो ननृतुश्चाप्सरोगणाः ।
जगुर्गन्धर्वसङघाश्च तुष्टुवुश्चारणा विभुम् १९
ततो मुनिगणाः सर्वे मृन्मूर्ति चक्रुरुत्तमाम् ।
मण्डपं शोभनं कृत्वा कदलीपुष्पमण्डितम् २.८२.२०
पुपूजुः परया भक्त्या पद्मासनगता मुदा ।
गुणेशेति गुणेशेति जेपुः सर्वे निरन्तरम् २१
अहोरात्रोषिताः सर्वे रात्रौ च जागरान्विताः ।
यथाशक्ति द्विजान्भोज्य चक्रुस्ते पारणं द्विजाः २२
एवं दशदिने विप्रान्भोजयामासुरादरात् ।
गृहे गृहे महोत्साहांश्चक्रुर्देवस्य तुष्टये २३
एकादशे तु दिवसे सर्वे मुनिगणाः शिवम् ।
आहूता आययुर्नाम कर्तुं शिवसुतस्य ह २४
मानितास्तेन ते सम्यक्कारयामासुरुत्तमम् ।
सर्वेशत्वाद्गुणेशेति सर्वविघ्नहरं शुभम् २५
शिवोऽपि तान्मुनीन्प्राह सम्यङनाम समीरितम् ।
सर्वारम्भेषु पूज्योऽयमिति तस्मै वरं ददौ २६
पूजिता मुनयः सर्वे दत्त्वा दानानि सर्वशः ।
आज्ञां गृहीत्वा शम्भोस्ते स्वस्वाश्रमपदं ययुः २७
अन्तर्गृहगता देवी पुपूजे देवताः स्वयम् ।
तदादि सा तिथिः ख्याता गुणेशस्य वरप्रदा २८
तस्यां महोत्सवः कार्यश्चतुर्थ्यां स्वशुभाप्तये ।
मृन्मयीं प्रतिमां कृत्वा पूजयेच्च यथाविधि २९
कृत्वा मण्डपिकां चारुमुपोष्य जागृयान्निशि ।
मोदकापूपलड्डूकैः पायसैः पूजयेद्विभुम् २.८२.३०
अपरस्मिन्दिने विप्रान्भोजयेच्च यथाविधि ।
एकविंशतिसंख्याकान्यथाशक्ति च दक्षिणाम् ३१
दत्त्वा तेभ्यो नमस्कृत्य पश्चाद्भोजनमाचरेत् ।
यो न पूजयते चास्यां गणेशं मृन्मयं नरः ३२
स विघ्नैरभिभूतः सन्नानारोगै प्रपीड्यते।
न तस्य दर्शनं कुर्यात्पतितस्येव कर्हिचित् ३३
जाते तु दर्शने तस्य गणेशं नाम संस्मरेत् ।
चतुर्थ्या महिमानं नो न शक्यं सुनिरूपितुम् ३४
कर्माणि तु गुणेशस्य यथामति निरूपये ।
गुप्तरूपाः सिन्धुदूताः शंकरालयसंस्थिताः ३५
तमुदन्तं तु ते गत्वा प्रावदन्सिन्धवे तदा ।
समासीनाय योधैश्च बहुभिर्वेष्टिताय च ३६
स्थापयित्वाऽप्सरोनृत्यं गानं गन्धर्वसंभवम् ।
दूता ऊचुः ।
दक्षिणे दण्डकारण्ये त्रिसन्ध्याक्षेत्रसंज्ञिते ३७
गत्वा तत्र दृष्टवन्तो भगवन्तं शिवाभिधम् ।
अष्टाशीतिसहस्राणां मुनीनामाश्रमान्बहून् ३८
एकस्मिन्दिवसे बालं शिवा प्रासूत षड्भुजम् ।
लावण्यकोशं त्रैलोक्येऽनुपमं महसोज्ज्वलम् ३९
दशाहस्सु महोत्साहैर्गतेषु मुनिपुंगवाः ।
चक्रुर्नाम गुणेशेति तस्य बालस्य शंकरः २.८२.४०
वयं वादित्रनिर्घोषैर्बधिरा इव तस्थितम ।
यदि हन्तुं गमिष्यामः सप्तकोटिगणास्तदा ४१
एकैकस्य बलं घोरं पर्वतोन्मूलनक्षमम् ।
निहन्युः सहसाऽभ्येत्य वृत्तान्तं को निवेदयेत् ४२
क उवाच ।
एव वदत्सु दूतेषु शुश्रुवे व्योमवाक् तदा ।
उत्पन्नः क्वापि ते हन्ता सिन्धो सावधतां व्रज ४३
सिन्धुरुवाच ।
वध्यतां वध्यतां कोऽयं ब्रूते दुष्टवचोऽत्र ह ।
क उवाच ।
केचिदुड्डीय पतिता धावयित्वाऽपरे ययुः ४४
तावद्दैत्यो महामूर्च्छां संप्राप्तः पतितो भुवि ।
चिन्तामग्नो म्लानमुखो निरुत्साहो हतप्रभः ४५
उवाच विस्खलद्वाचो मुहूर्तात्प्राप्य चेतनाम् ।
त्रैलोक्यकण्टकस्यापि कण्टकः क उपस्थितः ४६
कथं हन्याद्गजः सिंहं मशको वाथ वारणम् ।
त्रयस्त्रिंशत्कोटिदेवा निर्जिताः क्षणमात्रतः ४७
तस्य मे मरणं कस्माज्जायेत व्योमवाङ्मृषा ।
ऋताऽस्तु वा गमिष्यामि भक्षितुं तमहं रिपुम् ४८
एवमुक्त्वा क्षणार्धात्स भद्रासनगतोऽभवत् ।
सर्वे वीरास्ततो याताः श्रुत्वा वार्तां तथाविधाम् ४९
त्वमेव मृत्योर्मृत्युश्च तत्र मृत्युः कथं भवेत् ।
इत्यूचुस्ते भवेद्वापि तं क्यं घातयामहे २.८२.५०
स्वर्गे भूमौ तले वापि गगने वा वसेद्यदि ।
देह्याज्ञां नो गमिष्यामो दैत्यास्तानब्रवीदथ ५१
सखीनां सेवकानां च पीत्वा वाक्यामृतं परम् ।
प्रीतोऽहं यान्तु शीघ्रं तु यत्र मे स रिपुर्भवेत् ५२
अनेकमायया हत्वा रिपुं मम निवेद्यताम् ।
क उवाच । एवमाज्ञां गृहीत्वा ते संख्यातीता ययुस्ततः ५३
त्रिसन्ध्याक्षेत्रमासाद्य गुप्तरूपेण चावसन् ।
गौरीसुतं तत्र कुत्र मायया हन्म इत्युत ५४ ( ३६४८ )
इति श्रीगणेशपुराणे क्रीडाखण्डे द्व्यशीतितमोऽध्यायः ८२

अध्याय ८३ प्रारंभ :-
क उवाच ।
शुक्लचन्द्र इव ब्रह्मन्ववृधे स दिने दिने ।
ततो हिमालयः प्रायाच्छ्रुत्वा गौरीसुतं शुभम् १
अलंकारान्समादाय मूल्यरत्नसमन्वितान् ।
अजिरे तं निरीक्ष्यैव धावयित्वा ययौ सुता २
आलिलिंग मुदा गौरो बहुकालागतं च तम् ।
आनन्दाश्रूणि साऽमुञ्च्चत्सोऽपि सा तं ततोऽवदत् ३
गौर्युवाच ।
कथं निष्ठुरतां यातो वृत्तान्तं मम कर्हिचित् ।
न गृह्णासि न वा स्वीयं प्रेषयस्यपि निर्दय ४
हिमवानुवाच ।
सत्यं वदसि गौरि त्वं कण्ठे प्राणा मम स्थिताः ।
अतस्त्वद्दर्शनाकांक्षी प्राप्तोऽहं हरवल्लभे ५
वत्से धेनुमनो यद्वत्तद्वत्त्वयि मनो मम ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं सा ददावासनं शुभम् ६
उपविष्टोऽब्रवीद्वाक्यं पुनर्गिरिवरः सुताम् ।
श्रुतो नारदवाक्येन पुत्रस्ते परमाद्भुतः ७
ततस्तं द्रष्टुमायातः सर्वविघ्नहरं शुभम्।
क उवाच ।
पार्वती बालमादाय पितुरंके न्यवेशयत् ८
सोऽलंकारैरलङ्कृत्य महिमानं ततोऽब्रवीत् ।
स उवाच ।
अयं बालो महामायः करिष्यति महीमिमाम् ९
निष्कण्टकां यथा चन्द्रः शीतलां स्वकरैरिमाम् ।
अयं देवगणान्सर्वान्स्वस्थाने स्थापयिष्यति २.८३.१०
करिष्यत्यङ्घ्रिसेवां ते शिशोरस्य मुनीश्वराः ।
एतस्य सर्वरूपाणि स्थावराणि चराणि च ११
अयमेव सदा ध्येयो ब्रह्मादीनां सहस्रदृक् ।
सहस्राङघ्रिः सर्वजगत्कारणानां च कारणम् १२
सहस्रास्योऽनन्तमूर्तिः समष्टिव्यष्टिरूपवान् ।
त्रैलोक्ये नेदृशो बालो दृष्टा क्वापि शुभायवान् १३
अहं तन्मयतां यातो दृष्ट्वा तत्पादपंकजम् ।
यथाऽम्भसि पयः क्षिप्तं याति तन्मयतां क्षणात् १४
अस्य यत्नं कुरु शुभे निधिरेष पुरातनः ।
क उवाच ।
मस्तके मुकुटं चास्य स्वांगदे भुजयोरपि १५
पंकजं हृदि श्रुत्योश्च कुण्डले रत्नभूषिते ।
कटिसूत्र कटौ चांडघ्र्योर्महार्हाः क्षुद्रघण्टिकाः १६
एवं दत्त्वा भूषणानि नाम चक्रे शुभं गिरिः ।
हेरम्बेति महाविघ्नहरं भक्ताभयप्रदम् १७
ततो भुक्त्वा गृहीत्वाज्ञां ययौ स्वस्थानमादिराद्र ।
एकस्मिन्दिवसे बालश्चिक्रीड निजमन्दिरे १८
गृध्रासुरो गृध्ररूपी महाबलपराक्रमः ।
पक्षवातेन यस्याद्रिचयश्चूर्णत्वमीयिवान् १९
गण्डशैलाश्च वृक्षाश्च पादाघातेन तस्य च ।
सपक्षच्छायया बालमाच्छाद्य खेऽभ्रमत्तदा २.८३.२०
नयनानि च सर्वेषां पक्षाघातरजःकणैः ।
आच्छादयन्महाशब्दैः श्रोत्रे बधिरतामियेत् २१
ततश्चंच्वा तु तं बालं गृहीत्वा गृध्रपुंगवः ।
व्योममार्गं गतो दूरं गरुडो भुजगं यथा २२
बभ्राम गगने दुष्टोऽजानन्बालपराक्रमम् ।
ततोऽपश्यद्गिरिसुता बालः कुत्र कुतो गतः २३
नापश्यच्चत्वरे तं तु ततः शोकाकुलाऽभवत् ।
केन नीतो मम सुतो दुष्टेन च दुरात्मना २४
उपविष्टा ततोऽपश्यद्व्योम्नि गृध्रमुखे सुतम्।
मूर्च्छिता पतिता भूमौ धाव धावेति चाब्रवीत् २५
मम प्राणा गमिष्यन्ति विना पुत्रं सुरेश्वर ।
कथं ममोपरि व्योम पतितं शंकरः कथम् २६
नैष्ठुर्यं परमं प्राप्तो मय्येव जगदीश्वरः ।
द्वादशाब्दं तपस्तप्तं निराहारतया मया २७
करुणाब्धिः स्वप्रकाशोऽवतीर्णोऽभून्ममालयम् ।
स गतो निधिरूपो मेऽभाग्यायाः पापसंचयात २८
गते बाले गतं सर्वं सुखमात्यन्तिकं मम ।
क उवाच ।
एवं तस्यां तु शोचन्त्यां शुशुचुस्तत्सखीजनाः २९
ततस्ते तत्समाधानं चक्रुर्ज्ञानेन युक्तिभिः ।
अनादिनिधने बाले न शोकं कर्तुमर्हसि २.८३.३०
स्वप्रकाशेऽवतीर्णे ते बह्वनुष्ठानयोगतः ।
कुत्र वा मृन्मयी मूर्तिश्चेतनामगमद्वद ३१
स्थिरा भव क्षणेन त्वं द्रक्ष्यसे स्वसुतं शुभे ।
अन्तकस्यान्तको बाल: पुनरेष्यति निष्ठया ३२
सखीजने वदत्येवं तावद्बालः स्वमुष्टिना ।
दधार चञ्चु बलवान्यथा श्वासो न निर्ययौ ३३
श्वासरोधाद्गतासुः स गृध्रस्तेन समन्वितः ।
निपपात महीपृष्ठे वज्राहत इवाचलः ३४
पतमानो गृध्रदेहो दशयोजन विस्तृतः ।
चूर्णयामास गेहानि तच्चित्रमभवद्भृशम् ३५
चैत्यवृक्षेषु भग्नेषु ययुः पक्षिगणा दिशः ।
ततो दृष्ट्वा तु तं बालमवदत्स सखीगणः ३६
अयमक्षतदेहस्तु पतितो गिरिजासुतः ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य त्वरिता बालमाददे ३७
गौरी निधाय हृदये परमानन्दमाप च ।
आश्चर्यं परमं प्राप्य ददौ दानान्यनेकशः ३८
गतमस्य महारिष्टमग्रे न स्यादिति द्विजा।
नमस्कृत्य द्विजान्प्रायान्मन्दिराभ्यन्तरं शिवा ३९
दशयोजनविस्तारः क्वासुरो बलवत्तरः ।
क्व बालः कोमलतनुर्लघुरूपो जघान तम् २.८३.४०
एतावतो बलमिदमग्रे किं वा करिष्यति ।
इत्युवाच सखीं गौरी स्तनपानं ददौ मुदा ४१
अयं लघुर्न मन्तव्यो यथा वह्निकणो दहेत् ।
महान्तं काष्ठनिचयं तथाऽनेन हतोऽसुरः ४२
ततस्तद्देहखण्डानि गणा दूरे निचिक्षिपुः ।
शृणुयादिदमाख्यानं सोऽसुरैर्नाभिभूयते ४३ (३६९१)
इति श्रीगणेशपुराणे क्रीडाखण्डे त्र्यशीतितमोऽध्यायः ॥८३॥

अध्याय ८४ प्रारंभ –
क उवाच ।
मासे द्वितीये गौरी तं सायमभ्यज्य बालकम् ।
स्थापयामास दोलायां गायति स्म मुदा बहु १
तावदाखू समायातौ मायारूपधरौ सुतम् ।
तौ क्षेमकुशलौ दैत्यौ तद्वधाकांक्षिणावुभौ २
नखदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गतौ ।
युध्यन्तौ पालनाभ्याशे स्फुरदंगरुहौ खलौ ३
ययोश्चीत्कारशब्देन श्रुतयो बधिरीकृताः।
पादाघातेन भूः सर्वा कृदक्षेत्रसमा कृता ४
ततो यष्टिं गृहीत्वा सा भीषयामास तावुभौ।
यनपरौ चोभावुपरिष्टाद्गतौ तदा ५
युध्यन्तौ पतितौ घोरौ बालकोपरि तावुभौ ।
उरस्थलाभिघातात्स बुबुधे बालकोत्तमः ६
कृत्वा कर्कशशब्दं तु सा बिभाय तदा शिवा।
बालभावेन हस्तौ स चालयामास भीतितः ७
तदाघातादुभौ नष्टजीवितौ पतितावधः।
वमन्तौ रुधिरं वक्त्राद्दृष्ट्वा भ्रान्ता शिवाऽभवत् ८
किचिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा ।
मोक्षं जग्मतुराघाताद्गणेशकरसंभवात् ९
तद्देहौ पतितौ घोरौ दशयोजनविस्तृतौ ।
कोलाहलो महानासीद्दृष्ट्वा देहौ तथा गतौ २.८४.१०
गणानां च सखीनां च पार्वत्या सुमहांस्तदा।
विध्वस्ता आश्रमा वृक्षाः पर्वता भुवनानि च११
पतद्भ्यां तच्छरीराभ्यां निर्जियाभ्यां महान्त्यपि।
छित्त्वा छित्त्वा तु तद्देहौ गणा निन्युर्बहिस्तदा १२
पार्वती भयवित्रस्ता बालमादाय सत्वरम् ।
पाययामास स्नेहेन स्तन्यं बालकवत्सला १३
ऋषिपत्न्यः समायाता पार्वतीमूचिरेऽनघाः ।
पुण्यं महत्तु ते गौरि येन विघ्नं विनश्यति १४
द्विमासिकेन बालेन हतौ दुष्टौ महासुरौ।
अग्रे त्रिभुवनेऽनेन सदृशो न भविष्यति १५
माता राक्षसभूरत्र यत्नः कार्यः शिशाविह ।
नेष्यन्ति राक्षसा गुप्ता असुरा मायिनः परे १६
क उवाच ।
एवमुक्त्वा गता देव्यो गणास्तां तु समूचिरे ।
अयं तु ते शिवे बालो हनिष्यति दिने दिने १७
अस्माभिस्तु कियत्कालं बहिःकार्या हतासुराः ।
ततस्तु मुनयो जग्मू रक्षां चक्रुरथार्भके १८
ददौ दानानि तेभ्यः सा विससर्ज प्रणम्य तान् ।
ततस्तृतीये मासे तु स्वस्वकार्यरते जने ।
मध्याह्ने पार्वती बालं गृहीत्वा मंचकेऽस्वपत् १९
तत्परीचारिकाः सुप्ता काश्चित्कार्यान्तरे स्थिताः ।
चक्रुः काश्चिद्द्वारि वार्तामेतस्मिन्नन्तरेऽसुरः २.८४.२०
कूराख्यश्चोतुवेषण विवेश गिरिजालयम् ।
वंचयित्वा लोकदृष्टिं श्वेव दुष्टो महाबलः २१
स निरीक्ष्य शिवां सुप्तां जहृषे मनसा तदा ।
यावन्निद्राति गिरिजा तावन्नेष्ये शिशुं त्वहम् २२
लाघवान्मंचकारूढो बालमादाय मस्तके ।
मंचकाधः पपाताशु चुक्रोश बालकस्तदा २३
ततः प्रबुद्धा गिरिजा बिडालास्यगतं शिशुम् ।
निरीक्ष्य धाव धावेति प्राक्रोशद्भयविह्वला २४
निमील्य नयने मूर्च्छामगाद्दुःखेन भीतितः ।
कण्ठे दशति यावत्स तावद्बालो दधार तम् २५
कर्णयोरुभयोर्दोर्भ्यां स्वभावात्पादताडनात् ।
न्यपातयच्छिरोदेशे मंचकाधो महासुरम् २६
स भिन्नहृदयोऽधावद्बहिर्गत्वा पपात ह।
महावातेन वृक्षात्तु पक्वं किंचित्फलं यथा २७
दुर्गन्धं रुधिरं तस्य पतितं धरणीतले ।
आच्छादयन्नासिकां सा गिरिजा शोकविह्वला २८
आदाय तस्मै प्रादात्सा स्तनपानं शिशोस्तदा ।
आगता बालशब्देन सर्वास्ताः परिचारिकाः २९
स्पृशन्ति स्म तदांगानि प्रत्येकं कौतुकान्विताः ।
अजरामरतामस्य निश्चित्य मनसा तु ताः २.८४.३०
स तु दीर्घो बिडालोऽभूत्तदा द्वादशयोजनम् ।
कियत्यश्चूर्णिताः सख्यः कियत्यः परिचारिकाः ३१
गणाश्चैव समायाता ओतुं दृष्ट्वा तथाविधम्।
आश्चर्यं परमं चक्रुर्बालकस्य पराक्रमे ३२
क्व दैत्यो मायिको दुष्टः क्व बालचरणाहतिः ।
इन्द्रादीनामवध्या ये हन्यन्तेऽनेन लीलया ३३
इत्युक्त्वाज्ञां गृहीत्वा ते गणा याता निजं पदम् ।
केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः ३४
कटिदेशे गृहीत्वैनं साऽविशन्निजमन्दिरम् ।
ततश्चुतर्थे मासे तु मुनिपत्न्यः समागताः ३५
नानासौभाग्यद्रव्याणि गृहीत्वोत्तरगे रवौ ।
अबालाश्च सबालाश्च पार्वत्यामंदिरं शुभम् ३६
तासामासनसत्कारान्ददौ दाक्षायणी तदा ।
नमस्करोति ता नारीः कटौ बालं प्रगृहय च ३७
परस्परं समर्चन्त्यां हरिद्राकुंकुमादिभिः ।
भूमौ संस्थाप्य बालानि गतिमन्त्यगतीनि च ३८
पार्वतीयस्ततस्तेषु क्रीडते स्मापि बालकः ।
तेन सर्वे शुशुभिरे शशिनोडुगणो यथा ३९
दृष्ट्वा ता मुनिपत्न्यस्तमूचुर्गिरिसुतामिति ।
धन्याऽसि गौरि पुत्रेण शिवदत्तेन भास्वता २.८४.४०
तव बालस्य सान्निध्याद्भासन्ते नोऽपि बालकाः ।
निधिसंगेन हेमत्वं लोहेनापि समाप्यते ४१
एवं कौतुकयुक्तास्ता आनर्चुश्च परस्परम् ।
हरिद्राभिः कुंकमेक्षुखण्डचन्दनगृंजकैः ४२
तिलैर्गुडैस्तालपत्रैर्नानापरिमलैरपि ।
काश्चिदंगे हरिद्रां च मुखेषु च लिलिम्पिरे ४३
एतस्मिनन्तरे दैत्यो नाम्ना बालासुरो महान् ।
बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ ४४
चिक्रीड पार्वतीयेन युध्यन्निव विनोदतः ।
यथासिंहेन क्रोष्टा तु महिषो वा गजेन च ४५
कण्ठेन कण्ठं संघृष्य पेततुर्भुवि दारुणौ।
मस्तके चरणाभ्यां सोऽहनद्दुष्टो गजाननम् ४६
कचादानाय हस्ताभ्यां विचकर्ष बलादमुम् ।
स्वयं च गर्जते दुष्टो वृद्धः क्रोष्टा यथा निशि ४७
दृष्ट्वा तथाविधौ तौ सा गिरिजा प्राह ताः स्त्रियः ।
कस्यर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम ४८
क्रन्दतेऽसौ खर इव प्रहरे प्रहरे खलः ।
अर्भकाणां स्वभावोऽयमित्युपेक्षितवत्यसौ ४९
तौ तु भूमिगतौ बालौ लुण्ठतः स्मानुवत्सलौ ।
धृत्वा परस्परं केशानाकर्षन्तं च सर्वशः २.८४.५०
हसन्तौ हासयन्तौ च बालकांश्च मुनिस्त्रियः ।
जानन्नपि महादैत्यं खेलति स्म विनायकः ५१
ततो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरम् ।
जीवग्राहं कण्ठदेशे दधार गणनायकम् ५२
तथा तं सोऽपि जग्राह रुद्धश्वासोऽसुरोऽभवत् ।
विह्वलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्त्रियः ५३
ययुश्च चक्रुशुर्बालो निहतोऽनेन निश्चितम् ।
धावमाना ययुः काश्चिन्नाशकन्मोचितुं हि तौ ५४
स्त्रियश्च पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् ।
ऊचुर्विमोचयैनं त्वं मुनिपुत्रो मरिष्यति ५५
ततः सा पार्वती बालं मुंच मुंचेति साऽब्रवीत ।
अस्मिन्मृते शपिष्यन्ति मुनयो नस्तपोन्विताः ५६
जीवदानात्परं पुण्यं नास्ति ब्रह्माण्डगोलके ।
गमिष्यति महाशक्तिस्तव तेषां तु शापतः ५७
क उवाच ।
एवं यावत्प्रार्थयते गिरिजा तावदेव हि ।
नेत्रद्वारेण तत्प्राणा गता बुद्बुदवत्क्षणात् ५८
ददृशुस्तं ततः सर्वे दशयोजनमायतम् ।
करालवक्त्रं पतितं चूर्णयित्वा महाद्रुमान् ५९
ततः स्त्रियो ययुर्भीता बालमादाय सत्वराः ।
वृकवृन्दं हि दृष्ट्वैव धेनवोऽजा यथा भयात् २.८४.६०
गिरिजापि स्वकं गृहय भ्रामयित्वा सुतं मुदम् ।
दत्त्वा स्तनं कारयित्वा शान्तिकं द्विजपुंगवैः ६१
ददौ दानानि तेभ्यः सा जगृहे आशिषो बहु ।
न जाने आसुरीं मायां कियन्तो यान्ति नाशितुम् ६२
ततस्ते विलयं यान्ति मम बालान्महाखलाः ।
ईश्वरे सानुकूले कः पीडितुं क्षमते जनम् ६३
क उवाच ।
एवमाकर्ण्य तद्वाक्यं मुनिपत्न्यो ययुश्च ते ।
गणास्तं दूरतः क्षिप्त्वा स्नात्वा स्वं धाम लेभिरे ६४ (३७५५)
इति श्रीगणेशपुराणे क्रीडाखण्डे बालासुरवधो नाम चतुरशीतितमोऽध्यायः ८४

क उवाच ।
श्रुत्वा मुनिमुखात्पुत्रं गिरिजाया महाबलम् ।
पंचमे मासि संप्राप्ते मरोचिर्वीक्षितुं ययौ १
भूत- भव्यभविष्यज्ञः समलोष्ठाश्मकांचनः ।
वेदशास्त्रार्थतत्त्वज्ञो न्यस्तस्वपरविभ्रमः २
संहारे रक्षणे सृष्टौ मनसा जगतः क्षमः ।
तं दृष्ट्वा पादयोस्तस्य पतिता सखिभिः सह ३
उपवेश्यासने पादौ क्षालयामास भक्तितः ।
तज्जलं पावनं पीत्वा सिषेचान्तर्गुहं मदा ४
उपचारैः षोडशभिः पुपूजेश्वरभावना ।
उवाच पार्वती तुष्टा लभ्यं दृष्टं पदं हि ते ५
मुनिरुवाच ।
अहमात्ममना देवि न व्रजामि हि कुत्रचित् ।
अकस्माद्ध्यानविषयस्तव पुत्रो बभूव मे ६
तस्य ते दर्शनाकांक्षी शिबस्याप्यहमागतः ।
क उवाच ।
एवमाकर्ण्य सा वाक्यं तस्यर्षेस्तनयं स्वकम् ७
अतिप्रीतिमना गौरी तस्यांके संन्यवेशत् ।
ऊचे सा तं महाभाग्यं फलितं दर्शनात्तव ८
पुण्यं च परमं प्राप्तं शुभमग्रे भविष्यति ।
मुनिरुवाच ।
गौरि तेऽयं सुतो ब्रह्मस्वरूपो भासते मम ९
षट्चक्रभेदनरता योगनिष्ठा महर्षयः ।
वायुभक्ष्या उपासन्ते यं ते सोऽयं तवात्मजः २.८५.१०
गुणत्रयबिभेदेन त्रितनुस्त्रिक्रियाकरः ।
यत्सत्तयाथ शेषोऽपि वहते मस्तके भुवम ११
अणुरूपः स्थूलरूपः सप्तविंशतितत्त्वकृत् ।
चेतनाचेतनं विश्वं यद्रूपं सर्वकर्मकृत् १२
युगे दशभुजः पूर्वे सिंहारूढो विनायकः ।
द्वितीये षड्भुजो बर्हिवाहनः शशिसन्निभः १३
मयूरेश इति ख्यातो नानादैत्यनिबर्हणः ।
तृतीये तु युगे देवो रक्तवर्णश्चतुर्भुजः १४
गजानन इति ख्यातो धूम्रवर्णः कलौ युगे।
धूमकेतुरिति ख्यातो द्विभुजः सर्वदैत्यहा १५
एतस्य रक्षणं गौरि दैत्येभ्यः कुरु सर्वदा ।
गौर्युवाच ।
एषोऽतिचपलो बालो दैत्यान्हन्ति बहूनपि १६
अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ।
दैत्या नानाविधा दुष्टाः साधुदेवद्रुहः खलाः ।
अतोऽस्य कण्ठे किंचित्त्वं रक्षार्थं बद्धुमर्हसि १७
मुनिरुवाच ।
ध्यायेत्सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे
त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् ।
द्वापारे तु गजाननं युगभुजं रक्तांकरागं विभुं
तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा १८
विनायकः शिखां पातु परमात्मा परात्परः ।
अतिसुन्दरकायस्तु मस्तकं सुमहोत्कट: १९
ललाटं काश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने भालचन्द्रस्तु गजास्यत्वोष्ठपल्लवौ २.८५.२०
जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः ।
वाचं विनायकः पातु दन्तान्रक्षतु दुर्मुखः २१
श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः ।
गणेशस्तु मुखं कण्ठं पातु देवो गणंजयः २२
स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः ।
हृदयं गणनाथस्तु हेरम्बो जठरं महान् २३
धराधरः पातु पार्श्वं पृष्ठं विघ्नहरः शुभः ।
लिंगं गुह्यं सदाऽपातु वक्रतुण्डो महाबलः २४
गणक्रीडो जानुजंघे ऊरूमंगलमूर्तिमान् ।
एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु २५
क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः ।
अंगुलीश्च नखान्पातु पद्महस्तोऽरिनाशनः २६
सर्वागांनि मयूरेशो विश्वव्यापी सदाऽवतु ।
अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु २७
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु ।
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः २८
दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः २९
कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः ।
दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत २.८५.३०
राक्षसासुरवेतालग्रहभूतपिशाचतः ।
पाशांकुशधरः पातु रजः सत्त्वं तमः स्मृतिम् ३१
ज्ञानं धर्म च लक्ष्मीं च लज्जां कीर्तिं दयां कुलम् ।
वपुर्धनं च धान्यं च गृहां दारान्सुतान्सखीन ३२
सर्वायुधधरः पौत्रान्मयूरेशोऽवतात्सदा ।
कपिलोऽजाविकं पातु गवाश्वं विकटोऽवतु ३३
भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत्सुधीः ।
न भयं जायते तस्य यक्षरक्षः पिशाचतः ३४
त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् ।
यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ३५
युद्धकाले पठेद्यस्तु विजयं प्राप्नुयाद्ध्रुवम् ।
मारणोच्चाटनाकर्षस्तम्भमोहनकर्मणि ३६
सप्तवारं पठेद्यस्तु दिननामेकविंशतिम् ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ३७
एकविंशतिवारं च पठेत्तावद्दिनानि यः ।
कारागृहगतं सद्यो राज्ञा वध्यं च मोचयेत् ३८
राजदर्शनेवेलायां पठेदेतत् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतिं च सभां जयेत् ३९
इदं गणेशकवचं मुद्गलेन समीरितम्।
कश्यपाय च तेनाथ माण्डव्याय महर्षये २.८५.४०
मह्यं स प्राह कृपया कवचं सर्वसिद्धिदम् ।
न देयं भक्तिहीनाय देयं श्रद्धावते शुभं।
सर्वरक्षाकरं सर्वमनःकामप्रपूरकम् । ४१
अनेनास्य कृता रक्षा न बाधाऽस्य भवेत्क्वचित् ।
रक्षसासुरवेतालदैत्यदानवसंभवा ४२ (३७९७)
इति श्री गणेशपुराणे क्रीडाखण्डे गणेशकवचं नाम पंचाशीतितमोध्याययः ॥८५॥