सारावली

विकिस्रोतः तः
॥श्रीगणेशाय नमः॥
श्रीमत्कल्याणवर्मसूरिविरचिता सारावली


प्रथमोऽध्यायः[सम्पाद्यताम्]

(शास्त्रावतारः)

मङ्गलाचरणम्

यस्योदये जगदिदं प्रतिबोधमेति मध्यस्थिते प्रसरति प्रकृतिक्रियासु।

अस्तं गते स्वपिति चोच्छवसितैकमात्रं भावत्रये स जयति प्रकटप्रभावः॥1॥

विस्तरकृतानि मुनिभिः परिहृत्य पुरातनानि शास्त्राणि।

होरातन्त्रं रचितं वराहमिहिरेण संक्षेपात्॥2॥

राशिदशवर्गभूपतियोगायुदार्यतो दशादीनाम्।

विषयविभागं स्पष्टं कर्तुं न तु शक्यते यतस्तेन॥3॥

अत एव विस्तरेभ्यो यवननरेन्द्रादिरचितशास्त्रेभ्यः।

सकलमसारं त्यक्त्वा तेभ्यः सारं समुद्ध्रियते॥4॥

देवग्रामपुरप्रोषणबलाद्ब्रह्माण्डसत्पञ्जरे

कीर्तिर्हसविलासिनीव सहसा यस्येह भात्यातता।

श्रीमद्व्याघ्रपदीश्वरो रचयति स्पष्टां स सारावलीं

होराशास्त्रविनिर्मलीकृतमनाः कल्याणवर्मा कृती॥5॥

होरातृष्णार्तानां शिष्याणां स्फुटतरार्थशिशिरजला।

कल्याणवर्मशैलान्नदीव सारावली प्रसृता॥6॥

इति कल्याणवर्मविरचितायां सारावल्यां शास्त्रावतारो नाम प्रथमोऽध्यायः

द्वितीयोऽध्यायः[सम्पाद्यताम्]

(होराशब्दार्थचिन्ता)

विधात्रा लिखिता याऽसौ ललाटेऽक्षरमालिका।

दैवज्ञातां पठेद्व्यक्तं होरानिर्मलचक्षुषा॥1॥

(हो.र. 1 अ. 25 श्लो.)आद्यन्तवर्णलोपाद्धोराशास्त्रं भवत्यहोरात्रम्(त्यहोरात्रम्)।

तत्प्रतिबद्धश्चायं ग्रहभगणश्चिन्त्यते यस्मात्(द्रष्टव्य वृहत्पाराशर)॥2॥

कर्मफललाभहेतुं चतुराः संवर्णयन्त्यन्ये।

होरेति शास्त्रसंज्ञा लग्नस्य तथार्धराशेश्च(द्र.वृ. जा. 2।9)॥3॥

जातकमिति प्रसिद्धं यल्लोके तदिह कीर्त्यते होरा।

अथवा दैवविमर्शनपर्यायः खल्वयं शब्दः॥4॥

(हो.र. 1 अ. पृ. 7)अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः।

यात्रासमये मन्त्री जातकमपहाय नास्त्यपरः॥5॥

इति कल्याणवर्मविरचितायां सारावल्यां होराशब्दार्थ होराशास्त्रचिन्ता नाम द्विकतीयोऽध्यायः

तृतीयोऽध्यायः[सम्पाद्यताम्]

(होराशब्दार्थचिन्ता)

उदितो भगवान् भानुः प्रकाशयन् स्वप्रकाशेन॥1॥

व्यसृजज्जगत्समस्तं ग्रहर्क्षसंघातकल्पितावगतम्(वयवम्)।

(ग्रहभवनाद्यैः, ग्रहदशभेदै)द्वादशभेदैश्चित्रः कालः संप्रस्तुतस्तस्मात्॥2॥

मेषवृषमिथुनकर्कटसिंहाः कन्या तुलाथ(तुलाऽलयश्चैव) वृश्चिककः।

धन्वी मकरः कुम्भो मीनस्त्विति राशिनामानि(हो.र. 1 अ. 14 पृ.)॥3॥

(द्र. वृ. जा.)कुम्भः कुम्भधरो नरोऽथ मिथुनं वीणागदाभृन्नरौ

मीनो मीनयुगं धनुश्च सधनुः पश्चाच्छरीरो हयः।

एणास्यो मकरः प्रदीपसहिता कन्या च नौसंस्थिता

शेषो राशिगणः स्वनामसदृशो धत्ते तुलाभृत्तुलाम्॥4॥

शीर्षास्यबाहुहृदयं जठरं कटिबस्तिमेहनोरुयुगम्।

(जानुक)जानू जंघे चरणौ कालस्याङ्गानि राशयोऽजाद्याः॥5॥

(हो.र. 1अ .16 पृ. लघुजातक 1।5)कालनरस्यावयवान्पुरुषाणां कल्पयेत्प्रसवकाले।

सदसद्ग्रहसंयोगात्पुष्टान्सोपद्रवांश्चापि॥6॥

(हो.र.1 अ. 27 पृ.)मेषादीनां क्रियतावुरुजुतुमकुलीरलेयपाथोनाः(पाथेयाः)।

संज्ञास्तु जूककौर्पिकतौक्षाकोकेरहृदयरोगान्त्याः॥7॥

ऋक्षं भवननामानि राशिः क्षेत्रं भमेव वा।

उक्तानि पूर्वमुनिभिस्तुल्यार्थप्रतिपत्तये॥8॥

द्वादशमण्डलभगणं(भगणएः) तस्यार्धे सिंहतो रविर्नाथः।

कर्कटकात्प्रतिलोमं शशी तथान्येऽपि तत्स्थानात्॥9॥

भानोरर्धे विहगैः शूरास्तेजस्विनश्च साहसिकाः।

शशिनो मृदवः सौम्याः सौभाग्ययुताः प्रजायन्ते॥10॥

(हो.र. 1 अ. पृ. 31)कुजभृगुबुधेन्दुरविशशिसुतसितरुधिरार्यमन्दशनिजीवाः।

गृहपा नवभागानामजमृग(तुलकर्कटाश्चाद्याः) घटकर्कटाद्याश्च॥11॥

भवनाधिपैः समस्तं जातकविहितं विचिन्तयेन्मतिमान्।

एभिर्विना न शक्यं पदमपि गन्तुं महाशास्त्रे॥12॥

(द्र.वृ. जा. 1।14)वर्गोत्तमा नवांशास्तथादिमध्यान्तगाश्चराद्येषु।

सूतौ कुलमुख्यकारा द्वादशभागाः स्वरांश्याद्याः॥13॥

स्वर्क्षसुतनवमभेशा द्रेष्काणानां क्रमाच्च होराणाम्।

रविचन्द्राविन्दुरवी विषमसमेष्वर्धराशीनाम्॥14॥

(हो.र. 1 अ 35 पृ.)शरपञ्चाष्टमुनीन्द्रियभागास्त्रिंशांशकास्तु विषमेषु।

युग्मेषूत्क्रमगण्याः कुजार्किजीवज्ञशुक्राणाम्॥15॥

(हो. र. 1 अ. 39 पृ.)मेषालिमिथुनमृगहरिमीनतुलावृषभचापधरकर्की।

घटधरकन्यापूर्वाः सप्तांशानां भवन्तीशाः॥16॥

षष्टिर्होरात्रिंशच्चूडपदानां द्विसप्ततिसमेता।

लिप्तानामष्टादशशतानि परिवर्तनैः स्वगृहात्॥17॥

लग्नादीनां लिप्ता ज्ञेयाः स्वगृहादिवर्गसंगुणिताः।

अष्टादशशतभक्ताल्लब्धः स्यादीप्सितो वर्गः॥18॥

एतेषां गुणदोषान् विस्तरतो नष्टजातक वक्ष्ये।

एभिः स्पष्टतरं तत्प्रत्यक्षपरीक्षणं यस्मात्॥19॥

अजादितः क्रूरशुभौ पुमांस्त्री चरः स्थिरो मिश्रतनुश्च दृष्टाः।

कुलीरमीनालिगृहान्तसन्धिं वदन्ति गण्डान्तमिति प्रसिद्धम्॥20॥

जातो न जीवति नरो मातुरपथ्यो भवेत्स्वकुलहन्ता।

यदि जीवति गण्डान्ते बहुगजतुरगो भवेद्भूपः॥21॥

ऐन्द्रान्द्यं परिवर्तैस्त्रितयं त्रितयं त्रिभिस्तु मेषाद्यैः।

एभिर्दिक्षु निबद्धैर्यात्रादि विकल्पयेत्कार्ये(त्कार्यम्)॥22॥

नरपशुवृश्चिकजलजा यथाक्रमं प्राग्दिगादिगा बलिनः।

निशि दिवसे सन्ध्यायां पशवः पुरुषो मृगालिकर्किझषाः॥23॥

(द्र.बृ.जा. 1।10)नक्तंबला मिथुनकर्किमृगाजगोश्वाद्युःश्रेष्ठका हरितुलालिघटान्त्यकन्याः।

पृष्ठोदयाः समिथुना मिथुनं विहाय शेषाः शिरोभियदन्त्युभयेन मीनः॥24॥

(द्र.बृ. जा. 2।19)आत्मीयनाथदृष्टः सहितस्तेनैव तत्प्रियैर्वापि।

शशिसुतजीवाभ्यामपि राशिर्बलवान्न चेच्छेषैः॥25॥

 

तन्वर्थसहजबान्धवपुत्ररिस्त्रीविनाशपुण्यानि।

कर्मायव्ययभावा लग्नाद्या भावतश्चिन्त्याः॥26॥

(कल्पस्वविक्रम हो. र. 1 अ. पृ. 56)शक्तिधनपौरुषगृहप्रतिभाव्रणकामदेहविवराणि।

गुरुमानभवव्ययमिति कथितान्यपराणि नामानि॥27॥

संज्ञा वेश्माष्टमयोश्चतुरस्रं वै तपश्च नवमस्य।

होरास्तदशजलानां चतुष्टयं कण्टकं केन्द्रम्॥28॥

नामानि चतुर्थस्य तु सुखजलपातालबन्धुहिबुकानि।

कर्माज्ञामेषूरणगगनाख्यं कीर्त्यते दशमम्॥29॥

धर्मसुतयोस्त्रिकोणं सुतस्य धीस्त्रिकोणमिति(मथ) तपसः।

द्यूनं जायास्तमयं जामित्रं सप्तमस्याख्याः॥30॥

षट्कोणं रिपुभवनं तृतीयमथ कीर्तयन्ति दुश्चिक्यम्।

रिःफं द्वादशभवनं (कुटुम्बसंज्ञं द्वितीयमथ परतः)द्वितीयसंज्ञं कुटुम्बं च॥31॥

केन्द्रात्परं पणफरमापोक्लिमसंज्ञितं तयोः परतः।

बालयुवस्थविरत्वे क्रमेण फलदा ग्रहास्तेषु॥32॥

षड्दशभवदुश्चिक्यान्युपचयसंज्ञानि कीर्त्यन्ते।

स्वतनुसुखसुतास्ततपश्छिद्रव्ययसंज्ञि(भवनानि)तानि चान्यानि॥33॥

सिंहवृषमेषकन्याः कार्मुकभृत्तौलिकुम्भधराः।

सूर्यादीनामेते त्रिकोणभवनानि कथ्यन्ते॥34॥

सूर्यादीनामुच्चाः क्रियवृषमृगयुवतिकर्किमीनतुलाः।

स्वोच्चगृहकथितभागा यथाक्रमेणैव परमोच्चाः॥35॥

दिग्वह्न्यष्टाविंशतितिथिबाणत्रिघनविंशतयः।

स्वोच्चात्सप्तमराशिर्नीचः स्यादंशकात्परमम्॥36॥

(हो.र.1अ. 44 पृ.)ह्रस्वास्तिमिगोजघटा मिथुनधनुःकर्किमृगमुखाश्च समाः।

वृश्चिककन्यामृगपतिवणिचो दीर्घाः समाख्याताः॥37॥

एभिर्लग्नाधिगतैः शीर्षप्रभृतीनि वै शरीराणि।

सदृशानि विजायन्ते युतगगनजरैश्च तुल्यानि॥38॥

(हो. र. 1 अ. 52 पृ.)भवनाधिपदिङ्नाम प्लव इति यवनैः प्रयत्नतः कथितः।

तत्पलवगो विनिहन्यादचिरेण महीपतिः शत्रून्॥39॥

(हो. र. 1 अ. 53 पृ.)लोहितसितशुकहरिताः पाटलपरिधूम्रपाण्डुचित्राश्च।

कृष्णकनकाभपिङ्गाः कर्बुरबभ्रुत्वजादिवर्णाः स्युः॥40॥

हन्ति हरेरिह शत्रूनिन्द्रध्वजिनीव देवरिपून्॥41॥

इति कल्याणवर्मविरचितायां सारावल्यां होराराशिभेदो नाम तृतीयोऽध्यायः

चतुर्थोऽध्यायः[सम्पाद्यताम्]

(ग्रहयोनिभेदः)

आत्मा रविः शीतकरस्तु चेतः सत्त्वं धराजः शशिजोऽथ वाणी।

ज्ञानं सुखं(ववेगुरुर्मदश्च शुक्रः) शुक्रगुरू मदश्च राहुः शनिः कालनरस्य दुःखम्॥1॥

आत्मादयो गगनगैर्वलिभिर्बलवत्तरा।

दुर्बलैर्दुर्बलास्ते तु विपरीतं शनेः फलम्(स्मृत्तम्)॥2॥

यथा यथा लग्नगृहाश्रयाणां समुद्गमोऽभूरित्त्रिविकल्पनानाम्(भूरिविकल्पनानाम्)।

तथा तथा शैलनगाष्टसंख्याः(शैलनवाष्ट) क्रमेण कालावयवाः प्रसूतौ(प्रसूताः)॥3॥

लग्नात्तत्क्षणमुदितं (बाममङ्गम्)बामाङ्गमथाबलम्।

सव्यार्धादितरं तस्य(रत्तस्य) नोद्गतं सबलं(सुफलं) च तत्॥4॥

मूर्धालोचनकर्णगन्धवहनं (गण्ड)गण्डौ हनुश्चाननं

ग्रीवास्कन्धभुजं तु पार्श्वहृदयक्रोडाश्च नाभिः पुनः।

बस्तिर्लिङ्गगुदे च मुष्कयुगलं चोरुद्वयं जानुनी।

जङ्घे पादयुगं विलग्नभवनात्पार्श्वद्वये कल्पिताः॥5॥

पापा व्रणं लाञ्छनमेषु(मेष) सौम्याः स्वांशे स्वराशावथवा स्थितेषु।

कुर्वन्ति जन्मोत्थितमेषु चिह्नमेषु(मेष्य) ग्रहास्तद्विपरीतसंस्थाः॥6॥

राजा रविः शशधरश्च(रस्तु) बुधः कुमारः सेनापतिः क्षितिसुतः सचिवौ सितेज्यौ।

भृत्यस्तयोश्च रविजः सबला नराणां कुर्वन्ति जन्मसमये निजमेव सत्त्वम्(रूपम्)॥7॥

(द्र.बृ. पारा. 3।14, बृ.जा. 2।1, जा. पा. 2।2)भानुः शुक्रः क्षमापुत्रः सैंहिकेयः शनिः शशी।

सौम्यस्त्रिदशमन्त्री च प्राच्यादिदिगधीश्वराः॥8॥

गुरुबुधशुक्राः सौम्या सौरिकुजार्कास्तु निगदिताः(निसर्गतः) पापाः।

शशिजोऽशुभसंयुक्तः क्षीणश्च निशाकरः (हो.र. 1 अ. 65 पृ.)पापः॥9॥

हेलिर्भानुः शशी चन्द्रः (क्रूरदृक्)क्रूराक्षः क्षितिनन्दनः।

आरो रक्तस्तथा वक्रो हेम्नो विद् ज्ञोऽथ बोधनः॥10॥

ईड्येज्यावङ्गिरा जीवो ह्यास्फुजिच्च सितो भृगुः।

मन्दः कोणो यमः कृष्णो विद्यादन्यानि लोकतः॥11॥

ताम्रसितारुणहरितकपोतविचित्रासिता इनादीनाम्।

(हो.र. 1 अ. 64 पृ.)पावकजलगुहकेशवशक्रशचीवेधसः पतयः॥12॥

अर्कादिग्रहदैवतमंत्रैः संपूज्य तामाशाम्।

कनकगजवाहनादीन्प्राप्नोति गतोऽरितः शीघ्रम्॥13॥

स्त्रीणां चन्द्रसितौ नपुंसकपती सोमात्मजार्कात्मजौ

पुंसां जीवदिवाकरक्षितिसुता विप्रस्य शुक्रोऽङ्गिरा।

राज्ञां सूर्यकुजौ विशां शशधरो मिश्रस्य मन्दो बुधः

शूद्राणां शिखिभूखतोयमरुतां भौमादयः कीर्तिताः॥14॥

कटुलवणतिक्तमिश्रितमधुराम्लकषायरसविशेषाणाम्।

(सुरग्रहकाग्नि हो. र.1अ. 75 पृ.)सुरतोयाग्निविहारर्थशयनपांसूत्कराणां च॥15॥

वस्त्राणां स्थूलाहतशिखिजलहतमध्यदृढसुजीर्णानाम्।

ताम्रमणि हेममिश्रितरूप्यकमुक्तायसां वाऽपि॥16॥

(हो.र. 1 अ. 67 पृ.)अयनक्षणदिवसर्तुकमासतदर्धशरदां दिनेशाद्याः।

शिशिरादीनामीशाः शनिसितभौमेन्दुबु(चन्द्रसुतः)धजीवाः॥17॥

लग्नाधिपतेस्तुल्यः कालो लग्नोदितांशकसमाख्यः।

वक्तव्यो रिपुविजयो गर्भेषु च कार्यसंयोगे॥18॥

(हो.र. 1 अ. 67 पृ.)ऋग्वेदाधिपतिर्जीवो यदुर्वेदपतिः सितः।

सामवेदाधिपो वक्रः शशिजोऽथर्ववेदराट्॥19॥

सुरपूज्यः शशिशुक्रौ दि नकरभौमौ बुधार्कजौ नाथाः।

विबुधमनुष्यपितॄणां तिर्यङ्नरकाधिवासानाम्॥20॥

स्वल्पाकुञ्चितमूर्धजः पटुमतिर्मुख्यस्वरूपस्वनो

नात्युच्चो मधुपिङ्गचारुनयनः शूरः प्रचण्डः स्थिरः।

रक्तश्यामतनुर्निगूढचरणः पित्तास्थिसारो महान्

गम्भीरश्चतुरस्त्रकः पृथुकरः कौसुम्भवासा रविः॥21॥

सौम्यः कान्तविलोचनो मधुरवाग्गौरः कृशाङ्गो युवा

प्रांशु सूक्ष्मनिकुञ्चितायितकचः प्राज्ञो मृदुः सात्त्विकः।

चारुर्वातकफात्मकः प्रियसखो रक्तैकसारो घृणी

वृद्धस्त्रीषु रतश्चलोऽतिसुभगः शुभ्राम्बरश्चन्द्रमाः॥22॥

ह्रस्वः पिङ्गललोचनो दृढवपुर्दीप्ताग्निकान्तिश्चलो

मज्जावानरुणाम्बरः पटुतरः शूरश्च निष्पन्नवाक्।

ह्रस्वाकुञ्चितदीप्तकेशतरुणः पित्तात्मकस्तामस -

श्चण्डः साहसिकोऽपि घातकुशलः संरक्तगौरः कुजः॥23॥

रक्तान्तायतलोचनो मधुरवाग्दूर्वादलश्यामल-

स्त्वक्सारोऽतिरजोधिकः स्फुटवचाः स्फीतस्त्रिदोषात्मकः।

हृष्टो मध्यमरूपवान्सुनिपुणो वृत्तः शिराभिस्ततः

सर्वस्याहुकरोति वेषवचनैः पालाशवासा बुधः॥24॥

ईषत्पिङ्गललोचनश्रुतिधरः सिंहाच्छनादः स्थिरः

सत्त्वाढ्यः सुविशुद्धकाञ्चनवपुः पीनोन्नतोरस्थलः।

ह्रस्वो धर्मरतो विनीतनिपुणो बुद्धोत्कटाक्षः क्षमी

स्यात्पीताम्बरधृक्क(भृत्क)फात्मकतनुर्मेदः प्रधानो गुरुः॥25॥

चारुर्दीर्घभुजः पृथूरुवदनः शुक्राधिकः कान्तिमान्

कृष्णाकुञ्चितसूक्ष्म­­(लम्बितकचो)लम्बिचिकुरो दूर्वादलश्यामलः(दुर्वाङ्कुरश्यामलः)।

कामी वातकफात्म3कोऽतिसुभगश्चित्राम्बरो(धिको) राजसो

लीलावान्मतिमान्विशालनयन(लामदेहः) स्थूलांसदेशः सितः॥26॥

पिङ्गो निम्नविलोचनः कृशतनुर्दीर्घः सिरालोऽलसः

कृष्णाङ्गः पवनात्मकोऽतिपिशुनः स्नाय्वततो निर्घणः।

मूर्ख स्थूलनखद्विजोऽतिमलिनो रूक्षोऽशुचिस्तामसो

रौद्र क्रोधपरो जरापरिणतः कृष्णाम्बरो भास्करिः॥27॥

मित्राणि सूर्याद्गुरुभौमचन्द्राः सूर्येन्दुपुत्रौ रविचन्द्रजीवाः।

भानुः सशुक्रः शशिसूर्यभौमा मन्देन्दुजौ शुक्रबुधौ क्रमेण॥28॥

शुक्रार्कजौ चन्द्रमसो न कश्चित्सौम्यः शशी शुक्रबुधौ रवीन्दू।

सोमार्कवक्रा रवितस्त्वमित्रा मित्रारिशेषो न सुहृन्न शत्रुः॥29॥

व्ययाम्बुधनखायेषु तृतीये सुहृदः स्थिताः।

तत्कालरिपवः षष्ठसप्ताष्टैकत्रिकोणगाः॥30॥

(द्र.बृ. पारा. 3।57-58, बृ.जा. 2।18. स. चि. 1।89) हितसमरिपुसंज्ञा ये निसर्गान्निरुक्ता

हिततमहितमध्यास्तेऽपि तत्कालमित्रैः।

रिपुसमसुहृदाख्याः सूतिकाले ग्रहेन्द्रा

अधिरिपुरिपुमध्या शत्रुभिश्चिन्तनीया॥31॥

संपश्यति(सव्यं संपश्यन्ति) स्थानात्सदा ग्रहाश्चरावृद्धितः सर्वे।

त्रिदशत्रिकोणचतुरस्त्रसप्तमानां फलं क्रमेणैव॥32॥

पूर्णं पश्यति रविजस्तृतीयदशमं त्रिकोणमपि जीवः।

चतुरस्त्रं भूमिसुतो द्यूनं च सितार्कशशिबुधाः क्रमशः॥33॥

(हो.र.1 अ. 88 पृ.)दिक्स्थानकालचोष्टाकृतं बलं सर्वनिर्णयविधाने।

वक्ष्ये चतुः प्रकारं ग्रहस्तु रिक्तो भवेदबलः॥34॥

लग्ने जीवबुधौ दिवाकरकुजौ व्योम्नि स्मरे भास्करि –

र्बन्धाविन्दुसितौ दिशाकृतमिदं स्वोच्चे स्वकोण स्वभे।

मित्रस्वांशकसंस्थितः शुभफलैर्दृष्टो बलीयान्ग्रहः

स्त्रीक्षेत्रे शशिभार्गवौ नरगृहे शेषा बले स्थानजे॥35॥

(द्र.बृ. पा. 3।36, बृ.जा 2।21)जीवार्कास्फुजितोऽह्नि विच्च सततं मन्देन्दुभौमा निशि

होरामासदिनाब्दपाश्च बलिनः सौम्याः सितेऽन्येऽसिते।

संग्रामे जयिनो विलोमगतयः संपूर्णगावो ग्रहाः

सूर्येन्दू पुनरुत्तरेण बलिनौ सत्योक्तचेष्टाबले॥36॥

उत्तरमयनं प्राप्ताः शुक्रकुजार्केन्द्रमन्त्रिणो बलिनः।

याम्यं शशिरविपुत्रौ द्वयेऽपि शशिजः स्ववर्गस्थः॥37॥

(युस्त्री)पुंस्त्रीनपुंसकाख्याः क्षेत्रेष्वाद्यन्तमध्यसंप्राप्ताः।

सूर्यान्निर्गत्य सदा नवोदिता यवनराजमतम्॥38॥

प्राग्रात्रिभागेऽतिबलः शशाङ्कः शुक्रो निशार्धेऽवनिजो निशान्ते।

प्रातर्बुधो मध्यदिने च सूर्यः सर्वत्र जीवोऽर्कसुतो दिनान्ते॥39॥

कृष्णारबुधगुरुसिताः शशिसूर्यावुत्तरोत्तरं बलिनः।

(साधारण)स्वाभाविकबलमेतद्बलसाम्ये चिन्तयेत्प्राज्ञः॥40॥

(41, 42 सङ्ख्यक श्लोक संस्कृत वि.वि. सरस्वती भवन की मातृका सं. 36477 मे अधिक विद्यामान हैं।) दिक्-स्थान-चेष्टा-क्षण-वक्र दृष्टि स्वाभाविकं सप्तविधं बलं स्यात्।

तत्स्वप्रकारेण बलं ददाति रिक्तो हि शून्योऽल्पबलोऽल्पवीर्यः॥41॥

क्रूराहतः शत्रुजितो गतश्च नीचेऽरिभांशेष्वपि दुष्टचेष्टः।

षष्ठाष्टमे रिष्फगतेऽणुरूक्षो विनाऽधिकारोप्यफलो ग्रहेन्द्रः॥42॥

इति कल्याणवर्मविरचितायां सारावल्यां ग्रहयोनिभेदो नाम चतुर्थोऽध्यायः।

पञ्चमोऽध्यायः[सम्पाद्यताम्]

(मिश्रकाध्यायः)

राशिप्रभेदसंज्ञः कथितो ग्रहयोनिभित्तिरध्यायः।

सर्वव्यापकमधुना कथयिष्ये मिश्रकं(तिपीडितो) नाम॥1॥

दीप्तः स्वस्थो मुदितः शान्तः शक्तो निपीडितो(तप्रऽपीडितः) भीतः।

विकलः खलश्च कथितो नवप्रकारो ग्रहो हरिणा॥2॥

(द्र. बृहत्पाराशर 45।8-9)स्वोच्चे भवति च दीप्तः स्वस्थः स्वगृहे सुहृद्गृहे मुदितः।

शान्तः शुभवर्गस्थः शक्तः स्फुटकिरणजालश्च॥3॥

विकलो रविलुप्तकरो ग्रहाभिभूतो निपीडितश्चैवम्।

पापगणस्थश्च खलो नीचे भीतः समाख्यातः॥4॥

दीप्ते विचरति पुरुषः प्रतापविषमाग्निदग्धरिपुवर्गः(निचयः)।

लक्ष्म्यालिङ्गितदेहो गजमदसंसिक्तभूपृष्ठः॥5॥

स्वस्थः करोति जन्मनि रत्नानि सुखानि कनकपरिवारान्।

नृपतेर्दण्डपतित्वं गृहधान्यकुटुम्बपरिवृद्धिम्॥6॥

मुदिते विलसति मुदितो विलासिनीकनकरत्नपरिपूर्णः‍

विजितसकलारिपक्षः समस्तसुखभाङ् नरो(जनःख्यातः) भवति॥7॥

शान्ते प्रशान्तचित्तः सुखधनभागी महीपतेः सचिवः।

वि द्वान्परोपकारी धर्मपरो जायते पुरुषः(सुभगाः)॥8॥

स्त्रीवस्त्रमाल्यगन्धैर्विलसति पुरुषः सदा विततकीर्तिः।

दयितः सर्वजनस्य शक्ताख्ये भवति विख्यातः॥9॥

दुःखैर्व्याधिभिररिभिः प्रपीड्यते(पीडिते सदा पुरुष) पीडिताख्ये तु।

देशाद्देशं विचरति बन्धुवियोगाभिसंतप्तः॥10॥

बहुसाधनोऽपि राजा प्रध्वस्तबलः प्रपीडितो रिपुणा।

नाशमुपयाति विजितो भीते दैन्यं परं प्राप्तः॥11॥

स्वस्थानपरिभ्रष्टः क्लिष्टो मलिनः प्रयाति परदेशम्।

विध्वस्तबलो(घनी) विकले रिपुबलसंचकितचित्तश्च॥12॥

स्त्रीभरण(हरण)दुःखतप्तः समस्तधननाशकलुषितमनस्कः।

न जहाति शोकभारं कथमपि खलसंज्ञिते पुरुषः॥13॥

उच्चराशौ विलोमे च फलं(बलं) नान्यैरिहेष्यते(हरिष्यते)।

कालस्यति बहुत्वाच्च तस्मात्स्वोच्चेऽतिवक्रिते॥14॥

स्वोच्चाश्रिताः श्रेष्ठबला भवन्ति मूलत्रिकोणे स्वगृहे च मध्याः।

इष्टेक्षिता मित्रगृहाश्रिता वा वीर्यं कनीयः समुपोद्वहन्ति॥15॥

शुक्लप्रतिपद्दशके मध्यबलः कीर्त्यते यवनवृद्धैः।

श्रेष्ठो द्वितीयदशके स्वल्पबलश्चन्द्रमास्तृतीये च॥16॥

आहितकलासमूहः प्रसन्ननिजमण्डलः सुपरिपूर्णः।

अप्रतिहतमिह कुरुते भूपतिबलमुडुगणाधिपतिः॥17॥

चन्द्राध्यासितराशेर्नाथो लग्नाधिपोऽपि(थवा) वा यस्य।

केन्द्रे सुरगुरुमंत्री(सुरमन्त्री वा) वयसो सुखं तस्य॥18॥

राशेस्तदीश्वरस्य च बलेन परिकल्प्यमृक्षभेदफलम्।

युगपत्फलोपलब्धेरवधृतिरेकस्य कर्तव्या॥19॥

होराग्रहबलसाम्ये निसर्गजं चिन्तनीयमाचार्यैः।

(धिपेन तु)लग्नाधिपतेस्तुल्यं बलमिह चूडामणिर्वदति॥20॥

उच्चबलं कन्याणां बुधस्य तुङ्गांशकैः सदा चिन्त्यम्।

परतस्त्रिकोणजातं पञ्चभिरंशैः स्वराशिजं परतः॥21॥

उच्चं भागत्रितयं वृष इन्दोश्च त्रिकोणमपरेंऽशाः।

द्वादशभागा मेषे त्रिकोणमपरे स्वभं तु भौमस्य॥22॥

दशभागा ईज्यस्य च त्रिकोणमपरे स्वभं चापे।

शुक्रस्य तु त्रिकोणं पञ्चभिरपरे स्वभं जूके॥23॥

विंशतिरंशाः सिंहे त्रिकोणमपरे स्वभवनमर्कस्य।

(हो.र. 1 अ. प. 49)कुम्भे त्रिकोणनिजभे रविजस्य तथा रवेः सिंहे॥24॥

(द्र. बृ. पा. 3।54-55 तथा जा. पा. 1।54)स्वोच्चस्थितः शुभफलं प्रकरोति पूर्णं

नीचर्क्षंगस्तु विफलं रिपुमन्दिरेऽल्पम्।

पादं शुभस्य हितभे स्वगृहे तदर्धं

पादत्रयं गगनगः स्थितवांस्त्रिकोणे॥25॥

नीचर्क्षगः सकलमेव करोति पापं

न्यूनं च किंचिदरिभे विफलं स्वतुङ्गे।

पादत्रयं हितगृहे विहगोऽशुभस्य

स्वर्क्षे दलं च चरणं स्थितवांस्त्रिकोणे॥26॥

औत्पातिकाः सवितृलुप्तकरा विरूक्षा

नीचं गता रिपुगृहं च नभश्चरेन्द्राः।

युद्धे जिताः शुभफलानि विनाशयन्ति

पापानि ज्ञानि सुतरां परिवर्धयन्ति॥27॥

(हो.र. 4 अ. 58 पृ.)उच्चबलेन समेतः परां विभूतिं ग्रहः प्रसाधयति।

पुंसामथ साचिव्यं त्रिकोणबलवान् बलपतित्वम्॥28॥

स्वर्क्षे बलेन सहितः प्रमुदितधनधान्यसंपदाक्रान्तम्।

मित्र बलेन च युक्तो जनयति कीर्त्यान्वितं पुरुषम्॥29॥

तेजस्विनमति सुभगं सुस्थिरविभवं नृपाच्च लब्धधनम्।

निजहोराबलयुक्तो जनयति विक्रान्तमिति चिन्त्यम्॥30॥

स्वद्रेष्काणबलेनाहीनो गुणभाजनं ग्रहः कुरुते।

स्वनवांशकबलयुक्तः करोति पुरुषं प्रसिद्धं च॥31॥

सप्तांशकबलसहितः साहसिकं वित्तकीर्त्याढ्यम्।

द्विरसांशबलसमेतः कर्मरतं परोपकारकं चैव॥32॥

त्रिंशांशबलेन यथा विकसत्सौख्यं गुणान्वितं कुर्यात्।

शुभदर्शनफल(बल)सहितः पुरुषं कुर्याद्धनान्वितं ख्यातम्।

सुभगं प्रधानमखिलं(ममलं) सुरूपदेहं सुसौख्यं च॥33॥

पुंस्त्रीभवनबलेन च करोति जनपूजितं कलाकुशलम्।

पुरुषं प्रसन्नचित्तं कल्यं परलोकभीरुं च॥34॥

स्थानबलेन समेतः स्थिति सौख्यसुहृच्च भागाढ्यः।

धीरो निश्चलचित्तः स्वतन्त्रकर्मा भवेन्मनुजः॥35॥

आशाबलसमुपेतो नयति स्वदिशं नभश्चरः पुरुषम्।

नीत्वा वस्त्रविभूषणवाहनसौख्यान्वितं कुरुते॥36॥

आयनबलसमुपेतो दद्याद्विविधार्थसङ्गमं स्वदिशि॥37॥

क्वचिद्राज्यं क्वचित्पूजां क्वचिद्द्रव्यं क्वचिद्यशः।

ददाति विहगश्चित्रं (स्पष्टवीर्यं)चेष्टावीर्यसमन्वितः॥38॥

वक्रिणस्तु महावीर्याः शुभा राज्यप्रदा ग्रह्यः।

पापा व्यसनिनां(न्यसनदः) पुंसां कुर्वन्ति च (पदाटनं)वृथाटनम्॥39॥

स्वस्थशरीरसमागमसुकरोद्भवजयबलेन विदधाति।

शुभमखिलं विहगेन्द्रो राज्यं च विनिर्जिनारातिम्॥40॥

रात्रिदिवाबलपूर्णैर्भूगजलाभेन शौर्यपरिवृद्ध्या।

मलिनयति शत्रुपक्षं भजति च लक्ष्मीं नभश्चरैः पुरुषः॥41॥

(द्विगुणा)द्विगुणं द्विगुणं दद्युर्वर्षाधिपासदिवसहोरेशाः।

क्रमपरिवृद्ध्या सौख्यं स्वदशासु धनं च कीर्ति च॥42॥

पक्षबलाद्रिपुनाशं रत्नाम्बरहस्तिसंपदं दद्युः।

स्त्रीकनकभूमिलाभान्कीर्तिं च शशाङ्ककरधवलाम्॥43॥

सकलकर(बलभार)भारभारितनिर्मलकरजालभासुराः सततम्।

राज्यं ग्रहाः प्रदद्युः सौख्यं च मनोरथातीतम्(मनोरथादधिकं)॥44॥

(हो.र. 1 अ.पृ.96)आचारसत्यशुभशौचयुताः सुरूपा –

स्तेजस्विनः कृतिविदो द्विजदेवभक्ताः।

स्त्रग्वस्त्रगन्धजलभूषणसंप्रियाश्च

सौम्यग्रहैर्बलयुतैः पुरुषा भवन्ति॥45॥

लुब्धाः कुकर्मनिरता निजकार्यनिष्ठाः

साधुद्विषः सकलहाश्च तमोऽभिभूताः।

क्रूराः सदा बधरता(वधकरा) मलिनाः कृतघ्नाः

पापग्रहैर्बलयुतैः पिशुनाः कुरूपाः॥46॥

स्वमित्रश्रेत्रसंस्थानां ग्रहाणां बालसंज्ञिका।

स्वत्रिकोणगतानां च कुमारी नाम संज्ञिका॥47॥

ग्रहाणां स्वोच्चसंस्थानां युवराजभिधा भवेत्।

शत्रुश्रेत्रगतानां त वृद्धा नाम् तथेरिता॥48॥

नीचगानां ग्रहाणां च दशा मरणसंज्ञिता।

तत्तत्फलसमायुक्ता ग्रहाणां तु दशा भवेत्॥49॥

(बाले)बालैः सुखी सुशीलश्च(स्यात्) यौवनैरवनीश्वरः(ने रजनी)।

(वृद्धे)वृद्धैर्व्याधिर्ऋणे वृद्धिर्मरणे मरणं व्ययम्॥50॥

(पुंराशिषु ग्रहेन्द्रः) पुंराशिगैः शुभखगैर्धीराः (संग्रामकाक्षिणो बलिभिः) सङ्ग्रामरक्षिणो बलिनः।

निश्चेष्टैः सुकठोराः क्रूरा मूर्खाश्च जायन्ते॥51॥

युवतिभवनस्थितेषु च मृदवः सङ्ग्रामभीरुकाः पुरुषाः।

जलकुसुमवस्त्रनिरताः सौम्याः कल्याः स्वजनहृष्टाः॥52॥

इति कल्याणवर्मविरचितायां सारावल्यां मिश्रकाध्यायः पञ्चमः

== षष्ठोऽध्यायः ==
<poem>
(कारकाध्यायः)

(द्र. बृ. पा. 32।26, बृ. जा 22।1)स्वर्क्षत्रिकोणतुङ्गस्था यदि केन्द्रेषु संस्थिताः।

अन्योन्यं कारकास्ते स्युः केन्द्रेष्वेव हरेर्मतम्॥1॥

रवितनयो जूकस्थः कुलीरलग्ने बृहस्पतिहिमांशू।

मेषे कुजो रवियुतः (गवि सितः) परस्परं कारका एते॥2॥

तुङ्गसुहृत्स्वगृहांशे स्थिता ग्रहाः कारकाः समाख्याताः।

मेषूरणे च रविरिति विशेषतो(वृ.जा. 22।1. बृ. पारा. 63।26) वक्ति चाणक्यः॥3॥

लग्नस्थाः सुखसंस्था दशमस्थाश्चापि कारकाः सर्वे।

एकादशेऽपि केचिद्वाञ्छन्ति न तन्मतं मुनीन्द्राणाम्॥4॥

(हो. र. 5 अ. 701 पृ.)नीचकुले संभूतः कारकविहगैः प्रधानतां याति।

क्षितिपतिवंशसमुत्थो भवति नरेन्द्रो न सन्देहः॥5॥

कारकभेदो बलवान्मूलं योगेषु कीर्तितो हरिणा।

तस्मात्फलनिर्देशः कारकवेधाविभिर्वाच्चः॥6॥

इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्यायः षष्ठः॥

सप्तमोऽध्यायः[सम्पाद्यताम्]

(कारकाध्यायः)

रविचन्दभौमबुधजीवशुक्रसौरा दिनादिपतयश्च(दिनाब्दपतयस्तु)।

मासे चाश्वयुजादौ दिनेश्वरोऽब्दे दिनपतेश्च॥1॥

अब्दाधिपाश्चतुर्थाः क्रमेण षष्ठास्तु कालहोरेशाः।

द्विंर्द्वादशहोराः स्युर्दिवसास्त्वर्कादि कास्त्रिंशत्॥2॥

मासात्रिंशद्गुणिता गतैर्दिनैः सप्तभाजिता दिवसाः।

अब्धाधिपाः प्रगण्या गतैर्दिनाद्यैः प्रयत्नतस्यु स्युः॥3॥

एकस्त्रिंशद्भागैर्युक्तश्चैत्रादीनां ग्रहादीनाम्।

क्रमशो विज्ञातव्यां शुक्लप्रतिपत्प्रसंख्यायाम्॥4॥

यस्य ग्रहस्य भावो यस्तस्य गृहे प्रशस्यते कर्म।

तस्मिंश्चोपचयस्थे तस्मिंल्लग्ने गृहे चास्य॥5॥

यत्कर्मग्रहदिवसे तदेव होराब्दमासकालेषु।

पादविवृद्ध्या वा स्यत्तेषां कालस्य संपाकः॥6॥

व्यालोर्णकशै(व्यालोत्कर्णकशैल)लसुवर्णशस्त्रविषदहनभेषजनृपाश्च।

म्लेच्छाब्धितारकान्तारकाष्ठमन्त्रप्रभुः सूर्यः॥7॥

कवि(अपिकुसुम)कुसुमभोज्यमणिरजतशंखलवणोदकेषु वस्त्राणाम्।

भूषणनारीघृततिलतैलकनिद्राप्रभुश्चन्द्रः॥8॥

रक्तोत्पलताम्रसुवर्णरुधिरपारदमनः शिलाद्यानाम्।

क्षितिनृपतिपतनमूर्च्छापैत्तिकचोरप्रभुर्भौमः॥9॥

श्रुतिलिखितशिल्पवैद्यकनैपुणमन्त्रित्वदूतहास्यानाम्।

खगयुग्मख्यातिवनस्पतिस्वर्णमयप्रभुः सौम्य॥10॥

माङ्गल्यधर्मपौष्टिकमहत्त्वशिक्षानियोगपुरराष्ट्रम्।

यानासनशयनसुवर्णधान्वेश्मपुत्रयो जीवः॥11॥

वज्रमणिरत्नभूषणविवाहगन्धेष्टमाल्ययुवतीनाम्।

गोमयनिदानविद्यानिधुवनरजतप्रभुः शुक्रः॥12॥

त्रपुसीसकाललोहककुधान्यमृतबन्धुमन्दभृतकानाम्।

नीचस्त्रीपण्यकदासदीनदीक्षाप्रभुः सौरिः॥13॥

अर्कः कलिङ्गविषये यवनेषु च चन्द्रमाः।

शुक्रः समतटे जातः सैन्धवेषु बृहस्पतिः॥14॥

मगधेषु बुधो जातः सौराष्ट्रेषु शनैश्चरः।

अङ्‌गारकस्तूज्जयिन्यां राहुः केतुश्च द्राविडे॥15॥

इति कल्याणवर्मविरचितायां सारावल्यां कारकाध्यायः सप्तमः॥

अष्टमोऽध्यायः[सम्पाद्यताम्]

(आधानाध्यायः)

(हो.र. अ. 154 पृ.)राश्यादिफलविभागः कस्य विधेयो विना समुत्पत्तेः(समुत्पत्तिम्)।

आधानमथो(मतो) वक्ष्ये कारणभूतं समस्तजन्तूनाम्॥1॥

अनुपचयराशिसंस्थे कुमुदाकरबान्धवे रुधिरदृष्टे।

प्रतिमासं युवतीनां भवतीह रजो ब्रुवन्त्येके॥2॥

इन्दुर्जलं कुजोऽग्निर्जलमसृगथवाग्निरेव पित्तं स्यात्।

एवं रक्ते(क्षुभिते) हीने पित्तेन रजः प्रवर्तते स्त्रीषु॥3॥

एवं यद्भवति रजो गर्भस्य निमित्तमेव कथितं(विहितं) तत्।

उपचयसंस्थे विफलं(विपुलं) प्रतिमासं दर्शनं तस्य॥4॥

उपचयभवने शशभृद् दृष्टो गुरुणा सुहृद्भिरथवासौ।

पुंसां करोति योगं विशेषतः शुक्रसंदृष्टः॥5॥

चन्द्रे कुजेन दृष्टे पुष्पवती सह विटेन संयोगम्।

राजपुरुषेण रविणा रविजेनाप्नोति भृत्येन॥6॥

एकैकेन फलं स्याद्दृष्टे नान्यैः कुजादिभिः पापैः।

सर्वैः स्वगृहं त्यक्त्वा गच्छति वेश्यापदं युवतिः॥7॥

द्विपदादयो विलग्नात्सुरतं कुर्वन्ति सप्तमे यद्वत्।

तद्वत्स्त्रीपुरुषाणां गर्भाधाने समादेश्यम्॥8॥

अस्तेऽशुभयुतदृष्टे(दृष्टियुते) सरोषकलहं भवेद्ग्राम्यम्।

सौम्यं सौम्यैः सुरतं वात्स्यानसंप्रयोगिकाख्यातम्॥9॥

तत्र शुभाशुभमिश्रैः कर्मभिरधिवासिता विषयवृत्तिः।

गर्भावासे निपतति संयोगे शुक्रशोणितयोः॥10॥

उपचयगौ रविशुक्रौ बलिनौ पुंसः (समांशसंप्राप्तौ)स्वमंशकं प्राप्तौ।

युवतेर्वा कुजचन्द्रौ यदा तदा गर्भसंभवो भवति(द्र. लघु जा 5।7)॥11॥

(हो.र.1अ. 119 पृ.)शुक्रार्कभौमशशिभिः स्वांशोपचयस्थितैः सुरेड्ये वा।

(धर्मेथवात्मजे वा)धर्मोदयात्मजस्थे बलवति गर्भस्य संभवो भवति॥12।

मिथुनस्य मनोभावो यादृङ्मदलालसं भवति।

श्लेष्मादिभिः स्वदोषैस्तत्तुल्यगुणो निषिक्तः स्यात्॥13॥

(द्र. लघुजा. 5।11 तथा बृ. जा.4।11)विषमे विषमांशगता होराशशिजीवभास्करा बलिनः।

कुर्वन्ति जन्म पुंसां समे(समा) समांशे तु(युवती नरजन्म) युवतीनाम्॥14॥

ओजर्क्षे गुरुसूर्यौ बलिनौ पुंसः समे सितेन्दुकुजाः।

कन्यानां जन्मकरा गर्भाधाने स्थिता बलिनः॥15॥

(द्र. बृ. जा. 4।11)मिथुने चापेऽर्कगुरू बुधदृषटौ दारकद्वयं कुरुतः।

स्त्रीयुग्मं कन्यायां सितशशिभौमा झषे च बुधदृष्टाः॥16॥

लग्नं मुक्त्वा विषमे शनैश्चरः (पुत्र)पुरुषजन्मदो भवति।

योगे विहगस्य बलं संवीक्ष्य वदेन्नरं स्त्रियं वाऽपि॥17॥

(हो.र. अ. 132 पृ.)अन्योन्यं रविचन्द्रौ विषमर्क्षगतौ निरीक्षेते।

इन्दुजरविपुत्रौ वा दृष्टौ बलिनौ नपुंसकं कुरुतः॥18॥

पश्यति वक्रः समभे सूर्यं चन्द्रदयौ(दये) च विषमर्क्षे।

यद्येवं गर्भस्थः क्लीबो मुनिभिः समादिष्टः(स्तदा दृष्टः)॥19॥

ओजसमराशिसंस्थौ ज्ञेन्दू षण्ढं कुजेक्षितौ कुरुतः।

नरभे विषमनवांशे होरेन्दुबुधाः सितार्किदृष्टा वा॥20॥

लग्ने समराशिगते चन्द्रे च निरीक्षते बलयुतेन(हो.र. 1 अ. 113 पृ.)।

गगनसदा वक्तव्यं मिथुनं गर्भस्थितं नित्यम्(नूनम्)॥21॥

समराशौ शशिसितयोर्विषमे गुरुवक्रसौम्यलग्नेषु।

द्विशरीरे वा बलिषु प्रवदेत् स्त्रीपुरुषमत्रैव॥22॥

द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं(नियतं) च पश्यतीन्दुसुते।

मिथुनांशे कन्यैका द्वौ पुरुषौ त्रितयमेवं स्यात्॥23॥

(श्लोकार्ध पुनरुक्त है)द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुतेः।

कन्यांशे द्वे कन्ये पुरुषश्च निषिच्यते (गर्भेः)गर्भे॥24॥

(नृभिथुनधनु)मिथुनेधनुरंशगतान् ग्रहान् विलग्नं च पश्यतीन्दुसुतः।

मिथुनांशस्थश्च यदा पुरुषत्रितयं तदा गर्भे॥25॥

कन्यामीनां(गतान्)शस्थान् विहगानुदयं च युवतिभागवतः।

पश्यति शिशिरगुतनयः कन्यात्रितयं तदा गर्भे(गर्भः)॥26॥

(द्र.बृ. जा. 4।25)दिवसे मातापितरौ शुक्ररवी शशिशनी निशायां च।

मातृभगिनीपितृव्यौ विपर्ययात् कीर्तितौ यवनैः(हो. र. 1 अ. 112 पृ.)॥27॥

लग्नाद्विषमर्क्षगतः पितुः पितृव्यस्य खेचरः शस्तः।

(जननीभगिन्योः)मातृभगिनीजनन्योः समगृहगोऽन्ये तथा भेषु॥28॥

मासेष्वाधानादिषु गर्भस्य यथा क्रमेण जायन्ते।

सप्तसु कलिलाण्डकशाखास्थित्वग्रोमचेतनताः॥29॥

मासेऽष्टमे च तृष्णा क्षुधा च नवमे तथोद्वेगः।

दशमे त्वथ(तथातिपूर्णः) सम्पूर्णः पक्वमिव फलं पतति गर्भः॥30॥

शुक्रारजीवरविशशिसौरिबुधविलग्नपोडुपादित्याः।

मासपतयः स्युरेतैर्गर्भस्य शुभाशुभं चिन्त्यम्॥31॥

(द्र.बृ. जा. 5।9)उत्पातक्रूरहते तस्मात् स्वस्याधिपे पतति गर्भः।

लग्नगृहं वा हेतुर्योगोऽसौ(योगेशो) गर्भपतनस्य॥32॥

अथवा निषेककाले विलग्नसंस्थौ यदा रुधिरमन्दौ।

तद् गृहगतेऽथवेन्दौ तदीक्षिते वा पतति गर्भः॥33॥

होरेन्दुयुतैः सौम्यैस्त्रिकोणजायार्थखाम्बुसंर्स्थवौ।

पापैस्त्रिलाभयातैः सुखी च गर्भो निरीक्षिते रविणा॥34॥

क्रूरान्तःस्थः सूर्यश्चन्द्रो वा युगपदेव मरणाय।

सौम्यैरदृष्टमूर्तियुवतीनां गर्भसहितानाम्॥35॥

(द्र. बृ. जा. 4।6)उदयास्तगतैः पापैः सौम्यैरनवेक्षितैश्च मरणं स्यात्।

उदयस्थितेऽर्कजे वा क्षीणेन्दौ भौमसंदृष्टे॥36॥

व्ययगेऽर्के (च शशिनि कृशे)शशिनि कृशे पाताले लोहिते सगर्भा स्त्री।

म्रियते तस्मिन्नथवा शुक्रे पापद्वयान्तःस्थे॥37॥

चन्द्रचतुर्थैः क्रूरैर्विलग्नतो वा विपद्यते गर्भः।

होराद्यूने क्षितिजे म्रियते गर्भः सह जनन्या॥38॥

हिबुकगते धरणिसुते रिःफगतेऽर्के क्षपाकरे क्षीणे।

(सहगर्भा स्त्री)गर्भेण सह म्रियते पापग्रहदर्शनं प्राप्ते॥39॥

(द्र.बृ.जा. 4।6-9)लग्ने रविसंयुक्ते क्षीणेन्दौ वा कुजेऽथवा म्रियते।

व्ययधनसंस्थैः पापैस्तथैव सौम्यग्रहादृष्टैः॥40॥

जामित्रे (जामित्रगेऽर्कदृष्टे)रवियुक्ते लग्नगते वा कुजे निषिक्तस्य।

गर्भस्य भवति मरणं शस्त्रच्छेदैः सह जनन्या॥41॥

बलिभिर्बुधगुरुशुक्रैर्दृष्टेऽर्केण च विवर्धते गर्भः।

मासाधिपबलतुल्यैस्तैस्तैः संयुज्यते भावः॥42॥

मासि तृतीये स्त्रीणां दौहदकं(दौहृदको) जायते तथाऽवश्यम्।

मासाधिपस्वभावैर्विलग्नयोगादिभिश्चान्यत्॥43॥

निषेककाले जरराशिगेऽर्के गर्भप्रसूतिर्दशमे(दशमेऽथ) मासे।

एकादशे च स्थिरराशिसंस्थे स्याद्द्वादशे मात्युभयाश्रिते च॥44॥

गर्भाधाने चरे राशौ दशमासैः प्रसूयते।

स्थिरेणैकादशे मासे उभये द्वादशे (सवः)भवः॥45॥

गर्भप्रसवविधानं तात्कालिकलग्नवर्गतश्चिन्त्यम्(लग्नवच्चिन्त्यम्)।

(आधानजन्मऋक्षं, आधाने जन्मर्क्षं)आधानाज्जन्मर्क्षं दशमं वाञ्छन्ति केचिदार्याः॥46॥

आधानोदयशशिनोः सप्तमभं बादरायणो ब्रूते।

तस्मान्नैकान्तोऽयं सर्वेषां संमतं वक्ष्ये॥47॥

(द्र.बृ. जा. 5।21 तथा इसी की टीका में गार्गि का वचन)यस्मिन् द्वादशभागे गर्भाधाने स्थितो निशानाथः।

तत्तुल्यर्क्षे प्रसवं गर्भस्य समादिशेत्प्राज्ञः॥48॥

लग्ने शनैश्चरांशे शनैश्चरे द्यूनगे यदि निषेकः।

वर्षत्रयेण सूतिर्द्वादशभिः स्याच्छशिनि चैवम्॥49॥

(बृ. जा. 4।32)तात्कालिकदिवसनिशासंज्ञः समुदेति राशिभागो यः।

यावानुदयस्तावान् वाच्यो दिवसस्य रात्रेर्वा॥50॥

मुनिभागे दिवसनिशोर्जन्मनि लग्नं वदेद्युक्त्या।

उदयगणात् प्रसवः स्याद्दिनपक्षमुहूर्तमाससंज्ञर्क्षात्॥51॥

इत्याधाने प्रथमं प्रसूतिकालं सुनिश्चितं कृत्वा।

जातकविहितं (च ततो)च विधिं विचिन्तयेत्तत्र गणितज्ञः॥52॥

(हो.र. 1 अ. 138 पृ.)स्यातां यद्याधाने रविशशिनौ सिंहराशिगौ लग्ने।

दृष्टौ कुजसौरिभ्यां जात्यन्धः संभवति तत्र॥53॥

(हो. र. 1 अ. 141 पृ.)आग्नेयसौम्यदृष्टौ रविशशिनौ बुद्बुदेक्षणं कुरुतः।

नयनविनाशोऽपि यथा तथाधुना(बृ.जा. 6।20) संप्रवक्ष्यामि॥54॥

व्ययभवनगतश्चन्द्रो वामं चक्षुर्विनाशयति हीनः।

सूर्यस्तथैव चान्य(सव्यं)च्छुभदृष्टौ याप्यतां नयतः॥55॥

क्रूरैर्गृहसन्धिगतैः शशिनि वृषे भौमसौरर(संदृष्टे)विदृष्टे।

(बृ.जा. 4।17)मूकः सौम्यैर्दृष्टे वाचं कालान्तरे वदति॥56॥

(बृ. जा. 4।18)क्रूरेषु राशिसन्धिषु शशी न सौम्यैर्निरीक्ष्यते च जडः।

बुधनवमभागसंस्थौ शनिभौमौ यदि सदन्तः स्यात्॥57॥

सौम्ये त्रिकोणसंस्थे लग्नाच्छेषग्रहैर्बलविहीनैः।

द्विगुणास्यपादहस्तो योगेऽस्मिन्नाहितो भवति गर्भः॥58॥

वामनको मकरान्त्ये लग्ने रविचन्द्रसौरिभिर्दृष्टे।

शशिनि विलग्ने कर्किणि (कुजार्क)कुजार्क‍ि‍दृष्टेऽथवा(तथा) कुब्जः॥59॥

मीनोदये च दृष्टे (कुजार्कशशिभिः)कुजार्किशशिभिः पुमान् भवति पङ्गुः।

याप्या भवन्ति योगाः सौम्यग्रहवीक्षिताः सर्वे॥60॥

भौमयुता द्रेष्काणास्त्रिकोणलग्नेषु संदृष्टाः।

विभुजाङ्घ्रिमस्तकः स्याच्छनिरविचन्द्रैर्वदेद्गर्भः॥61॥

(इत्याधानविधानं)इत्याधानविधानं प्रसूति समयेऽपि योजयेद्योग्यम्।

आधाने यन्नोक्तं प्रसूतिविहितं तदपि चिन्त्यम्॥62॥

इति कल्याणवर्मविरचितायां सारावल्यां आधानेऽष्टमोऽध्यायः॥

नवमोऽध्यायः[सम्पाद्यताम्]

(सूतिकाध्यायः)

(आधानं)आधाने हि मयोक्तं प्रसूतिकालस्य निर्णयार्थपरम्।

तस्मिन् सुपरिज्ञाते जन्माध्यायं प्रवक्ष्यामि॥1॥

शीर्षोदये विलग्ने मूर्ध्ना प्रसवोऽन्यथोदये चरणैः।

उभयोदये च (करम्)हस्तैः शुभदृष्टे शोभनोऽन्यथा कष्टः॥2॥

(हो.र. 1 अ. 148 पृ.)भवनांशसदृशदेशे प्रसवो ज्ञेयः सदात्र युवतीनाम्।

मिश्रगृहांशे वर्त्मनि स्थिरराश्यंशे तथा (तथान्यगृहे)स्वगृहे॥3॥

स्वगृहनवांशे लग्ने स्वगृहेऽन्यस्मि(स्वगृहेन्यऽस्मिन् प्रतिद्वन्द्वे)न्यदि प्रथमहर्म्ये।

पितृमातृग्रहबल(वर्गे)तस्तत्तत्स्वजनगृहेषु बलयोगात्॥4॥

प्राकारतरुनदीषु च सूतिर्नीचाश्रितैः(चाश्रिते) सौम्यैः।

नेक्षन्ते लग्नेन्दू यद्येकस्था ग्रहा महाटव्याम्॥5॥

सलिलभलग्ने(भवने) चन्द्रो जलराशौ वीक्षतेऽथवा पूर्णः।

प्रसवं सलिले विद्यात् बन्धूदयदशमगश्च यदा(10, 11)॥6॥

सौम्यैर्लग्ने पूर्णे स्वगृहगते शशिनि सलिलसंयाते।

पातालस्थैश्च शुभैर्जलजे लग्नेऽम्बुगेहगे शशिनि॥7॥

वृश्चिककुलीरलग्ने सौरे चन्द्रेक्षिते त्ववटे।

भवति प्रसवः स्त्रीणां वदन्ति यवनाः सह मणित्थैः॥8॥

रविजे जलजविलग्ने क्रीडोद्याने बुधेक्षिते प्रसवः।

रविणा देवागारे तथोषरे चैव चन्द्रेण॥9॥

(वृ. जा. 5।12 तथा उत्पल टीका में वादरायण वाक्य)आरण्यभवनलग्ने गिरिवनदुर्गे तथा नरविलग्ने।

रुधिरेक्षिते श्मशाने शिल्पकनिलयेषु सौम्येन॥10॥

सूर्येक्षिते गोनृपदेववासे शुक्रेन्दुजाभ्यां रमणीयदेशे।

शक्रेड्यदृष्टे द्विजवह्निहोत्रे नरोदये सम्प्रवदन्ति सूतिम्॥11॥

स्वोच्चे दशमे जीवे द्वित्रिचतुर्भूमिके गृहे प्रसवः।

मन्दर्क्षांशेऽशालं(साले) चतुर्थदशमस्थितैः सौम्यैः॥12॥

द्वौ द्वौ राशी मेषात् पूर्वादिषु संस्थितौ गृहविभागे।

कोणेषु द्विशरीरा (लग्नस्य)लग्नन्तु भवेद्धि तत्प्रमुखैः(प्रमुखे)॥13॥

दिग्भागराशिमण्डलकेन्द्रेषु खगेषु तच्छाला।

(अथ)झषमृगहयबलवत्त्वे गृहं द्विशालं(विशालं) त्रिशालं च॥14॥

चित्रं नवं भृगुसुते च दृढं गुरौ च दग्धं कुजे दिनकरे परिपूर्णकाष्ठम्(जीर्ण)।

चन्द्रे नवं च बहुशिल्पकृतं बुधे च जीर्णं भवेद्गृहमिहोष्णकरात्मजे च॥15॥

वासगृहे द्यूनगतात् द्वारो दिक्पालकात् बलोपेतात्।

भवनग्रहसंयोगैः प्रतिवेश्माश्चिन्तनीयाः स्युः॥16॥

देवालयाम्बुपावककोशविहारास्तथोत्करो(उपस्करस्थानम्) भूमेः।

निद्रागृहं च भास्करशशिकुजगुरुभार्गवार्किबुधयोगात्॥17॥

(हो. र. 1 अ. 166 पृ.)खट्वास्थितिर्भवनवद्युतविहगसमानि तत्र चिह्नानि।

आस्तरणानि च विद्यात् दृष्टिशुभकृतानि दैवज्ञः॥18॥

प्राच्यादिगृहद्वितयं द्व‍िशरीरा राशयश्च गात्राणि।

आजानुशिरःशयनं ग्रहतुल्यं लक्षणं तत्र॥19॥

ग्रहयुक्तं वा नियतं विनतत्वं च द्विमूर्तिराशिषु च।

षट्त्रिनवान्त्याः पादाः (पर्यन्ते)पर्यङ्केऽङ्गानि राशयः शेषाः॥20॥

नीचस्थे भूशयनं चन्द्रेऽप्यथवा सुखे विलग्ने वा।

शशिलग्नविवरयुक्तग्रहतुल्याः सूतिका ज्ञेयाः॥21॥

(हो. र. 1 अ . 17. पृ.)अनुदितचक्रार्धयुतैरन्तर्बहिरन्यथा वदन्त्येके।

लक्षणरूपविभूषणयोगस्तासां शुभैर्योगात्॥22॥

क्रूरैर्विरूपदेहाः लक्षणहीनाः सूरौद्रमलिनाश्च।

मिश्रैर्मध्यमरूपा बलसहितैः सर्वमेवमवधार्यम्॥23॥

द्वादशभागविभक्ते(भागच्छिन्ने) वासगृहेऽवस्थिते सहस्त्रांशौ।

दीपश्चरस्थिरादिषु तथैव वाच्यः प्रसवकाले॥24॥

यावल्लग्नादुदितं वर्तिर्दग्धा तु तावती भवति।

दोषः पूर्णे पूर्णः शशिनि क्षीणे क्षयस्तु तैलस्य॥25॥

(हो. र. 1 अ. 160 पृ.)बलवति सूर्ये दृष्टे बहून् प्रदीपान् वदेत् कुपुत्रेण।

अन्यैरपि(रपगतः) गतवीर्यैः सूतौ ज्योतिस्तृणैर्भवति॥26॥

सौरांशेऽथ जलांशे चन्द्रेऽर्कजसंयुतेऽथवा हिबुके।

तद्दृष्टे वा कुर्यात्तमसि प्रसवं न सन्देहः॥27॥

होरामनीक्षमाणे शशिनि परोक्षस्थिते पितरिः जातः।

मेषूरणाच्च्युते वा चरभे भानौ विदेशगते॥28॥

द्युनिशोरर्कासितयोः कुजेन सन्दृष्टयोः पितान्यगतः(प्यभवत्)।

चरराशौ परदेशे युक्तेक्षितयोस्तु तत्र मृतः॥29॥

पञ्चमनवमद्यूने पापैरर्कात्तु पापसंदृष्टैः।

बद्धः पिताऽन्यदेशे राशि वशात् स्वेऽथवा मार्गे॥30॥

जायात्रिकोणसंस्थैः क्रूरैरानन्दवर्जितः प्रसवः।

दशमचतुर्थोपगतैः सौम्यैः सम्पत्तयो विपुलाः॥31॥

पश्यति न गुरुः शशिनं लग्नं च दिवाकरं सेन्दुरम्।

पापयुतं वा सार्कं चन्द्रं यदि जारजातः स्यात्॥32॥

गुरुशशिरवयो नीचे सूतौ लग्नेऽथवार्कसूनुश्च।

लग्नोडुपभल्गुपुत्राः शुभैरदृष्टास्तथान्यजातश्च(जातः स्यात्)॥33॥

क्लेशो मातुः क्रूरैर्बन्ध्वस्तगतैः शशाङ्कयुक्तैर्वा।

चन्द्रात् सप्तमराशौ पापा मरणाय(मरणाय निर्दिष्टाः) वक्रसन्दृष्टाः॥34॥

चन्द्राद्दशमे भानुर्मातुर्मरणं करोति पापयुतः।

शुक्रात् पञ्चमभवने(नवमे) सौरियुतस्तेन(सौरियुतोऽर्कोऽथ) वा दृष्टः॥35॥

चन्द्रात्त्रिकोणराशौ रविजो मातुर्वधं दिशति रात्रौ।

शुक्रात्तथैव दिवसे भौमः पापेन सन्दृष्टः॥36॥

कुजसौरयोस्त्रिकोणे चन्द्रेऽस्तगते वियुज्यते मात्रा।

दृष्टे सुरेन्द्रगुरुणा सुखान्वितो दीर्घजीवी च॥37॥

म्रियते पापैर्दृष्टे शशिनि विलग्ने कुजेऽस्तगे त्यक्तः।

लग्नाच्च(त्स्वला, स्तला........) लाभगतयोर्वसुधासुमन्दयोरेवम्॥38॥

पश्यति सौम्यो बलवान् यादृग्गृह्णाति तादृशो जातः।

शुभपापग्रहदृष्टे परैर्गृहीताऽथवा(गृहीतोऽपि स म्रियते) म्रियते॥39॥

(एकांशावस्थितयोर्यमारयोस्त्यज्यते मात्रा)एकांशस्थितयोर्वा यमारयोस्त्यज्यतेऽथवा मात्रा।

लग्नात्सप्तमभवने भौमे शनिवीक्षिते नियतम्॥40॥

यादृक्पश्यति सौम्यस्तत्तुल्यगुणं सुतः(सुतम्) समाधत्ते।

पितृजननीसादृश्यं रवेः शशाङ्कस्य बलयोगात्॥41॥

सिंहाजगोभिरुदये जातो नालेन वेष्टितो जन्तुः।

लग्ने कुजेऽथ सौरे राश्यंशसमानगात्रश्च॥42॥

भौमशनिद्रेक्काणे पापे लग्ने स्थिते शशियुते(सुते) वा।

द्वयेकादशगैः सौम्यैरभिवेष्टितको भुजङ्गेन॥43॥

सूर्यश्चतुष्पदस्थः शेषा द्विशरीरसंस्थिता बलिनः।

कोशैर्वेष्टितदेहौ यमलौ खलु संप्रजायेते(प्रसूयेते)॥44॥

लग्ननवभागतुल्या मूर्तिर्बलसंयुताद्ग्रहाद्वापि।

नवभागाद्वर्णोक्तिः शशियोगात्तत्र सूतस्य॥45॥

बहवो यदि बलयुक्ता मिश्रा मूर्तिस्तदा वाच्या।

कुलजातिदेशपुरुषान् बुद्ध्वाऽऽदेशं समादिशेत्तज्ज्ञः॥46॥

त्रिंशद्भागे भानुर्ग्रहस्य (यस्येह संस्थितो)यस्य स्थितो भवति।

तत्तुल्याः प्रकृतिः स्यादेवं मुनयोऽध्यवस्यन्ति॥47॥

तत्कालसुहृदरित्वं बलं च नीचोच्चमध्यसंश्रितताम्।

ज्ञात्वा ग्रहस्वभावांस्तेभ्यः संचिन्त्यमन्यदपि॥48॥

(हो.र. 1 अ. 174 पृ.)क्षीणे शशिनि सपापे माता म्रियते पिता रवौ तद्वत्।

बलिभिर्दृष्टे मिश्रैर्व्याधिः सौम्यैः शुभं भवति॥49॥

विपुलविमलमूर्तिः स्वोच्चगो वा स्वराशौ

गुरुसितयुत इन्दुर्बोधनेनानुदृष्टः।

अतिशयशुभदाता पञ्चमे वाऽपि मातुः

पितुरपि खलु तद्वत् भास्करः सर्वदैव॥50॥

इति कल्याणवर्मविरचितायां सारावल्यां सूतिकाध्यायो नवमः।

दशमोऽध्यायः[सम्पाद्यताम्]

(अरिष्टाध्यायः)

आयुर्ज्ञानाभावे सर्वं विफलं प्रकीर्तितं यस्मात्।

तस्मात्तज्ज्ञनार्थे रिष्टाध्यायं प्रवक्ष्यामि॥1॥

ओजे स्थिताः पुमांसः शुक्लेऽहनि सूरिभिः समाख्याताः।

युग्मभवनेषु सर्वे कृष्णे निशि योषितो बलिनः॥2॥

त्रिविधमिह शास्त्रकारा (नियमनियमं च)नियतमनियतं च योगजं प्राहुः।

योगसमुत्थं तावद्वक्ष्ये पश्चात्तु परिशेषौ॥3॥

(हो. र . 5 अ. 617 पृ.)बृहस्पतिर्भौमगृहेऽष्टमस्थः सूर्येन्दुभौमार्कजदृष्टमूर्ति(इस पूरे अरिष्ट प्रकरण के लिये जातकाभरण का अरिष्टाध्याय तुलनीय है)।

अब्दैस्त्रिभिर्भार्गवदृष्टिहीनो लोकान्तरं प्रापयति प्रसूतम्॥4॥

वक्री शनिर्भौमगृहं प्रपन्नश्चद्रेऽष्टषष्ठेऽथ चतुष्टये वा।

कुजेन सम्प्राप्तबलेन दृष्टो वर्षद्वयं जीवयति प्रजातम्॥5॥

भास्करहिमकरसहितः शनैश्चरो मृत्युदः प्रसवकाले।

वर्षैर्नवभिर्यातैरित्याह ब्रह्मशौण्डाख्यः॥6॥

भौमदिवाकरसौराश्छद्रे जातस्य भौमगृहे(यस्य शुक्रगृहे)।

म्रियतेऽवश्यं स नरो यमकृतरक्षोऽपि मासेन॥7॥

एकः पापोऽष्टमगः शुक्रगृहे पापावीक्षितो वर्षात्।

मारयति नरं जातं सुधारसो येन पीतोऽपि॥8॥

रविशशिभवने शुक्रो द्वादशरिपुरध्रगं(रन्ध्रगः) शुभैः सर्वैः।

दृष्टः करोति (षष्ठाष्टव्ययमतो)षड्भिर्वर्षैर्मरणं किमत्र चित्रं हि॥9॥

कर्कटधामनि सौम्यः षष्ठाष्टम(षष्ठाष्टव्ययगतो)संस्थितो विलग्नर्क्षात्।

चन्द्रेण दृष्टमूर्तिर्वर्षचतुष्केण मारयति॥10॥

तीव्रफलराजयोगा यवनाद्यैर्ये विनिर्मितास्तेषु।

जायन्ते खलु कुलजा रिष्टं तेषु प्रसूतानाम्॥11॥

केतुर्यस्मिन्नृक्षेऽभ्युदितस्तस्मिन्प्रसूयते यो हि।

मासद्वयेन मरणं विनिर्दिशेत्तस्य जातस्य॥12॥

गगनस्थो दिवसकरः (बलिभिः)पापैर्बहुभिर्निरीक्षितः सद्यः।

मारयति भौमधामनि शनिभे च न संशयो भवति॥13॥

लग्ने यद्द्रेक्काणा निगडाहिविहङ्गपाशधरसंज्ञाः।

मरणाय सप्तवर्षैः क्रूरयुता न स्वपतिदृष्टाः॥14॥

राहुश्चतुष्टयस्थो मरणाय निरीक्षितो भवति पापैः।

वर्षैर्वदन्ति दशभिः षोडशभिः केचिदाचार्याः॥15॥

पापास्त्रिकोणकेन्द्रे सौम्याः षष्ठाष्टमव्ययगताश्च।

सूर्योदये प्रसूतः सद्यः प्राणांस्त्यजाति जन्तुः॥16॥

अंशाधिपजन्मपती लग्नपतिश्चास्तमुपगता यस्य।

संवत्सरैस्तु मरणं निर्व्याजं कतिपयैरेव॥17॥

राशिप्रमितैर्वर्षैर्मारयति विलग्नपो रिपुस्थाने।

मासैर्द्रेक्काणपतिर्दिवसैरंशाधिपो हन्ति॥18॥

मारयति षोडशाहाच्छनैश्चरः पापवीक्षितो लग्ने।

संयुक्तो मासेन तु वर्षाच्छुद्धस्तु मारयति॥19॥

क्षीणशरीरश्चन्द्रो लग्नस्थः क्रूरवीक्षितः कुरुते।

स्वर्गमनं हि पुंसां कुलीरगोऽजान्परित्यज्य॥20॥

वर्षान्मारयति शशी षष्ठाष्टमराशिसंस्थितो लग्नात्।

सद्यः क्रूरैर्दृष्टः सौम्यैरब्दाष्टकाच्चैव॥21॥

(अशुभैः शुभैश्च दृष्टो)अशुभशुभैः सन्दृष्टे वर्षचतुष्केण निर्दिशेदन्तम्।

अनुपातः कर्तव्यः प्रोक्तादू(न्यूनग्रहैर्दृष्टः)नैर्ग्रहैर्दृष्टे॥22॥

सौम्याः षष्ठाष्टमगाः पापैर्वक्रोपसङ्गतैर्दृष्टाः।

मासेन मृत्युदास्ते यदि न(तेन शुभैस्तु) शुभैस्तत्र सन्दृष्टाः॥23॥

लग्नाद्द्वादशधनगैः क्रूरैर्म्रियते च रन्ध्ररिपुयुक्तैः।

शुभसम्पर्कमयातैर्मासे षष्ठेऽष्टमे वाऽपि॥24॥

लग्नाधिपजन्मपती षष्ठाष्टमरिःफगौ प्रसवकाले।

अस्तमितौ मरणकरौ राशि प्रमितैर्वदेद्वर्षैः॥25॥

होराधिपतिर्द्यूने पापजितो मरणमेव विदधाति।

मासेन जन्मनाथस्तद्वच्चन्द्रो न यदि शुभदृष्टः॥26॥

चन्द्रः कुजरवियुक्तः(रविदृष्टः) स्वसुतस्थाने न चापि शुभदृष्टः।

मरणं शिशोः प्रयच्छति वर्षे नवमे न सन्देहः॥27॥

होरेश्वरस्तु (मूर्तौ)मृत्यौ पापैः सकलैश्च दृश्यते बलिभिः।

मासि चतुर्थे मरणं जातस्य करोति मुनिवाक्यम्॥28॥

जन्माधिपतिः सूर्यः स्वपुत्रसहितोऽष्टमे भवति राशौ।

वर्षै राशिप्रमितैर्मरणाय सितेन सन्दृष्टः॥29॥

व्ययाष्टषष्ठोदयगे शशाङ्के पापने युक्ते शुभदृष्टिहीने।

केन्द्रेषु सौम्यग्रहवर्जितेषु प्राणैर्वियोगं व्रजति प्रजातः॥30॥

चक्रस्य पूर्वभागे पापाः सौम्यास्तथेतरे चैव।

वर्लश्चकलग्ने जाता गतायुषो वज्रमुष्टियोगेऽस्मिन्॥31॥

क्षीणे शशिनि विलग्ने पापैः केन्द्रेषु मृत्युसंस्थैर्वा।

भवति विपत्तिरवश्यं यवानाधिपतेर्मतं(पतेर्न सन्देहः) चैतत्॥32॥

राश्यन्तगतैः पापै; सन्ध्यायां तुहिनरश्मिहोरायाम्।

मृत्युः प्रत्येकस्थैः केन्द्रेषु शशाङ्कपापैश्च॥33॥

द्यूनचतुरस्रसंस्थे(संस्थैः) पापद्वयमध्यगे शशिनि जातः।

विलयं प्रयाति नियतं देवैरपि रक्षितो बालः॥34॥

पापद्वयमध्यगते होरासप्ताष्टमस्थिते चन्द्रे।

सौम्यैरबलैर्दृष्टे जातो म्रियते ध्रुवं ह्यत्र(बालः)॥35॥

द्यूनाष्टमगैः पापैः क्रूरग्रहवीक्षितैः सह जनन्या।

म्रियते शुभसंदृष्टै सत्यस्य मताद्वदेद्व्याधिम्॥36॥

ग्रहणोपगते चन्द्रे सक्रूरे लग्नगे कुजेऽष्टमगे।

मात्रा सार्धं म्रियते चन्द्रवदर्के च शस्त्रेण॥37॥

क्षीणे शशिनि विलग्ने कण्टकनिधनाश्रि तैस्तथा पापैः।

सौम्यादृष्टे मृत्युः सद्यः सत्यस्य निर्देशः(निर्देशात्)॥38॥

द्यूनगतेऽर्के लग्ने यमे कुजे वा विपर्यये वाऽपि।

अन्यतरयुते वेन्दावशुभैर्दृष्टेऽचिरान्मृत्युः॥39॥

होरानिधनास्तगतैः पापैः क्षीणे व्ययस्थिते(व्यवस्थिते) चन्द्रे।

जातस्य भवेन्मरणं सद्यः केन्द्रेषु चेन्न शुभाः(चेदशुभा)॥40॥

लग्नान्त्यनवमनैधनसंयुक्ताश्चन्द्रासूर्यसौराराः।

जातस्य वधकृतः(वधं कुर्युः) स्युः सद्यो गुरुणा न चेद्दृष्टाः॥41॥

लग्ने चन्द्रेऽर्के वा पापा बलिनस्त्रिकोणनिधनेषु।

सौम्यैरदृष्टयुक्ता(सौम्यैरमिश्रदृष्टाः) सद्यो मरणाय कीर्तिता यवनैः॥42॥

शुक्रो रविशनिसहितो मारयति नरं सदा प्रसवकाले।

दृष्टोऽपि देवगुरुणा नवभिर्वर्षैर्न सन्देहः॥43॥

यत्रस्थस्तत्रस्थो रुधिरार्कशनैश्चरेक्षितश्चन्द्रः।

जननीमृत्युं कुर्यान्न तु सौम्यनिरीक्षितः सद्यः॥44॥

रुधिरशनैश्चरदृष्टो दिवसकरो दिवसजन्मनि तु यस्य।

पापयुतो वा हन्यात् पितरं निःसंशयं जातः॥45॥

रहितो बुधगुरुशुक्रैर्जन्मनि रुधिराङ्गसौरसहितोऽर्कः।

कथयति पितरमतीतं पितुरपि च शरीरकर्तारम्॥46॥

पापद्वयमध्यगतो दिवसकरो दिवसजन्मनिरतस्य।

पापयुतो वा हन्यात् पितरं निःसंशयं जातः॥47॥

(सूर्यात्सप्तम)सूर्यादष्टमराशौ यदि युक्तौ सौरलोहितौ प्रसवे।

सौम्यादृष्टौ निधनं कुर्यातां सद्य एव पितुः॥48॥

पापग्रहसंयुक्तश्चरराशिगतो दिवाकरः प्रसवे।

विषशस्त्रजलान्मृत्युं कथयत्यल्पायुषं पितरम्॥49॥

चन्द्रादष्टमराशौ नवमे वा सप्तमेऽपि वा पापाः।

सर्वे तत्रान्यतमे हन्युर्जातं सह जनन्या॥50॥

चरराशिगते सूर्ये दिनजन्मनि वीक्षिते कुपुत्रेण(तु पुत्रेण)।

कथयति विदेशयातं जातस्य शरीरकर्तारम्॥51॥

चरराशिगतं सौरं यद्यर्को रात्रिजन्मनीक्षेत।

अत्रापि विदेशस्थं कथयति पितरं प्रसूतस्य॥52॥

रुधिरसहितस्तु सौरश्चरभवने रात्रिजन्मनिरतस्य।

कथयति पितरमतीतं परदेशे नात्र सन्देहः॥53॥

यत्रस्थस्तत्रस्थः स्वपुत्ररुधिराङ्गसङ्गतः सूर्यः।

प्राग्जन्मनो निवृत्तं कथयति पितरं प्रसूतस्य॥54॥

जन्माष्टसप्तषष्ठद्वादशसंस्थेषु चैव पापेषु।

माता सुतेन सार्धं म्रियते नास्त्यत्र सन्देहः॥55॥

जीवति माता म्रियते सूनुः (षष्ठान्त्यगेषु)षष्ठान्त्यगेषु पापेषु।

जन्माष्टसप्तमेषु च जीवति सूनुर्म्रियेत तन्माता॥56॥

वक्रो वा सौरो वा द्वादशसंस्थो नयनहन्ता।

दक्षिणनयनं सौरो वाममथाङ्गारको हन्यात्॥57॥

युगपच्चन्द्रादित्यौ द्वादशभो निष्ठितौ(विष्ठितौ) ग्रहौ स्याताम्।

कुरुतः प्रसूतमन्धं पापः षष्ठेऽथवा निधने॥58॥

अथवाप्यन्यतरयुते द्वादशभे वापि जायमानस्य।

अत्रापि हरेन्नयनं दक्षिणमर्कः शशी सव्यम्॥59॥

स्वर्भानुनोपसृष्टा यदि होरा दिनकरश्च जामित्रे।

जातस्तत्र मनुष्यो निःसन्दिग्धं (भवेदन्धः)भवत्यन्धः॥60॥

धनराशौ द्वादशभे चन्द्रः सूर्यश्च (विष्ठिता)निष्ठितो यत्र।

तत्रापि भवत्यन्धो यद्यष्टमषष्ठयोः पापौ॥61॥

रजनिकरः षष्ठगतो निधने सूर्यो रवेः सुतस्तु(सुतो धनभे) शुभे(व्यये)।

वक्रः कुटुम्बराशावत्राप्यन्धो भवेज्जातः॥62॥

रुधिराङ्गसौरयुक्तश्चन्द्रो निधनेऽथवाऽपि षष्ठे वा।

पित्तश्लेष्मविकारैर्दृष्टिं हन्यादशुभयुक्तः॥63॥

दक्षिणमष्टमसंस्थः सव्यं तु हरेत्समाश्रितः षष्ठम्।

सौम्यैर्निरोक्षिततनुः(र्निरीक्षत) सद्यो न हरेत्तु (नयनं हरेद्धरेत्पश्चात्)पश्चाद्वा॥64॥

दिनकरसुतेन सहितो निधने चान्त्ये(न्यतरमाश्रितश्चन्द्रः) समाश्रितश्चन्द्रः।

वातश्लेष्मविकारैर्दृष्टिं हन्यादशुभदृष्टः॥65॥

निधने दक्षिणनयनं त्यागे सव्यं हरेत्तु नियमेन।

सौम्यैस्तु दृश्यमाने(मानो) न हरेदथवा हरेत्पश्चात्॥66॥

एतेनैव तु विधिना सौरारदिवाकराश्रितश्चन्द्रः।

कुर्याद्दृष्टिविकारं नानारोगैर्ध्रुवं जन्तोः॥67॥

एकादशे तृतीये होरायां पापसंयुते शशिनि।

कर्णविकलो नरः स्यात्पापग्रहवीक्षिते सद्यः॥68॥

नवमे पञ्चमराशौ पापग्रहवीक्षितौ ग्रहौ स्याताम्।

श्रोत्रापघातमतुलं कुर्यातां जातमात्रस्य॥69॥

नवमे दक्षिणकर्णं वामं वै पञ्चमे ग्रहो हन्यात्।

अत्रैव सौम्यभे वा शुभदृष्टे वा शुभं वाच्यम्॥70॥

राशौ होरान्तरं प्राप्य यो यस्मिन् व्याधिमाप्नुयात्।

तच्चास्य(तस्माच्च) होराप्रसवे चन्द्रस्थानं च यद्भवेत्॥71॥

सव्यापसव्यभागे योगमथैव ग्रहास्तु संप्राप्ताः।

कुर्युर्नृणां च चिह्नं व्यङ्गभयं पापवीक्षिताः सौम्याः॥72॥

विदित्वा त्रितयं ह्येतत् कृत्स्नस्य तु विशेषतः।

शुभाशुभौ तु विज्ञेयौ ग्रहसंयोगककारणौ॥73॥

चन्द्रादित्यौ तृतीयस्थौ मीनक्षेत्रं(क्षेत्रस्य) स यस्य तु।

व्याधिं तत्र विजानीयात् त्रिरात्रं तस्य जीवितम्॥74॥

अतस्तृतीये नक्षत्रे समस्ते व्यस्तगेऽपि वा।

रवौ रात्रिं परां जीवेच्चन्द्रे दशममाश्रिते॥75॥

सहितौ चन्द्रजामित्रे यस्याङ्गारकभास्कारौ।

जातस्य तस्य हि तदा भवेत्सप्ताहजीवितम्॥76॥

चतुरस्रस्थिताः पापा वामदक्षिणगा यदा।

तदा यो व्याधिमाप्नोति दशरात्रं स जीवति॥77॥

त्रिकोणे दक्षिणे सूर्यश्चन्द्रो वामे यदा भवेत्।

यस्तदा लभते व्याधिं द्वादशाहं स जीवति॥78॥

त्रिकोणस्थो यदा चन्द्रश्चतुरस्रेऽथ भास्करः(भास्करौ)।

तदा दुर्व्याधिना (पुत्र)युक्तस्त्रिरात्रं नातिवर्तते॥79॥

तदा होरा चतुर्थस्थश्चन्द्रः षष्ठस्थितो रविः।

अष्टादशाहं च नरस्तदा व्याधिसमन्वितः॥80॥

रविर्यदा चन्द्रमसस्त्रिकोणस्थानमाश्रितः।

विंशतिं दिवसान् जीवेत्तदा व्याधिभायार्दितः॥81॥

होराष्टमस्थितः सूर्यः सौरभौमनिरीक्षितः।

यः पुमान् प्राप्नुयाद्व्याधिं न स जीवेद्विपद्यते(विपत्स्यते)॥82॥

होरायां कण्टके भौमो भवेद्यस्य प्रजायतः।

न च केन्द्रगतो जीवो जायते मृत एव सः॥83॥

अथ होरागतः सूर्यो न च केन्द्रे बृहस्पतिः।

निधने वा परः कश्चित् जातमात्रो विनश्यति॥84॥

होरायां कण्टके चन्द्रो न च केन्द्रे बृहस्पतिः।

निधने (पापकः)वा परः कश्चित् जातमात्रो विनश्यति॥85॥

द्रेष्काणजामित्रगतो यस्य स्याद्दारुणग्रहः।

होरागतः शशाङ्कश्च सद्यो हरति जीवितम्॥86॥

ग्रहाः समेयुर्बहवो निधने यस्य जन्मनि।

मासं वा सप्तरात्रं वा तस्यायुः समुदाहृतम्॥87॥

शनैश्चरश्च होरायां निधने च महीसुतः।

न च देवगुरुः केन्द्रे मृतगर्भः प्रसूयते॥88॥

यः प्राग्विलग्ने द्रेष्काणस्तत्समानो यदा ग्रहः।

भवेत्त्रिकोणगा पापास्तत्समानफलो भवेत्॥89॥

सौरे व्याधिमवाप्नोति मरणं धरणीसुते।

सूर्ये स्याद्व्याधिवैकल्पं मरणं नात्र संशयः॥90॥

अथ होरागतो भौमः केन्द्रस्थश्च भृगोः सुतः।

स वै मरणमाप्नोति होरायां पुनरागते॥91॥

गुरुस्त्रिकोणे होरायां होरेशश्च महीसुतः।

तस्यान्यतरकेन्द्रस्थः सद्यो जीवितनाशनः॥92॥

न नैधने (गुरुः)ग्रहः कश्चित् पापो होरागतोऽथवा।

केन्द्रे (केन्द्रेष्वन्यतमे)वान्यतरे जीवो जीवत्यष्टशतोत्तरम्॥93॥

न केन्द्रे कश्चिदाग्नेयो न त्रिकोणे न नैधने।

गुरुशुक्रौ च केन्द्रस्थौ जीवेदष्टशताधिकम्॥94॥

यदि होरागतः शुक्रः केन्द्रेष्वन्यतमे गुरुः।

नैधने न च पापाः स्युः स विंशं जीवते शतम्॥95‍॥

राशौ कर्कटहोरायां (गुरुशुक्रसमन्विते)गुरुशुक्रौ समन्वितौ।

गुरुश्चन्द्रयुतो वाऽपि निधने न च कश्चन॥96॥

न च केन्द्रगताः पापा न त्रिकोणे न नैधने।

तस्यायुरमरप्रख्यं निश्चयेन च कीर्त्यते॥97॥

निधनास्तव्ययलग्नत्रिकोणगाः क्षीणचन्द्रसंयुक्ताः।

पापा बलिनः शुभदैरदृश्यमाना गतायुषः(युषं प्रायः) प्रायः॥98॥

योगे बलिनः स्थानं(स्थाने) स्वं वा लग्नं गतेऽपि वा चन्द्रे।

बलवति पापैर्दृष्टे वर्षान्ते मृत्युकालः स्यात्॥99॥

रविचन्द्रभौमगुरुभिः कुजगुरुसौरेन्दुभिस्तथैकस्थैः।

रविशनिभौमशशाङ्कैर्मरणं खलु पञ्चभिर्वर्षैः॥100॥

रविणा(रविशशियुक्तः) युक्तः शशिजोऽसौम्यैर्दृष्टो विनाशयति नूनम्।

एकादशभिर्वर्षैर्देवाङ्केऽपि स्थितं जातम्॥101॥

लग्ने रविमन्दकुजैः (कुजाःशत्रुगृहे)शुक्रगृहे सप्तमे शशी क्षीणः।

दृष्टो न देवगुरुणा सप्तभिरब्दैर्विनाशयति॥102॥

केन्द्रे रविमुषिततनुः क्षितिसुतमन्दावलोऽकितोऽथ युतः।

वर्षचतुष्के चन्द्रो मारयति किमत्र गणितेन॥103॥

(द्र.जा. भ. अरिष्टा.)लग्नाधिपतेश्चन्द्रो मरणपदस्थोऽति कृष्णतां यातः।

क्रूरैः सकलैर्दृष्टो न शुभैः सर्वैस्त्रिभिस्तु मारयति॥104॥

लग्नाधिपतिः पापः शशिनोंशे रिःफगो यदि च चन्द्रात्।

क्रूरैर्विलोक्यमानो मारयति शिशुं नवभिरब्दैः॥105॥

दर्शनभागे सौम्याः क्रूराश्चादृश्यके प्रसवकाले।

राहुर्लग्नोपगतो यमक्षयं नयति पञ्चभिर्वर्षैः॥106॥

राहुः सप्तमभवने शशिसूनुनिरीक्षितो न शुभदृष्टः।

दशभिर्द्वाभ्यां सहितैरब्दैर्जातं विनाशयति॥107॥

घटसिंहवृश्चिकोदयकृतस्थितिर्जीवितं हरति राहुः।

पापैर्निरीक्ष्यमाणः सप्तमितैर्निश्चितं वर्षैः॥108॥

केतोरुदयं पूर्वः पश्चादुल्कादिपवननिर्घाताः।

रौद्रे सार्पमुहूर्ते(सति च मुहूर्ते) प्राणैः सन्त्यज्यते जन्तुः॥109॥

क्षीणं यदा शशाङ्कं पश्येद्राहुः समागतं पापैः।

मारयति तदा दिवसैर्निर्व्याजं कतिपयैरेव॥110॥

कुम्भे दिशति शशाङ्को भागे मृत्युं तथैकविंशख्ये(तथैकविंशाख्ये)।

सिंहे च पञ्चमेंऽशे वृषे(क्रूरेण वृषे मृतिर्मरणभागे) च नवमे तथैवोक्तः॥111॥

अलिनि त्रिविंशयुक्ते मेषे च तथाष्टमे दिशति। मृत्युम्।

कर्कटके द्वाविंशे तुलिनि चतुर्थे मृगे विंशे॥112॥

कन्या प्रथमेंशे धनुर्धरेऽष्टादशे झषे दशमे।

मिथुने च द्वाविंशे शशी प्रसूतस्य मरणकरः॥113॥

ये भुक्ताः(ये तूक्ताः) शशिनोंशा जन्मनि वर्षैर्गतैस्तु तावद्भिः।

मरणं हि जन्मभाजामप्यन्तकबद्धरक्षाणाम्॥114॥

एवं सर्वप्रयत्नेन जायमानस्य देहिनः।

होरास्थानानि(स्थानेषु) केन्द्राणि चिन्तनीयानि तद्यथा॥115॥

चिन्तयेज्जायमानस्य स्थानराशिषु नित्यशः।

बृहस्पतिर्नृणां जीवस्तस्य(तस्मान्मृत्युं) नित्यं बृहस्पतेः॥116॥

पञ्चदशषट्समेतश्चत्वारिंशत्तथैक(तथैव विशश्च) विंशच्च।

शतमथ(त्रिंशच्चत्वारिंशत्) चत्वारिंशत् षष्टिस्त्रिंशत(पञ्चाशदेव यथोक्तहोरायाः) क्रमायु होरायाः॥117॥

तृतीयचतुर्थपञ्चमसप्तमनवमदशमैकादशगृहेषु जीवस्थितौ(वोत्थिता) वर्षाः(प्रोक्ताः सहजे तुर्ये पंचमके सप्तमे च नवमे च। दशमे चैकादशके गृहेषु जीवस्थितौ वर्षाः)॥118॥

इति कल्याणवर्मविरचितायां सारावल्यां अरिष्टाध्यायो दशमः॥

एकादशोऽध्यायः[सम्पाद्यताम्]

(चन्द्रारिष्टभङ्गाध्यायः)

संभूतारिष्टाख्या भङ्गस्तेषां यथा भवेद्योगैः।

तानागमतो वक्ष्ये प्रधानभूता यतस्तेऽत्र(भूतानतस्तत्र)॥1॥

उडुपतिकृतरिष्टानां भङ्गस्तावन्निरूप्यते पूर्वम्(सम्यक्)।

सम्यक् (शेषाणामपि पश्चात्)शेषाणामपि यथामत ब्रह्मपूर्वाणाम्॥2॥

सर्वैर्गगनभ्रमणैर्दृष्टश्चन्द्रो विनाशयति रिष्टम्।

आपूर्यमाणमूर्तिर्यथा नृपः सन्नयेद्द्वेषम्(सुनयविद्वेष्टृन्)॥3॥

चन्द्रः सम्पूर्णतनुः शुक्रेण निरीक्षितः सुहृद्भागे।

(पित्तकफानां)रिष्टहराणां श्रेष्ठो वातहराणां यथा बस्तिः॥4॥

परमोच्चे शिशिरतनुर्भृगुतनयनिरीक्षितो हरितो रिष्टाम्।

सम्यग्विरेकवमनं कफपित्तानां(पित्तकफानां) यथादोषम्॥5॥

चन्द्रः शुभवर्गस्थः क्षीणोऽपि शुभेक्षितो हरति रिष्टम्।

जलमिव महातिसारं (दाडिम)जातीफलवल्कलक्वथितम्॥6॥

सप्ताष्टमषष्ठस्थाः शशिनः सौम्या हरन्त्यरिष्टफलम्।

पापैरमिश्रचाराः कल्याणघृतं यथोन्मादम्॥7॥

युक्तः शुभफलदायिभिरिन्दुः सौम्यैर्निहन्त्यरिष्टानि(सर्वैर्निहन्त्यरिष्टानि)।

तेषामेव त्र्यंशे (शूलम्)लवणविमिश्रं घृतं नयनरोगम्॥8॥

आपूर्यमाणमूर्तिर्द्वादशभागे शुभस्य यदि चन्द्रः।

रिष्टं नयति विनाशं तक्राभ्यासो यथा गुदजम्॥9॥

सौम्यक्षेत्रे चन्द्रो होरापतिना विलोकितो (हरति)हन्ति।

रिष्टं न वीक्षितोऽन्यैः कुलाङ्गना कुलमिवान्यगता॥10॥

क्रूरभवने शशाङ्को भवनेशनिरीक्षितस्तदनुवर्गे।

रक्षति शिशुं प्रजातं कृपण इव धनं प्रयत्नेन॥11॥

जन्माधिपतिर्बलवान् सुहृद्भिरभिवीक्षितः शुभैर्भङ्गम्।

रिष्टस्य करोति सदा भीरुरिव प्राप्तसंग्रामः॥12॥

(जन्मेशो लग्नेश्वरदृष्टः सर्वं)जन्माधिपतिर्लग्ने दृष्टः सर्वैर्विनाशयति रिष्टम्।

घृष्टोषणविदलाभ्यां प्रत्येककृताञ्जनं यथा शुक्लम्॥13॥

(स्वोच्चे वा)स्वोच्चस्थस्वगृहेऽथवापि सुहृदां (वर्गेथ)वर्गेऽपि (सौम्येऽपि)सौम्येऽथवा

संपूर्णः शुभवीक्षितः शशधरो वर्गे स्वकीयेऽथवा।

शत्रूणामवलोकने न पतितः पापैरयुक्तेक्षितो

रिष्टं हन्ति सुदुस्तरं दिनपतिः प्रालेयराशिं यथा॥14॥

शशिऽनोन्त्ये बुधसितयोराये क्रूरेषु वाक्पतौ गगने।

दुरितं चातुर्थिकमिव नश्यति मुनिकुसुमरसनस्यैः॥15॥

लग्नेश्वरस्य चन्द्रः षट्त्रिदशायहिबुकेषु शुभदृष्टः।

क्षपयति समस्तरिष्टान्यनुयाते(अनुयातो निरुप, रिष्टं वारयते) नृपतिरोध इव॥16॥

एको जन्माधिपतिः परिपूर्णबलः (शुभग्रहैर्दृष्टः)शुभैर्दृष्टः।

हन्ति निशाकररिष्टं व्याघ्र इव मृगान्‍ वने मत्तः(मत्तान्)॥17॥

पक्षे सिते भवति जन्म यदि क्षपायां

कृष्णेऽथवाऽहनि शुभाशुभदृश्यमानः।

तं चन्द्रमा रिपुविनाशगतोऽपि यत्ना-

दापत्सु रक्षति पितेव शिशुं न हन्ति॥18॥

इति कल्याणवर्मविरचितायां सारावल्यां चन्द्रारिष्टभङ्गो नामैकादशोऽध्यायः॥

द्वादशोध्यायः[सम्पाद्यताम्]

(अरिष्टभङ्गाध्यायः)

(सर्वानिमानतिबलः, सर्वातिगाम्यतिबलाः)सर्वातिशाय्यति बलः स्फुरदंशुमाली(जालो)

लग्पे स्थितः प्रशमयेत् सुरराजमन्त्री।

एको बहूनि दुरितानि सुदुस्तराणि

भक्त्या प्रयुक्त इव (शूलधरे)चक्रधरे प्रणामः(द्र.बृ. पा. 10।3)॥1॥

सौम्यग्रहैरतिबलैर्विबलैश्च पापै-

र्लग्नं च सौम्यभवने(भवनं) (भृगुदृष्टिपुष्टम्)शुभदृष्टियुक्तम्(युक्ते)।

सर्वापदा(सर्वापदाभिरहितो)विरहितो भवति प्रसूतः

पूजाकरः खलु यथा दुरितैर्ग्रहाणाम्॥2॥

पापा यदि शुभवर्गे सौम्यैर्दृष्टाः शुभांशवर्गस्थैः।

निघ्नन्ति तथा रिष्टं पतिं विरक्ता यथा युवतिः॥3॥

राहुस्त्रिषष्ठलाभे लग्नात् सौम्यैर्निरीक्षितः सद्यः।

नाशयति सर्वदुरितं मारुत इव तूलसंघातम्॥4॥

शीर्षोदयेषु राशिषु सर्वैर्गगनाधिवासिभिः सूतौ।

प्रकृतिस्थैश्चारिष्टं विक्रयते(विलीयते) घृतमिवाग्निष्ठम्॥5॥

तत्काले यदि विजयी शुभग्रहः शुभनिरीक्षितो वर्गे।

तर्जयति(वर्जयति) सर्वरिष्टं मारुत इव पादपान् प्रबलः॥6॥

परिविष्टो गगनचरः क्रूरैश्च विलोकिते हरति पापम्।

स्नानं सन्निहितानां(हितायां) कृतं यथा भास्करग्रहणे॥7॥

स्निग्धमृदुपवनभाजो(पवनविरजो) जलदाश्च(जलजा) तथैव खेचराः (स्वस्थाः)शस्ताः।

स्वस्थाः(शास्ति) क्षणाच्च रिष्टं शमयति(शमयन्ति हि) रजो (यथाम्बुधराः)यथाम्बुधारौघः॥8॥

उदये चागस्त्यमुनेः सप्तर्षीणां (पूर्वाणां)मरीचिपुत्राणाम्।

सर्वारिष्टं नश्यति तम इव सूर्योदये जगतः॥9॥

अजवृषकर्किविलग्ने रक्षति राहुः समस्तपीडाभ्यः।

पृथ्वीपतिः प्रसन्नः कृतापराधं यथा पुरुषम्॥10॥

(यत्नेन भङ्गमपरे)यातैस्त्रिभागमपरैः सरोजजन्मापि विस्मयं कुरुते।

भञ्जयति(तज्जः काष्टमनिष्टं) काष्ठमरिष्टं समतटदेशे यथा करभः(सरटः किरटः)॥11॥

बहवो यदि शुभफलदाः खेटास्तत्रापि शीर्यते रिष्टम्।

सूर्यात् त्रिकोण इन्दौ यथैव यात्रा नरेन्द्रस्य॥12॥

गुरुशुक्रौ च केन्द्रस्थौ जीवेद्वर्षशतं नरः।

गृहानिष्टं हिनस्त्याशु(भिनत्त्याशु) चन्द्रानिष्टं तथैव च॥13॥

बन्ध्वास्पदोदयविलग्नगतौ कुलीरे गीर्वाणनाथसचिवः सकलश्च चंद्रः।

जूके रवीन्दुतनयावपरे च लाभे दुश्चिक्यशत्रुभवनेष्वमितं तदायुः॥14॥

एते सर्वे भङ्गा मया निरुक्ताः पुरातनाः सिद्धाः।

यैर्ज्ञातैर्दैवविदो नरेन्द्रवाल्लभ्यमायान्ति॥15॥

इति कल्याणवर्मविरचितायां सारावल्यामरिष्टभङ्गो नाम द्वादशोऽध्यायः॥

त्रयोदशोऽध्यायः[सम्पाद्यताम्]

(चन्द्रविधिरध्यायः)

(द्र.बृ. पा. 37।7 तता वृ. जा. 13।3)सुनफाऽनफादुरुधरा भवन्ति योगाः क्रमेण रविरहितैः।

वित्तान्त्योभयसंस्थैः कैरववनबान्धवाद्विहगैः॥1॥

(द्र.वृ. पा. 37।11)एते न यदा योगाः केन्द्रग्रहवर्जितः शशाङ्कश्च।

केमद्रुमोऽतिकष्टः शशिनि (च सर्व)समस्तग्रहादृष्टे॥2॥

सुनफानफासरूपास्त्रिंशद्योगा(30) स्त्रिसंगुणा षष्टिः (180)।

संख्या दौरुधराणां प्रस्तारविधौ समाख्याताः॥3॥

श्रीमान् स्वबाहुविभवो बहुधर्मशीलः

शास्त्रार्थविद्बहुयशाः (त्पृथु) सुगुणाभिराम(स्वगुणी)।

शान्तः(कान्तः।हो.र. 7अ. 306 पृ.) सुखी क्षितिपतिः सचिवोऽथ वा स्यात्

सूतः पुमान् विपुलधीः सुनफाभिधाने(द्र.वृ. पा. 17।8 तथा वृ. जा. 13।5)॥4॥

वाग्मी प्रभुर्द्रविणवानगदः सुशीलो

भोक्तान्नपानकुसुमाम्बरभामिनीनाम्(कामिनीनाम्)।

ख्यातः समाहितगुणः सुखशस्तचित्तो(वित्तो)

योगे निशाकरकृते त्वनफे सुवेषः(द्र.वृ. पा. 37।9 तथा वृय जा. 13।5)॥5॥

वाग्बुद्धिविक्रमगुणैः प्रथितः पृथिव्यां

स्वातन्त्र्यसौख्यधनवाहनभोगभोगी(भागी)।

दाता(दान्तः) (जनपोषण)कुटुम्बधनपोषणलब्धखेदः

सद्वृत्तवान् दुरुधराप्रभवो धुरिस्थः(द्र.वृ. पा. 37।10)॥6॥

कान्तान्नपा(बन्धुगृहवस्त्र)नगृहवस्त्रसुहृद्विहीनो(बन्धुगृहवस्त्र) दारिद्र्यदुःखगददैन्यमलैरुपेतः।

प्रेष्यः खलः सकललोकविरुद्धवृत्तिः केमद्रुमे भवति पार्थिववंशजोऽपि॥7॥

केन्द्रादि स्थैर्ग्रहैर्योगाः कीर्तिता येऽनफादयः।

(तान्)ते प्रधाना(प्रधानान्) समा(समानान्) ह्रस्वा(स्वां)श्चन्द्ररूपाश्च(न्वि) चिन्तयेत्॥8॥

भौमादीनां बलं देशं जातस्य च कुलं बुधः।

विज्ञाय प्रवेदत् सम्यक् सुनफादिकृतं फलम्॥9॥

विक्रमवित्तप्रायो निष्ठुरवचनश्चमूपतिश्चण्डः।

हिंस्त्रो दम्भविरोधी सुनफायां भौमसंयोगे॥10॥

श्रुतिशास्त्रगेयकुशलो धर्मपरः (रतः)काव्यकृन्मनस्वी च।

सर्वहितो रुचिरतनुः सुनफायां सोमजे भवति॥11॥

विद्याचार्यं ख्यातं नृपतिं नृपतिप्रियं वाऽपि।

सुकुटुम्बधनसमृद्धं सुनफायां सुरगुरुः कुरुते॥12॥

स्त्रीक्षेत्रवि(वित्तगृहवां)त्तविभवश्चतुष्पदाढ्यः सुविक्रमो भवति।

नृपसत्कृतः सुधीरो दक्षः शुक्रेण सुनफायाम्॥13॥

निपुणमतिर्ग्रामपुरैर्नित्यं संपूजितो धनसमृद्धः।

सुनफायां रविपुत्रे क्रियासु गुप्तो भवेद्धौरः॥14॥

चोरस्वामी धृष्टः स्ववशो(वंश) मानी रणोत्कटः क्रोधी।

श्रेष्ठः(सेव्य) श्लाघ्यः सुतनुः कुजेनफायां सुलाभश्च(प्रगल्भश्च)॥15॥

गान्धर्वलेखनपटु(गन्धर्व) कविः प्रवक्ता नृपाप्तसत्कारः।

रुचिरतनुस्त्वनफायां प्रसिद्धकर्मा बुधेन भवेत्॥16॥

गाम्भीर्यसत्त्वमेधास्थानरतो(शुभो) बुद्धिमान् नृपाप्तयशाः।

अनफायां त्रिदशगुरौ संजातः (स्त्वविद्भवति)सत्कविर्भवति॥17॥

(युवतिजनानां)युवतीनामतिसुभगः प्रणयी क्षितिपश्च गोपतिः(भोगवान् कान्तः) ख्यातः।

कान्तः(कनकसमृद्धश्चण्ड) कनकसमृद्धस्त्वनफायां भार्गवे भवति॥18॥

विस्तीर्णभुजो नेता गृहीतवाक्यश्चतुष्पदसमृद्धः।

दुर्वनिताया भक्तो(भर्ता) गुणसहितश्चार्कपुत्रेण॥19॥

आनृतिको बहुवित्तो निपुणोऽतिशठोऽधिको(गुणाधिको) लुब्धः।

वृद्धासतीप्रसक्तः कुलाग्रणीः शशिनि भौमबुधमध्ये॥20॥

ख्यातः कर्मसु विभवी बहुजनवैरस्त्वमर्षणो हृष्टः।

कुलरक्षी कुजगुर्वोः संग्रहशीलः शशिनि मध्ये॥21॥

उत्तमरामा(उत्तरामा, उत्तमकामः) सुभगो विवादशीलः शुचिर्भवेद्दक्षः।

व्यायामी रणशूरः सितारयोर्मध्यगे चन्द्रे॥22॥

कुत्सितयोषिद्र(द्रविणो)मणो बहुसंचयकारको व्यसनतप्तः।

क्रोधी पिशुनो रिपुहा(रिपुमान यमारयीः) यमारयोः स्याद्दुरुधुरायाम्॥23॥

धर्मपरः शास्त्रज्ञो वाचालः सत्कविर्धनोपेतः।

त्यागयुतो विख्यातो बुधगुरुमध्ये स्थिते चन्द्रे॥24॥

प्रियवाक् सुभगः कान्तः प्रनृत्तगेयादिषु प्रियो भवति।

सेव्यः शूरो मन्त्री बुधसितयोर्दुरुधुरायोगे॥25॥

देशाद्देशं गच्छति वित्तपरो नातिविद्यया सहितः।

चन्द्रेऽन्येषां पूज्यः स्वजनविरोधी ज्ञमन्दयोर्मध्ये॥26॥

धृतिमेधाशौर्ययुतो नीतिज्ञः कनकरत्नपरिपूर्णः।

ख्यातो नृपकृत्यकरो गुरुसितयोर्दुरुधुरायोगे॥27॥

सुखनयविज्ञानयुतः प्रियवाग्विद्वान् धुरंधरोऽप्यार्यः।

शान्तो धनी सुरूपश्चन्द्रे गुरुभानुजान्तस्थे॥28॥

वृद्धचरितं कुलाग्र्यं निपुणं स्त्रीवल्लभं धनसमृद्धम्।

नृपसत्कृतं बहुधनं कुरुते चन्द्रः सितासितयोः॥29॥

(द्र.वृ. पा. 37।12 तथा वृ. जा. 13।1)सूर्यात् केन्द्रादिगतो निशाकरः स्वल्पमध्यभूयिष्ठान्।

कुयात्क्रमेण धनधीनैपुणविज्ञानविनयांश्च॥30॥

औत्पातिकः(उत्पातिकः, अल्पात्मजः) कृशतनुर्निशि चाप्यदृश्यो

(कृष्णे तु शीत किरणो)दृश्यो दिवा शिशिरगुर्भयशोकदः स्यात्।

एवं स्थितः समफलं पृथिवीपतित्वं

यातोऽन्यथा प्रकुरुते परिपूर्णमूर्तिः॥31॥

लग्नादुपचयसंस्थैः शुभैः समस्तैर्महाधनो द्वाभ्याम्।

मध्यं चैकेनाधममेवं चन्द्रादपि तदूनः॥32॥

अधियोगादयोऽन्येऽपि(येऽपि) मयात्रैव न कीर्तिताः।

नृपयोगा यतस्ते हि वक्ष्ये तत्रैव तानहम्॥33॥

इति कल्यावर्मविरचितायां सारावल्यां चन्द्रविधिर्नाम त्रयोदशोऽध्यायः॥

चतुर्दशोऽध्यायः[सम्पाद्यताम्]

(वेशिवाश्युभयचर्याध्यायः)

(वाशी तद्धनगैश्चन्द्रवर्जितैः)सूर्याद्व्ययगैर्वाशिर्द्वितीयगैश्चन्द्रवर्जितैर्वेशिः(र्वेशी)।

उभयस्थितैर्ग्रहेन्द्रैरुभयचरी नामतः प्रोक्ता(द्र.वृ.पा. 18।1)॥1॥

मन्ददृशं स्थिरवचनं परिभूतपरिश्रमं नतोर्ध्वतनुम्।

कथयति यवनाधिपतिर्वेशिसमुत्थं तथा पुरुषम्॥2॥

वसुसंचयवित्ससुहृत्सराद्वेशी सुरगुरौ भवति जातः।

भीरुः कार्योद्विग्नो लघुचेष्टो भृगसुते पराधीनः॥3॥

(कर्कशो)परिकर्मको दरिद्रो मृदुर्विनीतो बुधे सलज्जश्च।

(मार्गघ्नः)मार्गलघुः क्षितिपुत्रे परोपकारी नरो वेशौ॥4॥

परदाररतश्चण्डो बह्वाकारः शठो घृणी।

भवेन्मनुष्यः सधनो याते वेशिं शनैश्चरे॥5॥

(उत्सृष्ट)उत्कृष्टवचाः स्मृतिमानुद्योगयुतो निरीक्षते तिर्यक्।

(पूर्व)सर्वशरीरे पृथुलो नृपतिसमः सात्त्विको वाशौ॥6॥

धृति सत्त्वबुद्धियुक्तो भवति गुरौ वाशिके (पवनसार)वचनसारः।

शूर ख्यातो (बलवान्)गुणवान् यशस्करो भार्गवे पुरुषः॥7॥

प्रियभाषी (रुचिर)रुधिरतनुर्वाश्यां स्याद् बोधने पराज्ञाकृत्।

सङ्ग्रामे विख्यातो भूमिसुते (भाग्यश्च)नान्यवाक्यश्य॥8॥

वाणिक् (खल)कुलस्वभावः स्यात्परद्रव्यापहारकः।

गुरुद्वेषी (मुनिस्त्रीशो)सुनिस्त्रिंशो गते वाशिं शनैश्चरे॥9॥

संनिरीक्ष्य रवेर्वीर्यं ग्रहाणां चापि तत्त्वतः।

राश्यंशसङ्गमात्सर्वं फलं ब्रूयाद्विचक्षणः॥10॥

सर्वंसहः (सुसम्पदृक्)सुभद्रः समकायः सुस्थिरो विपुलसत्त्वः।

नात्युच्चः (परिपूर्णः सिंहग्रीवो भवेदुभयचर्याम्)परिपूर्णो विद्यायुक्तो भवेदुभयचर्याम्॥11॥

सुभगो बहुभृत्यधनो बन्धूनामाश्रयो नृपतितुल्यः।

नित्योत्साही हृष्टो भुङ्क्ते भोगानुभयचर्याम्(द्र.जा. भ. सु. यो 4)॥12॥

इति कल्याणवर्मविरचितायां सारावल्यां वेशिवाश्युभयचर्यायां चतुर्दशोऽध्यायः

पञ्चदशोऽध्यायः[सम्पाद्यताम्]

(द्विग्रहयोगाध्यायः)

यवनाचार्यैर्वृद्धैर्द्विग्रहयोगेषु यत्फलं प्रोक्तम्।

तदहमपहाय मत्सरमधुना वक्ष्ये विशेषेण॥1॥

युवतीनां वशगः स्यादविनीतः (कूटकृत् प्रलघुचितः)कूटवित्पृथुलवित्तः।

आसवविक्रयकुशलो रव्युडुपत्योः क्रियानिपुणः॥2॥

ओजस्वी साहसिको मूर्खो बलसत्त्वसंयुतोऽनृतवाक्।

पापमतिर्वधनिरतो(निष्ठो) रविकुजयोः स्यात् प्रचण्डश्च॥3॥

सेवाकृदस्थिरधनो रविज्ञयोः प्रियवचा यशोर्थः स्यात्।

आर्यः क्षितिपतिदयितः सतां च बलरूपवित्तविद्यावान्॥4॥

बहुधर्मो नृपसचिवः (सुबुद्धिमान्)समृद्धिमान्मित्रसंश्रयाप्तार्थः।

सूर्ये बृहस्पतियुते भवेदुपाध्यायसंज्ञश्च॥5॥

शस्त्रप्रहरणविद्याशक्तियुतो नेत्रदुर्बलश्चरमे(चरभे)।

रङ्गज्ञो रविसितयोः स्त्रीसङ्गाल्लब्धबन्धुधनः(जनः)॥6॥

धातुज्ञो धर्ममयः (स्वकर्म)स्वधर्मनिरतः प्रणष्टसुतदारः।

निजवंशगुणैः (सिद्धः)शुद्धः शनिरव्योरल्पशीलश्च॥7॥

शूरो रणप्रतापी मल्लोऽसृग्वेदनार्तदेहश्च(वेदनाप्तदाह)।

मृच्चर्मधातुशिल्पी कूटज्ञश्चन्द्रकुजयोगे॥8॥

काव्यकथास्वतिनिपुणः सधनः स्त्रीसंमतः सुरूपश्च।

स्मितवदनः शशिबुधयोर्धर्मरुचिः(रतिः) स्याद्विशिष्टगुणः॥9॥

दृढ़सौहृदो विनीतः स्वबन्धुसंमान(संमानकृद्धनेशश्च)वर्धनेशश्च।

गुर्विन्द्वो शुभशीलः सुरद्विजेभ्यो (हितो)रतो भवेत्पुरुषः॥10॥

(धूपां)स्त्रग्धौताम्बरयुक्तः क्रियाविधिज्ञः (कवि)कुलप्रियोऽत्यलसः।

क्रयविक्रयेषु कुशलः शशिभार्गवयोः सदा योगे॥11॥

जीर्ण(वधूनां)वधूजनरमणो गजाश्वसम्पादको(सम्पालको) विगतशीलः।

वश्यो विधनः पुरुषः पराजितः स्याच्छशाङ्कशनियोगे॥12॥

स्त्रीदुर्भगोऽल्पवित्तः सुवर्णलोहप्रकारकः स्थपतिः।

दुष्टस्त्रीविधवानां कुजबुधयोरौषधक्रियानिपुणः॥13॥

(शिल्पी)शिल्पश्रुतिशास्त्रज्ञो मेधावी वाग्वि शारदो मतिमान्।

अस्त्रप्रियप्रधानः सुरगुरुकुजोः (योगे)समागतयोः॥14॥

पूज्यो गणप्रधानो गणितज्ञः परयुवतिभी(युवतिको) रतो धूर्तः।

द्यूतानृतशाठ्यरतो विटश्च(विटःसिते रुधिरसंयुते भवति) सितरुधिरसंयोगे॥15॥

धात्विन्द्रजालकुशलः (प्रपञ्चकस्तोयकर्म)प्रवञ्चकस्तेयकर्मकुशलश्च।

कुजसौरयोर्विधर्मः शत्रविषघ्नः कलिरुचिः स्यात्॥16॥

नृत्तविधेर्विज्ञाता प्राज्ञोऽपि च (वाद्य)गेयशास्त्रविन्मनुजः।

बुधगुरुयोगे मतिमान्सौख्ययुतो जायतेऽवश्यम्॥17॥

अतिशयधनो नयज्ञो बहुशिल्पो वेदवित्सुवाक्यः स्यात्।

गीतज्ञो हास्यरतिर्बुधसितयोर्गन्धमाल्यरुचिः॥18॥

(गुणवान्)ऋणवान् (डम्भ)दम्भप्रायः प्रपञ्चकः सत्कविर्गमनशीलः।

निपुणः शोभनवाक्योक बुधशनियोगे पुमान् भवति॥19॥

जीवति (वेदै)विद्यावादैर्विशिष्टधर्मस्थितः प्रमाणयुतः।

जीवसितयोर्मनुष्यो विशिष्टदारो भवेन्मतिमान्(भवेद्धनवान्)॥20॥

शूरो वित्तसमृद्धो (नगराधिपतिः सुखी यशस्वी च)नगराधिपतिर्यशस्वी च।

शनिजीवयोः प्रधानः श्रेणिसभाग्रामसंघानाम्॥21॥

दारुविदारणदक्षः क्षुरचित्राश्मादिकर्मशिल्पो च।

मल्लोऽटनः पशुपतिः शनिसितयोगे पुमान भवति॥22॥

उक्तं फलं गगनगा यद्यन्योन्यगणस्थिताः।

अधमादिविकल्पेन कुर्वन्ति विकृतिं तथा (इस अध्याय में उक्त श्लोकों के भाव देखें जातक पारिजात अध्याय 7)॥23॥

इति कल्पयाणवर्मवि रचितायां सारावल्यां द्विग्रहयोगो नाम पञ्चदशोध्यायः

षोडशोऽध्यायः[सम्पाद्यताम्]

(त्रिग्रहयोगाध्यायः)

निर्लज्जः पापरतो यन्त्रज्ञः शत्रुदारणे शूरः।

(अखिल)अश्मक्रियासु कुशलः सहस्थितैः सूर्यशशिभौमेः॥1॥

तेजस्वी निपुणमतिः शास्त्रकलागोष्ठिपानरतः।

नृपकृत्यकरो(रतो) धीरो रविशशिशशिजैः सहैकस्थैः॥2॥

क्रुद्धो मायानिपुणः सेवाकुशलो विदेशगमनरतः।

मेधावी चपलमतिः सहस्थितैरर्कशशिजीवैः॥3॥

परधनहरणे निपुणः परदाररतश्च शास्त्रनिपुणश्च।

रविचन्द्रदैत्यपूज्यैरेकस्थैर्जायते मनुजः॥4॥

कामे(कामविवादे) विवादकुशलो मूर्खः परतन्त्रगो दरिद्रश्च।

सूर्यनिशाकररविजैरेकस्थैर्जायते मनुजः॥5॥

भवति ख्यातो मल्लः साहसिको निष्ठुरो विगतलज्जः।

धनसुतकलत्ररहितः सहस्थितैरर्ककुजसौम्यैः॥6॥

वचसि निपुणो महार्थः क्षितिपतिमन्त्री च(चमूपतिः) भूपतिर्वाऽपि।

सत्यवचनः प्रचण्डः सहस्थितैर्भौमगुरुसूर्यैः॥7॥

नयनातुरः कुलीनःक सुभगो वाक्शल्यसंयुतो मनुजः।

भृगुभौमदिवसनाथैः सहस्थितैः स्याद्विभवयुक्तः॥8॥

विकलाङ्गो धनरहितो नित्यं रोगान्वितो मनुजः।

स्वजनरहितोऽतिमूर्खः क्षितिजार्कजभानुभिः सहितैः॥9॥

नेत्रातुरोऽतिधनवान् (शास्त्रकथाकाव्यगोष्ठिशिल्परतः)मूर्खः शास्त्रादिशिल्पकाव्यरतः।

वाचस्पतिबुधसूर्यैरेकगतैर्लिपिकरः पुरुषः॥10॥

(अभिशस्तो)अतितप्तो वाचाटो भ्रमणरुचिः प्रोषितो गुरुभिः।

स्त्रीहेतोः सन्तप्तः शशिसुतरविभार्गवैः सहितैः॥11॥

क्लीबाचारो द्वेष्यः सर्वजितो बन्धुभिः परित्यक्तः।

सौरादित्येन्दुसुतैरेकस्थैर्जायते पुरुषः॥12॥

दुर्बलचक्षुः शूरः प्राज्ञो निःस्वश्च भूपतेः सचिवः।

परकार्यरतो नित्यं भार्गवगुरुभास्करैः सहितैः॥13॥

असदृशकायः पूज्यः स्वजनद्वेष्यः सुदारसुतमित्रः।

नृपतीष्टो विगतभयो जीवार्कजदिनकरैः सहितैः॥14॥

शत्रुभयात्सोद्वेगो मानकलाकाव्यवर्जितो मनुजः।

कुत्सितचरितः कुष्ठी सितार्किरविसंयुतैर्भवति॥15॥

पापकरा जायन्ते नीचाचाराः सुहृत्स्वजनहीनाः।

आजीविनश्च पुरुषाः शशाङ्कबुधभूमिजैः सहितैः॥16॥

(व्रणिताङ्गः)विनताङ्ग स्त्रीलोलश्चोरः कान्तश्च संमतः स्त्रीणाम्।

भौमशशाङ्कसुरेज्यैरेकस्थैश्चण्डरोषश्च॥17॥

दुःशीलायाः पुत्रः पतिश्च तस्याः सदैव निर्दिष्टः।

कुजभृगुशशिभिः सहितैर्भ्रमणरुचिः शीतभीतश्च(भीरुश्च)॥18॥

बाल्ये मृतजननीकः क्षुद्रो विषमश्च लोकविद्विष्टः।

जायेत नरो योगे भूसुतशशिभास्करसुतानाम्॥19॥

धनवान्कल्यो वाग्मी तेजस्वी ख्यातिमान्विपुलकीर्तिः।

बहुपुत्रभ्रातृयुतो बुधेन्दुसुरपूजितैर्युक्तैः॥20॥

विद्यासंस्कृतमतिरपि नीचाचारः पुमान्भवेज्जातः।

सौम्यो(सेर्ष्यो) धनप्रलुब्धो बुधभार्गवचन्द्रसंयोगे॥21॥

अस्वस्थो(अस्वातन्त्र्यो विकलः) विकलाङ्गः प्राज्ञो वाग्मी सुपूजितः क्षितिपः।

भवति नरः संयोगे सौरेन्दुशशाङ्कपुत्राणाम्॥22॥

साध्वीतनयः प्राज्ञः कलास्वभिज्ञो बहुश्रुतः साधुः।

भार्गवगुरुशशियोगे जातः सुभगो भवेत्पुरुषः॥23॥

शास्त्रार्थतत्त्वबुद्धिर्वृद्धस्त्रीसङ्गतो (रोषः)विगतरोगः।

शशिवाचस्पतिसौरैरेकस्थैर्ग्रामवृन्दपतिः॥24॥

लिपिकरपुस्तकवाचकपुरोधसां भवति जन्म सुकृतैश्च।

दैवविदां पुरुषाणां शशिभार्गवसौरिसंयोगे॥25॥

सुकविः क्षोणीनाथः सद्युवतिपतिः परार्थं उद्युक्तः।

गान्धर्ववेदकुशलः स्याद्बुधगुरुभूसुतैः सहितैः॥26॥

अकुलीनो विकलाङ्गश्चपलो दुष्टश्च जायते मनुजः।

मुखरो नित्योत्साही कुजबुधभृगुनन्दनैः सहितैः॥27॥

प्रेष्यः श्यामलनेत्रः प्रवासशीलो भवेद्वदनरोगी।

रमते प्रहसनशीलैर्बुधार्किरुधिरैः सहैकस्थैः॥28॥

नृपतीष्टः सत्सुतवान्विलासिनीभ्यः सदाप्तबहुसौख्यः।

सकलजनानन्दकरो भार्गवगुरुभूमिजैः सहितैः॥29॥

नृपसंमतः क्षताङ्गो नीचाचारो विगर्हितो मित्रैः।

भवति नरो विगतघृणः सुरेज्यकुजसौरिसंयोगे॥30॥

चारित्रविहीनायाः पुत्रो भर्ता भवेत्सुखविहीनः।

नित्यं प्रवासशीलः संयुक्तैः सौरिकुजशुक्रैः॥31॥

सुतनुः क्षपितारिगणो नृपतिः सुभगस्तथा (विपुदकीर्तिः)पृथुलकीर्तिः।

बुधगुरुशुक्रैः सहितैर्भवति नरः सत्यवचनश्च॥32॥

(मान)स्थानधनैश्वर्ययुतं प्राज्ञं बहुभोगिनं स्वदाररतम्।

धृतिसौख्यरतं(युतं) सुभगं जनयन्ति बुधार्किजीवाख्याः॥33॥

मुखरो धूर्तोऽनृतवाक् परयुवतिरतो भवेद्विषमशीलः।

बुधशुक्रसूर्यतनयैः कलास्वभिज्ञः स्वदेशरतः॥34॥

न्यूने कुलेऽपि जातो भवति नरो भूपतिर्विपुलकीर्तिः।

गुरुभार्गवदिनकरजैरेकस्थैः शीलसम्पन्नः॥35॥

पापैर्युक्ते चन्द्रे मातुरभावः प्रकीर्तितप्रायः।

सूर्ये पितुस्तथान्यैः शुभं वदेन्मिश्रितैर्मिश्रम्॥36॥

प्रायः शुभाः समेता धनभूतियशोऽन्वितं(युतं) नृपतिचेष्टम्।

उत्पादयन्ति मनुजं भूमण्डलमण्डनं श्रेष्ठम्॥37॥

पापास्त्रयोपि मिलिताः कुर्वन्ति नरं सुदुर्भगं लोके।

दारिद्र्यदुःखतप्तं गर्हितरूपं विनयहीनम्॥38॥

इति कल्याणवर्मविरचितायां सारावल्यां त्रिग्रहयोगे नाम षोडशोऽध्यायः

सप्तदशोऽध्यायः[सम्पाद्यताम्]

(चतुर्ग्रहयोगाध्यायः)

लिपिकरतस्करमुखरो रोगी मायाप्रपञ्चकुशलश्च।

बुधरविभौमशशाङ्कैरेकर्क्षगतैः पुमान्भवति॥1॥

धनवान्वनितानिन्द्यस्तेजस्वी नीतिमान्विगतशोकः।

कर्मसमर्थो निपुणः शशिकुजगुरुभास्करैः सहितैः॥2॥

(उग्रो हुतभुक्तीव्रः)आर्योचितवाग्वृत्तिः सुखभाङ्निपुणोऽर्थसंग्रहणशीलः।

विद्यासुतदारयुतः शशिकुजभृगुभास्करैः सहितैः॥3॥

विषमशरीरो ह्रस्वो धनरहितो यातिताशनो मूर्खः।

गम्यः सर्वस्य तथा रविशशिकुजसौरिसंयोगे॥4॥

(सौवर्णकः)सौवर्णिकः प्लुताक्षः शिल्पकारो वा महाधनो धीरः (वीरः)।

(गाम्भीर्यो रुचिर)जातः स्यान्निरुजतनुः शशिज्ञगुरुभास्करैः सहितैः॥5॥

विकलः सुभगो वाग्मी (त्रस्ताक्षो भूपसंमतो, पिङ्गाक्षी भूपसंमतो)ह्रस्वो नृपसंमतो मनुजः।

जातः स्यादेकस्थै रविशशिबुधभार्गवैः सहितैः॥6॥

मातृपितृविप्रयुक्तो धनसौख्यविवर्जितो भ्रमणशीलः।

भिक्षाशनोऽप्यनृतवाक् रवीन्दुसौम्यार्किभिर्नियतम्॥7॥

सलिलमृगारण्यानां स्वामी स्यात्सौख्यभाक्(नृपतिपूज्यः) भवति पूज्यः।

शुक्रार्कगुरुशशाङ्कैरेकर्क्षगतैः पुमान् निपुणः॥8॥

तामसनेत्रस्तीक्ष्णो बहुसुतवित्तो वराङ्गनासुभगः।

सूर्येज्यचन्द्रसौरैरेकस्थैर्जायते पुरुषः॥9॥

वनितासदृशाचारः पुरःसरोऽत्यन्तदुर्बलशरीरः।

भीरुः सर्वत्र भवेदर्केन्दुसितासितैः सहितैः॥10॥

शूरोऽथ सूत्रकारश्चक्र(चरो)धरो वा विपन्नदारधनः।

दुःखार्णवोऽटनपरः सुसङ्गतैरर्कजीवबुधभौमैः॥11॥

परदाररतश्चौरो विषमाङ्गो दुर्जनो विगतसत्त्वः।

भवति प्रसवे पुरुषो रविसितभौमेन्दुजैः सहितैः॥12॥

योद्धा(योधः) प्राज्ञस्तीक्ष्णो नीचाचारः कविप्रधानश्च।

मन्त्री च भूपतिर्वा बुधार्ककुजसौरिसंयोगे॥13॥

सुभगः पूज्यो लोके धनवान् नृपसंमतो भुवि ख्यातः।

रविभौमजीवशुक्रैरेकस्थैर्नीतिमान्पुरुषः॥14॥

सोन्मादो गणमान्यः सिद्धार्थो बन्धुमित्रसंपृक्तः।

भानुकुजजीवसौरेः संयुक्तैर्वा नृपाभिमतः॥15॥

विकलो नीचाचारो विषमाक्षो बन्धु विद्विष्टः।

सूर्यकुजशुक्रसौरैः पराभवं सर्वतो याति॥16॥

धनवान्सुखप्रधानः सिद्धार्थो बन्धुमान् प्रकृष्टश्च।

भानुबुधजीवशुक्रैर्भवति पुमानेकराशिगतैः॥17॥

क्लीबाचारो मानो कलहरुचिः (सहजवाङ्)सहजवान् निरुत्साहः।

अर्कार्किबुधसुरेज्यैरेकस्थैर्जायते पुरुषः॥18॥

मुखरः सुभगः प्राज्ञो मृदुसौख्यः सत्त्वशौचसंपन्नः।

धीरो मित्रसहायो रविबुधसितसौरिसंयोगे॥19॥

लुब्धः कविः प्रधानः कारुकनाथोऽधिपश्च नीचानाम्।

आदित्यार्किसितार्यै राज्ञां जातो भवेदिष्टाः॥20॥

शास्त्रकुशलो नरेन्द्रः सुमहामन्त्रोऽथवा महाबुद्धिः।

शशिकुजसोमजजीवैरेकस्थैर्यः पुमाञ्जातः॥21॥

कलहरुचिर्निद्रालुर्नीचः स्याद्वर्धकीपतिः सुभगः।

बन्धुद्वेष्टा न सुखी शशिकुजबुधभार्गवैः सहितैः॥22॥

शूरो विमातृपितृको दुष्कुलजो बहुकलत्रमित्रसुतः।

भवति सुकर्माभिरतः शशिकुजबुधसौरिसंयोगे॥23॥

विकलाङ्ग सुकलत्रः (कष्टसहो)सकलसहोऽतीवमानसंयुक्तः।

प्राज्ञो बहुमित्रसुखः शशिकुजगुरुभार्गवैः सहितैः॥24॥

बधिरो धनावाञ्शूरः सोन्मादो वाक्पटुः स्थिरप्रकृतिः।

मतिमानुदारचित्तो भौमेन्दुशनैश्चरसुरेज्यैः॥25॥

कुलटापतिः प्रगल्भः सर्पाक्षो नित्यमेव सोद्वेगः।

जातः पुरुषोऽवश्यं कुजेन्दुयमभार्गवैर्भवति॥26॥

विद्वान्विमातृपितृकः सद्रूपो धनयुतोऽतिसुभगश्च।

भवति नरो विगतारिर्बुधगुरुशशिभार्गवैः सहितः॥27॥

कृतधर्मकीर्तिरग्र्यस्तेजस्वी बन्धुवल्लभो मतिमान्।

नृपसचिवः प्रवरकविः शशिधजीवार्किभिः सहितैः॥28॥

परदारगमनशीलो विशीलभार्यो विपन्नबन्धुश्च।

प्राज्ञो लोकद्विष्टः(द्वेष्टा) स्यादिन्दुबुधार्किभृगुपुत्रैः॥29॥

मात्रा रहितः सुभगस्त्वग्दोषी दुःखितो भ्रमणशीलः।

बहुभाषी सत्यरतः शशिगुरुभृगुसौरिभिः सहितैः॥30॥

(रुचिर)स्त्रीकलहरुचिर्धनभाक्पूज्यो लोके च शीलसंपन्नः।

भवति पुमान्निरुजतनुर्बुधारगुरुभार्गवैः सहितैः॥31॥

शूरो विद्वान्वाग्मी धनरहितः सत्यशौचसंपन्नः।

वादी द्वन्द्वसहिष्णुर्मतिमान्सहितैर्बुधारगुरुसौरैः॥32॥

स्यान्मल्ल; परपुष्टः कठिनाङ्गो युद्धदुर्मदः ख्यातः।

रमते च सारमेयैर्बुधारयमभार्गवैः सहितैः॥33॥

तेजस्वी वित्तयुतः स्त्रीलोलः साहसप्रियश्चपलः।

भौमगुरुशुक्रशौरैरेकस्थैर्जायते कितवः॥34॥

मेधावी (शस्त्र, शास्त्र)श्राद्धरतो (कामाचारो)रामासक्ता विधेयभृत्यश्च।

बुधजीवशुक्रसौरैरेकस्थैस्तीव्रसंयोगे॥35॥

इति कल्याणवर्मविरचितायां सारावल्यां चदुर्ग्रहयोगः सप्तदशोऽध्यायः

अष्टादशोऽध्यायः[सम्पाद्यताम्]

(पञ्चग्रहयोगाध्यायः)

दुःखी बहुप्रपञ्चो जायाविरहेण तापितशरीरः।

भवति पुमानेकस्थै रवीन्दुकुजजीवचन्द्रसुतैः॥1॥

परकर्मतो नित्यं बन्धुसुहृद्भि(बन्धुसुहृद्विकृतो, बन्धुसुहृद्दुःखितो) कृतो विगतसत्त्वः।

क्लीबैर्याति च सख्यं रवीन्दुकुजशुक्रसौम्यैश्च॥2॥

अल्पायुर्बन्धनभाग्दीनो भवतीह सर्वसुखहीनः।

अकलत्रोऽसुतवित्तः सौरदिवाकरबुधेन्दुकुजैः॥3॥

जात्यन्धो बहुदुःखी मातृपितृभ्यां सदैव सन्त्यक्तः।

भवति नरो गेयरुचिः कुजेन्दुगुरुभार्गवार्कैश्च॥4॥

युद्धकुशलः समर्थः परवित्तहरः परोपतापी च।

(पिशुनः खलश्च)पिशुनश्चलश्च पुरुषः शनिशशिकुजजीवदिवसेशैः॥5॥

मानार्थविभवहीनो मलिनाचारः पराङ्गनानिरतः(भिरतः)।

पञ्चभिरेकस्थैः स्याद्दिनेशशशिशुक्रशनिभौमैः॥6॥

यन्त्रज्ञो बहुविभवो नृपसचिवो दण्डनायको वा स्यात्।

ख्यातः शुभकीर्तियुतो बुधेन्दुरविजीवशुक्रैश्च॥7॥

भीरुः प्रियसन्त्यक्तः सोन्मादो वञ्चनासु निपुणश्च।

उग्रः परान्नभोजी बुधेन्दुगुरुसूर्यरविपुत्रैः॥8॥

दीर्घो रोमशगात्रो मरणोत्साही सुखार्थसुतहीनः।

स्यात्पञ्चभिरेकस्थै रविचन्द्रबुधार्किभृगुपुत्रैः॥9॥

वाग्मीन्द्रजालनिरतश्चलचित्तः स्त्रीषु वल्लभो मतिमान्।

बहुशत्रुर्विगतभयो रवीन्दुगुरुशुक्रभानुसुतैः॥10॥

कामी बहुतुरगनरः (स्फीतः सेनापतिः)स्वीकृतसेनापतिर्विगतशोकः।

राजप्रियोऽतिसुभगो बुधाररविजीवशुक्रैः स्यात्॥11॥

नित्योद्विग्नो रोगी भिक्षां भुङ्क्ते गृहाद्गृहं गत्वा।

जीर्णमलीमसवासा रविकुजबुधजीवरविपुत्रैः॥12॥

वधबन्धनरोगार्तो विद्वाँल्लोके सुपूजितो भवति।

निःस्वो विकलशरीरः कुजशशिबुधशुक्रमन्दैः स्यात्॥13॥

व्याधिभिररिभिर्ग्रस्तः स्थानभ्रष्टोऽतिदुःखसन्तप्तः।

भ्रमति क्षुभितः पुरुषः कुजार्किरविशुक्रशशितनयैः॥14॥

प्रेष्यो मूर्खः क्लीबो मलिनाचारोऽतिदुर्भगो विकलः।

भवति नरो धनरहितः शशिकुजगुरुशुक्ररवितनयैः॥15॥

जलयन्त्रधातुपारदरसायनेष्वतिपटुः पुमान् भवति।

एभिः प्रसिद्धकर्मा क्षितिसुतरविजीवसितसौरैः॥16॥

बहुशास्त्रज्ञानपटुर्मित्रहितः संमतो गुरूणां च।

धर्मपरः कारुणिकः सूर्यासितशुक्रबुधजीवैः॥17॥

साधुः कल्यशरीरो विद्याधनसत्यसौख्यसम्पन्नः।

बन्धुहितो बहुमित्रो बुधेन्दुकुजजीवभृगुपुत्रैः॥18॥

तिमिरामयी दरिद्रः परान्नमभियाचयते सदा दीनः।

मलिनयति बन्धुवर्गं कुजार्किबुधजीवहिमकरणैः॥19॥

बहुशत्रुमित्रपक्षः परार्थहितकृद्विषमशीलः।

एकस्थैरतिमानी बुधेन्दुकुजशुक्ररविपुत्रैः॥20॥

नृपमन्त्री नृपतिसमो गणनाथः सर्वलोकपूज्यश्च।

एकर्क्षे भवति नरश्चन्द्रेन्दुजजीवशनिशुक्रैः॥21॥

सुमनस्कः सोन्मादो राज्ञामतिवल्लभो विगतशोकः।

निद्रातुरो दरिद्रः कुजगुरुबुधशुक्ररविपुत्रैः॥22॥

इति कल्याणवर्मविरचितायां सारावल्यां पञ्चग्रहयोगो नामाष्टादशोऽध्यायः

एकोनविंशोऽध्यायः[सम्पाद्यताम्]

(षडग्रहयोगाध्यायः)

विद्याधनधर्मरतः क्षामो बहुभाषको(विशिष्ट)विकृष्टमतिः।

एकभवनोपयातैर्बुधेन्दुरव्यारगुरुशक्रैः॥1॥

दाता परकार्यकरश्चलस्वभावो विशुद्धसत्त्वश्च।

रमते विजनोद्देशे रवीन्दुवक्रज्ञगुरुरविजैः॥2॥

चोरः परदाररतः कुष्ठी स्वजनैर्निराकृतो मूर्खः।

स्थानभ्रष्टो विसुतो बुधेन्दुरव्यारशनिशुक्रैः॥3॥

नीचः परकर्मरतः (कर्मकरः)क्षयरोगी(खास)श्वासकासपरिभूतः।

निन्द्यः स्याद्बन्धूनां सितेन्दुरव्यारगुरुविजैः॥4॥

मन्त्री नृपस्य सुभगः क्षान्तियुतो भवति शोकपरितप्तः।

अकलत्रो धनरहितो रवीन्दुबुधजीवसिसौरैः॥5॥

तीर्थेषु सदा रमते पुत्रैर्नित्यं धनेन रहितश्च।

वनपर्वतोपसेवी बुधाररविजीवशनिशुक्रैः॥6॥

नित्यं शुचिः प्रतापी बहुयुवतिरतो नृपप्रियो मन्त्री।

धनसुतसौभाग्ययुतः कुजार्किसितचन्द्रबुधजीवैः॥7॥

प्रायो दरिद्रदुःखी मूर्खः षट्पञ्चसंयुतैर्विहगैः।

अन्योन्यदर्शनादपि फलमेतत्कन्दलाः प्राहुः॥8॥

इति कल्याणवर्मविरचितायां सारावल्यां षट्ग्रहयोगो नामैकोनविंशऽध्यायः

इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्यायः षष्ठः॥

विंशोऽध्यायः[सम्पाद्यताम्]

(प्रव्रज्यायोगाध्यायः)

योगा विभक्ताश्चतुरादिसंस्थैर्व्यासाद्ग्रहैः कैरपि तापसानाम्।

जन्मादि(जन्मार्हतैषां) तेषामपरैर्मुनीन्द्रैः संवेदितं तत्कथयाम्यशेषात्॥1॥

सूर्येन्दुशुक्रार्यमहीसुतेषु सूर्येन्दुसोमात्मजभूमिजेषु।

एकस्थितेषु प्रभवेत्तपस्वी भान्वारमन्दज्ञसितेषु चैव॥2॥

कुजेन्दुसूर्यज्ञपुरोहितैश्च तीक्ष्णांशुचन्द्रार्किशशाङ्कजैश्च।

सूर्येन्दुभूपुत्रशनैश्चरैः स्यादेकर्क्षगैः प्रव्रजितो मनुष्यः॥3॥

आदित्यगुर्वार्किशशङ्कपुत्रा भौमार्कचन्द्रात्मजसूरयश्च(सौरयश्च)।

एकर्क्षसंस्थैस्तपसि स्थितानां कुर्वन्ति जन्मप्रसवे ग्रहेन्द्राः॥4॥

सितार्कभौमार्कसुता महाबलाः सुरेज्यभूपुत्रकसूर्य(सौर) सौरयः(सूर)।

कुजेन्दुवागीशशनैश्चरा इमे समं गता वै जनयन्ति तापसम्॥5॥

कुजार्किसोमात्मजदेववन्दितैः कुजार्किचन्द्रात्मजसूर्यभार्गवैः।

रवीन्दुभौमासितदानवप्रियैर्भवन्ति सूता व्रतसंयुता नराः॥6॥

सितारसूर्यात्मजजीवभास्करैः कुजेन्दुदेवेड्यबुधार्कनन्दनैः।

सितेन्दुपुत्रार्किशशाङ्कभूमिजैर्भवेत्तपस्वी वनपर्वताश्रयः॥7॥

चन्द्रेन्दुपुत्रारसुरेड्यभास्करैः शशाङ्कसूर्येन्दुजशुक्रभूमिजैः।

स्थितैरमीभिः सहितैर्नृसम्भवा भवन्ति वन्द्या मनुयोऽन्नदूषकाः॥8॥

रवीन्दुभौमेन्दुजजीवभार्गवैः शशाङ्कभौमार्किबुधेड्यभास्करैः।

कुजेन्दुसूर्यार्किसितेन्दुसम्भवैर्भवेदमीभिः सहितैर्नरो व्रती॥9॥

सितेन्दुजीवार्कजसूर्यलोहितैः सितार्कभौमार्किशशाङ्कसोमजैः।

एकत्र यातैर्गगनेचरैः सदा भवन्ति जाता मुनयो यशस्विनः॥10॥

कुजज्ञवागीशसितार्किभास्करैः सितार्किजीवेन्दुजचन्द्रभूमिजैः।

बलप्रधानैः सहितैर्विहंगमैर्व्रजेत्प्रजातः पुरुषस्तपस्विताम्॥11॥

रवीन्दुवागोशशनैश्चरैश्च शनैश्चरेन्द्वर्कसितैरवश्यम्।

रवीन्दुपुत्रक्षितिजेन्द्रपूज्यैस्तपस्विनः स्युः फलमूलभक्षिणः॥12॥

वक्रार्कसोमात्मजदानवेड्या भीमेन्दुवागीशशशङ्कपुत्राः।

एकर्क्षगा जन्मनि यस्य जन्तोर्भवेद्व्रती वल्कलचीरधारी॥13॥

शशीन्दुपुत्रक्षितिजार्कपुत्रा बुधक्षमापुत्रसुरेड्यसौराः।

एकर्क्षगा जन्मनि यस्य सूतौ कुर्वन्ति तं तापसमेव शान्तम्॥14॥

चन्द्रार्कभार्गवशशाङ्कसुता बलस्था

भौमेन्दुपुत्रसितभास्करनन्दनाश्च।

मन्देन्दुवाक्यपतिसिता नियतं यतीनां

कुर्वन्ति जन्म फलपाककृताशनानाम्॥15॥

रविकुजशशिशुक्रैश्चन्द्रभौमज्ञसूर्यै-

र्गुरुसितरविमन्दैः शुक्रजीवेन्दुवक्रैः।

कुजबुधसितचन्द्रैरेभिरेकर्क्षयातै-

र्भवति गिरिवनौकास्तापसः सर्ववन्द्यः॥16॥

सितशशिकुजगुरुमन्दैश्चन्द्रेन्दुजभौमदेवगुरुशुक्रैः।

रविशशिकुजबुधजीवैर्भवति यतिर्दुःखितो दीनः।17॥

कुजार्किदेवेड्यसितेन्दुपुत्रैः शनीनसोमात्मजचन्द्रभौमैः।

समं गतैः स्युः सबलैर्यथोक्तैर्जटाधरा वल्कलधारिणश्च॥18॥

भान्विदुजेन्दुकुजजीवसुरारिपूज्यैः सूर्येन्दुभौमगुरुशुक्रशनैश्चरैश्च।

प्राप्नोत्यवश्यमिह तापसरूपमेभिरेकर्क्षगैर्गनवासिभिरेव जातः॥19॥

प्रव्रज्येशे दिनकरगते (दिनकरग तैर्भक्तिमन्तो न शक्ताः) मुक्तिमन्तोऽतिशक्ताः (दि नकरगतैर्भक्तिमन्तो न शक्ताः)

प्रव्रज्यायाः सुबलसहितैः स्थैर्यमाहुर्ग्रहेन्द्रैः।

सम्पूर्णानां (बधमुपगतैः)वशमनुगतैः (प्रच्युतिस्तै)प्रच्युतैस्तैर्बहुत्वे

वीर्योपेतैर्भवति बहुभिः सद्बलस्यानुपूर्व्यात्॥20॥

प्रव्रज्यायाः स्वामी (रुचि)रविमुषिततनु(रुचि)र्निरीक्षितो वाऽन्यैः।

याचितदीक्षा भवति च यवनाधिपतेर्यथा वाक्यम्॥21॥

शशी दृकाणे रविजस्य संस्थितः (कुजार्क)कुजार्किदृष्टः प्रकरोति तापसम्।

कुजांशके वा रविजेन दृष्टो नवांशतुल्यं कथयन्ति (तं पुनः)तत्पुनः॥22॥

जन्माधिपः सूर्यसुतेन दृष्टः शैषैरदृष्टः पुरुषस्य सूतौ।

आत्मीयदीक्षां कुरुते ह्यवश्यं पूर्वोक्तमत्रापि विचारणीयम्॥23॥

जन्मपतिर्वि(विपुलाङ्गः)किलाङ्गः पश्यति सौरिं चतुष्टये प्रबलम्।

यस्य स भाग्यविहीनः प्रव्रज्यां प्राप्नुयात् पुरुषः॥24॥

गुरुहिमगुरवीणामेक एवोदयस्थो

गगनतलगतो वा रिःफलगश्चाल्पमूर्तिः।

अविकलवलभाजा सूर्यपुत्रेण दृष्टो

जनयति खलु जातं तापसं दुःखभाजम्॥25॥

कुमुदवनसुबन्धुं सौम्यभागे बलस्थं

वियति गमनशीलान् स्वोच्चभरथांश्च शेषात्।

यदि दिनकरपुत्रः पश्यति प्राप्तवीर्यो

भवति भुवननाथो दीक्षितश्च स्वतन्त्रः॥26॥

अतिशयबलयुक्तः शीतगुः शुक्लपक्षे

बलविरहितरिक्तं प्रेक्षते लग्ननाथम्।

यदि भवती तपस्वी दुःखितः शोकतप्तो

धनजनपरिहीनः कृच्छ्रलब्धान्नपानः॥27॥

सौरिः शुभभागस्थः पश्यति चन्द्रं ग्रहांस्तथैवान्यान्।

(तुङ्गांशेषु)कुम्भांशेषु प्राप्तान् जनयति दीक्षान्वितं पुरुषम्॥28॥

एकर्क्षगतैः सर्वैर्जन्माधिपतिर्निरीक्षितो यस्य।

दीक्षा तस्यावश्यं भवतीति पुरातनैः कथितम्॥29॥

अग्नीनां परिचारका गिरिनदीतीराश्रमे तापसाः

सूर्याराधनतत्परा गणपतेर्भक्ता उमायाश्च ये।

गायत्रीं जपतां वने नियमिनां गङ्गाभिषेकार्थिनां

कौमारव्रतमिच्छतामधिपतिस्तेषां सदा भास्करः॥30॥

वृद्धश्रावकभस्यधूलिधवलाः शैवव्रते ये स्थिता

बाह्याः पातकितां गता भगवतीभक्ताश्च निःसङ्गिनः।

सिद्धान्ते खलु सोमनाम्नि निरताः कापालिका निष्ठुरा-

स्तेषां नायकतां गतः शशधरः खट्वाङ्गपाणिद्युतिः॥31॥

उपासका बुद्धसमाश्रयं गताः शिखां (शिखां गिताः)विना पाण्डरभिक्षवश्च ये।

सुवाससो रक्तपटा जितेन्द्रियाः प्रभुः सदैषां क्षितिजः प्रकीर्तितः॥32॥

आजीविनां कुहकिनां समयाधिका ये(समयाधिकारः) ये दीक्षितास्तनुभृतः खलु गारुडे च।

तन्त्रे मयूरपिशिताशनयोश्च युक्तास्तेषां शशाङ्कतनयोधिपतिर्निरुक्तः॥33॥

एकं त्रीनथवा वहन्ति मुनयो दण्डान् कषायाम्बरा

वानप्रस्थमुपागताः फलपयोभक्षाश्च ये भिक्षवः(सद्भिक्षवः)।

गार्हस्थ्येन तु संस्थि ता नियमिनः सद्ब्रह्मचर्य गता-

स्तेषां दण्डपतिः सुरेन्द्रसचिवस्तीर्थेषु ये स्नातकाः॥34॥

पाशुपतयज्ञदीक्षाव्रतेषु ते नित्यमेव संयुक्ताः।

वैष्णवचरकाणामपि तेषां नेता प्रकीर्तितः शुक्रः॥35॥

पाषण्डव्रतनिरता दिगम्बरा भिक्षवो ये च।

तेषामधिपतिरार्किः शावकतरुमूलिनश्च दुस्तपसः॥36॥

प्रकथितमुनियोगे राजयोगो यदि स्या-

दशुभफलविपाकं सर्वमुन्मूल्य पश्चात्।

जनयति पृथिवीशं दीक्षितं साधुशीलं

प्रणतनृपशिरोभिः (धृष्ट)स्पष्टपादाब्जयुग्मम्॥37॥

इति कल्याणवर्मविरचितायां सारावल्यां प्रव्रज्यायोगो नाम विंशोऽध्यायः।

इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्यायः षष्ठः॥

एकविंशोऽध्यायः[सम्पाद्यताम्]

यवनाद्यैर्विस्तरतः कथिता योगास्तु नाभसा नाम्ना।

अष्टादशशतगुणितास्तेषां द्वात्रिंशदिह वक्ष्ये॥1॥

नौच्छत्रकूटकार्मुकशृङ्गाटकवज्रदामनीपाशाः।

वीणासरोजमुसला वापीहलशरसमुद्रचक्राणि॥2॥

माला सर्पार्धेन्दु यवकेदारो गदाविगयूपाः।

युगशकटशूलदण्डा जगतो योगैरेभिः प्रकीर्त्यते प्रसवः।

आश्रयजातान् प्राहुर्माणित्था मुसलरज्जुनलयोगान्॥4॥

गोलयुगसूलपाशा वीणाकेदारदामनीसंज्ञाः।

सप्तैते संख्याख्याः पूर्वाचार्यैः समुद्दिष्टाः(द्र.बृ.जा. 35।5।)॥5॥

द्वे चार्धयोगसंज्ञे भुजङ्गमाले पराशरेणोक्ते।

आकृतिजाता विंशतिरपरैः कथिताश्च सावित्रैः(सावित्रे)॥6॥

आश्रययोगे जाता अमिश्रिते सौख्यलाभगुणयुक्ताः।

अन्योन्यमिश्रिताश्चेद्विगतफलाः स्युस्तदा योगाः॥7॥

नन्दति स्वैर्भाग्यैर्नृपलब्धधना नृपप्रियाः ख्याताः।

प्रायेण सौख्ययुक्ताश्चाकृतियोगेषु ये जाताः॥8॥

परभाग्यलब्धसौख्या धनभाग्यैरेव (परभाग्यैरेव जीपितास्तेषाम्)जीवितं तेषाम्।

संख्यासंज्ञे जाता ये पुरुषाः सर्वतो विकलाः॥9॥

क्वचित् स्वभाग्यैः क्वचिदेवमेव क्वचित्पराद्भूपतितं फलं वा(च)।

क्वचित्सुखं दुःखमतीव कष्टं दलाख्ययोगे(समार्धयोगे) पुरुषो लभेत॥10॥

होरादिकण्टकेभ्यः सप्तर्क्षगतैः क्रमेण योगाः स्युः।

नौकूटच्छत्रकार्मुकनिर्दिष्टाः पूर्वयवनेन्द्रैः(द्र.वृ.पा.65।14।)॥11॥

लग्नादिकण्टकेभ्यश्चतुर्गृंहावस्थितैर्ग्रहैर्योगाः।

यूपशरशक्तिदण्डाः सत्याचार्यप्रिया नित्यम्(द्र.वृ.पा.35।13 तथा वृ.जा.12।7।9)॥12॥

सप्तर्क्षगैर्ग्रहेन्दैः केन्द्रादन्यत्र कीर्तितोऽर्धशशी।

केन्द्रप्रत्यासन्नैर्भवनद्वयगैर्गदा नाम(द्र. वृ. जातक 12।7, 4तथा 35।9।)॥13॥

लग्नास्तगतैः सौम्यैः पापैः सुखकर्मगैर्भवति वज्रम्।

विपरीतैर्यवयोगो मिश्रैः पद्मं बहिःस्थितैर्वापी(द्र.वृ.पा. 31।11 तथा वृ.जा.12।5।)॥14॥

हौरास्तगतैः शकटं चतुर्थदशमाश्रितैर्भवेद्विहगः।

उदयान्यगैस्त्रिकोणे हल इति श्रृङ्गाटकं सलग्ने तत् (द्र.वृ.पा.35।8-10।वृ.जा. 12।4।)॥15॥

राश्यन्तरितैर्लग्नात् षट्भवनगतैर्भवेच्चक्रम्।

अर्थात्तथैव यातैश्चक्राकारो भवेज्जलधिः॥16॥

इत्याकृतिजा एते विंशतिसंख्या मया समुद्दिष्टाः।

आश्रयजातान् वक्ष्ये यथामतं वृद्धगार्ग्यस्य(द्र.वृ.पा. 35।8, वृ.जाय12।9।)॥17॥

उभयस्थिरचरसंस्थैः सर्वैर्नलमुसलरज्जवः क्रमशः।

केन्द्रेषु सौम्यपापैर्माला सर्पश्च दलयोगौ(द्र.वृ.पा. 35।7, वृ.जा.11।2।)॥18॥

एकभवनादिसंस्थैः संख्याख्याः स्युर्यथाक्रमं योगाः।

गोलयुगशूसंज्ञाः केदारः पाशदामनीवाणाः(द्र.वृ.पा. 35।16-17, वृ.जा12।12।10।)॥19॥

एतेषां फलयोगं कथयामि यथाक्रमं मुनिभिरुक्तम्।

सर्वदशास्वपि फलदाः सकला एते बुधैश्चिन्त्याः॥20॥

सलिलोपजीविविभवा बह्वाशाः ख्यातकीर्तयो हृष्टाः।

कृपणा बलिनो लुब्धा नौसम्भूताश्चलाः पुरुषाः॥21॥

आनृतिककितवबन्धपाला निष्किञ्चनाः शठाः क्रूराः।

कूटसमुत्था नित्यं भवन्ति गिरिदुर्गवासिनो मनुजाः(द्र.वृ.पा.35।37, वृ.जा.12।16।)॥22॥

द्वाविंशोऽध्यायः[सम्पाद्यताम्]

(हो. र. 3 अ. 417 पृ.।)सर्वस्य सर्वकालं ग्रहराशिसमुद्भवं फलं यस्मात्(यत्स्यात्)।

कथयाम्यतः प्रयत्नात् शेषाचार्यान् समाश्रित्य॥1॥

शास्त्रार्थकृतिकलाभिः ख्यातो युद्धप्रियः प्रचण्डश्च।

उद्युक्ते भ्रमणरुचिर्दृढास्थिबन्धः क्रिये श्रेष्ठः॥2॥

साहसकर्माभिरतः पित्तासृग्व्याधिकान्तिसत्त्वयुतः।

सूर्ये भवति नरेन्द्रः स्वतुङ्गराशौ नरो जातः॥3॥

दानरतो बहुभृत्यो ललितो युवतिप्रियो मृदुशरीरः।

कुजभवनगते सूर्ये चन्द्रेण निरीक्षिते भवति॥4॥

सङ्ग्रामोत्कटवीर्यः क्रूरः संरक्तनेत्रकरचरणः।

भौमगृहे कुजदृष्टे भानौ तेजोबलोपेतः॥5॥

प्रेष्यः परकर्मरतो मन्दधनः सत्त्वहीनबहुदुःखः।

भानौ बुधसंदृष्टे कुजभवने मलिनकायश्च॥6॥

भूरिद्रविणो दाता नृपमन्त्री दन्डनायको वाऽपि।

तरणौ सुरगुरुदृष्टे कुजभवने जायते श्रेष्ठः॥7॥

(कुत्सितरामासक्तः)कुत्सितरामाभर्ता बहुशत्रुः क्षीणबान्धवो दीनः।

भौमगृहे सितदृष्टे दिवाकरे जायते कुष्ठी॥8॥

दुःखपरिप्लुतदेहः कार्योन्मादी भवेद्विमूढमतिः।

भौमर्क्षे दिवसकरे रवितनयनिरीक्षिते मूर्खः॥9॥

वदनाक्षिरागतप्तः क्लेशसहिष्णुर्न(कृशोन बहुपुत्रः)चापि बहुशत्रुः।

भक्तो व्यवहारतौ मतिमान्वन्ध्याङ्गनाद्वेषी॥10॥

भोजनमाल्याच्छादनगन्धयुतो गेयवाद्यनृत्तज्ञः।

दिवसकरे वृषसंस्थे भवति पुमान् सलिलभीरुश्च॥11॥

वेश्यारतिर्मृदुवचा बहुयुवतिसमाश्रयो भवति।

दिननाथे सितभवने दृष्टे शशिना सलिलजीवी॥12॥

लिपिलेख्यकाव्यपुस्तकगेयादिविधावतीव निपुणमतिः।

दिननाथे सितभवने बुधसंदृष्टे भवेत् सुतनुः॥14॥

बहुशत्रुमित्रपक्षो नृपसचिवश्चारुलोचनः कान्तः।

दिननाथे सितभवने गुरुणा दृष्टे (सदोद्युक्तः, सद्वोद्विग्नः)सुतोषितो नृपति॥15॥

नृपतिर्नृपमन्त्री वा स्त्रीधनबहुयोगसंयुतो मतिमान्।

दिननाथे सितभवने सितसंदृष्टे भवेद्भीरुः॥16॥

नीचोऽलसो दरिद्रो वृद्धस्त्रीसंगतो विषमशीलः।

दिननाथे सितभवने शनिदृष्टे व्याधिसन्तप्तः॥17॥

मेधावी वाङ्मधरो वात्सल्यगुणैर्युतः श्रुताचारः।

विज्ञानशास्त्रकुशलो बहुवित्त उदारचेष्टश्च॥18॥

निपुणो ज्योतिषवेत्ता मध्यमरूपो द्विमातृकः सुभगः।

मिथुनस्थे दिनभर्तरि जातः पुरुषोः विनीतः स्यात्॥19॥

रिपुबान्धवकृतपीडा विदेशगमनार्दितो बहुविलापी।

बुधभवने दिनभर्तरि दृष्टे चन्द्रेण पुरुषः स्यात्॥20॥

रिपुभयकलहसमेतो रणापवादातिदुःखतो दीनः।

बुधराशौ दिनभर्तरि कुजेक्षिते भवति सव्रीडः॥21॥

भूपतिचरितः ख्यातो बान्धवसहितोऽरिभिश्च संत्यक्तः।

बुधराशौ दिनभर्तरि (बुधेन दृष्टे कृशत्नः स्यात्)बुधदृष्टेऽक्ष्यामययुतः स्यात्॥22॥

बहुशास्त्रदारितमुखो राज्ञां दूतो विदेशगश्चण्डः।

बुधराशौ दिनभर्तरि गुरुणा दृष्टे सदोन्मादः॥23॥

धनदारपुत्रसुखितो(सहितो) मन्दस्नेहक्त्वानामयः (सुभगः)सुखितः।

बुधराशौ दिनभर्तरि सितसंदृष्टे भवेच्चपलः॥24॥

बुहुभृत्योद्विग्नमना बहुबन्धुविपोषणे सदा (खिन्नः)निरतः।

बुधराशौ दिनभर्तरि सौरेण निरीक्षिते कितवः॥25॥

कर्मसु चपलः ख्यातो गुणैर्नृपाणां स्वपक्षविद्वेषी।

स्त्रीदुर्भगः सुरूपः कफपित्तार्तः श्रमाभि‍सन्तप्तः॥26॥

(मद्यप्रियः सधर्मो)मद्यरुचिः समधर्मा मानी वरवाक्यदेशदिग्वेत्ता।

सूर्ये कुलोरसंस्थे बहुस्थितिः पितृगणद्वेष्टा॥27॥

राजा राजसमो वा (उडु)जलपण्यधनस्तिरः(स्थितिः) क्रूरः।

कर्कटके तीव्रकरे दृष्टे शशिना भवेत्पुरुषः॥28॥

(शोफ)शोषभगन्दररोगैः सन्तप्तो बन्धुभिः सह (विरुद्धः)विरक्तः।

कर्कटके दिननाथे भौमेन निरीक्षिते (विसतः)पिशुनः॥29॥

विद्यामानयशोभिः ख्यातो नृपवल्लभो भवेन्निपुणः।

सूर्ये कुलीरराशौ बुधेन दृष्टे विगतशत्रुः॥30॥

यहाँ तक 4-3-2020 को करेक्शन हो गया है

श्रेष्ठो राज्ञो मन्त्री सेनानाथोऽथ सुप्रसिद्धश्च।

सूर्ये शशिभवनस्थे गुरुणा दृष्टे कलाभ्यधिकः॥31॥

स्त्रीसेवी युवतिधनः परकार्यकरो रणे (प्रभग्नश्च)प्रचण्डश्च।

कर्कटकस्थे सूर्ये सुक्रेण निरीक्षिते प्रियालापः॥32॥

कफमारुतरोगार्तः परस्वहारी विलोममतिचेष्टः।

कर्कटकस्थे भानौ स्वपुत्रदृष्टे पुमान् पिशुनः॥33॥

रिपुहन्ता क्रोधपरो विशिष्टचेष्टो वनाद्रिदुर्गचरः।

उत्साही सच्छूरस्तेजस्वी मांसभक्षणो रौद्रः॥34॥

गम्भीरः स्थिरसत्त्वो (मुखरः)बधिरः क्षिपिपालको धनसमृद्धः।

सिंहस्थे दिवसकरे ख्यातः पुरुषो भवेज्जातः॥35॥

मेधावी सुकलत्रः कफार्दितो भूपवल्लभो मनुजः।

आदित्ये सिंहस्थे चन्द्रेण निरीक्षिते भवति॥36॥

परदाररतः शूरः साहसकारी कृतोद्यमो रौद्रः।

दिवसकरे सिंहस्थे कुजेन दृष्टे प्रधानश्च॥37॥

विद्वान् लिपिलेख्यकारः कितवासेवी परिभ्रमति हीनः।

सिंहस्थे दिवसकरे बुधेन दृष्टे न बहुसत्त्वः॥38॥

देवारामतटाकान् करोति सत्त्वाधिको विजनशीलः।

सिंहे सहस्ररश्मौ सुरगुरुदृष्टे महाबुद्धिः॥39॥

दुर्नामकुष्ठरोगैरभिभूतो निर्दयो विगतलज्जः।

सिंहे तिमिविनाशे शुक्रेण निरीक्षिते जातः॥40॥

कार्यंविनाशनदक्षः षण्ढो जातः परोतापकारः।

सिंहस्थे दिवसकरे स्वपुत्रदृष्टे पुमान् भवति॥41॥

स्त्रीतुल्यनुर्ह्रीमान् लिपिवेत्ता दुर्बलश्च वल्गुकथः।

मेधावी लघुसत्त्वो विद्वान् शुश्रूषकः (सुगुणः)सुरगुरूणाम्॥42॥

संवाहनादिकर्मसु दक्षः श्रुतिगेयवाद्यपरितुष्टः।

कन्यायां दिवसकरे जातो मृदुदीनवाक्यश्च॥43॥

(सङ्ग)भङ्गक्षयव्ययार्तो विदेशमार्गादिलम्पटो द्विष्ठः।

नीचोपहतप्रीतिर्हिरण्यलोहादिपण्यजीवी च॥44॥

द्वेष्यःपरकर्मरतः परदाररतिः पुमान् भवेन्मलिनः।

सूर्ये तुलाधरस्थे नृपपरिभूतः प्रगल्भश्च॥45॥

अनिवारितरणवेगः श्रुतिधर्मरतो न सत्यवाङ्मूर्खः।

प्रविनष्टदुष्टयुवतिः क्रूरः कुस्त्रीविधेयश्च॥46॥

क्रोधपरोऽसद्वृत्तो लोभिष्ठः कलहवल्लभोऽनृतवाक्।

शस्त्राग्निविषग्रस्तः पितुर्जनन्याश्च दुर्भगः कीटे॥47॥

द्रव्यान्वितो नृपेष्टो जातः प्राज्ञः सुरद्विजानुरतः।

शस्त्रास्त्रहस्तिशिक्षानिपुणो व्यवहारयोग्यश्च॥48॥

पूज्यःसतां प्रशान्तो धनवान् विस्तीर्णपीनचारुतनुः।

बन्धूनां हितकारो सत्त्वयुतः कार्मुके सूर्ये॥49॥

वाग्बुद्धि विभवपुत्रैः समन्वितो नृपसमो विगतशोकः।

वाक्पतिराशौ तपने दृष्टे चन्द्रेण सुशरीरः॥50॥

संग्रामे लब्धयशाः स्फुटवचनो वित्तसौख्यसम्पन्नः।
 सूर्ये वाक्पतिराशौ भौमेन निरीक्षते चण्डः॥51॥

मधुरवचनो लिपिज्ञःकाव्यकलागोष्ठियानधातुज्ञः।

गुरुभे सवितरि दृष्टे बुधेन जनसंमतो भवति॥52॥

विचरति नरेन्द्रभवने नृपतिर्वा वारणाश्चधनयुक्तः।

सुरगुरुगृहै विवस्वति गुरुणा दृष्टे सदा विद्वान्॥53॥

दिव्यस्त्रोभोगयुतः सुगन्धमाल्यादिभिः सहितः।

सुरगुरुभवने भानौ शुक्रेण निरीक्षते शान्तः॥54॥

अशुचिः परान्नकांक्षी नीचानुरतश्चदुष्पदकीडः।

देवेज्यगृहे सूर्ये मन्देन निरीक्षिते भवति॥55॥

लुब्धः कुस्त्रीसक्तः कुकर्मसंवर्धितः सतृष्णश्च।

बहुकार्यरतो भीरुर्विहीनबन्धुश्चलप्रकृतिः॥56॥

अटनप्रियोऽल्पसत्त्वः स्वपक्षविक्षोभनाशितसमस्तः।

मकरस्थे दिवसकरे जातो बहुभक्षकः पुरुषः॥57॥

मायापटुश्चलमतिः स्त्रीसङ्गान्नमष्टधनसौख्यः।

मन्दगृहे तीव्रकरे चन्द्रेण निरीक्षिणे भवति॥58॥

व्याधिभिररिभिर्ग्रस्तःपरकलहाच्छस्त्रविक्षतशरीरः।

मन्दगृहे तिमिररिपौ भौमेन निरीक्षिते विकलः॥59॥

शूरः षण्डप्रकृतिः परस्वहारी न (साधु)सारसर्वाङ्गः।

नलिनीदयिते शनिभे बुधेन संवीक्षिते भवति॥60॥

शोभनकर्मा मतिमान् सर्वेषामाश्रयो विपुलकीर्तिः।

कोणगृहे दिनभर्तरि गुरुणा दृष्टे मनस्वी च॥61॥

शङ्खप्रवालमणिभिर्जीवति वेश्याङ्गनीधनसमृद्धः।

कोणभवने दिनपतौ भृगुणा दृष्टे सुखी जातः॥62॥

ध्वंसयति शत्रुपक्षं नरेन्द्रसन्मानवर्धिताश्वासः।

भानौ शनैश्चरगृहे शनिदृष्टे सूयते योऽसौ॥63॥

हृद्रोगी बहुसत्त्वः सतां विगर्ह्योऽतिरोषश्च।

परदाराणां सुभगः कर्मस्वतिनिश्चितो भवति॥64॥

दुःखप्रायोऽल्पधनः शठश्चलितसौहृदो मलिनमूर्तिः।

कुम्भधरेऽर्के जातः पिशुनः स्यात् दुष्प्रलापश्च॥65॥

सुहृदां संग्रहशीलः स्त्रीप्रीत्या लब्धसौख्यसंभारः।

प्राज्ञो बहुशत्रुघ्नः क्षयोदयी भवति धनकीर्त्या॥66॥

सत्सुतभूत्याप्तयशा जलपण्यधनः सुवागनृतवादी।

ऊर्जितगुह्यरुगार्तो बहुसहजो मीनसंस्थेऽर्के॥67॥

त्रयोविंशोध्यायः[सम्पाद्यताम्]

सौव(सेवा विन्नः)र्णाङ्गःस्थिरस्वः सहजविरहितः साहसी मानभद्रः(वानभद्रः)

कामार्तः क्षामजानु कुनखतनुकश्चञ्चलो मानवित्तः।

पद्मभैः पाणिपादैर्विततसुतजनो वर्तुलाकारनेत्रः

सस्नेहस्तोयभीरुर्व्रणविकृतशिराः स्त्रीजितो इन्दौ॥1॥

अत्युग्रतरो नृपतिः प्रणतानां मार्दवं (वहति)भजति जातः।

धीरः संग्रामरुचो रविणा दृष्टे शशिनि मेषे॥2॥

दन्ताक्षिरोगतप्तः (विषशिखितापास्त्रवैकृतशरीरः)शिखिवातादिक्षतशरीरः।

माण्डलिकः स्यान्मेषे कुजदृष्टे शशिनि (मूत्रकृच्छ्रार्तः)भूतार्तः॥3॥

(वामा विद्याचार्य।)नानाविद्याचार्यः सद्वाक्यः स्यान्मनोऽभीष्टः।

बुधदृष्टे मेषस्थे निशाकरे सत्कविर्विपुलकीर्तिः॥4॥

बहुभृत्यधनसमृद्धो दृष्टे गुरुणा पुमान् जातः॥5॥

सुभगः सुतधनयुक्तो वरयुवतिविभूषणोऽल्पभोक्ता च।

मेषे शिशिरमयूखे भृगुतनयनिरीक्ष‍िते भवति॥6॥

विद्विष्टो बहुदुःखो दारिद्र्यतनुर्मलीमसोऽनृतवाक्।

मेषे शिशिरमयूखे रवितनयनिरीक्षिते भवति॥7॥

व्यूढोरस्कोऽतिदाता घनकुटिलकचः कामुकः कीर्तिशाली

कान्तः कन्याप्रजावान् वृषसमनयनो हंसलीलाप्रचारः।

मध्यान्ते भोगभागी पृथुक (कर)टिचरणस्कन्धजान्वास्यजङ्घः

सांकः पार्श्वास्यपृष्ठे ककु(ककुद)दि शुभगतिः क्षान्तियुक्तो गवीन्दौ॥8॥

कर्षकमतिकर्मकरं द्विपदचतुष्प(चदुष्पदैः समृद्धं।)दसमृद्धमत्याढ्यम्।

प्रायोगिकं प्रकुरुते वृषभे रविवीक्षितश्चन्द्रः॥9॥

अतिकामं कुजदृष्टो युवतिकृते नष्टदारमित्रजनम्।

हृदयहरं नारीणां मातु(मातुरपथ्य)र्न शुभं शशी वृषे कुरुते॥10॥

प्राज्ञं वाक्यविधिज्ञं प्रमुदितमिष्टं समस्तभूतानाम्।

जनयति बुधेन दृष्टः शशी वृषेऽनुपमगुणैयुर्क्तम्॥11॥

स्थिरपुत्रदारसुहृदं मातावितृभक्तिमन्तमतिनिपुणाम्।

धार्मिकमतिविख्यातं गवि गुरुदृष्टः शशी कुरुते॥12॥

भूषणयानगृहाणां शयनासनगन्धवस्त्रमाल्यानाम्।

भागिनमुपभोक्तारं सितेक्षितो यदि शशी कुरुते॥13॥

धन(धनसुखहीनमनिष्टं मातुर्वृषभे करोति युवतीनाम्।) हीनमनिष्टकरं वृषभे द्वेष्यं सदा च युवतीनाम्।

सुतमित्रबन्धुसहितं रविसुतदृष्टः शशी कुरुते(पुरुषम्।)॥14॥

पूवार्धे सम्भूतो जननीमृत्युं करोति न चिरेण।

पश्चादर्धे वृषभे पितुर्वियोगं शशी कुरुते॥15॥

उन्नासश्यामचक्षुः सुरतविधिकलाकाव्यकृद्भोगभोगी

हस्ते मत्स्याधिपांको विषयसुखरतो बुद्धि(बुद्बुदाक्षः)दक्षः सिरालः।

कान्तः सौभाग्यहास्यप्रियवचनयुतः स्त्रीजितो व्यायताङ्गो

याति क्लीबैश्च सख्यं शशिनि मिथुनगे मातृयुग्मप्रमुष्टः॥16॥

प्रज्ञाधनं प्रकाशं मिथुने रूपान्वितं सुधर्मिष्ठम्।

अतिदुःखितमल्पार्थं करोति सूर्येक्षितश्चन्द्रः॥17॥

अतिशूरमतिप्राज्ञं सुखवाहनविभवरूपसम्पन्नम्।

कुरुते मिथुने चन्द्रो वक्रेण निरीक्षितोऽवश्यम्॥18॥

अर्थोत्पादकुशलं कुरुते ह्यपराजितं सुधीरं च।

पार्थिवमखण्डिताज्ञं मिथुने बुधवीक्षितश्चन्द्रः॥19॥

विद्याशास्त्राचार्य विख्यातं सत्यवाचमतिरूपम्।

मान्यं वाग्मिनमिन्दुः करोति गुरुवीक्षितो मिथुने॥20॥

वरयुवतिमाल्यवस्त्रैर्वरवाहनयानभूषणैर्मणिभिः।

क्रीडां कुरुते पुरुषो भृगुदृष्टे शशनि मिथुनस्थे॥21॥

कुरुते बान्धवरहितं युवतिसुखविभूतिवर्जितं चापि।

अधनं लोकद्वैष्यं जितुमे शनिनेक्षितश्चन्द्रः॥22॥

युक्तः सौभाग्य(सौभाग्यधैर्यगृह।)योगैर्गृहसुहृदटनज्योतिषज्ञानशीलैः

कामासक्तः कृतज्ञः क्षितिपतिसचिवः सत्प्रमाणः प्रवासी।

सोन्मादः केशकल्पो जलकुसुमरुचिर्हानिवृद्ध्यानुयातः

प्रासादोद्यानवापीप्रियकरणरतः पीनकण्ठः कुलीरे॥23॥

नरपतिपुरुषमधन्यं धनरहितं क्ले(लेखहारकं)शकारकं वाऽपि।

कुरुते स्वगृहे चन्द्रो रविदृष्टो दुर्गपालं च॥24॥

शूरं विकलशरीरं मातुरनर्थावहं प्रियं दक्षम्।

क्षितितनयवीक्षिततनुर्जनयति चन्द्रो नरं स्वगृहे॥25॥

अविकलमतिं नयज्ञं जनयति बुधवीक्षितः शशी स्वगृहे।

धनदारपुत्रवन्दं वृपसचिवं सौख्यवन्तं च॥26॥

नृपतिं नृपगुणयुक्तं जनयति चन्द्रः सुरेज्यसंदृष्टः।

स्वगृहे सुखितसुभार्यं नयविनयपराक्रमाक्रान्तम्॥27॥

धनकननवस्त्रयोषिद्रत्नानां भाजनं शशी कुरुते।

कर्कटके सितदृष्टो वेश्याजननायकं कान्तम्॥28॥

अटनमसुखं दरिद्रं मातुरनिष्टं प्रियानृतं पापम्।

शनिना दृष्टः स्वगृहे करोति चन्द्रो नरं नीचम्॥29॥

स्थूला(स्थूलास्यो मन्द।)स्थिर्मन्दरोमा पृथुवदनगलो ह्रस्वपिंगाक्षियुग्मः

स्त्रीद्वेषी क्षुप्तिपासाजठररदरुजापिडितो मांसभक्षः।

दाता तीक्ष्णो (ऽल्पपुत्रो)ह्यपुत्रो विपिननगरतिर्मातृवश्यः सुवक्षा

विक्रान्तः कार्यलापी शशभृति रविभे सर्वगम्भीरदृष्टिः॥30॥

(नृपतिपुत्रं।)नृपपतिसपत्नं कुरुते प्रोत्कृष्टगुणं महास्पदं(महास्वनं धीर) वीरम्।

रविणा दृष्टः सिंहे पापरतं विश्रुतं चन्द्रः॥31॥

सेनापतिं प्रचण्डं वरयुवतिसुतार्थवाहनोपेतम्।

जनयत्युत्तमपुरुषं कुजेक्षितश्चन्द्रमाः सिंहे॥32॥

स्त्रीसत्त्वं स्त्रीललितं स्त्रीवश्यं युवतिसेवकं सिंहे।

कुरुते बुधेन दृष्टो धनसुखभोगान्वितं चन्द्रः॥33॥

अभिजातं कुलपुत्रं बहुश्रुतं गुणसमृद्धं च।

कुरुते नरेन्द्रतुल्यं गुरुदृष्टश्चन्द्रमाः सिंहे॥34॥

प्रमदाविभवैर्युक्तं रोगिणमपि युवतिसेवकं कुरुते।

सुरतविधिज्ञं प्राज्ञं शशी हरौ शुक्रसन्दृष्टः॥35॥

कर्षकमधनं कुरुतेऽनृतवाचं दुर्गपालकं सिंहे।

रविजेन तथा दृष्टो युवतिसुखैर्हीनमल्पकं च शशी॥36॥

स्त्रीलोलो लम्बबाहुर्ललितत(तनुयुत)नुमुखश्चारुदन्ताक्षिणकर्णो

विद्वानाचार्यधर्मा प्रियवचनयुतः सत्यशौचप्रधानः।

धीरः सत्वानुकम्पी परविषयरतः क्षान्तिसौभाग्यभागी

कन्याप्रायप्रसूतिर्बहुसु(बहुसुरतहितः)तरहितः कन्यकायां शशाङ्के॥37॥

नृपकोशकरं ख्यातं गृहीतवाक्यं विशिष्टकर्माणम्।

कन्यायां रविदृष्टो भार्याहीनं शशी कुरुते॥38॥

शिल्पाचार्यं ख्यातं धनवन्तं शिक्षितं सुधीरं च।

कन्यायां कुजदृष्टो मातुरनिष्टं शशी कुरुते॥39॥

ज्योतिषकाव्यनिधिज्ञं विवादकलहेषु विजयिनं (सुभगम्)सुतराम्।

सातिशयं कन्यायां जनयति निपुणं बुधेक्षितश्चन्द्रः॥40॥

बन्धुजनाढ्यं सुखिनं नृपकृत्यकरं गृहीतवाक्यं च।

कन्यायां गुरुदृष्टो जनयति विभवान्वितं चन्द्रः॥41॥

कन्यायां बहुदारं विविधालङ्करभोगिनमथाढ्यम्।

सततमिहोर्जितमुदितं कुरुते भृगुणा निरीक्षितश्चंद्रः॥42॥

अदृढस्मृतिं दरिद्रं सुखरहितममातृकं युवतिवश्यम्।

कन्यायां यमदृष्टः स्त्रीभागधनं शशी कुरुते॥43॥

उन्नासो व्यापताक्षः कृशवदनतनर्भुरिदारो वृषाढ्यो

गोभूभ्यः(गु ह्यः)शौचसारो वृषसमवृषणो विक्रमज्ञः क्रियेशः।

भक्तो देवद्विजानां बहुविभवयुतः स्त्रीजितो हीनदेहो

धान्यादानैकबुद्धिस्तुलिनि शशधरे बन्धुवर्गोपकारी॥44॥

अधनं व्याधितमटनं परिभूतं भोगविप्रयुक्तं च।

असुतमसारं जूके जनयति रविवीक्षितश्चन्द्रः॥45॥

तीक्ष्णं चोरं क्षुद्रं परयोषिद्गन्धमाल्यसंयुक्तम्।

मतिमन्नयनातुरंग जनयति वक्रेक्षितश्चन्द्रः॥46॥

दृष्टोः बुधेन चन्द्रः कलाविदग्धं प्रभूतधनधान्यम्।

शुभवाक्यं विद्वांसं देशख्यातं तुलाधरे कुरुते॥47॥

जीवेक्षितस्तुलायां जनयति सर्वत्र पूजितं हिमगुः।

क्रयविक्रयेषु विद्वांसं रत्नादिषु भाण्डजातेषु॥48॥

ललितमरोगं सुभगं समुपचिताङ्गं धनान्वितं प्राज्ञम्।

विविधोपायविधिज्ञं कुरुते भृगुवीक्षितः शशी तुलके॥49॥

कुरुते शशी धनाढ्यं प्रियवाक्यं वाहनैर्युतं जूके।

विषयरतिं सुखरहितं भास्करिदृष्टो हितं मातुः॥50॥

लुब्धो वृत्तोरुजङ्घः कठिनतरतनुर्नास्तिकः क्रूरचेष्टः

चौरो बाल्ये रुगार्तो हतचिबुकनखश्चारुनेत्रः समृद्धः।

कर्मोद्युक्तः प्रदक्षः परयुवतिरतो बन्धुहीनः प्रमत्तः

चण्डो राज्ञा हृतस्वः पृथुजठरशिराः कीटभे शीतरश्मौ॥51॥

कुरुते लोकद्वेष्यं बुधमटनं चैव वित्तवन्तं च।

दिनकरदृष्टोऽलिगतश्चन्द्रः सुखवर्जितं पुरुषम्॥52॥

अनुपमधैर्यं कुरुते नृपतिसमं वृश्चिके विभूतियुतम्।

शुरमजय्यं समरे प्रभक्षणं भूमिजने संदृष्टः॥53॥

अचतुरममृष्टवाक्यं यमलापत्यं चु युक्तिमन्तं च।

जनयति बुधेन दृष्टः कूटकरं वृश्चिके च गीतज्ञम्॥54॥

कर्मासक्तं कुरुते लोकद्वेष्यं च वित्तवन्तं च।

गुरुणा दृष्टोऽलिगतो निशाकरे रूपवन्तं च॥55॥

अतिमदम(अतिमति।)तीव सुभगं (वर)धनवाहनभोगललितमिह कीटे।

युवतिविनाशितसारं जनयति भृगुवीक्षितश्चन्द्रः॥56॥

नीचापत्यं कृपणं व्याधितमधनं च सत्यहीनं च।

जनयत्यन्तकदृष्टो नरमधमं चन्द्रमाः कीटे॥57॥

कुब्जाङ्गो वृत्तनेत्रः पृथुहृदयकटिः पीनबाहुः प्रवक्ता

दीर्घांसो दीर्घकण्ठो (लालितं कीचे)जलतटवसतिः शिल्पविद्गूढगुह्यः।

शूरो दृष्टोऽस्थिसारो विततबहुबलः स्थूलकण्ठोष्ठघोणो

बन्धुस्नेही कृतज्ञो धनुषि शशिधरे संहताङ्घ्रिः प्रगल्भः॥58॥

नृपतिमथढ्यं कुरुते शूरं विख्यातपौरुषं चापे।

भास्करदृष्टश्चन्द्रस्त्वनुपमसुखवाहनोपेतम्॥59॥

सेनापतिं समृद्धं सुभगं प्रख्यापौरुषं पुरुषम्।

जनयत्यनुपमभृत्यं क्षितिसुतदृष्टः शशी धनुषि॥60॥

बहुभृत्यं त्वक्सारं ज्योतिषशिल्पक्रियादिनिपुणं च।

बुधदृष्टो (नाट्याचार्य)हिमरश्मिर्नग्नाचार्यं हये कुरुते॥61॥

अनुपमदेहं कुरुते पृथ्वीपालस्य मन्त्रिणं चापे।

त्रिदशगुरुदृष्टमूर्तिर्धनधर्मसुखान्वितं चन्द्रः॥62॥

सुखिनमतीव हि ललितं सुभगं पुत्रार्थकामवन्तं च।

चापे सुमित्रभार्यं भार्गवदृष्टः करोतीन्दुः॥63॥

प्रियवादिनं सुवाक्यं बहुश्रुतं सत्यवादिनं सौम्यम्।

अभिजातं नृपपुरुषं जनयति सौरेक्षितः शशी धनुषि॥64॥

गीतज्ञः शीतभीरुः पृथुलतरशिराः सत्यधर्मोपसेवी

प्रांशुः ख्यातोऽल्परोषो मनसिभवयुतो निर्घृणस्त्यक्तलज्जः।

चार्वक्षः(चार्वङ्गः) क्षामदेहो गुरुयुवतिरतः सत्कविर्वृत्तजङ्घो

मन्दोत्साहोऽतिलुब्धः शशिनि मकरगे दीर्घकण्ठोऽतिकर्णः(ऽतिदीर्घः)॥65॥

अधनं दुःखितमटनं परकर्मरत मलीमसं कुरुते।

मकरे (कुविषयनाथं शश्यल्पमतिं निरीक्षतो।)कुवलयनाथः शिल्पमतिं वीक्षितो रविणा॥66॥

अतिविभवमत्युदारं सुभगं धनसंयुतं मृगे पुरुषम्।

वाहनयुतं प्रचण्डं करोति वक्रेक्षितश्चन्द्रः॥67॥

मूर्खं प्रवासशीलं गतयुवतिं चञ्चलं मृगे तीक्ष्णम्।

जनयति बुधेन दृष्टः सुखरहितं निर्धनं पुरुषम्॥68॥

भूपतिमनुपम वीर्यं नृपतिगुणैः संयुतं मृगे जातम्।

बहुदारपुत्रमित्रं जनयति गुरुवीक्षितश्चन्द्रः॥69॥

व(प)रयुवतिधनविभूषणवाहनमालान्वितं नरं मकरे।

सोपक्रोशमपुत्रं जनयति भृगुवीक्षितश्चन्द्रः॥70॥

अलसं मलिनं सधनं मदनार्त पारदारिकमसत्यम्।

दिवसकरपुत्रदृष्टः करोति चन्द्रो नरं मकरे॥71॥

उद्धोणो रूक्षदेहः पृथुकरचरणो मद्यपानप्रसक्तः

सद्द्वेष्यो धर्महीनः परसुतजनकः स्थूलमूर्धा कुनेत्रः।

शाठ्यालस्याभिभूतो विपुलमुखकटिः शिल्पविद्यासमेते

दुःशीलो दुःखतप्तो (घटभृगुपगते)घटभमुपगते रात्रिनाथे दरिद्रः॥72॥

अतिमलिनमति च शूरं नृपरूपं धार्मिकं कृषिकरं च।

कुरुते दिनकरदृष्टो घटधरसंस्थः क्षपानाथः॥73॥

कुम्भेऽतिसत्यवाक्यं मातृगुरुधनैर्वियुक्तमलसं च।

विषमं परकार्यरतं करोति भौमेक्षितश्चन्द्रः॥74॥

(अशनो)शयनोपचारकुशलं गीतविधिज्ञं प्रियं च युवतीनाम्।

तनुविभवसुखं पुरुषं करोति बुधवीक्षितः शशीकुम्भे॥75॥

ग्रामक्षेत्रतरूणां वरभवनानां वराङ्गनानां च।

कुरुते भोगिनमार्यं साधुं गुरुवीक्षितः शशी कुम्भे॥76॥

नीचमपुत्रममित्रं कातरमाचार्यंनिन्दितं पापम्।

कुरुते शशीकुयुवतिं सितेक्षितो घटधरेऽल्पसुखम्॥77॥

नखरोमधरं मलिनं परदाररतं शठं विधर्माणम्।

स्थावरभागिनमाढ्यं शशी घटे सौरसंदृष्टः॥78॥

शिल्पोत्पन्नाधिकारोऽहितजयनिपुणः शास्त्रविच्चारुदेहो

गेयज्ञो धर्मनिष्ठो बहुयुवतिरतः सौख्य(सोम्यवाक्)भाक् भूपसेवी।

ईषत्कोपो महत्कः सुखनिधिधनभाक् स्त्रीजितः सत्स्वभावो

(ज्ञाने सक्तः)यानासक्तः समुद्रेः तिमियुगलगते शीतगौ दानशीलः॥79॥

तीव्रमदनप्रकाशं सुखिनं सेनापतिं धनसमृद्धम्।

जनयति दिनकरदृष्टः सुमुदितभार्यं शशी मीने॥80॥

परिभूतं (सुख)सुखरहितं कुलटापुत्रं (पापरहितं)च पापनिरतं च।

जनयति नक्षत्रयतिं क्षितिसुतदृष्टो झषे शूरम्॥81॥

जनयति बुधेन दृष्टो मीनस्थश्चन्द्रमाः पुरुषम्।

भूपतिमतीव सुखिनं (परयुवति)वरयुतिमावृतं वश्यम्॥82॥

गुरुदृष्टो मीनस्थो ललितं चन्द्रोऽग्रमाण्डलिकम्।

अत्याढ्यं सुकुमारं बहुभिः स्त्रीभिर्वृतं जनयेत्॥83॥

कुरुते शशी सुशीलं रतिमन्तं नृत्यवाद्यगेयरतम्।

शुक्रेक्षितो झषस्थो हृदयहरं कामिनीनां च॥84॥

विकलमहितं जनन्याः कामार्तं पुत्रदारमतिहीनम्।

कुरुते रविसुतदृष्टो नीचविरूपाङ्गनासक्तम्॥85॥

राशिपतौ बलयुक्ते राशौ च बलान्विते तथा चन्द्रे।

राशिफलं स्यात् सकलं नीचोच्चविधिना च संचिन्त्यम्॥86॥

इति कल्याणवर्मविरचितायां सारावल्यां कारकाऽध्यायः षष्ठः॥

चतुर्विंशोऽध्यायः[सम्पाद्यताम्]


(भौमांशे)भोमेंशे कुजदृष्टो निकर्तनश्चन्द्रमाः(नंच) प्रचण्डश्च(ण्ड च)।

जनयति मायाबहुलं प्रवञ्चकं सूर्यजेन किल(कलि) पुरुषम्॥1॥

सूर्येण चौरघातकमथवाप्यारक्षकं शूरम्।

जीवेन मनुजनाथं ख्यातं विद्वत्समाराध्यम्॥2॥

शुक्रेण नृपतिसचिवं धनान्वितं स्त्रीविलेपनानुरतम्।

शीघ्रं वदन्ति चपलं सौम्येन निरीक्षिते चन्द्रे॥3॥

सितभागे सितदृष्टे योषिद्वस्त्रान्नपानधनसौख्यम्।

जनयतिं बुधेन चन्द्रो वाद्यज्ञं नृत्तगेयपरम्॥4॥

गुरुणा कविप्रधानं नयशास्त्रविशारदं नृपतिसचिवम्।

परदारदर्शनपरं(घर्षण) कामिनमारेण(कामिनमस्त्रेण बहुमान्यम्) बहुभृत्यम्॥5॥

सूर्येण महामूर्खं प्रियंवदं सततमन्नपानरुचिम्।

सौरेण वर्धकीनां गुणैश्च सदृशं दिशति चन्द्रः॥6॥

बुधभागे बुधदृष्टः शिल्पाचार्यं कविं शशी जनयेत्।

शुक्रेक्षितो विशालं गेयज्ञं वजनसाराढ्यम्॥7॥

नृपमन्त्रिणं गुणाढ्यं गुरुणा दृष्टः प्रतिष्ठतं कान्तम्।

भौमेक्षितोऽतिचोरं विवादकुशलं नरं रौद्रम्॥8॥

शास्त्रार्थकाव्यबुद्धिं(कार्यं) प्राज्ञं शिल्पिनमवेक्षितः शनिना।

रङ्गचरं विख्यातं जनयति सूर्येक्षितश्चन्द्रः॥9॥

स्वांशे दिनकरदृष्टः शशी कृशतनुमविक्षतशरीरम्(तनु परिक्षयशरीरम्)।

परधनरक्षणनिपुणं(हरणे) लुब्धं नितरां कुजेनापि॥10॥

सौरेणाकृत्यकरं वधबन्धविवादसन्तप्तम्।

(शुक्रेस्त्रोवेषधरं)शुक्रेण स्त्रीद्वेष्यं जनयेदथवा नपुंसकाकारम्॥11॥

नृपमन्त्रिणं नृपं वा जनयति गुरुणावलोकितश्चन्द्रः।

सौम्येनाधर्मरतं निद्राबहुलं च (सतमस्कम्)सततमध्वरतम्॥12॥

रविभागे रविदृष्टे सुरोषणः समुपलब्धकीर्तिधनः।

पापो निर्दय इन्दौ सौरेण प्राणिनां हन्ता॥13॥

भौमेन सुवर्णधनं ख्यातं नृपसत्कृतं प्रचण्डतरम्।

गुरुणा दृष्टो जनयति चमूपतिं वा नरेन्द्रं वा॥14॥

शुक्रेण दृष्टमूर्तिः सुतार्थ‍िनं मृतसुतं(हृतसुतं) वाऽपि।

सौम्येन दैवचिन्तकमितिहासरतं च निधिभाजम्॥15॥

गुरुभागे गुरुदृष्टो विशदं नृपवल्लभं विपुलकीर्तिम्।

जनयति शशी सितेन स्त्रीणां भोगैः सुसंयुक्तम्॥16॥

बुधदृष्टो हास्यकरं नृपप्रियं नायकं वरूथिन्याः।

अस्त्राथार्यं कुरुते कुजेक्षितः सर्वतः ख्यातम्॥17॥

दोषेर्विविधैः ख्यातं दिनगरदृष्टो नरं (प्रणाश्य वा)प्रमाणस्थम्।

सौरेण वृद्धशीलं बलिभिश्च निराकृतं नीचम्॥18॥

सौरांशे शनिदृष्टः कृपणं रोगान्वितं मृतसुतं वा।

सूर्येणाल्पापत्यं व्याधि‍ग्रस्तं विरूपतनुम्॥19॥

भौमेन नरपतिसमं स्वाढ्यं स्त्रीदुर्भगं सुखैर्युक्तम्।

शुक्रेण विषमशीलं युवतिभिरवधीरितं धीरम्(जरठम्)॥20॥

सौम्येन (पाननिरतं)पापनिरतं कुत्सिचरितं शशी सदा दृष्टः।

गुरुणा स्वकर्मनिरतं कुरुते पुरुषं न चोदात्तम्॥21॥

वर्गोत्तमे स्वकीये परकीयनवांशके(नवांशकेन्दुदृष्टिफलं) च दृष्टिफलम्।

पुष्टं मध्यं स्वल्पं विपरीतं स्यादनिष्टफलम्॥22॥

राशिफलं यद् दृष्टं पूर्वैः कथितं ग्रहैः शशाङ्कस्य।

तस्य निरोधो दृष्टो यद्यंशपतिर्बली भवति॥23॥

अंशपतेश्चन्द्रस्य च फलं विनिश्चित्य दर्शनकृतानि।

कथितानि यवनवृद्धाः फलानि सम्यग्व्यवस्यन्ति॥24॥

पञ्चविंशोऽध्यायः[सम्पाद्यताम्]


पञ्चविंशोऽध्यायः

तेजस्वी सत्ययुतः शूरः क्षितिपोऽथवा रणश्लाघी।

साहसकर्माभिरतश्चमूपुरग्रामवृन्दपतिः॥1॥

राभसिको दानरतः प्रभूतगोजाविधान्य (जनः)करः।

भौमे क्रिये प्रचण्डो बहुयुवतिरतो भवेत्पुरुषः॥2॥

साध्वीव्रतभङ्गकरः(रतः) प्रभाषणो(प्रभलणो) मन्दधनपुत्रः।

द्वेष्यो बहुभरणपरो विस्रम्भस्थितिविहीनश्च॥3॥

प्रोद्धतवेषक्रीडो बहुदुष्टवचाः कुजे वृषभसंस्थे।

सङ्गीतरतः पापो बन्धुविरुद्धः कुलोत्सादी॥4॥

कान्तः क्लेससहिष्णुर्बहुश्रुतः काव्यविधिनिपुणः।

नानाशिल्पकलासु च निपुणो बहुशो विदेशगमनरतः॥5॥

धर्मपरो निपुणमतिर्हितानुकूलः सुतेषु सुहृदां च।

मिथुनस्थे क्षितिपुत्रं भवति प्रचुरक्रियासु रतः॥6॥

परगृहनिवासशीलो वैकल्यरुगर्दितः कृषिधनश्च।

बाल्ये च राजभोजनवस्त्रेप्सुः परगृहान्नाशी॥7॥

सलिलशयतो धनवान् पुनः पुनर्वृद्धिवेदनार्तश्च।

कर्कटके क्षितितनये भवति मृदुः सर्वतो दीनः॥8॥

असहः प्रचण्डशूरः परस्वसन्तानसङ्ग्रहणशीलः।

अटवीनिवासगोकुलमांसरुचिः स्यान्मृतप्रथमदारः॥9॥

व्यालमृगोरगहन्ता न पुत्रवान् धर्मफलहीनः।

भौमे हरौ सुसत्त्वः क्रियोद्यतः स्याद्वपुष्मांश्च॥10॥

पूज्यः सतामतिधनो रतिगीतधनो मृदुःप्रियभाषी।

विविधव्ययोऽल्पशौर्यो विद्वान् (वह्नि)भवति प्रणीतपार्श्वश्च॥11॥

अहितेभ्योऽर्ज(अधिकभीरुः) नभीरुर्वेदस्मृतिधर्मवान् सुबहुशिल्पः।

कन्यायां भूतनये स्नानविलेपनरतः कान्तः॥12॥

अध्वनिरतः (सुपण्य)कुपण्यप्रसक्तवाक्यो विकत्थनः सुभगः।

हीनाङ्ग स्वल्पजनः सङ्ग्रामेप्सुः परोपभोगी च॥13॥

योषिद्गुरुभित्राणां(पुत्राणां) मनोरमो नष्टपूर्वदारश्च।

शौण्डिकवेश्यानिकटे सम्प्राप्तधनक्षयस्तुलिनि भौमे॥14॥

व्यापारश्रुतिसत्यश्चोरसमूहाधिपः क्रियानिपुणः।

युद्धोत्सुकोऽतिपापो बह्वपराधी च वैरशठः॥15॥

द्रोहवधाहितबुद्धिः प्रसूचको भूमिपुत्रयुवतीशः।

वृश्चिकगे भूपुत्रे विषाग्निशस्त्रव्रणैस्तूक्तः॥16॥

बहुभिः क्षतैः कृशाङ्गो निष्ठुरवाक्यः शठः पराधीनः।

रथगजपदातियोधी रथेन शरधारकोऽथ परसैन्ये॥17॥

विपुलश्रमैश्च सुखितः परस्परं क्रोधनष्टसुखवित्तः।

कार्मुकसंस्थे वक्रे गुरुष्वसक्तः(सत्यः) पुमान् भवति॥18॥

धन्यो वित्ताहर्त्ता सुखभोगसमन्वितो भवति सुस्थः।

श्रेष्ठमतिः प्रख्यातः सेनानाथो नरेन्द्रो वा॥19॥

(सद्यः प्रतिरणविजयी)सद्युवती रणविजयी स्वबन्धुविषयस्थितिः स्वतन्त्रश्च।

आरक्षकः सुशीलः कुजे स्वतुङ्गें बहूपचाररतः॥20॥

प्रश्रयशौयविहीनो वृद्धाकारः सुदुर्गतिर्मरणे।

मात्सर्यासूयानृतवाग्दोषैरहृतार्थश्च॥21॥

रोमशगात्रो विकृतो द्युताद्याहृतधनः कुवेषधरः।

दुःखसमाहृतवृत्तिः पानरुचिर्दुर्भगः कुजे कुम्भे॥22॥

रोगार्तो मन्दसुतः प्रवासशीलः स्वबन्धुपरिभूतः।

मायावञ्चनदोषैर्हृतसर्वस्वो विषादी च॥23॥

जिह्मोऽतितीक्ष्णशोको गुरुद्विजावज्ञकः सदा हीनः।

र्इप्सितवेत्ता ज्ञाता स्तुतिप्रियोऽन्त्ये कुजे ख्यातः॥24॥

धनदारपुत्रवन्तं नृपसचिवं दण्डनायकं ख्यातम्।

नृपतिमुदारं कुरुते दिनेश्वरनिरीक्षतः कुजः स्वर्क्षे॥25॥

मातृरहितं क्षताङ्गं स्वजनद्वेष्यं च मित्ररहितं च।

स्वगृहेऽसृक् शशिदृष्टः सेर्ष्यं कन्याप्रियं कुरुते॥26॥

परधनहरणे निपुणं चानृतकं कामदेवभक्तं च।

कुरुते स्वभे ज्ञदृष्टो द्वेष्यं वेश्यापतिं भौमः॥27॥

प्राज्ञं मधुरं सुभगं मातृपितृवल्लभं धनसमृद्धम्।

अनुपमीश्वरमाढ्यं त्रिदशगुरुनिरीक्षिताऽवनेः पुत्रः॥28॥

स्वगृहेऽसृक् सितदृष्टः स्त्रीहेतोर्बन्धभागिनं कुरुते।

असकृत् सकृच्च विभवं स्त्रीहेतोरर्जितं (स्त्रीहेतोरार्जवं)चापि॥29॥

चोरविघातो शूरं निर्वीर्यं स्वजनपरिहीनम्।

अन्यस्त्रीभर्तारं जनयति सौरेक्षितः स्वभे भौमः॥30॥

वनपर्वतेषु रमते रामाद्विष्टो भवेद्बहुविपक्षः।

सितभे रविणा दृष्टे प्रचण्डवेषः(कोपः) कुजे धीरः॥31॥

मातुरपथ्यो(मातुरपक्षो) विषमो(वेषवधुनां) बहुयुवतीनां पतिः प्रियस्तासाम्।

शुक्रग्रहे शशिदृष्टे रणभोरुर्जायते भौमे॥32॥

कलहप्रियो (बहु)मृदुवचा मृदुकायो मन्दपुत्रधनः।

सितभे भवति च भौमे बुधदृष्टे शास्त्रवित्पुरुषः॥33॥

वादितगीतविधिज्ञः सौभाग्ययुतः स्वबन्धदयितश्च।

शुक्रभवने क्षितिसुते दृष्टे गुरुणा भवेत् स्फीतः॥34॥

नृपमन्त्री नृपदयितः सेनानाथः प्रसिद्धनामा च।

शुक्रग्रहे भवति कुजे शुक्रेण निरीक्षिते सुखितः॥35॥

सुखभाक् (सुखभग्ययुतो)ख्यातो धनवान् मित्रस्वजनैर्युतः कुजे विद्वान्।

श्रेणिपुरग्रामाणामधिपः सितभे च शनिदृष्टे॥36॥

विद्याधनशौर्ययुतं गिरिवनदुर्गप्रियं महासत्त्वम्।

बुधभवने रक्ताङ्गो जनयति दृष्टः सदा रविणा॥37॥

(सुखिनं धनिनं कान्तं कन्यापुररक्षकं युवतिसत्वयुतम्)कन्यापुररक्षकरं युवतिपतिं सद्विनीतमतिसुभगम्।

ज्ञगृहे नृपगृहपालं जनयति चन्द्रेक्षितो भौमः॥38॥

लिपिगणितकाव्यकुशलं बहुभाषिणमनृतमधुरवाक्यं च।

दूतं बहुदुःखसहं जनयति वक्रो बुधेक्षितो ज्ञर्क्षे॥39॥

राजपुरुषं प्रकाशं (दैन्येन विदेशगं)दौत्येन विदेशगं नरं कुरुते।

सर्वक्रियासु कुशलं बुधराशौ नायकं च गुरुदृष्टः॥40॥

शुक्रेण दृश्यमानं स्त्रीकृत्यकरं समृद्धसुभगं च।

बुधभवने रक्ताङ्गं कुरुते वस्त्रान्नभोक्तारम्॥41॥

आकरगिरिदुर्गरतं कर्षरमतिदुःखभागिनं कुरुते।

(अतिसूरमतिं मलिनं)अतिशुरमति च मलिनं यमेक्षितो बुधगृहे विभवहीनम्॥42॥

पित्तरुगर्दितदेहस्तेजस्वी दण्डनायको धीरः।

चन्द्रगृहस्थे भौमे दिनकरदृष्टे भवेत्पुरुषः॥43॥

बहुभिर्व्याधिभिरार्तो नीचाचारो विरूपदेहश्च।

शशिराशौ भूतनये शशिना दृष्टे सशोकश्च॥44॥

मलिनः पापाचारः क्षुद्रकुटुम्बो बहिष्कृतः स्वजनैः।

कर्कटके बुधदृष्टे क्षितितनये भवति निर्लज्जः॥45॥

विख्यातो नृपमन्त्री विद्वांस्त्यागान्वितो भवेद्धन्यः।

गुरुदृष्टे शशिभवने भौगैश्च विवर्जितो वक्रे॥46॥

(स्त्रीसङ्गान्नष्टधनः)स्त्रीसङ्गादुद्विग्नः परिभूतस्त्रीकृतैस्तथा दौषैः।

कर्कटके क्षितिपुत्रे सितदृष्टे स्याद्विपन्नधनः॥47॥

(जलसंयानाप्तधनः)जलसंयानो विधनः क्षितिपाल(क्षितिपालसमः)समानललितचेष्टश्च।

शशिगृहसंस्थे भौमे यमेक्षिते स्यात् सदा कान्तः॥48॥

प्रणातानां हितकारी मित्रैः स्वजनैश्च संयुतश्चण्डः।

गोकुलवनाद्रिचारी सिंहे भौमे तरणिदृष्टे॥49॥

मातुर्न शुभो मतिमान् कठिनशरीरो विपुलकीर्तिः।

केसरिभवने भौमे शशिना दृष्टेऽङ्गनाप्रा(अंगनाप्तार्थः)र्थ्यः॥50॥

बहुशिल्पज्ञो लुब्धः काव्यकलालम्पटो विषमशीलः।

पञ्चभवने भौमे बुधेन दृष्टेऽतिनिपुणश्च॥51॥

भूपतिसमीपवर्ती विद्याचार्यो विशुद्धबुद्धिश्च।

अवनिसुते सिंहस्थे गुरुणा दृष्टे चूमनाथः॥52॥

विविधस्त्रीभोगयुतः स्त्रीसुभगो नित्ययौवनो हृष्टः।

लेयगृहे रक्ताङ्गे सितेन दृष्टे भवेज्जातः॥53॥

वृद्धाकारो निःस्वः परवेश्मभ्रमणशीलवान् दुःखी।

दिनकरराशौ रुधिरे दिनकरतनयेन संदृष्टे॥54॥

लोकनमस्यं सुभगं वनगिरिदुर्गेषु (सद्गृहानासम्)लब्धगृहवासम्।

सुरगुरुभवने भौमः करोति रविणेक्षितः (शूरम्)क्रूरम्॥55॥

विकलं कहरप्रायं प्राज्ञं रुधिरः करोति शशिदृष्टः।

विद्वांसं गुरुभवने नृपतिविरुद्धं सदा पुरुषम्॥56॥

मेधाविनं सुनिपुणं शिल्पाचार्यं बुधेन संदृष्टः।

गुरुभवने क्षितितनयः करोति (विकलांसमतिनिपुणम्)विद्वांसमत्यन्तम्॥57॥

अकलत्रं सुखरहितं रिपुभिरधृष्यं च वित्तवन्तं च।

गुरुभवने गुरुदृष्टो व्यायामपरं कुजः कुरुते॥58॥

कन्यानामतिदयितं चित्रालङ्कारभागिनमुदारम्।

विषमपरमतिं च सुभगं गुरुभे काव्येक्षितः कुजः कुरुते॥59॥

गुरुभेऽसृक् शनिदृष्टः कुशरीरमुदारमाहवे पापम्।

अटनं (सुखधनरहितं)सुखलवरहितं परधर्मरतं कुजः कुरुते॥60॥

अतिकृष्णतनुं शूरं योषिदपत्यार्थविस्तरैर्युक्तम्।

सूर्येक्षितोऽतितीक्ष्णं सौरगृहे भूमिजः कुरुते॥61॥

चपलमहितं जनन्या यमभेऽलंकारभागिनमुदारम्।

अस्थिरसौहृदमाढ्यं जनयति चन्द्रेक्षितो वक्रः॥62॥

अतिमधुरगम(अतिमधुरमटन)नमधनं रवितनयगृहे न निर्वृतमसत्त्वम्।

कापटिकमधर्मपरं जनयति बुधवीक्षितो भौमः॥63॥

(अतिरूपम्)अविरूपं मन्दगृहे नृपतिगुणसमन्वितं स्थिरारम्भम्।

दीर्घायुषं क्षमाजो गुरुसंदृष्टः करोति बन्ध्वाप्तम्॥64॥

विविधोपभोगमाढ्यं शनिभे स्त्रीपोषणनुरतमेव।

शुक्रेण दृश्यमानो जनयति कलहप्रियं वक्रः॥65॥

नृपतिमतिवित्तवन्तं युवतिद्वेष्यं बहुप्रजं प्राज्ञम्।

मुखरहितं रणशौण्डं करोति शनिभे शनीक्षितो भौमः॥66॥

इति कल्याणवर्मविरचितायां सारावल्यां अङ्गारकचारो नाम पञ्चविंशोऽध्यायः॥

षड्विंशोऽध्यायः[सम्पाद्यताम्]


प्रियविग्रहस्तु वेत्ताचार्यो विटधूर्ततेष्टकृशगात्रः।

सङ्गीतनृत्तनिरतो न सत्यवचनो रतिप्रियो लिपिवित्॥1॥

कूटकरो बह्वाशी बहुश्रमोत्पन्ननष्टधनः।

बह्वृणबन्धनभागी चलस्थिरः स्यात् क्रिये बुधे कितवः॥2॥

दक्षः प्रगल्भदाता ख्यातो विज्ञातवेदशास्त्रार्थः।

व्यायामाम्बरभूषणमाल्याभिरतः स्थिरप्रकृतिः॥3॥

स्फीतधनस्त्रीसहितः प्रियवल्गुकथो (गम्भीर)गृहीतवाक्यश्च।

गान्धर्वहास्यशीलो रतिलोलो वै बुधे वृषभे॥4॥

शुभवेषः प्रियभाषी प्रख्यातधनो विकत्थनो मानी।

प्रोज्झितसुखकोऽल्परतिर्द्विस्त्रीपुत्रो विवादरतः॥5॥

श्रुतिकल्पकलाभिज्ञः कविः स्वतन्त्रः प्रियः प्रदानरतः।

कर्मठबहुसुतमित्रो नरमिथुनस्थे बुधे भवति॥6॥

प्राज्ञो विदेशनिरतः स्त्रीरतियोदिसक्तचित्तश्च।

चपलो बहुप्रलापी स्वबन्धुविद्वेषवादरतः॥7॥

स्त्रीद्वेषान्नटधनः कुत्सितशीलो बहुक्रियाभिरतः।

सुकविः कर्कटसंस्थे स्ववंशकीर्त्या प्रसिद्धश्च॥8॥

ज्ञानकलापरिहीनो लोकख्यातो न सत्यवाक्यश्च।

अल्पस्मृतिश्च धनवान् सत्त्वविहीनः सहजहन्ता॥9॥

स्त्रीदुर्भगः स्वतन्त्रो जघन्यकर्मा बुधे भवति(युवतिरूपः) पुरुषः।

प्रेष्योऽप्रजस्तु सिंहे स्वकुलविरुद्धो जनाभिरामश्च॥10॥

धर्मप्रियोतिवाग्मी चतुरः स्याल्लेक्यकाव्यज्ञः।

विज्ञानशिल्पनिरतो मधुरः स्त्रीष्वल्पवीर्यश्च॥11॥

ज्येष्ठः पूज्यः सुहृदां (मानी)नानाविनयोपचारवादरतः(दार)।

ख्यातो गुणैरुदारः कन्यायां सोमजे बलवान्॥12॥

शिल्पविवादाभिरतो वाक्चतुरोऽर्थार्थमीप्सितव्ययकृत्।

नानादिक्पण्यरतिर्विप्रातितिदेवगुरुभक्तः॥13॥

कृतकोपचारकुशलः सुसम्मतो देवभक्तश्च।

सप्तमभवने शशिजे शठश्चलक्षिप्रकोपपरितोषः॥14॥

श्रमशोकानर्थपरः सद्वेष्यो त्यक्तधर्मलज्जश्च(वर्जश्च)।

मूर्खो न साधुशीलो लुब्धो दुष्टाङ्गनारमणः॥15॥

पारुष्यदण्डनिरतश्छलकृतिद्विद्विष्टकर्मसु निरुद्धः।

ऋणवान्नीचानुरुचिः परवस्त्वादानवान् कीटे॥16॥

विख्यातोदारगुणः शास्त्रश्रुतिशौर्यशीलसमधिगतः(शिल्प)।

मन्त्री पुरोहितो वा कुलप्रधानो महापुरुषः(विभव)॥17॥

यज्ञाध्यापननिरतो मेधावी वाक्यपटुर्व्रती दाता।

लिपिलेख्यदानकुशलः(शब्द,शास्त्र) कार्मुकसंस्थे बुधे जातः॥18॥

नीचो मूर्खः षण्ढः परकर्मकरः कुलादिगुणहीनः।

नानादुःखपरीतः स्वप्नविहारादिशीलश्च॥19॥

पिशुनस्त्वसत्यचेष्टो बन्धुविमुक्तोसंत्थितात्मा च।

मलिनो भयञ्चलितो निष्ठो(दिष्टो) मकरे बुधे पुरुषः॥20॥

वाग्बुद्धिकर्मनिरतः(रहित) प्रकीर्णधर्मार्थ (लज्ज)बर्जविहितार्यः(विहिऽतात्मा)।

परपरिभूतो न शुचिः शीलविहीनस्तथाऽज्ञश्च(कलाज्ञश्च)॥21॥

अतिदुष्टदारशत्रुभोगैस्त्यक्तो घटे विवाग्भवति।

अतिदुर्भगोऽतिभीरुः क्लीबो मलिनो विधेयश्च॥22॥

आचारशौजनिरतो देशान्तरगोऽप्रजो दरिद्रश्च।

शुभयुवतिः कृतिसाधुः सतां च सुभगो विधर्मरतः॥23॥

सूच्यादिकर्मकुशलो (विज्ञातः)विज्ञानश्रुतिकलावियुक्तश्च।

परधनसंचयदक्षो मीने शशिजेऽधनः प्रकीर्णश्च॥24॥

सत्यवचनं सुखाढ्यं भूपतिसत्कारसत्कृतं मनुजम्।

कुरुते बुधोऽर्कर्दृष्टो बन्धुजने सुक्षमं कुजभे॥25॥

रजनीकरेण दृष्टो युवतिजनमनोहरं क्षितिजराशौ।

अतिसेवकमतिमलिनं चन्द्रसुतो हीनशीलं च॥26॥

अनृतप्रियं सुवाक्यं कलहसमेतं च पण्डितं कुजभे।

जनयति कुजेन दृष्टः प्रचुरधनं क्षितिपवल्ल्लभं शूरम्॥27॥

सुखिनं कुजभे शशिजः स्निग्धाङ्गं रोमशं सुकेशं च।

जीवेक्षितोऽतिधनिनं जनयत्याज्ञापकं(रतं) पापम्॥28॥

नृपकृत्यकरं सुभगं गणनगरपुरोगमं चतुरवाक्यम्।

प्रत्ययिकं(प्रत्ययिनं) सितदृष्टः कुजभे स्त्रीसंयुतं(युजं) शशिजः॥29॥

रुधिरगृहे शनिदृष्टो हिमकिरणसुतोऽतिदुःखितं जनयेत्।

उग्रं हिंसाभिरतं कुलजनहीनं नरं नित्यम्॥30॥

दारिद्र्यदुःखतप्तं व्याधितदेहं परोपचाररतम्।

दिनकरदृष्टः सौम्यः कुरुते जनधिक्कृतं सितभे॥31॥

प्रत्ययितं धनवन्तं दृढभक्तिमरोगिणं दृढकुटुम्बम्।

ख्यातं नरेन्द्रसचिवं ज्ञश्चन्द्रनिरीक्षितः सितभे॥32॥

व्याधिभिररिभिर्ग्रस्तं क्लिष्टं भूपावमानसन्तप्तम्।

जनयति (बुधोसृग्दृष्टः)विदसृग्दृष्टो बहिष्कृतं सर्वविषयेभ्यः॥33॥

प्राज्ञं गृहीतवाक्यं देशपुरश्रेणिनायकं ख्यातम्।

त्रिदशगुरुदृष्टमूर्तिर्जनयति सौम्यः सितगृहस्थः॥34॥

सुभगं ललितं सुखिनं वस्त्रालङ्कारभोगिनं सितभे।

हृदयहरं कन्यानां कुरुते सुक्रेक्षितः सौम्यः॥35॥

शुक्रगृहेऽर्कजदृष्टः सुखरहितं बन्धुशोकसंक्लिष्टम्।

व्याधितमनर्थदृष्टः सौम्यः कुरुते नरं मलिनम्॥36॥

अवितथकथनं मधुरं नृपवल्लभमीश्वरं ललितचेष्टम्।

दयितं करोति लोगे रविणा दृष्टो बुधः स्वगृहे॥37॥

सुमधुरमतिवाचाटं कलहरतं (शस्त्रवत्सलं)शास्त्रवत्सलं सुदृढम्।

जनयति शशिना दृष्टो बुधः शुभं सर्वकार्येषु॥38॥

(अविहतगात्रं)विक्षतगात्रं मलिनं प्रतिभायुक्तं नरेन्द्रभुत्यं च।

वल्लभमतीव कुरुते स्वगृहे रुधिरेण सन्दृष्टः॥39॥

पार्थिवमन्त्रिणमग्र्यं प्रतिरूपमुदारविभवपरिवारम्।

यूपध्वजेन दृष्टो जनयति शूरं स्वभे सौम्यः॥40॥

प्राज्ञं नरेन्द्रभृत्यं दूतं वा सन्धिपालकं शशिजः।

स्वगृहे सितेन दृष्टो जनयति नीचाङ्गनासक्तम्॥41॥

सततोत्थितं विनीतं सफलारम्भं परिच्छदसमृद्धम्।

सौम्यः स्वगृहे दृष्टो रविजेन नरं सदा कुरुते॥42॥

रजकं मालाकारं गृहवास्तुज्ञं तथा च मणिकारम्।

जनयति रविणा दृष्टो बुधो गृहं शिशिरगोश्च गतः॥43॥

युवतिविनाशितसारं युवतिनिमित्तं च दुःखितशरीरम्।

कर्कटके शशिदृष्टो जनयति सुखवर्जितं सौम्यः॥44॥

स्वल्पश्रुतमतिमुखरं प्रियानृतं कूटकारिणं चोरम्।

वक्रेक्षितः शशिगृहे कुरुते सौम्यः प्रियालापम्॥45॥

मेधाविनमतिदयितं भाग्ययुतं वल्लभं नरेन्द्राणाम्।

गुरुणा दृष्टः शशिभे विद्यानां पारगं बुधः कुरुते॥46॥

कन्दर्पसदृशरूपं प्रियंवदं गीतवानदविधिज्ञम्।

सुभगं शशिये ललितं कुरुते शुक्रेक्षितः सौम्यः॥47॥

दम्भरुचिं पापरतं बन्धनभाजं गुणैर्वियुक्तं ज्ञः।

द्वेष्यं सहजाचार्यैः कुरुते सौरेक्षितः शशिभेः॥48॥

सेव्यं(सेर्ष्य) दिनकरदृष्टो धनगुणवृद्धं नरं बुधः कुरुते।

हिंस्रं क्षुद्रं सिंहे चञ्चलभाग्यं(भावं) त्रिगतलज्जम्॥49॥

रूपान्वितमतिचतुरं काव्यकलागेयपृत्तरतिमिनभे।

धनिनं सुशीलवेषं कुरुते चन्द्रेक्षितः सौम्यः॥50॥

ज्ञो नीचं रविभवने दुःखांर्तं (कल्पिताङ्ग)विश्रुताङ्गसमरूपम्।

अचदुरलीलाकान्तं नपुंसकं भौमसन्दृष्टः॥51॥

सुकुमारमतिप्राज्ञं रविभे वागीश्वरं(च विख्यातम्) स्वतिख्यातम्।

परिचारवाहनयुतं कुरुते गुरुवीक्षितः सौम्यः॥52॥

अतिशयरूपं ललितं प्रियंवदं बाहनाढ्यमतिधीरम्।

जनयति सितेन दृष्टो मन्त्रिणमथ पार्थिवं सिंहे॥53॥

व्यायतगात्रं रूक्षं (शुचिरूपं)सुविरूपं स्वेदनोग्रगन्धं च।

अतिदुःखितं रविगृहे जनयति सुखवर्जितं रविजदृष्टः॥54॥

शूरं प्रमेहपीडितमश्मर्योपहतमातुरं शान्तम्।

जनयति रविणा दृष्टो जीवगृहे चन्द्रजः पुरुषम्॥55॥

लेखकमतिसुकुमारं प्रत्ययि(प्रत्ययिकं)तं संमतं गुरुगृहस्थः।

सुखभागिनमत्यढ्यं कुरुते चन्द्रेक्षितः सौम्यः॥56॥

श्रेणीभृतिनगराणां चोराणां विपिनवासिनां चापि।

कुरुते लिपिकरमधिपं सौम्यो गुरुमन्दिरे रुधिरदृष्टः॥57॥

स्मृतिमतिकुलसम्पन्नं गुरुभे प्रतिरूपमार्यविज्ञानम्।

नृपमन्त्रकोशपालं लिपिकरमिह वीक्षितो गुरुणा॥58॥

कन्याकुमारकाणां लेख्याचार्यं धनान्वितं कुरुते।

गुरुभे भृगुसुतदृष्टः सुकुमारं सौर्यसंयुतं शशिजः॥59॥

दुर्गारण्यभिरतं बह्वशनं दुष्टशीलमतिमलिनम्।

कुरुते रविसुतदृष्टो बुधो नरं सर्वकार्योविभ्रष्टम्॥60॥

मल्लमतिसारयुक्तं बहुभक्षं निष्ठुरं प्रियालापम्।

जनयति रविणा दृष्टः सौरगृहे बोधनः ख्यातम्॥61॥

जलजीविनं समृद्धं पुष्पसुराकन्दवणिजं वा।

भीरुस्वरूपमचरं शनिभे चन्द्रेक्षितः कुरुते॥62॥

वाकचपलतिसुसौम्यं व्रीडालसमन्थरं (सुखाधीनम्)सुखाधारम्।

कुरुते भूसुतदृष्टो रवितनयगृहे बुधः पुरुषम्॥63॥

बहुधनधान्यसमृद्धं ग्रामपुरश्रेणिपूजितं सुखिनम्।

कुरुते गुरुणा दृष्टः सौरगृहे बोधनः ख्यातम्॥64॥

नीचापतिं विरूपं बुद्धिविहीनं च कामवश्यं च।

अतिसुतजननं कुरुते भार्गवदृष्टो बुधः ‍ शनिभे॥65॥

पापकरं सुदरिद्रं कर्मकरं चातिदुःखितं दीनम्।

कुरुते शनिना दृष्टः सौरगृहे बोधनः पुरुषम्॥66॥

सप्तविंशोऽध्यायः[सम्पाद्यताम्]


वादिगुणैः सम्पन्नः प्रयत्नरत्नाभरण(सभासङ्गः) संसर्गः।

सत्त्वात्मजार्थबलयुक् प्रगल्भविख्यातकर्मा च॥1॥

ओजस्वी बहुशत्रुर्बहुव्ययार्थः क्षताङ्कितशरीरः।

चण्डोग्रदण्डनाथो जीवे क्रियगे भवेत्पुरुषः॥2॥

पीनो विशालदेहः सुरद्विजगवां च भक्तिमान् कान्तः।

सुभगः स्वदारनिरतः सुवेषकृषिगोधनमढ्यश्च॥3॥

सद्वस्तुभूषणयुतो विशिष्टवाङ्मतिगुणो नयज्ञश्च।

वृषभे गुरौ विनीतो भिषक प्रयोगाप्तकौशलकः॥4॥

आहितधनः सुमेधा विज्ञानविशारदः सुनयनश्च।

वाग्मी दाक्षिण्ययुतो निपुणः स्याद्धर्मशीलश्च॥5॥

मान्यो गुरुबन्धूनां मण्डनमाङ्गल्पलब्धवरशब्दः।

मिथुनस्थे देवगुरौ क्रियारतिः सत्कविश्चैव॥6॥

विद्वान् सुरूपदेहः प्राज्ञः प्रियधर्मसत्स्वभावश्च।

सुमहद्बलो यशस्वी प्रभूतधान्याकरधनेशः॥7॥

सत्यसमाधि(समेतः) सुयुक्तः स्थिरात्मजो लोकसत्कृतः ख्यातः।

नृपतिर्जीवे शशिभे विशिष्टकर्मा सुहृज्जनानुरतः॥8॥

दृढवैरसत्त्वधीरः सुबहुस्नेहः सुहृज्जने विद्वान्।

आढ्यः शिष्टाभिजनो नृपो नृपतिपौरुषः सभालक्ष्यः॥9॥

त्रिदशगुरौ सिंहस्थे समस्तरोषोद्धतापिक्षश्च।

सुदृढव्यस्तशरीरो गिरिदुर्गवनालये जातः॥10॥

मेधावी धर्मपरः क्रियापटुर्धर्मवान्युवतिराशौ।

प्रियगन्धपुष्पवस्त्रः कृत्येषु विनिश्चितार्थश्च॥11॥

शास्त्रार्थशिल्पकार्यैर्धनवान् दाता विशुद्धशीलश्च।

स्याद्देवगुरौ निपुणश्चित्राक्षरविद्धनसमृद्धः॥12॥

मेधावी बहुपुत्रो विदेशचर्यागतः प्रभूतधनः।

(भाषाप्रियो)भूषाप्रियो विनीतो नटनर्तकसंगृहीतधनः॥13॥

कान्तः श्रुताभिनिरतो महत्तरः सार्थवाहवणिजां हि।

वणिजीन्द्रमन्त्रिणि गते सुरातिथीज्यारतः प्राज्ञं॥14॥

बहुशास्त्राणां कुशला नृपतिर्बहुभाष्यकारको निपुणः।

देवालयपुरकर्ता सद्बहुदारोऽल्पपुत्रश्च॥15॥

ब्याध्यार्तः श्रमबहुलः (रोषो)प्रसक्तदोषो गुरौ भवत्यलिनि।

दम्भेन धर्मनिरतो जुगुप्सिताचारैनिरतश्च॥16॥

आचार्यो व्रतदीक्षायज्ञादीनां(समः स्थिरार्थश्च) स्थिरार्थश्च।

दाता सुहृत्स्वपक्षः प्रियोप(हार)कारश्रुताभिरतः॥17॥

माण्डलिको मन्त्री वा धनुर्धरस्थे भवेत्सदा जीवे।

नानादेशनिवासी विविक्ततीर्थायतनबुद्धिः॥18॥

लघुवीर्यो मकरस्थे बहुश्रमक्लेशधारको जीवे।

(नीचा)नानाचारो मूर्खो दुरन्तनिःस्वः परप्रेष्यः॥19॥

माङ्गल्यदयाशौचस्वबन्धुवात्सल्यधर्मपरिहीनं।

दुर्बलदेहो भीरुः प्रवासशीलो विषादी य॥20॥

पिशुनो न साधुशीलः कुशिल्पतोयाश्रमेषु कर्मरतः।

मुख्यो गणस्य सुतरां नोचाभिरतो नृशंसश्च॥21॥

लुब्धो व्याधिग्रस्तः स्ववा(वासः)क्यदोषेण नाशितार्थश्च।

प्रज्ञादिगुणैर्हीनो घटे गुरौ स्याद्गुरुस्त्री(स्त्रीकः)गः॥22॥

वेदार्थशास्त्रवेत्ता सुहृदां पूज्यः सतां य नृपनेता।

श्लाघ्यः सधनोऽधृष्यो (विशत्रुगर्वस्थिरारंभः)ह्यहीनदर्पस्थिरारम्भः॥23॥

राज्ञः सुनीतिशिक्षाव्यवहाररणप्रयोगवेत्ता च।

ख्यातः प्रशान्तचेष्टो (मीनपुगे भवसि ना)स्थिरसत्त्वयुतश्च मीनगे जीवे॥24॥

धर्मिष्ठमनृतभीरुं विख्यातसुतं महाभाग्यम्।

भौमगृहे रविदृष्टो ह्यतिरोमचितं गुरुः कुरुते॥25॥

इतिहासकाव्यकुशलं बहुरत्नं स्त्रीषु भजनं कुरुते।

कुजगेहे शशिदृष्टस्त्रिदशगुरुः पार्थिवं प्राज्ञम्॥26॥

नृपपुरुषशूरमुग्रं नयविनयविनयसमन्वितं च (धनिनं)विधनं च।

अविधेयभृत्यदारं जनयति वक्रेक्षितो जीवः॥27॥

अनृतं वञ्चनपापं परविरान्वेषणेषु निपुणं च।

सेवाविनयकृतज्ञं कापटिकं सौम्यसंदृष्टः॥28॥

गृहशयनवसनगन्धैर्माल्यालङ्कारयुवतिभिर्विभवैः।

समुचितमतीव भीरुं कुरुते शुक्रेक्षितो जीवः॥29॥

मलिनं लुब्धं तीक्ष्णं साहसिकं संमतं य सिद्धं च।

अस्थिरमित्रापत्यं त्रिदशगुरुः सौरसंदृष्टः॥30॥

द्विपदचपुष्पदभागिनमत्यटनं(त्याढ्यं) व्यायताङ्गमिह (ङ्गिन पुरुगम्)पुरुषम्।

प्राज्ञं नरेन्द्रसचिवं करोति सूर्येक्षितो जीवः॥31॥

अतिधनमतीव मधुरं जननीदयितं प्रियं च युवतीनाम्।

अत्युपभोगं कुरुते चन्द्रेण निरीक्षितो जीवः॥32॥

दयितं बालस्त्रीणां प्राज्ञं शूरं च धनसमृद्धं च।

सुखिनं नरेन्द्रपुरुषं भृगुभे जीवो रुधिरदृष्टः॥33॥

प्राज्ञं चतुरं मधुरं (सुभगं)सुधनं विभवान्वितं गुणसमृद्धम्।

सुरुचिरशीलं कान्तं जनयति बुधवीक्षितो जीवः॥34॥

अतिललितमति च धनिनं परभूषणधारिणं मृजाशीलम्।

वरशयनं वरवसनं भृगुभे भृगुवीक्षितो जीवः॥35॥

प्राज्ञं बहुधनधान्यं महत्तरं ग्रामनगरपुरुषाणाम्।

मलिनमरूपमभार्यं कुरुते सौरेक्षितो जीवः॥36॥

आर्यं ग्रामश्रेष्ठं कुटुम्बिनं (दारपुत्रगृहयुक्तम्)दारपुत्रधनयुक्तम्।

बुधभे दिनकरदृष्टस्त्रिदशगुरुर्मानवं कुरुते॥37॥

चन्द्रेक्षितस्तुकुरुते वसुमन्तं मातृवल्लभं धन्यम्।

सुखयुवतिपुत्रवन्तं सुरगुरुतिरूपमनुपमं बुधभे॥38॥

शाश्वतसुलब्धविषयं(विजयं) (विकृत)चित्रितगात्रं धनान्वितं कुरुते।

धरणिसुतेक्षितदेहस्त्रिदशगुरुः संमतं लोके॥39॥

कुरुते ज्योतिषकुशलं बहुसुतदारं च सूत्रकारं च।

अतिशयविरूपवाक्यं बुधभे सौम्येक्षितो जीवः॥40॥

(प्रसादसुमुखं)देवप्रासादानां कृत्यकरं वेशदारभोक्तारम्।

हृदयहरं नारीणां कुरुते शुक्रेक्षितो जीवः॥41॥

श्रेणीगणराष्ट्रणां पुरोगमं ग्रामपत्तनानां च।

जनयति शनिना दृष्टः सुतनुं जीवां नरं बुधभे॥42॥

रविदृष्टः शशिभवने विख्यातं ह्यग्रगं समूहानाम्।

सुखधनदारविहीनं पश्चादाढ्यं गुरुः कुरुते॥43॥

अत्यर्थं द्युतिमन्तं नृपतिं बहुकोशवाहनसमृद्धम्।

उत्तमयुवतीपुत्रं जनयेच्छशिभे गुरुर्हिमगुदृष्टः॥44॥

कौमारदारमाढ्यं हेमालङ्काभागिनं प्राज्ञम्।

शूरं सव्रणगात्रं रुधिराङ्गनिरीक्षितो गुरुः कुरुते॥45॥

बान्धवमात्रनिमित्तं धनिनं कलान्वितं विगतपापम्।

जनयति बुधेन दृष्टः (प्रत्यायकसमन्त्रिणं)प्रत्ययिनं मन्त्रिणं जीवः॥46॥

बहुदारं बहुविभवं नानालङ्कारभागिनं सुखिनम्।

भृगुतनदृष्टमूर्तिः सुभगं पुरुषं गुरुः कुरुते॥47॥

सौरेण दृष्टमूर्तिर्महत्तरं ग्रामसैन्यनगराणाम्।

वाचाटं बहुविभवं वार्धक्ये भोगभागिनं जीवः॥48॥

सिंहे दयितं ख्यातं सतां च नृपतिं महाधनसमृद्धम्।

जनयति दिनकरदृष्टस्त्रिदशगुरुर्नरमतीव हि सुशीलम्॥49॥

असुभगमति च मलिनं (स्त्रीभाग्यैरुपचितार्थमत्याढ्यम्)स्त्रीभाग्यैरतिसुभगमत्याढ्यम्।

लेये चन्द्रसुदृष्टो जितेन्द्रियं जनयति सुरेज्यः॥50॥

सत्यं सतां गुरूणां विशिष्टकर्माणमुग्रमतिनिपुणम्।

शुद्धं शूरं क्रूरं गुरुरिह भौमेक्षितः सिंहे॥51॥

गृहवास्तुज्ञानरतं विज्ञानगुणान्वितं रुचिरवाक्यम्।

सिंहे मन्त्रिणमग्र्यं बुधेक्षितो विश्रुतं जीवः॥52॥

दयितं स्त्रीणां सुभगं भूपतिसतकारसत्कृतं पुरुषम्।

सितदृष्टः सूरपूज्यो जनयति सिंहे महासत्त्वम्॥53॥

बहुकथनमधुरवचनं सुखरहितं चित्रभागिनं तीक्ष्णम्।

अमरस्त्रीतुल्यसुखं सिंहगुरुः सौरसन्दृष्टः॥54॥

नृपतिविरुद्धं जनयति विबुधगुरुः संस्थितः स्वगृहे।

रविदृष्टः परितप्तं धनबन्धुजनेन परिमुक्तम्॥55॥

नानाविधसौख्ययुतं स्वगृहे चन्द्रेक्षितो जीवः।

अतिसुभगं युवतीनां मानधनैश्वर्यगर्वितं कुरुते॥56॥

सङ्ग्रामे विकृताङ्गं क्रूरं वधकं (परोपकारपरम्)परोपतापकरम्।

जनयति कुजेन दृष्टो (दृष्टः)देवगुरुर्नष्टपरिवारम्॥57॥

मन्त्रिणमथ नृपतिं वा सुतधनसौभाग्यसौक्ष्यसम्पन्नम्।

स्वगृहे बुधेन दृष्टः सकलानन्दं गुरुः कुरुते॥58॥

सुखिनं धनिनं प्राज्ञं व्यपगतदोषं चिरायुषं सुभगम्।

स्वगृहे सितेन दृष्टो लक्ष्मीपरिवेष्टितं गुरुः पुरुषम्॥59।

मलिनमतीव च (सभयं)सुभगं ग्रामपुरश्रेणिधिक्कृतं दीनम्।

स्वगृहगुरुः शनिदृष्टो जनयति सुखभोगधर्मपरिहीनम्॥60॥

प्राज्ञं पृथिवीपालं सौरगृहे भानुना च संदृष्टः।

(प्रकृसिमुत्थं)प्रकृतिसमृद्धं जनयति (सुख)बहुभोगसमन्वितं सुविक्रान्तम्॥61॥

पितृमातृभक्तभार्तकुलोद्भवं प्राज्ञमाढ्यमादेयम्।

चन्द्रेक्षितस्तु जीवः सुशीलमतिधार्मिकं शनिभे॥62॥

शूरं नरेन्द्रयोधं गर्वितमोजस्विनं सुवेषं च।

विख्यातमार्यमान्यं शनिभे वक्रेक्षितो जीवः॥63॥

(मतिं)कामरतिं गणमुख्यं मानवमथ सार्थवाहमाढ्यं वा।

ख्यातमतिमित्रवन्तं बुधसंदृष्टो गुरुः शनिभे॥64॥

भोज्यान्नपानविभवं वरगृहशयनासनोत्तमस्त्रीकम्।

आभरणवसनमन्तं शनिभे शुक्रेक्षितो जीवः॥65॥

अनुपमविद्यावृत्तं महत्तरं देशपार्थिवं शनिभे।

द्विपदचतुष्पदमाढ्यं भोगिनमथ सौरवीक्षितो जीवः॥66॥

अष्टाविंशोऽध्यायः[सम्पाद्यताम्]


नैशान्धो बहुदोषो विरोधशीलः पराङ्गनाचोरः।

वेश्यावनाद्रिचारी स्त्रीहेतोर्बन्धं प्राप्तः॥1॥

क्षुद्रः कठोरचोरश्चमूपुरश्रेणिवृन्दनाथश्च।

मेषे स्याद्भृगुतनये नो विश्वासी प्रगल्भश्च॥2॥

बहुयुवतिरत्नसहितः कृषीवलो गन्धमाल्यवस्युतः।

गोकुलजीवो दाता स्वबन्धुभर्ता सुमूर्तिश्च॥3॥

आढ्यस्त्वनेकविद्यो बहुप्रदः सत्त्वहितकारी।

वृषभे गुणैः प्रधानः परोपकारी सिते भवति जातः॥4॥

(विज्ञानकलाशास्त्रप्रतीतसत्यस्थितो)विज्ञानकलाशास्त्रः प्रथितः सततं सुमूर्तिगः कामी।

आलेख्यलेखनिरतः काव्यकरः स्यात् प्रियः साधुः॥5॥

(स्मृति)धृतगीतनृत्तविभवः सुहृज्जनाढ्यः सुरद्विजानुरतः।

संरूढस्नेहो वै मिथुनस्ये भार्गवे भवति॥6॥

रतिधर्मरतः प्राज्ञो बली मृदुर्गुणवतां प्रधानश्च।

आकाङ्क्षितैः सुखार्थैर्युक्तः प्रियदर्शनं सुनीतिश्च॥7॥

योषित्पानप्रभवैर्व्याधिभिरधिकं प्रपीडितो मनुजः।

शुक्रे कर्कटसंस्थे स्ववंशभवदोषसन्तप्तः॥8॥

युवतिजनोपासनको(जनोपासनया) लब्धसुखद्रविणसम्प्रमोदश्च।

लघुसत्त्वः प्रियबन्धुर्विचित्रसौख्यश्च दुःखी च॥9॥

उपकारी च परेषां गुरुद्विजाचार्यसंमतो निरतः।

सिंहस्थे भृगुतनये बहुचिन्तास्वनभियोगः स्यात्॥10॥

लघुचिन्तो मृदुनिपुणः परोपसेवी कलाविधिज्ञश्च।

स्त्रोसम्भाषणमधुरः प्रणयनगणनार्थकृतयत्नः॥11॥

नारीषु दुष्टरतिषु प्रणयी दीनो न सौख्यभोगयुतः।

कन्यायां भृगुतनये तीर्थसभापण्डितो जातः॥12॥

श्रमलब्धधनः शूरो विचित्रमाल्याम्बरो विदेशरतः।

नैपुणरक्षणकुशलः कर्मसु चपलः सुदुष्करेषु तथा॥13॥

आढ्यो रुचिरसुपुण्यो द्विजदेवार्चवि लब्धकीर्तिश्चि।

शुक्रे तुलाधरगते भवति पुमान् पण्डितः सुभगः॥14॥

विद्वेषरतिर्नृशंसो विमुक्तधर्मा विकत्थनोऽतिशठः।

सहजविरक्तोऽधन्यो विपन्नशत्रुस्था पापः॥15॥

आर्यः कुलटाद्वेषी वधनिपुणो बह्वृणो दरिद्रश्च।

अलिनि सिते भवति पुमान् गर्हितशीलः सुगुह्यगदः॥16॥

सद्धर्मकर्मधनजैः फलैरुपेतो जगत्प्रियः कान्तः।

आर्य (कुलार्थ)कुलब्धशब्दो विद्वान् गोमानलंकरिष्णुश्च॥17॥

(द्वार)सद्वित्तदारसुभगो नरेन्द्रमन्त्री सुचतुरोऽपि।

पीनोच्चतनुः पूज्यः सतां समूहस्य धनुषि कवौ॥18॥

व्ययभयपरिसन्तप्तो दुर्बलदेहो जराङ्गनासक्तः।

हृद्रोगी धनलुब्धो लोभानृतवञ्चनो निपुणः॥19॥

क्लीबो विपन्नचेष्टः परार्थचेष्टः सुदुःखितो मूढः।

मकरे दानवपूज्ये क्लेशसहो जायते पुरुषः॥20॥

उद्वोगरोगतप्तः कर्मसु विफलेसु सर्वदाभिरतः।

परयुवतिगो विधर्मा गुरुभिः पुत्रैश्च कृतवैरः॥21॥

स्नानोपभोगभूषणवस्त्रादिनिराकृतो मलिनः।

कुम्भधरे भृगुपुत्रे भवति पुमान्नात्र सन्देहः॥22॥

दाक्षिण्यदानगुणवान् महाधनोऽधःकृतारिपक्षश्च।

लोके ख्यातः श्रेष्ठो विशिष्टचेष्टो नृपतिदयितः॥23॥

वाग्बुद्धियुतोदारः सज्जनपरिलब्धविभगवमानश्च।

स्वादेयवचा मीने वंशधरो ज्ञानवान् शुक्रे॥24॥

स्त्रीहेतोर्दुःखार्तं युतिनिमित्ताद्विनष्टधनसौख्यम्।

कुजभवने रविदृष्टो जनयति शुक्रो नृपं प्राज्ञम्॥25॥

उद्बन्धमतिचपलं कामातुरमधमयुवतिभर्तारम्।

जनयति भृगोरपत्यं रजनोकरवीक्षितं कुजभे॥26॥

धनसौख्ययानरहितं परकर्मकरं मलिनचेष्टम्।

जनयति रुधिरक्षेत्रे रुधिरेण निरीक्षितः शुक्रः॥27॥

मूर्खं धृष्टमनार्यं स्वबन्धुपरिवादकं विनयहीनम्।

चोरं क्षुद्रं क्रूरं बुधदृष्टो भार्गवः कुरुते॥28॥

सुनयनमुदारदानं(दारं) सुशरीरं व्यायतं बहुसुतं च।

त्रिदशगुरुदृष्टमूर्तिर्जनयति रुधिरालये शुक्रः॥29॥

(मधन)अतिमलिनमलसमटनं स्वभिमतजनसेवकं कुरुते।

भृगुतनयो रुधिरगृहे दिनकरपुत्रेण वीक्षितश्चोरम्॥30॥

दिनकरदृष्टः शुक्रो वरजायाभोगिन धनसमृद्धम्।

जनयत्युत्तमपुरुषं स्त्रीहेतोर्निर्जितं स्वगृहे॥31॥

परमकुलीनापुत्रं (सुखधनमानैः सुतैरुयेतं)सुखधनदानैः सुखैरुपेतं च।

अत्यार्यमतिं(अति च कान्तं) कान्तं स्वगृहे चन्द्रेक्षितः शुक्रः॥32॥

दुःशीलाभर्तारं प्रमदाहेतोश्च नष्टगृहदारम्।

जनयति भृगुनन्दकरो मदनवशं वक्रसन्दृष्टः॥33॥

कान्तं मधुरं सुभगं सुखघृतिमतिसंयुतं विपुलसत्त्वम्।

जनयति बुधेन दृष्टः सर्वगुणसमन्वितं ख्यातम्॥34॥

प्रमदापुत्रगृहाणां भागिनमथ यानवाहनानां च।

स्वर्क्षे गुरुसन्दृष्टः कुरुते भृगुरिष्टचेष्टानाम्॥35॥

स्वल्पसुखं स्वल्पधनं दुःशीलं (बन्धकीपतिं)वर्धकीपतिं चैव।

सौरेक्षितस्तु जनयेत् व्याधितदेहं नरं शुक्रः॥36॥

नृपजननीपत्नीनां कृत्यकरं पण्डितं धनिनम्।

दिनकरदृष्टः शुक्रो जनयति सुखभागिनं बुधभे॥37॥

कृष्णनयनं सुकेशं शयनासनयानभागिनं चार्थनाशनम्।

सुकुमारमिन्दुदृष्टो जनयति शुक्रो नरं सुभगम्॥38॥

कामपरमति च सुभगं युवतिकृते यार्थनाशनम्।

वक्रेक्षितस्तु शुक्रो बुधभवनमुपाश्रितः प्रसवे॥39॥

प्राज्ञं मधुरं धनिनं (परिभोग)वाहनपरिवारभागिनं सुभगम्।

(गणपतिमथेश्वरं वा)गणपतिमर्थेशं वा बुधदृष्टो भार्गवो बुधभे॥40॥

बुधभवनगतः शुक्रस्त्रिदशगुरुनिरीक्षितः कुरुते।

अतिसुखमतीवदीनं प्रतिरूपकरं ज्ञमाचार्यम्॥41॥

दिनकरसुतेन दृष्टो बुधभवगोऽतिदुखिनं शुक्रः।

जनयति (लधुपरिभूतं)खलु परिभूतं चपलं द्वेष्यं च मूर्खं च॥42॥

कर्मपरां (अतिरुचिरां शुक्लाङ्गी)शुद्धाङ्गीं नृपतिसुतां रोषणां धनोपेताम्।

भार्यां ददाति शुक्रश्चन्द्रगृहे भानुसन्दृष्टः॥43॥

मातृसपत्नीजननं कन्यापूर्वप्रजं बहुसुतं च।

सुखिनं सुभगं ललितं कुरुते चन्द्रेक्षितः शुक्रः॥44॥

सुकलाविदमत्याढ्यं स्त्रीहेतोर्दुःखितं सुभगम्।

भौमेक्षितस्तु जनयेद्वृद्धिकरं बन्धुवर्गस्य॥45॥

पण्डितभार्यापतिकं बन्धुनिमित्तं च दुखितं नित्यम्।

(असुखिनमटनं)अतिसुखधनिनं प्राज्ञं करोति शशिभे बुधेक्षितः शुक्रः॥46॥

भृत्यैर्धनैश्च पुत्रैर्वाहनभोगैश्च बान्धवैर्मित्रैः।

कुरुते नरमिह युक्तं नरपतिदयितं च गुरुदृष्टः॥47॥

स्त्रीनिर्जितं दरिद्रं पतितमरूपं तथैव चपलं च।

जनयति सुखैर्विहीनं शशिभे शनिवीक्षितः शुक्रः॥48॥

सेर्ष्यं कन्यादयितं कामार्तं (असुखिनमटनं)युवतिकारणं धनिनम्।

भागिनमथ करभाणां जनयति सिंहे रविक्षितः शुक्रः॥49॥

मातृसपत्नीजननं युवतिकृते दुःखितं विभववन्तम्।

सिंहे नानामतिकं करोति चन्द्रेक्षितः शुक्रः॥50॥

नृपपुरुषं विख्यातं युवतिकृते वल्लभं धनसमृद्धम्।

सुभगं परदाररतं सिंहे बुधवीक्षितः शुक्रः॥51॥

संग्रहनिरतं लुब्धं स्त्रीलोलं पारदारिकं शूरम्।

शठमानृतिकं धनिनं सिंहे बुधवीक्षितः शुक्रः॥52॥

वाहनधनभृत्ययुतं बहुदारपरिग्रहं रविक्षेत्रे।

कुरुते नरेन्द्रमन्त्रिणमिन्द्रगुरुनिरीक्षितः शुक्रः॥53॥

नृपतिं नृपतिप्रतिमं विख्यातं कोशवाहनसमृद्धम्।

रण्डापतिं सुरूपं दुःखयुतं सौरसन्दृष्टः॥54॥

अतिरौद्रमतिं च शूरं गुरुभे प्राज्ञं च धनिनमतिदयितम्।

रविणा दृष्टो जनयति विदेशगमनं नरं शुक्रः॥55॥

ख्यातं नरेन्द्रपुरुषं भौगेरशनैः (समैः)समन्वितं विपुलैः।

कुरुते ह्यनुपमसारं गुरुभे चन्द्रेक्षितः शुक्रः॥56॥

अधिकद्वेष्यं स्त्रीणां विचित्रसुखदुःखमर्थवन्तं च।

कुरुते गोधनमग्र्यं गुरुभे भौमेक्षितः शुक्रः॥57॥

आभरणभूषणानां भागिनमपि चान्नपानानाम्।

बुधदृष्टो भृगुतनयः कुरुते गुरुभेऽर्थवाहनसमृद्धम्॥58॥

गजतुरगगोधनाढ्यं बहुपुत्रकलत्रमतिसुखिनम्।

गुरुणा दृष्टो गुरुभे शुक्रो महाविभवम्॥59॥

नित्यं च धनप्रायं सुखिनं भोगान्वितं धनसमृद्धम्।

गुरुभवने शनिदृष्टः कुरुते शुक्रो नरं सुभगम्॥60॥

स्तिमितं वृषभं स्त्रीणां महाधनं सत्यसौख्यसम्पन्नम्।

सौरगृहे रविदृष्टः कुरुते शुक्रो नरं शूरम्॥61॥

ओजस्विनमतिशूरं स्वाढ्यं वपुषान्वितं सुभगम्।

कुरुते शशिना दृष्टो रविजगृहे भार्गवः कान्तम्॥62॥

जायाविनाशकारणमनर्थबहुलं च रोगिणं शुक्रः।

कुरुते श्रमाभितप्तं पश्चात्सुखिनं च कुजदृष्टः॥63॥

प्राज्ञं धनचयनिरतं निधानरुचिमतिशयेन विद्वांसम्।

जनयति बुधेन दृष्टो भृगुतनयः सत्यसौख्यसम्पन्नम्॥64॥

प्रियवस्त्रमाल्यगन्धं सुकुमारं गीतवादितविधिज्ञम्।

जनयति गुरुणा दृष्टो भृगुपुत्रः सत्कलत्रयुतम्॥65॥

सौरगृहे शनिदृष्टः शुक्रो नरवाहनार्थभोगयुतम्।

मलिनं श्यामशरीरं सुरुचिरगात्रं महादेहम्॥66॥

इति कल्याणवर्मविरचितायां सारावल्यां शुक्रचारो नामाष्टाविंशोऽध्यायः॥

एकोनत्रिंशोऽध्यायः[सम्पाद्यताम्]


व्यसनपरिश्रमतप्तः (प्रपञ्चशीलः)प्रचण्डशीलः स्वबन्धुपक्षघ्नः।

निष्ठुरधृष्टातिवचा विगर्हितो निर्धनः कुवेषश्च॥1॥

मेषेऽर्कजे सुरोषे जघन्यकर्मा च लब्धदोषोऽपि।

प्रियवैरो नैकृतिको नृशंसकोऽसूयकः पापः॥2॥

अर्थविहीनः प्रेष्यो न युक्तवाक्यो न सत्यकर्मा च।

वृद्धस्त्रीहृदयहरः कुसुहृत् स्त्रीव्यसनसंसक्तः॥3॥

सौरे वृषभं याते भवति च जातः पराङ्गनाप्रेष्यः।

नैकृतिकः स्फुटदृष्टो बहुक्रियासङ्गतो मूढः॥4॥

बह्वृणबन्धनतप्त श्रमान्वितो दाम्भिकोनुमन्त्री च।

वाक्यगुणैः सन्त्यक्तः सदव(पुंगुह्य) गुह्यश्च कामशीलश्च॥5॥

छलकृच्च मन्युदुष्टः क्रियातिशायी शठः (कुशिल्पश्च)कुशीलश्च।

बन्धनविहारसक्तो बाह्यक्रीडानुगो मिथुने॥6॥

सुभगान्वितो दरिद्रो बाल्ये रोगातिपीडितः प्राज्ञः।

जननीरहितोऽतिमृदुर्विशिष्टनिरतः सदातुरश्चापि॥7॥

परबाधको विशिष्टो बन्धुविरुद्धो विलोमशीलश्च।

मध्ये भूपतितुल्यः परभोगविवर्धितः शशिभे॥8॥

लिपिपाठ्यपरोऽभिज्ञो विगर्हितो विगतशीलश्च।

स्त्रीवियुतो भृतिजीवी स्वपक्षरहितो मुदा हीनः॥9॥

नीचक्रियासु निरतो विवृद्धरोषो मनोरथै(भ्रान्तः)र्दान्तः।

भाराध्वश्रमदुःखैः प्रकीर्णदेहो यमे सिंहे॥10॥

षण्डाकारोऽतिशठः परान्नवेश्यारतोऽल्पमन्त्रश्च।

शिल्पकथास्वनभिज्ञो वि(स्वकुत्य)कृत्यचेष्टो लसत्सुतार्थश्च॥11॥

(अशठः) अधनः परोपकारी कन्याजनकदूषकः क्रियानुरतः।

कन्यायां रवितनये ह्यवेक्ष्यकारी पुमान् जातः॥12॥

अर्थपरश्चारुवचा नरो विदेशाटनाप्तमानधनः।

नृपतिः सुबोधनो वा स्वपक्षगुप्तस्थितार्थः(स्थिरार्थ) स्यात्॥13॥

वृन्दसभानां ज्येष्ठो वयःप्रकर्षात्कृतास्पदः साधुः।

कुलटानटीविटस्त्रीभरणो रविजे तुलायाते॥14॥

द्वेषपरो विषमो वा विषशस्त्रघ्नः प्रचण्डकोश्च।

लुब्धो दृप्तोऽर्थयुतः परस्वहरणे समर्थश्च॥15॥

बाह्यो मङ्गलवाद्यैर्नृशंसकर्मा ह्यनेकदुःखः स्यात्।

अष्टमराशौ रविजे क्षयव्ययव्याधिभिस्तप्तः॥16॥

व्यवहारबोध्यशिक्षाश्रुतार्थं विद्याभिधानुकूलमतिः।

पुत्रगुणैर्विख्यातः स्वधर्मवृत्तैश्च शीलैश्च॥17॥

अन्त्ये वयसि च लक्ष्मीं भुनक्ति परमां प्रलब्धमानस्तु।

अल्पवचा बहुसंज्ञो मृदुर्यमे कार्मुकस्थे स्यात्॥18॥

परयोषित्क्षेत्राणां प्रभुः श्रुतिणैर्युतश्च बहुशिल्पः।

श्रेष्ठश्च वंशजातैः पूज्यः परवृन्दसत्कृतः ख्यातः।19॥

स्नानविभूषणनिरतः क्रियाकलाज्ञः प्रवासशीलश्च।

कोणे मृगभे जातः प्रजातशौर्योपचारः स्यात्॥20॥

बह्वनृतः सुमहान्स्यान्मद्यस्त्रीव्यसनसम्प्रसक्तश्च।

(धूर्तकवञ्चनकुशलः)धूर्तो वञ्चनशीलः कुसौहृदो ह्यतिदृढश्चण्डः॥21॥

ज्ञानकथास्मृतिबाह्यः पराङ्गनार्थः सुकर्कशभाषी।

रवितनये कुम्भस्थे बहुक्रियारम्भकृतयत्नः॥22॥

प्रिययज्ञशिल्पविद्यः स्वबन्धुसुहृदां प्रधानशान्तश्च।

संवर्धितार्थसुनयो विनीतशीलो गुणैः समायुक्तः।

मीने भास्करतनये पश्चाद्भावास्पदं पुरुषः॥24॥

कर्षणनिरतमथाढ्यं गोमहिषाजाविसंयुतं धन्यम्।

सूर्येण दृश्यमानो जनयति कर्मोद्यतं सौरिः॥25॥

चपलं नीचप्रकृतिं नीचविरूपाङ्गनासु संसक्तम्।

शनिरिन्दुदृष्टमूर्तिः सुखधनरहितं नरं कुरुते॥26॥

प्रणिवधपरं क्षुद्रं कुरुते चोराधिपं सुविख्यातम्।

प्रिययुवतिकमांसपानं सौरो वक्रेक्षितः कुजभे॥27॥

आनृतिकमधर्मपरं (बहुवाचं)बह्वाशं तस्करं प्रकाशं च।

कौजे शनिर्ज्ञदृष्टः सुखविभवविनाकृतं पुरुषम्॥28॥

सुखधनसौभाग्ययुतं नृपमन्त्रिणमग्रगं च सचिवानाम्।

गुरुदृष्टो रवितनयः कुजगेहे मानवं कुरुते॥29॥

अतिचपलमतिविरूपं पराङ्गनापण्ययुवतिसंसक्तम्।

कुजभवने भृगुदृष्टो जनयति रविजो विवर्जितं भोगैः॥30॥

स्फुटवाक्यं विगतधनं विद्वांसं परगृहेषु भोक्तारम्।

रविणा दृष्टः सौरिः सितभे परिपेलवं पुरुषम्॥31॥

युवतिजनजनितसारं नृपमन्त्रिपुरस्कृतं युवतिकान्तम्।

शशिना दृष्टः सौरिः कुरुते(सितभे वस्त्रान्नकुसुमपरिवारं) सितभे कुटुम्बपरिवारम्॥32॥

संग्रामकथाभिज्ञं संग्रामपलायिनं सुबहुवाक्यम्।

भृगुभे कुजसन्दृष्टो जनधनपरिवेष्टितं सौरः॥33॥

नित्यं विहसनशीलं (क्लीबकरं)क्लीबतरं युवतिसेवकं नीचम्।

बुधदृष्टो रवितनयः शुक्रगृहे मानवं कुरुते॥34॥

परविषयदुःखसुखिनं परकार्यकरं प्रियं लोकस्य।

कुरुते गुरुणा दृष्टो दातारं सोद्यमं सौरिः॥35॥

मद्यस्त्रीकृतसौख्यं रत्नानां भाजनं महासत्त्वम्।

शुक्रगृहे सितदृष्टो जनयति सौरो नृपतिदयितम्॥36॥

सुखरहितमथात्यन्तं धनरहितं धार्मिकं जितक्रोधम्।

क्लेशसहिष्णुं धीरं बुधभे रविवीक्षितः सौरिः॥37॥

नृपतुल्यं स्निग्धतनुं नारीभ्यः प्राप्तविभवसत्कारम्।

स्त्रीणां वा कृत्यकरं सौरचन्द्रेक्षितो बुधमे॥38॥

विख्यातमल्लमोहितमतिभारवहं तथा (विकृष्टमतिम्)विकृतगात्रम्।

रुधिराङ्गवीक्षिततनुर्जनयति सौरो नरं बुधभे॥39॥

धनिनं नियुद्धकुशलं नृत्ताचार्यं च गीतकुशलं च।

शिल्पकमतीव निपुणं बुधभे बुधवीक्षितः सौरिः॥40॥

प्रात्ययिकं राजकुले सर्वगुणसमन्वितं सतामिष्टम्।

गुणगुह्यधनं कुरुते गुरुणा दृष्टः शनैश्चारी॥41॥

स्त्रीमण्डलेषु(मण्डनेषु) कुशलं योगाचार्यमथ योगिनं वाऽपि(चापि)।

शुक्रेक्षितोऽर्कपुत्रः स्त्रीणामिष्टं नरं बुधभे॥42॥

पित्रा रहितं बाल्ये दिनपतिदृष्टः शनैश्चरः शशिभे।

धनसुखदारविहीनं कदशनतुष्टं नरं पापम्॥43॥

जन्मनि मातुरनिष्टं धनवन्तं सहजपीडितं चैव।

शशिदृष्टः शशिभवने (पत्नीश्वरं)दिनकरपुत्रो नरं कुरुते॥44॥

नृपतिसमर्पितविभवं विकलाङ्गं कनकरत्नपरिवारम्।

कुजदृष्टः शशिभवने कुबन्धुपत्नीरतं सौरिः॥45॥

निष्ठुरमतिप्रवाचं शमितारातिं च दाम्भिकं चापि।

जनयत्युत्तमचेष्टं बुधदृष्टो भास्करिः शशिभे॥46॥

क्षेत्रगृहाणां सुहृदां पुत्राणां भागिनं नरं कुरुते।

धनरत्नदारवन्तं शशिभे गुरुवीक्षितः सौरिः॥47॥

आयतकुलजातानां रूपविलासैः सुखैश्च रहितानाम्।

कुरुते जन्म नराणां भृगुदृष्टः कर्कटे सौरिः॥48॥

सुखधनहीनमनार्यं प्रियानृतं ‍पानसक्तकुतनुं च।

भृतकं दुःखितमेकं सिंहे सूर्येक्षितः सौरिः॥49॥

नानारत्नधनानां युवतीनां भाजनं विपुलकीर्तिम्।

शिशिरगुदृष्टः सिंहे नृपवल्लभं पुरुषम्॥50॥

प्रतिदिनमटनमधन्यं चोरं गिरिदुर्गवासिनं क्षुद्रम्।

भार्यापुत्रविहीनं सिंहे सौरो रुधिरदृष्टः॥51॥

नैकृतिकमलसमधनं स्त्रीकर्मकरं मलीमसं दीनम्।

जनयति बुधेन दृष्टो दिनकरभवनाश्रितः सौरिः॥52॥

ग्रामपुरश्रेणीनां पुरोगमाढ्यं च पुत्रवन्तं च।

गुरुदृष्टः प्रात्ययिकं सिंहे सौरः सुशीलं च॥53॥

युवतिद्वेष्यं कान्तं मन्थरसुखभागिनं धनसमृद्धम्।

शुक्रेक्षितस्तु कुरुते भानुगृहे रविसुतः स्वन्तम्॥54॥

परपुत्राणां पितरं गुरुभे सूर्येक्षितः सौरिः।

तेभ्यो धनं च लभते नाम ख्यातिं च पूजां च॥55॥

मातृरहितं सुशीलं नामद्वयसंयुतं रवेस्तनयः।

कुरुते शशिना दृष्टो भार्यासुतवित्तसम्पन्नम्॥56॥

वातव्याधिगृहीतं लोकेद्वेष्यं च(प्रवासशील) पापशीलं च।

क्षुद्रं निन्दितशीलं गुरुभे भौमेक्षितः सौरिः॥57॥

जनयति गुरुभवनस्थो नृपतिसमं सौख्यवन्तमाचार्यम्।

मान्यं धनिनं सौम्यं सुभगं सौम्येक्षितः सौरिः॥58॥

नृपतिं नृपतुल्यं वा मन्त्रिणमथ नायकं च सेनायाः।

जनयति गुरुणा दृष्टः (शनिः सचिवकर्थवर्जितं गुरुभे)सर्वापद्वर्जितं सौरिः॥59॥

कुरुते द्विमातृपितृकं विपिनाद्रिषु जीविनं विविधशीलम्।

जनयति सितेन दृष्टो रवितनयः कर्मसम्पन्नम्॥60॥

रोगिणमरूपभार्यं परान्नभोगिनमतीव दुःखसहम्।

अटनरतं भारसहं सौरिः सूर्येक्षितः स्वगृहे॥61॥

चपलमसत्यं पापं मातुरनिष्टं प्रियानृतं स्वाढ्यम्।

उत्पन्नाटनदुःखं स्वगृहे चन्द्रेक्षितः सौरिः॥62॥

अतिशूरं विक्रान्तं विख्यातगुणं महाजनपुरोगम्।

तीक्ष्णं साहसनिरतं स्वगृहे वक्रेक्षितः सौरिः॥63॥

भारसहं तामसिकं शोभनमटनज्ञमल्पवित्तं च।

धन्यं जनयति शनिभे बुधेन संवीक्षितः सौरिः॥64॥

समुदितगुणं नरेन्द्रं नृपवंशकरं चिरायुषमरोगम्।

त्रिदशगुरुदृष्टमूर्तिर्जनयति सौरिः स्वगृहसंस्थः॥65॥

धनिनं परदाररतं सुभगं सुखिनं च वित्तवन्तं च।

उत्पन्नपानभक्ष्यं स्वगृहे शुक्रेक्षितः सौरिः॥66॥

 

त्रिंशोऽध्यायः[सम्पाद्यताम्]


मूर्त्यादयः पदार्था जायन्ते येन सर्वजन्तूनाम्।

तस्मादधुना वक्ष्ये भावाध्यायं विशेषेण॥1॥

लग्नेर्केऽल्पकचः क्रियालसमतिः क्रोधी प्रचण्डोन्नतो

मानी लोचनरूक्षकर्कशतनुः शुरोऽक्षमो निर्घृणः।

स्फोटाक्षः शशिभे क्रिये सतिमिरः सिंहे निशान्धः पुमान्।

दारिद्र्योपहतो विनष्टतनय जातस्तुलायां नरः॥2॥

द्विपदचतुष्पद(भोगी)भागी मुखरोगी नष्टविभवसौख्यश्च।

नृपचोरमुषितसारः कुटुम्बगे स्याद्रवौ पुरुषः॥3॥

विक्रान्तो बलयुक्तो विनष्टसहजस्तृतीयके सूर्ये।

लोके (मनो)मतोभिरामः प्राज्ञो जितदुष्टपक्षश्च॥4॥

वाहनबन्धुविहीनः पीडितहृदयश्चतुर्थके सूर्ये।

पितृगृहधननाशकरा भवति नरः कुनृपसेवी च॥5॥

सुखसुतवित्तविहीनः कर्षणगिरिदुर्गसेवकश्चपलः।

मेधावी धनरहितः स्वल्पायुः पञ्चमे तपने॥6॥

प्रबलमदनोदराग्निर्बलवान् षष्ठं समाश्रिते भानौ।

श्रीमान् विख्यातगुणो नृपतिर्वा दण्डनेता वा॥7॥

निःश्रीकः परिभूतः कुशरीरो व्याधितः(व्याधितौ रवौ द्यूने) पुमान् द्यूने।

नृपबन्धनसन्तप्तोऽमार्गरतो युवतिविद्वेषी॥8॥

विकलनयनोऽष्टमस्थे धनसुखहीनोऽल्पजीवितः पुरुषः।

भवति सहस्रमयूखे स्वभिमतजनविरहसन्तप्तः॥9॥

धनपुत्रमित्रभागी द्विजदैवतपूजनेऽतिरक्तश्च(भक्तश्च)।

पितृयोषिद्विद्वेषी नवमे तपने सुतप्तः स्यात्॥10॥

अतिमतिरतिविभवबलो धनवाहन बन्धुपुत्रवान् सूर्ये।

सिद्धारम्भः शूरो दशमेऽधृष्यः प्रशस्यश्च॥11॥

सञ्चयनिरतो बलवान् द्वेष्यः प्रेष्यो विधेयभृत्यश्च।

एकादशे विधेयः प्रियरहितः सिद्धकर्मा च॥12॥

विकलशरीरः काणः पतितो वन्ध्यापतिः पितुरमित्रः॥

द्वादशसंस्थे सूर्ये बलरहितो जायते क्षुद्रः॥13॥

दाक्षिण्यरूपधनभोगगुणैः प्रधानश्चन्द्रे कुलीरवृषभाजगते विलग्ने।

उन्मत्तनीचबधिरो बिकलश्च मूकः शेषे नरो भवति कृष्णतनुर्विशेषात्॥14॥

अतुलितसुखमित्रयुतो धनैश्च चन्द्रे द्वितीयराशिगते।

सम्पूर्णेऽतिधनेशो भवति नरोऽल्पप्रलापकरः॥15॥

भ्रातृजनाश्रयणीयो मुदान्वितः सहजगे बलिनि।

चन्द्रे भवति च शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः॥16॥

बन्धुपरिच्छदवाहनसहितो दाता चतुर्थगे चन्द्रे।

(बलाशयानुरक्तः)जलसंचारानुरतः सुखासुखोत्कर्णपरिमुक्तः॥17॥

चन्द्रे भवति न शूरो विद्यावस्त्रान्नसंग्रहणशीलः।

बहुतनयसौम्यमित्रौ मेधावी पञ्चमे तीक्ष्णः॥18॥

प्रचुरामित्रस्तीव्रो मृदुकायाग्निमदालसश्चन्द्रे।

षष्टे (वृकोदरभवैः)नर उदरभवै रोगैः सम्पीडितो भवति।

रजनिकरे स्वल्पायुः षष्ठगते भवति संक्षीणे॥19॥

सौम्यो धृष्णः सुखितः सुशरीरः कामसंयुतो द्युने।

दैन्यरुगर्दितदेहः कृष्णे संजायते शशिनि॥20॥

अतिमतिरतितेजस्वी व्याधिविबन्धक्षपितदेहः।

निधनस्थे रजनिकरे स्वल्पायुर्भवति संक्षीणे॥21॥

दैवतपितृकार्यपरः सुखधनमतिपुत्रसंपन्नः।

युवतिजननयनकान्तो नवमे शशिनि (प्रियसमाक्षः)प्रियतमोद्योतः॥22॥

अविषादी कर्मपरः सिद्धारम्भश्च धनसमृद्धश्च।

शुचिरतिबलोऽथ दशमे शूरो दाता भवेच्छशिनि॥23॥

धनवान् बहुसुतभागी बह्वायुः स्विष्टभृत्यवर्गश्च।

इन्द्वौ भवेन्मनस्वी तीक्ष्णः शूरः प्रकाशश्च॥24॥

द्वेष्यः पतितः क्षुद्रो नयनरुगार्तोऽलसो भवेद्विकलः।

चन्द्रे तथान्यजातो द्वादशगे नित्यपरिभूतः॥25॥

क्रूरः साहसनिरतः स्तब्धोऽल्पायुः स्वमानशौर्ययुतः।

क्षतगात्रः सुशरीरो वक्रे लग्नाश्रिते चपलः॥26॥

अधनः कदशनतुष्टः पुरुषो विकृताननो धनस्थाने।

कुजनाश्रयश्च रुधिरे भवति नरो विद्यया रहितः॥27॥

शूरो भवत्यधृष्यो भ्रातृवियुक्तो मुदान्वतिः पुरुषः।

भूपुत्रे सहजस्थे समस्तगुणभाजनं ख्यातः॥28॥

बन्धुपरिच्छदरहितो भवति चतुर्थेऽथ वाहनविहीनः।

अतिदुःखैः संतप्तः परगृहवासी कुजे पुरुषः॥29॥

(सौख्यार्थत्रिरहितश्चञ्चलमतिरपि च पञ्चमे रुधिर)सौम्यार्थपुत्रमित्रश्चलमतिरपि

पञ्चमे कुजे भवति।

पिशुनोऽनर्थप्रायः खलश्च विकलो नरो नीचः॥30॥

(प्रबलोदराग्निपुंस्त्वः)प्रबलदनोदराग्निः सुशरीरो व्यायतो बली षष्ठे।

रुधिरे सम्भवतिः नरः स्वबन्धुविजयी प्रधानश्च॥31॥

मृतदारो रोगार्तोऽमार्गरतो भवति दुःखितः पापः।

(स्त्रीरहितो विगतननुः सप्तमभवनस्थिते भौमे)श्रीरहितः सन्तप्तः शुष्कतनुर्भवति सप्तमे भौमे॥32॥

व्याधिप्रायोऽल्पायुः कुशरीरो नीचकर्मकर्ता च।

निधनस्थे क्षितितनये भवति पुमान् शोकसन्तप्तः॥33॥

अकुशलकर्मा द्वेष्यः प्राणिवधपरो भवेन्नवमसंस्थे।

धर्मरहितोऽतिपापो नरेन्द्रकृतगौरवो रुधिरे॥34॥

कर्मोद्युक्तो दशमे शूरो धृष्यः प्रधानजनसेवी।

सुतसौख्ययुतो रुधिरे प्रतापबहुलः पुमान् भवति॥35॥

एकादशगे धनवान् प्रियसुखभागी तथा भवेच्छूरः।

धनधान्यसुतैः सहितः क्षितितनये विगतशोकश्च॥36॥

नयनविकारी पतितो जायाघ्नः सूचकश्च रौद्रश्च।

द्वादशगे परिभूतो बन्धनभाक् भवति भूपुत्रे॥37॥

अनुपहतदेवबुद्धिर्देशकलाज्ञानकाव्यगणितज्ञः।

अतिमधुरचतुरवाक्यो दीर्घायुः स्याद्बुधे लग्ने॥38॥

बुद्ध्योपार्जितविभवो धनभवनगतेऽन्नपानभोगी च।

शोभनवाक्यः सुनयः शशितनये मानवो भवति॥39॥

(श्रुतिनिरतः परिभूतः)श्रमनिरतः परिदीनस्तृतीयराशौ बुधे भवति जातः।

निपुणः सहजसमेतो मायाबहुलो नरश्चलितः(नरस्सचलः)॥40॥

पण्डितबाहुः सुभगो वाहनयुक्तो बुधे हिबुकसंस्थे।

सुपरिच्छदः सुबन्धुर्भवति नरः पण्डितो नित्यम्॥41॥

मन्त्राभिचारकुशलो बहुतनयः पञ्चमे सौम्ये।

(विद्यासुखप्रतापैः)विद्यासुखप्रभावैः समन्वितो हर्षसंयुक्तः॥42॥

वादविवादे कलहे नित्यजितो व्याधितो बुधे षष्ठे।

अलसो विनष्टकोपो निष्ठुरवाक्योऽतिपरिभूतः॥43॥

प्रज्ञां सुचारुवेषां नातिकुलीनां च कलहशीलां च।

भार्यामनेकवित्तां द्यूने लभते महत्त्वं च॥44॥

विख्यातनामसरश्चिरजीवी कुलधरो निधनसंस्थे।

शशितनये भवति नरो नृपतिसमो दण्डनायको वाऽपि॥45॥

नवमगते भवति पुमानतिधनविद्यायुतः शुभाचारः।

वागीश्वरोऽतिनिपुणो धर्मिष्ठः सोमपुत्रे हि॥45॥

प्रवरमतिकर्मचेष्टः सफलारम्भो विशारदो दशमे।

धीरः (सकलारम्भो)सत्त्वसमतो विविधालङ्कारसत्त्वभाक् सौम्ये॥47॥

धनवान् विधेयभृत्यः प्रायः सौख्यान्वितो विपुलभोगी।

एकदशे बुधे स्याद्बह्वायुः ख्यातिमान् पुरुषः॥48॥

सुगृहीतवाक्यमलसं परिभूतं वाग्मिनं तथा प्राज्ञम्।

व्ययगः करोति सौम्यः पुरुषं दीनं नृशंसं च॥49॥

होरासंस्थे जीवे सुशरीरः प्राणवान् सुदीर्घायुः।

सुसमीक्षितकार्यकारः प्राज्ञो धीरस्तथार्यश्च॥50॥

धनवान् भोजनसारो वाग्मी सुवपुः सुवाक् सुवस्त्रश्च।

कल्याणवपुस्त्यागी सुमुखो जीवे भवेद्धनगे॥51॥

अतिपरिभूतः कृपणः (सहजातो, सहजजितो)सदाजितो मानवो भवति जीवे।

मन्दाग्निस्त्रीविजितो दुश्चिक्ये पापकर्मा च॥52॥

स्वजनपरिच्छदवाहनसुखमतिभोगार्थसंयुतो भवति।

श्रेष्ठः शत्रुविषादी चतुर्थसंस्थे सदा जीवे॥53॥

सुखसुतमित्रसमृद्धः प्राज्ञो धृतिमांस्तथा विभवसारः।

पञ्चमभवने जीवे सर्वत्र सुखी भवति जातः॥54॥

सन्नोदराग्निपुंस्त्वः परिभूतो दुर्बलोऽलसः षष्ठे।

स्त्रीविजितो रिपुहन्ता जीवे पुरुषोऽतिविख्यातः॥55॥

सुभगः सुरुचिरदारः पितुरधिकः सप्तमे भवति जातः।

वक्ता कविः प्रधानः प्राज्ञो जीवे सुविख्यातः॥56॥

परिभूतो दीर्घायुर्भृतको दासोऽथवा निधनसंस्थे।

स्वजनप्रेष्यो दीनो मलिनस्त्रीभोगवान् जीवे॥57॥

दैवतपितृकार्यरतो विद्वान् सुभगो भवेत्तथा नवमे।

नृपमन्त्री नेता वा जीवे जातः प्रधानश्च॥58॥

सिद्धारम्भो मान्यः सर्वोपायः कुशलसमृद्धश्च।

दशमस्थे त्रिदशगुरौ सुखधनजनवाहनयशोभाक्॥59॥

अपरिमितायुर्धीरो बहुवाहनभृत्यसंयुत साधुः।

एकदशभे जीवे न चातिविद्यो न चातिसुतः॥60॥

अलसो लोकद्वेष्यो ह्यपगतवाग्दैवपक्षभग्नो वा।

परितः सेवानिरतो द्वादशसंस्थे गुरौ भवति॥61॥

सुनयनवदनशरीरं सुखितं दीर्घायुषं तथा भीरुम्।

युवतिजननयनक्रान्तं जनयति होरागतः शुक्रः॥62॥

प्रचुरान्नपानविभवं श्रेष्ठविलासं(शिष्ट) तथा सुवाक्यं च।

कुरुते द्वितीयराशौ बहुधनसहितं सितः पुरुषम्॥63॥

सुखधनसहितं शुक्रो दुश्चिक्ये स्त्रीजितं तथा कृपणम्।

जनयति मन्दोत्साहं सौभाग्यपरिच्छदातीतम्॥64॥

बन्धुसुहृत्सुखसहितं कान्तं वाहनपरिच्छदसमृद्धम्।

ललितमदीनं सुभगं जनयति हिबुके नरं शुक्रः॥65॥

सुखसुतमित्रोपचितं रतिपरमतिधनमखण्डितं शुक्रः।

कुरुते पञ्चमराशौ मन्त्रिणमथ दण्डनेतारम्॥66॥

अधिकमनिष्टं स्त्रीणां प्रचुरामित्रं (विनाकृतं)निराकृतं विभवैः।

विकलमतीव नीचं कुरुते षष्ठे भृगोस्तनयः॥67॥

अतिरूपदारसौख्यं (बहुविभवं)बहुरूपं कलहवर्जितं पुरुषम्।

जनयति सप्तमधामनि सौभाग्यसमन्वितं शुक्रः॥68॥

दीर्घायुरनुपमसुखः शुक्रे निधनाश्रिते धनसमृद्धः।

भवति पुमान् नृपतिसमः क्षणे क्षणे लब्धपरितोषः॥69॥

सममायततनुवित्तोदारयुवतिसुखसुहृज्जनोपेतः।

भृगुतनये नवमस्थे सुरातिथिगुरुप्रसक्तः स्यात्॥70॥

(उत्थानविवादाजितसुखरतिमानार्थकीर्तयो यस्य।

दशमस्थे भृगुतनये भवति पुमान् बहुमतिख्यातः॥)

उद्यानसुविभवा हितसुखरतिमानार्थकीर्त्तयो यस्य।

दशमस्थे भृगुतनये भवति पुमान् बहुमतिः ख्यातः॥71॥

प्रतिरूपदासभृत्यं बह्वायं सर्वशोकसन्त्यक्तम्।

जनयति भवभवनगतो भृगुतनयः सर्वदा पुरुषम्॥72॥

अलसं सुखिनं स्थूलं पतितं मृष्टाशिनं भृगोस्तनयः।

शयनोपचारकुशलं द्वादशगः स्त्रीजितं जनयेत्॥73॥

स्वोच्चस्वकीयभवने ‍क्षितिपालतुल्यो

लग्नेऽर्कजे भवति देशपुराधिनाथः।

शेषेषु दुःखगदपीडित एव बाल्ये

दारिद्र्य(कामवशगो)कर्मवशगो मलिनोऽलसश्च॥74॥

विकृतवदनोऽर्थभोक्ता जनरहितो न्यायकृत्कुटुम्बगते।

पश्चात्परदेशगतो जनवाहनभोगवान् सौरे॥75॥

मलिनः संस्कृतदेहो नीचोऽलसपरिजनो भवति सौरे।

शूरो दानानुरतो दुश्चिक्यगते विपुलबुद्धिः॥76॥

पीडितहृदयो हिबुके निर्बान्धववाहनार्थमतिसौख्यः।

बाल्ये व्याधिदेहो नखरोमधरो भवेत् सौरे॥77॥

सुखसुतमित्रविहीनं मति(विचेतसं)रहितचेसतं त्रिकोणस्थः।

सोन्मादं रवितनयः करोति पुरुषं सदा दीनम्॥78॥

प्रबलमदनं सुदेहं शूरं बह्वाशिनं विषमशीलम्।

बहुरिपुपक्षक्षपितं रिपुभवनगतोऽर्कजः कुरुते॥79॥

सततमनोरोग्यतनुं मृतदारं धनविवर्जितं जनयेत्।

द्यूनेऽर्कजः कुवेषं पापं बहुनाचकर्माणम्॥80॥

कुष्ठभगन्दररोगैरभितप्तं ह्रस्वजीवितं निधने।

सर्वारम्भविहीनं जनयति रतिजः सदा पुरुषम्॥81॥

धर्मरहितोऽ(ऽपथरतः)ल्पधनिकः सहजसुतविवर्जितो नवमसंस्थे।

रविजे सौख्यविहीनः परोपतापी च जायते मनुजः॥62॥

धनवान् प्राज्ञः शूरो मन्त्री वा दण्डनायको वाऽपि।

दशमस्थे रवितनये वृन्दपुरग्रामनेता च॥83॥

बह्वायुः स्थिरविभवः शूरः (शिल्पश्रितो)शिल्पाश्रयो विगतरोगः।

आयस्थे भानुसुते धनजनसम्पद्युतो भवति॥84॥

विकलः पतितो मुखरो विषमाक्षो निर्घृणो विगतलज्जः।

व्ययभवनंगते सौरे बहुव्ययः स्यात् सुपरिभूतः॥85॥

पापा निघ्नन्ति मूर्त्यादीन् भावान् पुष्णन्ति शोभनाः (द्र0लघु जा0 12।4)।

विपरीतं रिपूरन्ध्रव्ययेषु सदसत्फलम्॥86॥

योगा (योगाश्रय)ये बलयोगाः(योगात्सौम्य) सौम्यसुहृद्रिपुनिरीक्षणाच्चैव।

उच्चादिभवनसंस्थैर्ग्रहश्च फलमन्यथा भवति॥87॥

इति कल्याणवर्मविरचितायां सारावल्यां भावाध्यायस्त्रिंशः॥

एकत्रिंशोऽध्यायः[सम्पाद्यताम्]


होराचतुर्थसप्तमदशमेषु यथा द्वयोर्द्वयोर्ग्रहयोः।

भवति फलसम्प्रयोगो जातस्य तथायमुपदेशः॥1॥

मातृपितृदुःखतप्तः सूर्येन्द्वोरुदयसंस्थयोर्मनुजः।

मानसुतविभवहीनः परिभूतो जायते दुःखी॥2॥

बान्धवसुतसुखहीनो दारिद्र्युतो महाजडप्रकृतिः।

चन्द्रे रसातलस्थे भास्करसहि‍‍‍ते पुमान् जातः॥3॥

मित्रैः सुतैश्च हीनः परिभूतो युवतिभिः सदा पुरुषः।

चन्द्रे सप्तमभवने दिनकरसहिते भवेद्दीनः॥4॥

सुशरीरं बलनाथं राजसिकं निर्दयं विषमशीलम्।

सूर्येन्दू गगनस्थौ कुरुतः क्षपितारिपक्षं च॥5॥

रविभौयोर्विलग्ने पित्तप्रकृतिर्महाहवे शूरः।

क्रोधी विक्षतगात्रः क्रूरश्च शठः कठोरः स्यात्॥6॥

बन्धुजनवित्तहीनः(मित्रहीनः, विभवहीनः) समस्तसुखवर्जितः क्षुभितः।

कुजसूर्ययोश्चतुर्थे भवति पुमान् सर्वतो द्वेष्यः॥7॥

स्त्रीविरहदुःखखिन्नः स्त्रीहेतोः परिभवं सदा प्राप्तः।

रविरुधिरयोर्युवत्यां विदेशगमने रतो भवति॥8॥

विफलारम्भो भृतको नित्योद्विग्नः प्रधाननृपसेवी।

भूतनयदिवाकरयोः कर्मणि गतयोर्भवेद्विकलः॥9॥

(अज्ञो)प्राज्ञो बहुप्रलापी कठिनाङ्गः शूरवल्लभो मतिमान्।

लग्ने बुधदिनकरयोर्दीर्घायुः संभवेत्पुरुषः॥10॥

नृपतिसमो विख्यातो गृहीतकाव्यः कुबेरसमविभवः।

रविशशितनयौ हिबुके स्थूलतनुर्वक्रनासश्च॥11॥

वधबन्धनकृन्मृत्युर्गृहीतवाक्यो न चातिधनलुब्धः।

स्त्रीरतिहीनश्चोरो द्यूने बुधसूर्ययोर्भवति॥12॥

त्रिषु लोकेषु ख्यातो गजाश्वनाथो भवेन्महीपालः।

दिनकरबुधयोर्दशमे न नीचराशिस्थयोरेव॥13॥

जीवार्कयोर्गुणयुतो मन्त्री बलनायकोऽथवा साधुः।

लग्नस्थयोः प्रसूतौ विद्याधनभोगवान्ख्यातः॥14॥

श्रुतिनीतिकाव्यनिरतं भव्यं जनसम्पदं प्रियालापम्।

हिबुके सुरेज्यसूर्यौ निभृताचारं नरं कुरुतः॥15॥

जीवार्कयोर्युवत्यां मदनवशात्त्रीजितः पितृद्वेषी।

कनकमणिरजतमौक्तिकसमन्वितः शुभशरीरः स्यात्॥16॥

कीर्तिसुखमानविभवैः समन्वितः पार्थिवो भवेन्नभसि।

रविदेवपुरोहितयोर्निन्द्येऽपि कुले नरो जातः॥17॥

प्रियकलहस्त्वविनीतो मलिनाचारः सुदुःखितो नीचः।

लग्ने रविभृगुसुतयोरत्यर्थकलत्रसम्परित्यक्तः॥18॥

आदित्ये हिबुकस्थे भार्गवसहिते भवेन्नरो जातः।

परभृत्यः शोकार्तो लोकद्वेष्यो दरिद्रश्च॥19॥

स्त्रीभिः सम्परिभूतो द्रविणविहीनो बृहत्तनुर्द्वेष्यः।

शैलवनेषु च विचरति रविसितयोः सप्तमस्थाने॥20॥

कर्मणि दिनकरसितयोर्व्यवहाररतो नरेन्द्रसचिवः स्यात्।

शास्त्रकलानिपुणमतिर्धनवाहनसौख्यसम्पन्नः॥21॥

निन्दितजननीपुत्रः कुत्सितवृत्तिः सदा मलिनबुद्धिः।

लग्ने सूर्यार्कजयोः पापाचारो भवेत्पुरुषः॥22॥

सौरिश्चतुर्थराशौ भास्करसहिते पुमान् भवति नीचः।

दारिद्र्यविहितमूर्तिः स्वबन्धुभिश्चापि परिभूतः॥23॥

भान्वर्कजयोर्मदने मन्दालसदुर्भगाश्च जायन्ते।

युवतिधनैः सन्त्यक्ता मृगयाभिरता महामूर्खाः॥24॥

भानुः स्वपुत्रसहितो गगने भृतकं विदेशगं जनयेत्।

नृपतेः क्वचिदाप्तधनैश्चोरैर्मुषितं सदश्वधनम्॥25॥

(पित्तरोगैः)रक्ताग्निपित्तदोषैरभिभूतो जायते नरो राजा।

क्षीणीसुतहिमकरयोर्लग्ने तीक्ष्णस्वभावश्च॥26॥

सक्लेशो निर्द्रव्यः सुखसुतधनबन्धुहीनश्च।

पाताले परधनलुब्धो बुहुप्रलापो न सत्यवचनश्च।

र्इर्ष्यामुक्तो मनुजः कुजशशिनोः सप्तमस्थाने॥28॥

तुरगगजपत्तिसम्पत्समाकुलं तुहिनगुर्नरं कुरुते।

रुधिरेण समायातो गगनजले विक्रमैर्युक्तम्॥29॥

सुखबुद्धिसत्त्वयुक्तः सुभगः कान्तो विलग्नगे शशिनि।

बुधसहिते भवति नरो वाचालश्चातिनिपुणश्च॥30॥

बन्धुसुहृत्तनयसुखप्रतापकनकाश्वरत्नसंयुक्तम्।

बान्धवराशाविन्दुर्जनयति बुधसंयुतः सुभगम्॥31॥

द्यूने बुधसंयुक्तो जनयति चन्द्रः प्रतापिनं पुरुषम्।

नृपसंमतं नृपं वा विख्यातं सत्कविं ललितम्॥32॥

दशमे बहुधहिमकरयोर्मानी धनवानतिख्यातः।

नृपसचिवो वयसोऽन्ते दुःखी स्याद्बन्धुपरिहीनः॥33॥

लग्ने सुरेज्यशशिनोः क्षितिपः पृथुपोनवक्षाः स्यात्।

बहतनयमित्रभार्यः सुशरीरो बन्धुभिर्जुष्टः॥34॥

मन्त्री राजप्रतिपः सुखबन्धुसमन्वितो महाविभवः।

बहुशास्त्राक्षतबुद्धिर्हिबुके स्याज्जीवशशिनोश्च॥35॥

जायाभवने कुरुतः सुप्राज्ञं पार्थिवं कलाकुशलम्।

वाणिजकं जीवेन्दू नृपवल्लभयमर्थवत्स्फीतम्॥36॥

कर्मणिः सुरेज्यशशिनोर्विद्यादानार्थमानकीर्तियुतः।

सौम्यः प्रलम्बबाहुः सर्वनमस्यो नरो भवति॥37॥

वेश्यास्त्रीकृतसौख्यः (कल्पतरुः)कान्ततनुः संमतो गुरूणां च।

माल्याम्बरगन्धयुतो लग्ने शशिशुक्रयोर्भवति॥38॥

पाताले शशिशुक्रौ स्त्रीजनसुखभागिनं नरं कुरुतः।

जलसंयानाप्तधनं जनप्रियं भोगसम्पन्नम्॥39॥

जामित्रे सितशशिनोर्बहुयुवतिरतो न चापिधनपत्रः।

स्त्रीजननो मेधावी (भूपतिरजितो)भूपतिचरितो भवेत्पुरुषः॥40॥

मानाज्ञाविभवयुतः कर्मणि शुक्रे शशाङ्कयुते।

राज्ञो मन्त्री ख्यातः क्षमान्वितः स्याद्बहुजनश्च॥41॥

दासाः खलाः सुरौद्रा भवन्ति लुब्धाश्च मानवा हीनाः।

भास्करसुतहिमकरयोर्लग्ने निद्रालसाः पापाः॥42॥

जलमुक्तामणिपोतैर्जीवन्ति नरास्तथा खननवृत्त्या।

हिबुके शशिरविसुतयोः श्रेष्ठा जनसंमता जाताः॥43॥

नगरग्रामपुराणां महत्तरा राजपूजिताः पुरुषाः।

जायन्तेऽर्कजशशिनोर्जायाभवने युवतिहीनाः॥44॥

प्रचुरतुरंगमदलितारातिः ख्यातः कुयोषितः पुत्रः।

भवति नराणामधिपः शशिशनियोगे खमध्यगते॥45॥

सौम्यग्रहसंयुक्तः प्रायेण शुभावहो भगणनाथः।

भौमार्कियुतो (नेष्टो)दृष्टो दशमे च चमूपतिं कुर्यात्॥46॥

हिंस्त्रोऽग्निकर्मकुशलो धातोर्वादे कृतश्रमो दूतः।

भौमबुधयोर्विलग्ने (परोपकारो)गुप्त्यधिकारी भवेत्यपुरुषः॥47॥

बान्धवरहितः सहितो मित्रैश्च धनान्नभोगवाहनवान्।

हिबुके बुधभूसुतयोः स्वजनेषु निराकृतो जातः॥48॥

भ्रमति च देशाद्देशं कर्मकरो नीचपरिभूतः।

भौमेन्दुजयोर्द्युने सुविवादकारो मृतप्रथमदारः॥49॥

सेनाधिपतिः शूरः शठस्वभावो भवेदतिक्रूरः।

बुधकुजयोराकाशे राज्ञोऽभिमतो नरो धीरः॥50॥

मन्त्री गुणप्रधानो धर्मक्षेत्रे प्रलब्धपरिकीर्तिः।

बुधकुजयोर्विलग्ने नित्योत्साही भवेत्पुरुषः॥51॥

बन्धुसुहृत्सम्पन्नः (स्थिरवित्तः)स्थिरचित्तः सौख्यभाक् भवेद्धिबुके।

भौमामरपूजितयोर्नृपसेवी देवगुरुभक्तः॥52॥

गिरिदुर्गतोयकाननविचरणशीलः सुबान्धवः शूरः।

कुजजीवयोर्युवत्यां जायाहीनः पुमान्भवता॥53॥

त्रिदशगुरुभूमिसुतयोराकाशे पोर्थिवो विपुलकीर्तिः।

बहुधनजनपरिवारः कर्मसु निपुणो भवेत्पुरुषः॥54॥

शुक्रकुजयोर्विलग्ने वेश्यानिरतः (कुशिल्प)कुशीलकर्मा च।

स्त्रीहेतोर्नष्टधनो न तु चिरजीवो भवेत्पुरुषः॥55॥

बन्धुसुतमित्रहीनो मानसपीडाभिरर्दितः पुरुषः।

भौमसितयोश्चतुर्थें नानादुःखैर्भवेत्तप्तः॥56॥

स्त्रीलोलुपः कुचरितः स्त्रीहेतोः प्राप्तवान्महादुःखम्।

भौमसितयोर्युवत्यां हीनाचारो भवेत्पुरुषः॥57॥

अस्त्राचार्यो मतिमान् विद्याधनवस्त्रमाल्यवान्भवति।

ख्यातो नरेन्द्रसचिवः सितकुजयोर्व्योम्नि संस्थितयोः॥58॥

संग्रामलब्धविजयो जननीद्वेष्यो भवेत्पुरुषः।

भौमार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्श्च॥59॥

पानान्नसौख्यरहितः स्वजनैस्त्यक्तो भवति जातः।

भौमार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः॥60॥

जायासुखसुतहीनो दैन्यपरो व्याधितो व्यसनशीलः।

भौमार्कजयोर्दशमे न सत्यवचनो नरो भवति॥61॥

राज्ञः सम्प्राप्तधनो महापराधाच्च दण्डितस्तेन।

भौमाकजयोर्दशमे न सत्यवचनो नरो भवति॥62॥

शुभमूर्तिः शुभशीलो विद्वान्नृपसत्कृतो विषयनाथः।

बुधजीवयोर्विलग्ने वाहनसुखभोगवान् भवति॥63॥

बन्धुसुहृत्सुखसहितः स्त्रीधनसौभाग्यसम्पन्नः।

बुधजीवयोश्चतुर्थे निपुणो (बहुसमंतो)नृपसंमतो भवति॥64॥

सुकलत्रो हतशत्रुर्बहुजनमित्रार्थसत्त्वसम्पन्नः।

बहुजीवयोर्युवत्यामतीत्य पितृपक्षमधिकः स्यात्॥65॥

बोधनगुर्वोर्दशमे नरेन्द्रमन्त्री नृपोऽथवा भवति।

मानाज्ञाख्यातियुतः श्रौतार्थपरो विनीतश्च॥66॥

बुधशुक्रर्विलग्ने सुशरीरः पण्डितः सतां सुभगः।

नृपपूजितोऽतिधन्यो द्विजसुरभक्तो भवेत्ख्यातः॥67॥

बुधशुक्रौ हिबुकस्थौ पुत्रसुहृद्बन्धुसंयुतं सुभगम्।

मन्त्रिणमथवा नृपतिं कुरुतः कल्याणसम्पन्नम्॥68॥

बुधशुक्रयोर्युवत्यां सद्बहुयुवतिपरिवेष्टितः पुरुषः।

भोगधनैश्वर्ययुतो भवति सुखी संमतो राज्ञाम्॥69॥

बोधनसितयोः कर्मणि नीतिज्ञो भवति भूपतिः साधुः।

नीचाश्रयो न चाढ्यः सफलारम्भः समर्थश्च॥70॥

मलिनशरीरः पापी विद्याधनवाहनैः परित्यक्तः।

सौम्यार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च॥71॥

पानान्नबन्धुरहितः स्वजनेषु तिरस्कृतो भवति मूढः।

सौम्यार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः॥72॥

र्इश्वरभृतको मूर्खः परोपकारी न साधुरतिमलिनः।

सौम्यार्कजयोरस्ते न सत्यवचनो नरो भवति॥73॥

प्रशमितसमस्तदात्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः।

सौम्यार्कजयोर्दशमे (पूजितो)द्विजगुरुसुरपूजको भवति॥74॥

जीवसितयोर्विलग्ने सुरूपदेहो(गुरूपदेशो) भवेत्क्षमानाथः।

ब्राह्मणकुलसंभोऽप्यनुकूलो भवति नृपतुल्यः॥75॥

प्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः।

जीवसितयोश्चतुर्थे द्विजगुरुसुरपूजको(पूजितो) भवति॥76॥

सुस्त्रीरत्नार्थयुतः स्त्रीजननो लब्धसौख्यकीर्तिश्च।

गुरुशुक्रयोर्युवत्यां वरवाहनभोगवान्भवति॥77॥

गगनस्थौ गुरुशुक्रौ मानाज्ञाविभवविस्तरैः सहितम्।

जनयेतां पृथिवीशं बहुभृत्यधनं सुशीलं च॥78॥

लग्ने जीवार्कजयोर्मदालसा निष्ठुराः समभिजाताः।

विद्वांसो धनसाराः किञ्चित्सुखिता भवन्ति खलाः॥79॥

नृपसचितो निरुजतनुर्जयोदयी बान्धवैः सुहृद्भिश्च।

पातालेऽर्कजगुर्वोः प्रीतिधनः सौख्यवान्भवति॥80॥

स्त्रीवैरान्नष्टधनः शूरो व्यसनी शठो न शुभमूर्तिः।

द्यूने सुरेज्ययमयोः पितृधनलुब्धश्च जायते मूर्खः॥81॥

दशमे भास्करिजीवौ नरेन्द्रदयितं च भूपतिं कुरुतः।

अल्पापत्यं न चलं गोकुलबहुवाहनार्थं च॥82॥

रमते सर्ववधूभिः कान्तशरीरः सुखार्थभोगयुतः।

लग्ने भृगुसुतयमयोर्बहुभृत्यः शोकसन्तप्तः॥83॥

मित्रेभ्यो धनलाभं बन्धुभ्यः सत्क्रियाः समाप्नोति।

शनिशुक्रयोश्चतुर्थे नृपतेश्च तथाप्ततां याति॥84॥

स्त्रीरत्नानि सुखानि च धनानि कीर्तिं च भूतिमखिलां च।

मन्दसितयोर्युवत्यां प्राप्नोति पुमान्विषयलाभम्॥85॥

सर्वद्वन्द्वविमुक्तो लोके ख्यातो विशिष्टकर्मा च।

मेषूरणे सितार्क्योर्नृपतेर्मन्त्री भवेदधिकः॥86॥

एवं त्रिभिश्चतुर्भिः पञ्चभिरथ सप्तभिश्च षड्भिर्वा।

वक्तव्यं केन्द्रस्थैर्ग्रहयोगफलं विचिन्त्य धिया॥87॥

इति कल्याणवर्मविरचितायां सारावल्यां द्व्यन्तरयोगो नाम एकत्रिंशोऽध्यायः॥

द्वात्रिंशोऽध्यायः[सम्पाद्यताम्]


(हो.र.7अ.216पृ.2. यन्नवमर्क्षगृहं)सर्वमपहाय चिन्त्यं भाग्यर्क्षं प्राणिनां विशेषेण।

भाग्यं विना न जन्तुर्यस्मात्तद्यत्नतो वक्ष्ये॥1॥

लग्नान्निशकाराद्वा (यन्नवमर्क्षगृहं)यन्नवमं तद्गृहं भवेद्भाग्यम्।

अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात्॥2॥

भाग्यर्क्षपतिः कस्मिन्नेको(कस्मिन् को वा) भाग्यर्क्षमाश्रितो विहगः।

बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेयः॥3॥

स्वस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम्।

अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम्॥4॥

दुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रहः पश्येत्।

होरागतश्च बलवान् येषां ते मानवाः श्रेष्ठाः॥5॥

देवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्यः।

भोगी कान्तः शशिना काञ्चनभाग् भवति भौमेन॥6॥

सौम्येन धनी ज्ञेयः सितेन गोवाहनार्थसंयुक्तः।

सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्तः॥7॥

ऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण।

रविरुधिराभ्यां दृष्टे वाहनपरिवारवान्पुरुषः॥8॥

चन्द्रार्काभ्यां दृष्टे सुसमृद्धो वल्लभः पितृजनन्योः।

ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वितः पुरुषः॥9॥

ललितः कान्तः सुभगो वरयुवतिविभूषणार्थसम्पन्नः।

बुधसूर्याभ्यां दृष्टे काव्यकलापण्डितः प्राज्ञः॥10॥

उत्सवसमाजशीलो गोमहिषाजवरवारणोपेतः।

रविसितदृष्टे जीवे भाग्यस्थे स्याद्विनीतश्च॥11॥

अर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायकः ख्यातः।

प्राज्ञो गुणवान्सधनो निधिनाथः संग्रहणशीलः॥12॥

सेनाचार्यः स्फीतो मन्त्री वा जायते गुरौ भाग्ये।

दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभगः॥13॥

उत्तमगृहशयनानां भोगी तेजोऽन्वितः क्षमाप्रतिमः।

चन्द्रबुधाभ्यां दृष्टे जातः पुरुषोऽतिमतियुक्तः॥14॥

आढ्यः कर्मोद्युक्तः शूरः परदारवान् सुतविहीनः।

इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्याद्गुरौ जातः॥15॥

मदबहुलः स्थिरजीवी परदेशरतो विवादशीलः स्यात्।

अनृतवचनो गुणोनः शशियमदृष्टे गुरौ भाग्ये॥16॥

सुप्राज्ञोऽतिसुशालः (सुभगो)सुगुणो विद्वान्गृहीतवाक्यश्च।

सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये॥17॥

धनवान्विद्यायुक्तो विदेशगः सात्त्विकोऽतिनिपुणश्च।

क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जातः॥18॥

नीचः पिशुनो द्वेष्यो विदेशगश्चलजनैः समायुक्तः।

भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जातः॥19॥

शिल्पज्ञोऽतिसुशीलो विद्वान्सुभगो गृहीतवाक्यश्च।

सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये॥20॥

सुभगो विद्वान्वक्ता ललितः शूरः सुखी विनीतश्च।

जीवे भाग्योपगते बुधार्किदृष्टे पुमान्भवति॥21॥

देवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान्भवति।

राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च॥22॥

राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृपं ज्ञेयम्।

एभिः कथितैर्दृष्टे फलमिदमन्यैरसंदृष्टे॥23॥

उत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभवः।

देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति॥24॥

भाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेयाः।

स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव॥25॥

नीचारिराशिसंस्थाः पापा भाग्ये न सौम्यसंदृष्टाः।

दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम्॥26॥

स्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्षसंस्थिता ये स्युः।

ज्ञेयास्तु उत्तमशुभा बहुतरगुणसंयुताः शुभैर्दृष्टाः॥27॥

पूर्णेन्दुयुते भाग्ये वक्रार्किबुधाः प्रधानवीर्याश्च।

व्यस्ता वाऽथ समस्ताः प्रधाननृपसंभवो ज्ञेयः॥28॥

सकलगगनखेटा(गेहाः) स्वोच्चगा भाग्यराशौ

धनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति।

अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रं

विनिहतरिपुपक्षं दिव्यकान्तिं सुकीर्तिम्(हो.र. 7 अ. 221 पृ.)॥29॥

सूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते।

नयनव्याधितमाढ्यं सुभगं कलहप्रियं चापि॥30॥

भानुर्वक्रसमेतो नानादुःखान्वितं नरं कुरुते।

कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम्॥31॥

रविसहितः शशितनयो निपुणं दुःखान्वितं बहुविपक्षम्।

जनयति भाग्ये पुरुषं नानारोगैः परिगृहीतम्॥32॥

सुरगुरुसहितः सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम्।

पितरं च धनसमृद्धं दीर्धायुषमार्यमतिशूरम्॥33॥

शुक्रसहायः सूर्यो व्याधितदेहं नरं कुरुते।

प्रियगन्धमाल्यभूषणलङ्कारसंयुतं भाग्ये॥34॥

सूर्यः सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम्।

व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम्॥35॥

चन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात्।

कुर्याच्च विकलगात्रं सव्रणदेहं समृद्धं च॥36॥

चन्द्रः स्वसुतसमेतः शास्त्रज्ञं पण्डितं विकलदेहम्।

जनयत्युत्तमपुरुषं बहुवाचं विश्रुतं चैव॥37॥

सुरगुरुसहिते चन्द्रे भाग्ये प्रवरः प्रसूयते पुरुषः।

सौभाग्यधनसमृद्धः सर्वत्र सुखान्वितो धीरः॥38॥

चन्द्रो भार्गवसहितोगृहे व्याधितं नरं कुरुते।

कुलटापतिं समृद्धं मातृसपत्नीप्रदं सचिववश्यम्॥39॥

रविसुतसहितश्चन्द्रो नवमे राशौ विकृष्टधर्माणम्।

जनयति मनुजं पापं माता च कुलच्युता भवति॥40॥

रुधिरः सोमजसहितो भाग्यर्क्षे जनयति प्रधानं च।

नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च॥41॥

भौमः सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम्।

पूज्यं व्याधितदेहं क्लिष्टं (दीप्ति)व्रणविक्षतं प्रसवे॥42॥

भार्गवसहितः क्षितिजः परदेशरतं विवादिनं क्रूरम्।

स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च॥43॥

पापं मलिनाचारं परदाररतं विनष्टधनसौख्यम्।

कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते॥44॥

सौम्यः सुरगुरुसहितः शास्त्रज्ञं पण्डितं धनसमृद्धम्।

प्रियवादिनं कलाज्ञं प्रभविष्णुमहत्तरं भाग्ये॥45॥

भृगुसुतसहितः सौम्यः ख्यातं च सुपण्डितं धीरम्।

सुभगं वचनसमर्थं जनयति (गीतप्रियं)नीतिप्रियं भाग्ये॥46॥

सूर्यजसहितः सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम्।

जनयति भाग्ये पुरुषं सद्द्वेष्यं बहुकथं चैव॥47॥

शुक्रः सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते।

चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम्॥48॥

जीवः सौरसहायो भाग्ये धनरत्नभागिनं कुरुते।

पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम्॥49॥

सौरसहायः शुक्रो व्याधितदेहं नरं कुरुते।

बहुपुत्रं(बहुवित्तं) नृपतीष्टं यशस्विनं शीलसम्पन्नम्॥50॥

एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य।

ब्रूयात्फलनिर्देशं शास्त्रादनुरूपतः प्राज्ञः॥51॥

सव्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्युः।

बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये॥52॥

रविचन्द्रबुधा भाग्ये क्लीवाकारं सुदुःखितं कुर्युः।

सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च॥53॥

चन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य।

स भवत्युत्तपुरुषो वाहनधनसौख्यसम्पन्नः॥54॥

रविचन्द्रसिता नवमे स्त्रीकलहैर्नष्टसर्वधनसौख्यम्।

नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम्॥55॥

सूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्युः।

प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम्॥56॥

रविभौमबुधा नवमे कुर्वन्ति नरं प्रियालापम्।

(सुभगमथा)भुजगमिवातिकुद्धं समरपरं निष्ठुरं (प्रवासार्तम्)प्रवासरतम्॥57॥

रविगुरुवक्रा नवमे जनयन्ति नरं सदोद्युक्तम्।

देवपितृपूजनरतं समृद्धदारं गुणोपेतम्॥58॥

कलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च।

दिवसरवक्रशुक्रा नवमे द्वेष्यं नरं कुर्युः॥59॥

साहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम्।

पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभावनो नवमे॥60॥

रविबुधगुरवो नवमे भाग्यसमेत धनान्वितं सुभगम्।

नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च॥61॥

रविबुधशुक्रा भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम्।

रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च॥62॥

परदाररतं पापं प्रवासशीलं च निपुणमतिधृष्टम्।

आनृतिकमदैरपरं रविबुधसौरा नरं भाग्ये॥63॥

भाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम्।

बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम्॥64॥

त्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य।

स भवेदुत्तवीर्यो राजा धनवान्गुणैः समृद्धश्च॥65॥

कान्तिविहीनं मलिनं भूपतिपरिण्डितं विभवहीनम्।

जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम्॥66॥

धनकरनकरत्नभाजनं जनयन्ति शशिभूमिजाः पुरुषम्।

प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन(भावेन)॥67॥

भौमनिशाकरजीवाः कुवर्न्ति नरं जितेन्द्रियं प्राज्ञम्।

गुरुदेवभक्तिनिरतं विद्याधनभागिनं सुभगम्॥68॥

व्रणिताङ्गमरूपं वा (प्रभक्षणं)प्रभेदिनं स्त्रीप्रियं युवतिवश्यम्।

युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे॥69॥

व्यापन्नमातृवंशं क्षुद्रं बाल्ये निराकृतं मात्रा।

सौरो भौमश्चन्द्रो जनयन्ति नराधमं नवमे॥70॥

गुरुबुधचन्द्रा नवमे कुलवंशविविर्धनं कुर्यः।

आचार्यं बहुमित्रं नृपतिं बहुसाधनोपेतम्॥71॥

मातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम्।

कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये॥72॥

शशिबुधसौरा नवमे क्रूराचारं सु वक्रमं मलिनम्।

जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम्॥73॥

चन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य।

स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव॥74॥

शशिगुरुसौरा नवमे कुर्वन्ति नरं प्रियालापम्।

सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च॥75॥

शुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम्।

कुर्युर्मनुजमपापं(मनुजं पापम्) कृतकृत्यं लोकविख्यातम्॥76॥

तेजस्विनं विशोकं विद्वांसं वाक् स्थिरं विशिष्टं वा।

कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम्॥77॥

बहुविषयपतिं ख्यातं नरेन्द्रसत्कारसत्कृतं चण्डम्।

कुजबुधशुक्रा भाग्ये कुर्वन्ति नरं सतां सत्यम्॥78॥

परवञ्चनासु निपुणं तमोधिकं सर्वशास्त्रमतिबाह्यम्।

बुधभौमयमा नवमे कुर्यः परतर्कसंमूढम्॥79॥

बुधगुरुशुक्रा भाग्ये जनयन्ति नरं सुरोपमं विशदम्।

विख्यातं नरनाथं विद्वांसं धर्मशीलं च॥80॥

शुक्रशनैश्चरशशिजा नवमस्था जातकं प्रकुर्वन्ति।

मेधाविनं प्रकाशं सुरुचिरवाक्यं सुखोपेतम्॥81॥

शनिशुक्रामरगुरवो भाग्यगृहस्था नरं प्रकुर्वन्ति।

प्रचुरान्नपानविभवं सुभगं सुखितं सुरूपं च॥82॥

रविचन्द्रभौमशशिजा जन्मनि भाग्यर्क्षगा नरं कुर्युः।

सभवत्युत्तमपुरुषो विदेशगो नित्यसंतुष्टः॥83॥

सूर्यशशिभौमगुरवो भाग्यर्क्षगता नर कुर्युः।

धनिनं विद्याकुशलं सुभगं नृपसंमतं चेव॥84॥

शुक्रेन्दुभौमरवयो मायाचतुरं स्वदारसन्तुष्टम्।

जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम्॥85॥

सूर्याचन्द्ररवयः पिशुनं मायाविनं कुशीलञ्च।

जनयन्ति सदा भाग्ये पुरुषं बहुनीचकर्माणम्॥86॥

शशिसुरगुरुबुधरवयो जन्मनि भाग्यर्क्षमाश्रिताः कुर्युः।

पुरुषं प्रधानमचलं नरेन्द्रपूज्यं तथा हृष्टम्॥87॥

चन्द्रबुधशुक्ररवयो धनेश्वरं धार्मिक समृद्धं च।

जनयन्ति नवमसंस्थाः पुरुषं प्रियवादिनं शान्तम्॥88॥

तरणिबुधचन्द्रसौरा जन्मनि नवमाश्रिता नरं कुर्युः।

नीचानुरतं दीनं परस्वहरणे सदा सक्तम्॥89॥

रविगुरुबुधभूतनया जन्मनि नवमे नरं प्रकुर्वन्ति।

देवपितृपूजनपरं समृद्धदारं गुणोपेतम्॥90॥

शुक्रज्ञभौमसूर्या नवमे जनयन्ति निष्ठुरं सुभगम्।

साहसनिरतं विधनं रिपुक्षक्षपितविभवं च॥91॥

रविसौरिचान्द्रिभौमा नवमे यस्येह जायमानस्य।

स भवति परदाररतो विनष्टकोशः सदा दीनः॥92॥

शुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्तम्।

जनयन्ति नवमसंस्थाः कन्यानां दूषकं चपलचित्तम्॥93॥

गुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम्।(Slok 196 is found in the P. L. M. S.)

जनयन्ति नरं चण्ड विक्रमयुक्तं महासत्त्वम्॥94॥

रविबुधजीवसिताः स्युर्नवमे यस्येह जायमानस्य।

स भवत्युत्तमपुरुषो धनकनकैश्वर्यसम्पन्नः॥95॥

भानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम्।

पापं परदाररतं विद्विष्टं नीचकर्माणम्॥96॥

बुधरविजरविसिताः स्युर्भाग्यस्थाने नरं सुभगम्।

जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम्॥97॥

रविगुरुसितभानुसुता जन्मनि नवमर्क्षगा नरं कुर्युः।

सत्यव्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम्॥98॥

चन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम्।

बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये॥99॥

भौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम्।

वाग्मिनमतिदातारं परलोकपरं महाप्राज्ञम्॥100॥

रविजबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम्।

क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये॥101॥

भौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम्।

विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव॥102॥

शशिवक्रार्किसुरेज्या जनयन्ति नरं पिपासार्तम्।

कलहप्रियं च नवमे सौभाग्यपरिच्छदातीतम्॥103॥

चन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम्।

मायाविनं च पुरुषं शौचाचारैर्विहीनं च॥104॥

सितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम्।

जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च॥105॥

प्राज्ञं नृपति कुलजं प्रधानमतिवित्तसंयुतं कान्तम्।

सौम्येन्दुशुक्रजीवा जनयन्ति नरं तु विख्यातम्॥105॥(Reading of s'loka 103 in the P. L. M. S.)

गुरुसौम्यशुक्रचन्द्रा भाग्ये युक्ताः प्रजायमानस्य।

यस्य स भाग्ये युक्तो लोके पुरुषोत्तमो ज्ञेयः॥105॥

भानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम्।

भाग्यस्थिताः समृद्धं नीतिज्ञं चारुवेशं च॥106॥

शनिशुक्रबुधशशाङ्का जन्मनि भाग्यस्थिता नरं कुर्युः।

मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम्॥107॥

चन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिताः प्रकुर्वन्ति।

मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम्॥108॥

भौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्युः।

रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च॥109॥

भौमज्ञशक्रशनयः (कुर्वन्ति)नरं (दशानुगतं)विदेशानुगं सुशीलं च।

जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं च॥110॥

भौमभृगुजीवरविजा जनयन्ति नरं धनपरित्यक्तम्।

क्षुद्रं दयाविरहितं विहीनसत्त्वं स्थिता भाग्ये॥111॥

बुधभृगुभानुजगुरवा जन्मनि नवमे स्थिता नरं कुर्युः।

परवादविवादरतं परदेशप्राप्तवित्तञ्च॥112॥

त्रिचतुःपञ्चखगेन्द्रास्तथा च षट् सप्त संस्थिता भाग्ये।

प्रात्ययिकं धनवन्तं कुर्युनृपतिं च बुधसहिताः॥113॥

जनयन्ति भाग्यसंस्थां गुरुसौम्यविवर्जिताः ग्रहाः पुरुषम्।

व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम्॥114॥

उक्तं बहुप्रकारं भाग्यगृहे बादरायणदिकृतम्।

ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत्॥115॥

इति कल्याणवर्मविरचितायां सारावल्यां भाग्यचिन्ता नाम द्वात्रिंशोऽध्यायः॥

त्रयस्त्रिंशोऽध्यायः[सम्पाद्यताम्]


लग्नाद्दशमे राशौ कर्मफलं यत्प्रकीर्तितं मुनिभिः।

राशिग्रहस्वभा(भागै)वैर्ग्रहदृष्ट्या तदहमपि वक्ष्ये॥1॥

होरेन्‍द्वोर्बलयोगाद्यो दशमस्तत्वस्वभावजं कर्म।

तस्याधिपपरिवृद्ध्या वृद्धिर्ज्ञेयाऽन्यथा हानिः॥2॥

जाङ्गलमथवानूपं तथोभयं वा गृहं परोक्षेत।

ग्राम्यमथारण्यं वा सौम्यर्क्षं पापभवनं वा॥3॥

द्विपचतुष्टरूपं सरीसृपं वा तथोभयं चैव।

यद्रूपं तद्भवनं यादृशकं (तत्स्वभावं)यत्स्वभावं च॥4॥

प्रवदेत्तत्समदेशे कर्मप्राप्तिं नरस्य तत्सदृशीम्।

तस्माद्दशमं भवनं प्रसवे बुध्येत यत्नेन॥5॥

दशमे नक्षत्रपतेर्लग्नात्पुरुषस्य (यस्य)कर्म संभवति।

सर्वारम्भे वृत्तिं(सिद्धिं) विनिर्दिशेत्तस्य जातस्य॥6॥

द्व्यन्तरयोगाध्याये कथितं कर्मस्थितैर्ग्रहर्लग्नात्।

चन्द्रादत्र विशेषो ग्रहैः स्थितैर्व्यक्तमिह वक्ष्ये॥7॥

चन्द्राद्दशमे सूर्यः सिद्धारम्भं धनैः समृद्धं च।

जनयत्युत्तमसत्त्वं नृपतिमुदग्रं (धनाश्रयं)जनाश्रयं पुष्टम्॥8॥

भौमः साहसनिरतं प्रत्यन्तनिवासिनं(सितं) विषयलुब्धम्।

क्रूरं निषादचरितं जनयति दशमे स्थितः पुरुषम्॥9॥

विद्वांसं धनवन्तं बहुश्रुतं (नृपतिसंमतं)नृपतिनायकं ख्यातम्।

जनयति सौम्यो दशमे पुरुषं बहुशिल्पिनं प्राज्ञम्॥10॥

गुरुरपि दशमस्थाने सिद्धार्थं धार्मिकं धनसमृद्धम्।

जनयत्युत्तमचरितं नरेन्द्रसचिवं नरं ख्यातम्॥11॥

शशिनो दशमे शुक्रः सुभगं ललितं च वित्तवन्तं च।

जनयति सिद्धारम्भं धनिनं नृपपूजितं पुरुषम्॥12॥

सौरो व्याधितदेहं निःस्वं दुःखान्वितं प्रजाहीनम्।

कर्मसु नित्योद्विग्नं जनयति दशमे स्थितः पुरुषम्॥13॥

भानुर्भौमसमेतः कर्मकरान्का(कामशोमदबहुलान्)सशोषगदबहुलान्।

ज्योतिर्विदः प्रकुर्याल्लाक्षणिकांस्तार्किकांश्चापि॥14॥

सूर्यः सौम्यसमेतो वस्त्रालङ्कारभागिनं वणिजन्।

जनयति मेषूरणगः पुरुषं जलजीविनं वाऽपि॥15॥

जीवसहायः सूर्यः सिद्धारम्भान्नरेन्द्रमान्यांश्च।

जनयति दशमे पुरुषान् (वीरान्)धीरान्शूरान्सुविख्यातान्॥16॥

सूर्यसहायः शुक्रो दशमे स्वजनाश्रितं नरं कुरुते।

स्त्रीसंश्रयात्समृद्धं सुभगं नृपवल्लभं चापि॥17॥

सूर्यः स्वपुत्रसहितो दशमे वधबन्धभागिनं भृतकम्।

जनयति दीनं कृपणं चौरैर्मुषितं प्रलापकरम्॥18॥

भौमः सोमजसहितो जनयति दशमे नरं (नृशंसं)बहुविपक्षम्।

अस्त्रकलावेत्तरं कौशलमति जीविनं महाशूरम्॥19॥

भौमः सुरगुरुसहितो दशमे कुरुते बलस्य नेतारम्।

मित्रेभ्यो लब्धधनं तदाश्रयाज्जीवितं धन्यम्॥20॥

जनयति विदेशनिरतं काञ्चनमुक्तादिभिर्वणिग्वृत्त्या।

भौमः शुक्रसमेतो दशमे स्त्रीसंश्रयाद्वाऽपि॥21॥

भौमः सौरसहायो जनयति दशमे स्थितो नरं प्रसवे।

साहसशीलं क्षुद्रं (कर्मोद्युवतं)कर्मायुक्तं रुजा सहितम्॥22॥

(षण्ढं)सधनं नृपेन्द्रपूज्यं धर्मिष्ठं वृन्दनायकं ख्यातम्।

जीवः सौम्यसहायो जनयति मेषूरणे पुरुषम्॥23॥

सौम्यः शुक्रसहायो जनयति दशमे सुहृज्जनोपेतम्।

विद्यास्त्रीधनसौख्यं नृपसचिवं विषयनाथं वा॥24॥

सौम्यः सौरसहायो मृद्भाण्डकरं करोति दशमस्थः।

ख्यातं विद्याचार्यं पुस्तकलिपिलेख्यकारं च॥25॥

वचसां पतिः सितयुतः कर्मणि कुरुते नरेन्द्रवरभृत्यम्।

ब्राह्मणपतिं विशोकं विद्याचार्यं समर्थं च॥26॥

सुरराजगुरुः सार्किर्दशमे नीचं (तापकरं)परोपकाररतम्।

कुरुते प्रवृद्धचेष्टं स्थिरास्पदं सुस्थिरारम्भम्॥27॥

शुक्रः सौरसहायश्चित्रक्ररं गन्धजीविनं वेद्यम्।

जनयति दशमे पुरुषं नीलकरं चूर्णकारं च॥28॥

रविभौमचन्द्रपुत्राश्चन्द्राद्दशमस्थिता नरं धन्यम्।

जनयन्त्युत्तमपुरुषं नृपतिसमं सर्वजनपूज्यम्॥29॥

रविभौमदेवपूज्या दशमस्थाने नरं सुभगम्।

शत्रूणां (जेतारं)हन्तारं जनयन्ति समृद्धिसंयुक्तम्॥30॥

चन्द्राद्दशमे भानुर्भूपुत्रो भार्गवश्च जनयन्ति।

क्रूरं साहसनिरतं (परधनहरणे)पुरधनकरणेऽतिनिपुणमतिम्॥31॥

भानुजरविभूपुत्रा दशमस्थाः क्रूरकर्मनिरतं तु।

उत्पादयन्ति मनुजं मूढं पापं दुराचारम्॥32॥

रविबुधगुरवो दशमे विद्वांसं रूपसंयुक्तम्।

उत्पादयन्ति पुरुषं धर्मिष्ठं बन्धुबल्लभं चैव॥33॥

बुधसूर्यभार्गवसुता यशस्विनं धार्मिकं विगतरोषम्।

जनयन्त्यपराभूतं सौभाग्यपरिच्छदसमृद्धम्॥34॥

रविबुधशनयो दशमे क्रूरं चपलं नरं विशीलं च।

उत्पादयन्ति नियतं शस्त्राग्निपरिक्षताङ्गं च॥35॥

रविभृगुदेवपूज्या दशमस्थानोपगा नरं कुर्युः।

सुभगं विद्याप्तधनं धर्मरतं भोगभागिनं नित्यम्॥36॥

त्रिदशगुरुमन्दसूर्या दशमे युक्ता नरं प्रकुर्वन्ति।

प्रायेण लोकमान्यं चारित्रविलोपनं धीरम्॥37॥

भार्गवविभानुसुता दशमस्थानोपगा नरं कुर्युः।

लोभान्विमतिचपलं समस्तजनविप्रयुक्तं च॥38॥

भौमेन्दुजसुरपूज्या धर्मिष्ठं बहुकुटुम्बपरिवारम्।

जनयन्ति दशमसंस्था विद्याधनभागिनं पुरुषम्॥39॥

शोभनशिल्पाभिरतान्मालाकारान्सुवर्णकारांश्च।

कुर्युर्बुधभृगुवक्रा दशमस्थाः सर्वलोकदयितांश्च॥40॥

भौमबुधसूर्यपुत्रा जनयन्ति तथा न(सुधर्म) धर्मशीलं च।

निद्रानिरतं प्रखलं दशमस्थानोपगा नरं मलिनम्॥41॥

भार्गवसुरेज्यभौमा दशमस्थानाश्रिता नपरान्कुर्युः।

धनसंयुक्तान्शूरान्देवद्विजपूजनानुरतान्॥42॥

विद्याधनजनहीनान्कापुरुषान्सौख्यवर्जितान्विकलान्।

जीवाङ्गारकसौरा दशमे कुर्युर्नरान्नीचान्॥43॥

सचिवानुत्तमपुरुषान्परधर्मरतांश्च(वनधर्म) धनिनश्च।

भौमभृगृसूर्यपुत्राः कुर्वन्ति नराननेककर्मरतान्॥44॥

शुक्रबृहस्पतिसौम्या दशमे पुरुषस्य शुक्रराशिस्थाः।

बहुविधमिष्टं कुर्युर्व्याधिं चाप्यन्यगृहसंस्थाः॥45॥

लिपिलेख्यकाव्यनिरतं धनवन्तं बहुविधेयभृत्यं च।

अटनप्रियं सुरूपं बुधगुरुसौरा नरं दशमे॥46॥

दशमे विज्ञानयुतान्मल्लान्परदेशनिरतांश्च।

कुर्युर्बुधभृगुरविजाः कर्मोद्युक्तं सदा दान्तम्॥47॥

विद्वांसं धर्मरतं दयान्वितं सत्यवन्तं च।

भानुजगुरुभृगुपुत्रा दशमस्थानोपगा नरं कुर्युः॥48॥

एवं त्र्यादिषु वाच्यं जन्मनि पुंसां फलं हि कर्मोत्थम्।

आदिग्रहसंयोगेऽत्र विशेषस्तमपि वक्ष्ये॥49॥

रविभौमबुधसुरेड्या दशमस्थानोपगा नरं कुर्युः।

शूरं विक्षतगात्रं दातारं सर्वकर्मरतम्॥50॥

वक्रार्कशुक्रसौम्याश्चन्द्राद्दशमं समाश्रिताः प्रसवे।

(कुर्युर्मालाकारं लेख्यकारं चापि वास्तुकर्मरतम्)कुर्युर्निर्माल्यकराँल्लेख्यकरांश्चापि चित्रकर्मरान्॥51॥

रविकुजबुधभानुसुता दशमस्थानस्थिताः प्रसवकाले।

उत्पादयन्ति पुरुषं धनवाहनवारणोपेतम्॥52॥

रविजीवशुक्रसौम्यां जनयन्ति नभःस्थिता नरान्सौम्यान्।

कुत्सितवृत्तीनामपि सुतान्वरान्कर्षणोपेतान्॥53॥

रविजीवसौम्यसौरा दशमस्थानस्थिता कुर्युः।

पुरुषं मायानिपुणं क्रूरं परवञ्चनानुरतम्॥54॥

रविसितबुधभानुसुताश्चन्द्राद्दशमस्थिता नरं कठिनम्।

उत्पादयन्ति सुभगं वाग्मिनमथ कर्षणानुरतम्॥55॥

रविगुरुभार्गवशनयो मेषूरणसंस्थिताः प्रसवकाले।

उत्पादयन्ति मनुजं प्रवासशीलं विविधचेष्टम्॥56॥

भौमसितबुधसुरेड्या जन्मनि दशमर्क्षगा नरं निपुणम्।

उत्पादयन्ति चतुरं शूरं समरेष्वधृष्यं च॥57॥

भौमबुधमन्दगुरवो जन्मनि दशमस्थिता नरं मलिनम्।

जनयन्ति (सदोद्युक्तं)नरोद्युक्तं संग्रामे रिपुविनाशकरम्॥58॥

भौमबुधशुक्रसौरा नभस्थले संश्रिताः प्रसवकाले।

विद्याबहुलं शूरं जनयन्ति नरं विशालाङ्गम्॥59॥

भौमगुरुशुक्रमन्दाश्चन्द्रन्मेषूरणर्क्षगाः प्रसवे।

जनयन्ति नरं धीरं कुटुम्बयुक्त (जनोपेतम्)धनोपेतम्॥60॥

बुधुगुरुभार्गवशनयो जन्मनि दशमस्थिताः कुर्युः।

पुरुषं शान्तमनस्कं सुमेधसं लोकदयितं च॥61॥

पापैर्नभःस्थलस्थैः सौम्यग्रहवीक्षितै प्रजायन्ते।

वैद्यपुरोहितगणकाश्चण्डाः(चन्द्रात्) परवञ्चनानुरताः॥62॥

एते समस्तयोगाः सौम्यग्रहवीक्षिताःप्रशस्यन्ते।

पापग्रहदृष्टियुताः प्रायेण न भद्रकाः प्रोक्ताः॥63॥

पापास्तृतीयषष्ठा होरेन्दुस्थानतो नृणामिष्टाः।

नेष्टा निधनान्त्यगता लग्नोपगता विशेषेण॥64॥

(हो.र.7 अ. 248 पृ.)होराशशिनोर्बलवान्यस्तस्मात्कर्मभेन वा कथयेत्।

यो बलयुक्तो (चन्द्रात्)वर्गस्तदधिपतेर्वाऽऽदिशेद्वृत्तिम्॥65॥

आरामपुत्र(बुद्धि)सेवाकृषिरसवणिगर्कदूतकार्येण।

जीवन्ति नरा नित्यं मेषगणे दशमराशिस्थे॥66॥

वृषभगणे दशमस्थे शकटचतुष्टपदविहङ्गमृगजीवी।

धान्यादिसङ्ग्रहेण च जाङ्गलदेशे फलं प्रायः॥67॥

जलवणिजः(आदि) सुसमृद्ध्या मुक्ताशङ्खप्रवालभाण्डैश्च।

लिपिगणितलेख्यजीवी नृमिथुनवर्गे दशमसंस्थे॥68॥

शस्त्राग्नियोनिपोषणमुक्तासंख्योपजीवनं(शल्यो) चैव।

(आहिण्ड)आखेटकवृत्ता वा कर्किणि वर्गे च दशमस्थे॥69॥

(संव्यूहकाः)सन्नाहका मणीनां पाषाणस्वर्णरूप्यकूटांश्च(कुल्यानाम्)।

कर्षणनिरता लेये गोजीवा धान्यवाणिजकाः॥70॥

शाकटिका मणिकारा हैरण्या गन्धविक्रये निपुणाः।

गान्धर्वशिल्पलेख्यैः कन्यावर्गे सदा विभवाः॥71॥

(दुप)प्रायोज्यनुपदेशाद्धिरण्यपरिवर्तनाच्च (मित्राच्च)मित्राय।

जायन्ते च मनुष्या नानाव्यवहारभागिनः सततम्॥72॥

वाणिज्यविपणिजीवा(विपण) गोजीवा (भिषज)महिषजीवाश्च।

नानापण्यसमृद्धाः सलिलोद्भवपण्यवृत्तयः ख्याताः॥73॥

धनधान्यमूलवणिजः (कृषिबलाच्चैव)फलमूलकृषीबलाश्चैव।

जायन्ते घटवर्गे दशमस्थानस्थिते कलावृत्ताः॥74॥

स्त्रीसम्पर्कजविभवा जायन्ते (रताः)कर्षणानुनिरताश्च।

नित्योद्युक्ताश्चौराः पृथिवीपतिसेवकाः पापाः॥75॥

देहचिकित्सानिरता लोहकरा जीविनोऽलिसंज्ञर्क्षे।

वर्गे नभस्तलगते धान्यानां चोप जीविनो नित्यम्॥76॥

नृपसचिवदुर्गपालनगोजीवनवाजिकाष्ठशकुनैश्च।

यन्त्रोपस्करगणितैर्जीवन्ति नराश्चिकित्सया धनुषः॥77॥

दशमे कुरङ्गवर्गे जलपण्यधनो भवेन्महाविभवः।

(वामा)खट्वारामारोपणरसायनैर्वर्तते जातः॥78॥

शस्त्रदहनप्रभेदैश्चौर्येण(शौर्येण) च वर्तते खननवृत्त्या।

दशमे घटधरवर्गे भारवहस्कन्धबाहुबलात्॥79॥

शस्त्रात्सलिलाद्योनिप्रपोषणदश्वविक्रयाद्वाऽपि।

वर्गे मीनप्रभवे दशमस्थे जायते वृत्तिः॥80॥

दिवसकराद्यैः खस्थैः शशिहोराभ्यां भवन्त्याढ्याः।

पितृमातृशत्रु हितजनसहजस्त्रीभृत्यवर्गेभ्यः॥81॥

होरागतैर्धनगतैरायगृहस्थैश्च चिन्तयेदर्थम्।

बलसंयुतैर्ग्रहेन्द्रैरनेकधा (पृष्ठम्)दृष्टमाचार्यैः॥82॥

इति कल्याणवर्मविरचितायां सारावल्यां कर्मचिन्ताध्यायस्त्रयस्त्रिशः॥

चतुस्त्रिंशोऽध्यायः[सम्पाद्यताम्]

(इस अध्याय में उक्त फलों के लिये तुलना करें वृद्ध यवन जातक अध्याय 1, 2, 3, 5, 7, 11 )

रविदृष्टे प्राग्लग्ने विक्रान्तः स्त्रीषु रोषणः क्रूरः।

पितृपक्षलब्धविभवो नरेन्द्रसेवी (प्रदूषणख्यातः)भवेज्जातः॥1॥

स्त्रीणां वश्चः सुभगो दाक्षिण्यमहोदधिः प्रचुरकोषः।

चन्द्रेक्षिते विलग्ने मार्दवजलपण्यवान् भवति॥2॥

साहससङ्ग्रामरुचिश्चण्डस्फुटबान्धवोऽतिधर्मरतः।

उदये कुजसन्दृष्टे भवति नरः स्थूलशोफश्च॥3॥

बुधदृष्टे प्राग्लग्ने शिल्पकलावि‍द्यया समभिपूर्णः।

भवति नरो (निपुणमतिः)विपुलमतिः कीर्तिकरो मानसंयुक्तः॥4॥

इज्याव्रतनियमपरा नृपपूज्याः ख्यातकीर्तयो मनुजाः।

लग्ने सुरगुरुदष्टे सज्जनगुर्वतिथिसंयुक्ताः॥5॥

वेश्यास्त्रीजनबहुलास्तरुणाः(बुभगाः) सम्पन्नभोगधनसौख्याः।

शुक्रेक्षित विलग्ने भवन्ति मनुजाः सुरूपाश्च॥6॥

भाराध्वरोगतप्ताः क्रुद्धाः वृद्धस्त्रिया युता विसुखाः।

मन्देक्षिते विलग्ने मलिना मूखार्श्च जायन्ते॥7॥

(हो.र. 7 अ. 86 पृ.।)पश्यन्ग्रहः स्वलग्नं सर्वं विदधाति सौख्यमर्थं च।

प्रायो नृपप्रियत्वं पापः शुभं च शुभः॥8॥

एकेनापि न दृष्ट समस्तगुणवर्जितं लग्नम्।

स्वगृहस्वभावसहितं जनयति खलु केवलं नित्यम्॥9॥

द्व्यादिग्रहसन्दृष्टं प्रायेण (सुखावहं)सुखार्थदं भवति लग्नम्।

एकेनापि शुभेन च न तु पापैरिष्यते सद्भिः॥10॥

सर्वैर्गगनभ्रमणैर्दृष्टे लग्ने भवेन्महीपालः।

बलिभिः समस्तसौख्यो विगतभयो दीर्घजीवी च॥11॥

लग्ने त्रयो विगतशोकविवर्द्धितानां

कुर्वन्ति जन्म शुभदाः पृथिवीपतीनाम्।

पापास्तु रोगभयशोकपरिप्लुतानां

बह्वाशिनां सकललोकतिरस्कृतानाम्॥12॥

लग्नात्षष्ठमदाष्टमे यदि शुभाः पापैर्न युक्तेक्षिताः

मन्त्री दण्डपतिः क्षितेरधिपतिः स्त्रीणां बहूनां पतिः।

दीर्घायुर्गदवर्जितो गतभयो लग्नाधियोगे भवेत्

सच्छीलो यवनाधिराजकथितो जातः पुमान्सौख्यभाक्॥13॥

स्वगृहोच्चसौम्यवर्गे ग्रहः फलं पुष्टमेव विदधाति।

नीचर्क्षरिपुगृहस्थो विगतफलः कीर्तितो मुनिभिः॥14॥

(हो.र.7 अ. 104 पृ.)रविरविजभूमितनयाः कुटुम्बसंस्था विलोकनाद्वाऽपि।

कुर्वन्ति धनविनाशं क्षीणेन्दुनिरीक्षता विशेषेण॥15॥

रविभौमो धनसंस्थौ त्वग्दोषदरिद्रताकरौ कथितौ।

मन्दः कुरुते शुद्धो महार्थयुक्तं बुधेक्षितस्तत्र॥16॥

रविरपि (विविधं)विधनं जनयति यमेक्षितः शस्यतेऽयदृष्टश्च।

सौम्याः कुटुम्बराशौ बहुप्रकारं धनं दद्युः॥17॥

बुधदृष्टस्त्रिदशगुरुः कुटुम्बराशौ च निस्वतां कुरुते।

सोमतनयोऽपि शशिना निरीक्षितो हन्ति सर्वधनम्॥18॥

चन्द्रोऽपि धनस्थाने क्षीणोऽपि बुधेक्षितः सदा कुरुते।

पूर्वार्जितार्थनाशं निरोधमपि चान्यवित्तस्य॥19॥

शुक्रः कुटुम्बभवने चन्द्रेण निरीक्षितः प्रधनदाता।

सौम्यग्रहेण दृष्टो स एव धनदः सदा ज्ञेयः॥20॥

पापभवनं तृतीयं समस्तपापैर्युतं सहजहन्तृ(सहजहन्ता)।

विपरीतमितः श्रेष्ठः संख्यां तेषां प्रवक्ष्यामि॥21॥

यावन्तो नवभागा यदागताः सहजराशौ तु।

तत्संख्या कुर्वन्ति च दृष्टास्त्वन्यैस्तथा बहवः॥22॥

तत्र स्थितो रविसुतः कुजेन दृष्टो विनाशयति जातान्।

शुक्रो गुरुसंदृष्टः पुष्णाति सदैव दायादान्॥23॥

सौम्यो(अङ्गारक) भास्करदृष्टः सुहृदां परिसंक्षयं सदा कुरुते।

भावाध्याये कथितं शेषं परिकल्पयेदत्र॥24॥

(हो. र. 6 अ. 135 पृ.)सुतभवनं(सुतभवनमथ सुभयुत) शुभयुक्तं शुभदृष्टं वा शुभर्क्षमिह येषाम्।

तेषां प्रसवः पुंसां भवत्यवश्यं न विपरीते॥25॥

एकतमे गुरुवर्गे (शुभराशौ सौरसो भवेत्पुरुषः, चौरसो भवेत्पुत्रः)शुभराशावौरसो भवेत्पुत्रः।

लग्नाच्चन्द्राथवा बलयोगाद्वीक्षितेऽपि वा सौम्यैः॥26॥

संख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा।

शुभदृष्टे तद्द्विगुणा क्लिष्ष्टा पापांशकेऽथवा दृष्टे॥27॥

(सोम्यर्क्षे हो. र. र. अ. 135 पृ.)सौरर्क्षे सौरगणो बुधदृष्टो (नगुरुभौम)गुरुकुजार्गदृग्धीनः।

क्षेत्रजपुत्रं जनयति बौधऽपि गणो रविजदृष्टः॥28॥

मान्दं (शुभर्क्षे)सुतर्क्षमिन्दुर्निरीक्षिते यदि शनैश्चरेण युतम्।

दत्तकपुत्रोत्पत्तिः क्रीतश्च बुधस्य चैवं स्यात्॥29॥

सप्तमभागे कौजे सौरयुते पञ्चमे सदा भवने।

कृत्रिमपुत्रं विन्द्याच्छेषग्रहदर्शनान्मुक्ते॥30॥

वर्गे पञ्चमराशौ सौरे सूर्येण वाऽत्र संयुक्ते।

लोहितदृष्टे (वा स्याज्जातस्य)वाच्यो जातस्य (हि बीजजः पुत्रः, यतोऽधमः पुत्रः, सुतोधमापुत्रः, सुतोधनप्रसवः)सुतोऽधमप्रभवः॥31॥

चन्द्रे भौमांशगते धीस्थे मन्दावलोकिते भवति।

गूढोत्पन्नः पुत्रः (दर्शनायते)शेषग्रहदर्शनाभावे॥32॥

तस्मिन्नेव च भौमे शनिवर्गस्थे निरीक्षिते रविणा।

पुरुषस्य भवति पुत्रोऽपविद्ध इति करुणमुनिवचनात्॥33॥

शनिवर्गस्थे चन्द्रे शनियुक्ते पञ्चमे सदा भवने।

शुक्ररविभ्यां दृष्टे पुत्रः पौनर्भवो भवति॥34॥

चन्द्रो यदार्कसक्तः कलत्रसंस्थस्तथैव पञ्चमे गेहे।

रविदृष्टोऽप्यथ सहितः कानीनः संभवेत्पुत्रः॥35॥

वर्गे रविचन्द्रमसोः सुतगेहे चन्द्रसूर्यसंयुक्ते(चन्द्रसूर्ययोर्गेहे)।

शुक्रेण (दृष्टि)दृष्टमात्रे पुत्रः कथितः सहोढश्च॥36॥

पापैर्बलिभिर्युक्ते पापर्क्षे पञ्चमे सदा राशौ।

जातोऽपुत्रः पुरुषः सौम्यग्रहदर्शनातीते॥37॥

शुक्रनवांशे तस्मिन्शुक्रेण(शुक्रे दष्टे, शुक्र सुदृष्टे बहून्यपत्यानि) निरीक्ष‍िते त्वपत्यानि।

दासीप्रभवानि वदेच्चन्द्रादपि केचिदाचार्याः॥38॥

सितशशिवर्गे धीस्थे ताभ्यां दृष्टे वाऽपि संयुक्ते।

प्रायेण कन्यकाः स्युः समराशिगणेऽपि चान्यथा पुत्राः॥39॥

लग्नाद्दशमे चन्द्रे सप्तमसंस्थे भृगोः पुत्रे।

पापैः पातालस्थैर्वंशच्छेत्ता भवेज्जातः॥40॥

भौमः पञ्चमभवने जातं जातं विनाशयति पुत्रम्।

दृष्टे गुरुणा प्रथमं सितेन न च सर्वसंदृष्टः॥41॥

धनजनसुखहीनः पञ्चमस्थैश्च पापै -

र्भवति विकल एव क्ष्मासुते तत्र जातः।

दिवसकरसुते च व्याधिभिस्तप्तदेहः

सुरगुरुबुधशुक्रैः सौख्यसंपद्धनाढ्यः॥42॥

(हो.र.7 अ. 158 पृ.)रिपुभावे क्षितिसूनुर्मन्देन निरीक्षितो दिशति शत्रून्।

शुभयुक्तः शुभदृष्टः शत्रुभयं चैव नात्यन्तम्॥43॥

क्षेत्रे(क्षेत्रगृहेश) ग्रहेन्द्रतुल्यां संख्यां तेषां विनिर्दिशेत्प्राज्ञः।

भावाध्यायेऽभिहितं विस्तृतश्चिन्तयेच्छेषम्॥44

(हो. र. 7 अ. 168 पृ.)शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्च

द्वाभ्यां कलत्रभवने च तथैककेन।

एषां गृहेऽपि च (गणेऽथ)गणेऽपि विलोकिते वा

सन्ति स्त्रियो भवनवर्गखगस्वभावाः॥45॥

एवं क्रूरैर्नाशो लग्नाच्चन्द्राद्भवेच्च बलयोगात्।

शशिरविजयोः कलत्रे भार्या पुंसां पुनर्भुः स्यात्॥46॥

भवनाधिपांशतुल्या भवन्ति नार्यो निरीक्षणाद्वाऽपि।

एकैव रविकुजांशे गुरुबुधयोश्चापि जामित्रे॥47॥

प्रायेण चन्द्रसितयोर्वर्गे(वर्गयुतेभे, बलयुक्ते वा)युक्तेऽथवापि जामित्रे।

दृष्टे वा बहुपत्न्यो भवन्ति शुक्रे विशेषेण॥48॥

गुरुशुक्रयोः (सवर्णा हो. र. 7 अ. 169 पृ.)स्ववर्णा रविकुजशशिभानुजैर्भवन्त्यूनाः।

शुक्रे वेश्याप्राश्चन्द्रेऽपि वदन्ति केतुमालाख्याः॥49॥

भौमे कलत्रसंस्थे नित्यं(नित्यवियुक्तो) वियुतो (त्तदा)भवेत् स्त्रिया पुरुषः।

म्रियते(मारयति मन्ददृष्टे) वा शनिदृष्टे योषिदवश्यं न दृष्टेऽन्यैः॥50॥

द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः।

धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम्॥51॥

(लग्नव्ययषष्ठगयोः)लग्नाद्व्यपरिपुगतयोः (शनिभार्गवयोः, शास्करयोर्वदन्ति)शशाङ्कभान्वोर्वदन्ति पुरुषस्य।

प्रभवं समस्तमुनयः क्रमेण पत्न्याः सहैकनयनस्य॥52॥

लग्नस्थे रवितनये गण्डान्ते भार्गवे कलत्रगते।

वन्ध्यापतिस्तदा स्याद्यदि न सुतर्क्षं शुभैर्युक्तम्॥53॥

(व्ययदशमस्थैः)लग्नव्ययमदनस्थैः पापैः क्षीणे निशाकरे धीस्थे।

स्त्रीहीनो भवति नरः पुत्रेश्च विवर्जितो नूनम्॥54॥

यमभूमिजयोर्वर्गे द्यूनस्थे तदवलोकिते शुक्रे।

जातो भवत्यवश्यं पत्न्या सह पुंश्चलः पुरुषः॥55॥

बुधभार्गवयोरस्ते स्त्रीहीनो जायते ह्यपुत्रश्च।

दृष्टे शुभैश्च वाच्याः परिणतवयसः सदा प्रमदाः॥56॥

भार्गववाक्यपतिसौम्यैः प्रमदाभावने शशाङ्कयुक्तैश्च।

एकैकेन हि तेषां पुरुषस्य विभूतयो (विपुला)बहुलाः॥57॥

रविदृष्टे युक्ते वाऽप्यायक्षेत्रे भवेत्सदा नृपतेः।

भवति धनं शुद्धाद्यैश्चोरवन(धन)चतुष्पदाद्यैश्च॥56॥

स्त्रीजनहस्तिप्रायं(जल) शशाङ्कवर्गे (थ युते)शशीक्षिते युक्ते।

क्षीणे क्षयोऽथ पूर्णे वृद्धिः स्यादायगे वृत्तेः॥59॥

हेमप्रवालभूषणमाणिक्यधनं कुजे भवेदेवम्।

साहसगमनागमनैः पावकशस्त्रैश्च वक्तव्यम्॥60॥

आये बुधेऽपि वर्गे दृष्टे युक्तेऽथवा भवेद्वि(न्नित्यम्)त्तम्।

शिल्पादिलेख्यकाव्यैर्युक्तिप्रायं तथा सुतराम्॥61॥

नगरजन(यानयोगैः)योगभोगैः क्रतुभिश्च तथा विशिष्टपुण्यैश्च।

हेमप्रायं वित्तं जीवेऽपि तुरङ्गमाकीर्णम्॥62॥

वेश्यास्त्रीसंयोगैर्गमनागमनैर्धनं भवति पुंसाम्।

आये (सुते)सितेऽपि चैवं मुक्तारजतादिभूयिष्ठम्॥63॥

नगरपुरवृन्दयोगैः स्थावरकर्मक्रियाभिरपि वित्तम्।

लोहखरवृन्दबहुलं(महिषबहुल) रविजेऽपि तथाऽस्य वर्गे च॥64॥

एवं फलनिर्देशः सौम्यैर्दृष्टे विशेषतो वाच्यः।

कूरैश्च समुपघातो मिश्रैर्मिश्रस्तदा पुंसाम्॥65॥

सर्वग्रहयुतदृष्टे बहुप्रकारेण निर्दिशोद्वित्तम्।

बलवान्यस्तत्र भवेदतिरिक्तं सम्प्रयच्छति च॥66॥

मित्रस्वगृहगतोऽर्धं स्वोच्चे पूर्णं तथास्तगः किञ्चित्।

शत्रुगृहस्थश्चरणं ददाति विहगस्तदाये(सदा च भवे, सदाये तु) तु॥67॥

आजन्मतो नराणां भवति धनं निश्चितं यवनवृद्धैः।

क्षितिपतिमाण्डलिकानामपरिमितं प्राह लोकाक्षः॥68॥

(हो. 7 अ. 263 पृ.)भानौ क्षीणे चेन्दौ व्ययभवने भूपतिर्हरति वित्तम्।

भौमे बुधसंदृष्टे बहुप्रकारो भवेन्नाशः॥69॥

गुरुचन्द्रदानवेज्या व्ययभवने वित्तपोषणं कुर्युः।

भूमितनयेन दृष्टा भावाध्यायोक्तमन्यच्च॥70॥

लग्ने बुधदृक्काणे(द्रेक्का) शशि (नि?) ना दृष्टे चतुष्टयस्थाने।

जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चितं मुनिभिः॥71॥

नीचे सौरनवांशे शुक्रेन्त्ये रविशशाङ्कयोर्मदने।

मन्दये विलोकितयोर्माता दासो महाकुलेऽपि स्यात्॥72॥

सूर्याद्द्वितीयराशौ भास्करतनये खमध्यगे चन्द्रे।

भौमे सप्तमभवने विकलोऽस्मिन्सर्वदा जातः॥73॥

मध्ये पापग्रहयोश्चन्द्रे मदनस्थितेऽर्कजे जन्तोः।

श्वासक्षयविद्रधिना (प्लीहादि)गुल्मप्लीहातिपीडितस्य(स्सुभगः) भवः॥74॥

सूर्यांशे यदि चन्द्रश्चन्द्रांशे भास्करो (यदि शोषी)यदा श्लेष्मी।

(एकतर)सममेकराशिगतयोर्दुबलदेहः सदा पुरुषः॥75॥

निधनधनारिव्ययगा रविचन्द्रकुजार्कजा (यथायोगं)नियतम्।

नयनविघातं कुर्युर्बलवद्ग्रहदोषसंभूतम्॥76॥

धर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः।

(नयन)श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम्॥77॥

उदये दिनकरपुत्रे त्रिकोणमदने(भवने) कुजे च सोन्मादः।

क्षीणे शशिनि ससौरे याते वा व्ययगृहे जातः॥78॥

इति कल्याणवर्मविरचितायां सारावल्यां लोकयात्रा नाम चतुस्त्रिंशोऽध्यायः॥

पञ्चत्रिंशोध्यायः[सम्पाद्यताम्]

राजोपयोगिशास्त्रं यस्मात्प्रभवो विशेषतस्तेषाम्।

सञ्चिन्त्या नृपयोगास्तानेवाहं(वातः) प्रवक्ष्यामि॥1॥

स्वोच्चत्रिकोणगृहगैर्बलसंयुतैश्च

त्र्याद्यैर्नृपो भवति भूपतिवंशजातः।

पञ्चादिभिर्जनपदप्रभवोऽपि(जनपदेऽपि वदन्ति) सिद्धो

होनैः क्षितीश्वरसमो न तु भूमिपालः(द्र. वृ. पा. 39।44, 45 तथा वृ. जा. 11।13।)॥2॥

अशुभगगनवासैः स्वोच्चगैः क्रूरचेष्टं

कथयति यवनेन्द्रो भूपति विक्रमोत्थम्।

न तु भवति नरेन्द्रो जीवशर्मोक्तपक्षे

भवति नृपतियोगैः सत्कृतो राष्ट्रपालः॥3॥

एष्विह भवन्त्यवश्यं भूपतियोगेषु नीचकुलपुरुषाः।

तानग्रतः प्रवक्ष्ये यथामतं शास्त्रकाराणाम्॥4॥

स्वोच्चस्थै रविभौमसौरगुरुभिः सर्वैस्त्रिभिश्चैकगै(भे)

र्लग्ने षोडश वृद्धतापसगणैः सन्दर्शिताः पार्थिवाः।

द्वाभ्यां चैकतमोदये स्वभवने चन्द्रे पुनः षोडश

सर्वो नीचकुलोद्भवोऽपि वसुधां (पात्येक)पात्येव वाटीमिव॥5॥

गणोत्तमे लग्ननवांशकोद्गतो(ग्दभे) निशाकरश्चापि गणोत्तमेऽथवा।

चतुर्ग्रहैश्चन्द्रविवर्जितैस्तदा निरीक्षितः स्यादधमोद्भवो(भवेन्नृपः) नृपः(द्र.वृ. पा.39।42-43 तथा वृ. जा.11।3)॥6॥

(हो. र. 5 अ. 668पृ.)उदयगिरिनिविष्टैर्मेषसंस्थैर्ग्रहेन्द्रैः

शशिरुधिरसुरेड्यैर्जायते पार्थिवेन्द्रः।

जलनिधिरशनायाः पालकः सर्वभूमे-

र्हतरिपुपरिवारः सर्वतः फूत्करोति॥7॥

स्वोच्चे गुराववनिजे क्रियगे विलग्ने।

मेषोदये च सकुजे वचसामधीशे।

भूपो भवेदिह स यस्य विपक्षसैन्यं

तिष्ठेन्न(तिष्ठेत) जातु पुरतः सचिवा वयस्या॥8॥

निशाभर्ता चाये भृगुतनयदेवेड्यसहितः

कुजः प्राप्तः स्वोच्चे मृगसुखगतः सूर्यतनयः।

विलग्ने कन्यायां शिशिरकर सूनुर्यदि भवेत्

तदाऽवश्यं राजा भवति बहुविज्ञानकुशलः॥9॥

स्वर्क्षे नक्षत्रनाथः स्फुटरनिकरालङ्कृतः प्राप्तलग्नो

द्यूने सोमस्य पुत्रो यदि रिपुभवनं भास्करः सम्प्रयातः।

पाताले दानवेड्यो गुरुरपि गगने सौरभौमौ तृतीये

सद्भूपालो भवेद्यः शशिकरधवलं चामरं राजलक्ष्मीम्॥10॥

वर्गोत्तमगते चन्द्रे लग्ने वा चन्द्रवर्जिते।

चतुराद्यैर्ग्रहैर्दृष्टे जातो नरपतिर्भवेत्॥11॥

शिशिरकिरणे स्वोच्चे लग्ने पयोम्बुनिधेः समे

घटधरगते भानोः पुत्रे मृगाधिपतौ रविः।

अलिगृहगतो वाचां नाथः स्फुरत्करराजितो

यदि नरपतिः स्फीतश्रीकस्तदा बहुबाहनः॥12॥

मृगे मन्दे लग्ने कुमुदवनबन्धुश्च तिमिग-

स्तथा कन्यां त्यक्त्वा बुधभवनसंस्थः कुतनयः।

स्थितो नार्यां सौम्यो धनुषि सुरमन्त्री यदि भवेत्

तदा जातो भूपः सुरपतिसमः प्राप्तमहिमा॥13॥

उदयति मीने शशिनि नरेन्द्रः सकलकलाढ्यः क्षितिसुत उच्चे।

मृगपतिसंस्थे दशशतरश्मौ घटधरगे स्याद्दिनकरपुत्रे॥14॥

कुजे विलग्ने च शशी यदास्‍ऽते स्फुटांशसम्भारविराजिताङ्गः।

राजा तदा शत्रुभिरप्रधृष्यो वेदार्थविद्धेतुशतानुवादैः(सदानुभावैः)॥15॥

करोत्युत्कृष्टोद्यद्दिनकृदमृताधीशसहितः

स्थितस्तादृग्रूपं सकलनयनानदजननः।

अपूर्वोऽयं स्मृत्या नयनजलसिक्तोऽपि सततं

रिपुस्त्रीशोकाग्निर्ज्वलति हृदयेऽतीव सुतराम्॥16॥

शुक्रो घटे कुजो मेषे स्वोच्चे देवपुरोहितः।

यदि राजा भवेन्नूनं स्वयशोधौतदिङ्मुखः॥17॥

उदयति गुरुरुच्चे तप्तहेमप्रभावो

हरिततुरगनाथो व्योममध्यावगाही।

गदि शशिबुधशुक्रा यस्य सूतो नरस्य

स्वभुजविजितभूमिः सर्वतः पार्थिवेन्द्रः॥18॥

धनुषि सुरेड्यः शशभृदुपेतो मृगमुखसंस्थः क्षितितनयश्च।

उयति तुङ्गे सुररिपुवन्द्यः शशितनयो वा यदि नृपतिः स्यात्॥19॥

चापार्धे भगवान्सहस्रकिरणस्तत्रैव ताराधिपो

लग्ने भानुसुतोऽतिवीर्यसहितः स्वोच्चे च भूनन्दनः।

यद्येवं भवति क्षितेरधिपतिः सञ्चिन्त्य शौर्यं भयात्

दूरादेव नमन्ति यस्य रिपवो दग्धाः प्रतापाग्निना॥20॥

षष्ठं द्यूनमाष्टमं शिशिरगोः प्राप्ताः समस्ताः शुभाः

क्रूराणां यदि गोचरे न पतिता भान्वालयाद्दूरतः।

भूपालः प्रभवेत्स यस्य जलधेर्वेलावनान्तोद्भवैः

सेनामत्तकरौन्द्रदानसलिलं भृंगैर्मुहुः पीयते॥21॥

न प्राप्नोति जरामाशु नो भजत्यरितो भयम्।

जातः स्यादधियोगेऽस्मिन्धृतिसौभाग्यसौख्यभाक्॥22॥

बुधः स्वोच्चे लग्ने ‍तिमियुगलगावीड्यशशिनौ

मृगे मन्दः सारी जितुमगृहगो दानवसुहृते।

य एवं कुर्यात्स क्षितिभृदहितध्वंसनिरतो

निरालोकं लोकं चलितगजसङ्घातरजसा॥23॥

केसरिगो महेन्द्रसचिवो दिनकरसहितः

कुम्भगतोऽर्कजः शशधरः खलु भवति वृषे।

वृश्चिकभे क्षितेस्तु तनयो मिथुन इन्दुसुतो

मेषलग्नसमुदयो यदि स तु मनुजपतिः॥24॥

कार्मुके त्रिदशनायकमन्त्री भानुजो वणिजि चन्द्रसमेतः।

मेषगस्तु तपनो यदि लग्ने भूपतिर्भवती सोऽतुलकीर्तिः॥25॥

(स्वर्क्षे)स्वार्क्षात्केन्द्रेषु यातैर्गुरुबुधभृगुजैर्मन्दभान्वारयुक्तैः

स्वोच्चे चन्द्रोऽधितिष्ठञ्जनयति नृपतिं कीर्तिशुक्लीकृताशम्।

अत्युच्चे लग्नसंस्थे रविरपि भागवान्पार्थिवं क्रूरचेष्टं

यातायातैः (समनताच्च)समस्तं चतुरुदधिजलं यस्य सेनाः पिबन्ति॥26॥

उदकचरनवांशके सुखस्थः(षे षष्ठः) कमलरिपुः सकलाभिराममूर्तिः।

उदयति विहगे शुभे स्वलग्ने भवति नृपो यदि केन्द्रगा न पापाः॥27॥

आपूर्णमण्डलकलाकलितं शशाङ्कं

पश्यन्ति शुक्रसुरपूजितसोमपुत्राः।

लग्नाधिपोऽतिबलवान्पृथिवीश्वरः स्यात्

वर्गोत्तमश्च नवमः खलु चेद्विलग्ने॥28॥

वर्गोत्तमे त्रिप्रभृतिग्रहेन्द्राः केन्द्रस्थिता ना शुभसंयुताश्च।

नो रूक्षधूमा न विवर्णदेहाः कुर्वन्ति राज्ञः प्रसवं प्रसन्नाः॥29॥

एक एव (ग्रहः)खगः स्वोच्चे वर्गोत्तमगतो यदि।

बलवान्मित्रसंदृष्टः करोति पृथिवीपतिम्॥30॥

शीर्षोदयर्क्षेषु गताः समस्ता नो चारिवर्गे स्वगृहे शशाङ्कः।

सौम्येक्षि(सौम्येक्षितः पूर्णकलो)तोऽन्यूनकलो विलग्ने दद्यान्महीं रत्नगजाश्वपूर्णाम्॥31॥

उपचयगृहसंस्थो जन्मपो यस्य चन्द्रात्

शुभगृहमथवांशे केन्द्रयाताश्च सौम्याः।

सकलबलवियुक्ता ये च पापाभिधानाः

स भवति नरनाथः शुक्रतुल्यो बलेन॥32॥

अत्युच्चस्था रुचिरवपुषः सर्वं एव ग्रहेन्द्रा

मित्रैर्दृष्टा यदि रिपुदृशां गोचरं न प्रयाताः।

कुर्युर्नूनं प्रसभमरिभिर्गर्जितैर्वारणाग्रयैः

सेनाश्वीयैश्चलति चलितैर्यस्य भूः पार्थिवेन्द्रम्॥33॥

परमोच्चे स्थितश्चन्द्रो यदि शुक्रेण दृश्यते।

कुर्यान्महीपतिं पूर्णं पापैरापोक्लिमोपगैः॥34॥

दृश्येते शुभदैः स्वकेन्द्रभवने मित्रैश्च पापैस्तथा

युद्धे नो रिपुभिर्जितौ बलयुतौ जन्मोदयर्क्षाधिपौ।

भूपः स्यान्निजराशिनामनवमे चन्द्रोदये चेद्यशो

यस्येभस्रुतदानलुब्धमधुपैश्चार्दिशं गीयते॥35॥

उच्चराशिर्भवेद्धोरा यस्यासौ कुरुते नृपम्।

स्वांशेऽथ सुहृदुच्चांशे दृष्टः केन्द्रोपगैः शुभैः॥36॥

स्थितो भानोः पुत्रो विरचितबलः पश्चिमार्धे मृगस्य

रविः सिंहे शुक्रस्तुलिनि रुधिरो मेषगः कर्किणीन्दुः।

कुमारीं सम्प्राप्तो यदि भवति वा शर्वरीनाथसूनुः

प्रजातो भूपा(श्चिरमवति गानेक)लश्छदयति महीमेकशुक्लातपात्राम्॥37॥

वर्गोत्तमस्वभवनेषु गता ग्रहेन्द्राः

सर्वे यदा रुचिररश्मिशिखाकलापाः।

उत्पद्यते जगति सीममतीं धरित्रीं

यः पालयेत्क्षितिपर्जितशत्रु(वर्गः)पक्षः॥38॥

केन्द्रेविलग्ननाथः सुहृद्भिरभिवीक्षितो (विहगनाथैः)विहगैः।

लग्नस्थिते च सौम्ये भूपतिरिह जायते (नियतम्)पुरुषः॥39॥

सुरपतिगुरुः सेन्दुर्लग्ने वृषे समवस्थितो

यदि बलयुतो लग्नेशश्च त्रिकोणगृहं गतः।

रविशनिकुजैर्वीर्योपेतैनं युक्तनिरीक्षितो

भवति स नृपः कीर्त्या हताखिलकण्टकः॥40॥

न नीचगृहसंस्थिता न च रिपोर्गृहं संगताः

स्वराशिमथवांशकानुदयगोच्चमंशं यदि।

कलाभिरतिभूषिते कुमुदषण्डबोधप्रदे

सुहृद्भिरभिवीक्षिताः क्षितिपतिं विदघ्युर्ग्रहाः॥41॥

यो यः पूर्णं शिशिरकिरणं प्राप्तवर्गोत्तमांशं

सुस्पष्टार्चिर्गगनगमनः पश्यति स्वोच्चसंस्थम्(संस्थः।वांशकंत्रय इहोच्चमंशं)।

स क्षोणीयं जनयति दशां प्राप्य सौम्यः स्वकीयां

ख्यातं लोके यदि बलयुताः कण्टकस्था न पापाः॥42॥

जन्मोदयभवनपती बलसहितौ केन्द्रभेऽथ हिबुके वा।

इन्दुर्जलगृहश्चेत्त्रिकोणगो वा महीपालः॥43॥

स्वगृहे मित्रभागेषु स्वांशे वा मित्रराशिषु।

कुर्वन्ति च नरं सूतौ सार्वभौमं नराधिपम्॥44॥

परमोच्चगताः सर्वे स्वोच्चांशे यदि सोमजः।

त्रैलोक्याधिपतिं कुर्युर्देवदानववन्दितम्॥45॥

यस्योत्तरस्यां भगवान्वसिष्ठो बृहस्पतिः प्रागपरे च भार्गवः।

अगस्त्यनामा खलु दक्षिणस्यां स नष्ट शत्रुश्च भवेन्नराधिपः॥46॥

शशी पूर्णः स्वांशे स्वगृहमथवा स्वोच्चभं वा प्रयातो

दिवः पातुर्मन्त्री दितिजगुरुणा वीक्षितः केन्द्रसंस्थः।

रविर्लग्ने स्वांशं यदि बलयुतः पश्चति स्यात्स भूपः

प्रभग्नं यस्येभश्चतुरुदधिभूशल्लकीनामरण्यम्॥47॥

कुमुदगहनबन्धौ वीक्ष्यमाणे समस्तै-

र्गगनगृहनिवासैर्दीर्घजीवी नरः स्यात्।

फलमशुसमुत्थं नैव केमद्रुमोत्थं

भवति मनुजनाथः सार्वभौमो जितारिः॥48॥

उच्चाभिलाषी सविता त्रिकोणे स्वर्क्षे शशी जन्मनि यस्य जन्तोः।

स शास्ति पृथ्वीं बहुरत्नपूर्णां बृहस्पतिः कर्कटके (कर्कटकोपगश्चेत्)यदि स्यात्॥49॥

तुङ्गेषु षड्विबुधमार्गवरा उपेताः

स्वांशे मयूखनिकरैः परिपूरिताङ्गाः(परिपूरिताशाः)।

उत्पादयन्ति कुलिशाङ्कितपाणिपादं

पृथ्वीपतिं सगरवेनययातितुल्यम्॥50॥

शुभभवनसमेतैः सौम्यभागेषु सौम्यैः

स्फुटरुचिरकराद्यैः प्रस्फुरद्भिर्विलग्ने।

रविमुषितमयूखैस्तैश्च पापैरमिश्रै-

र्गिरिगहननिवासी तापसः स्यान्नरेन्द्रः॥51॥

(इह)शुभपणफरगाः शुभप्रदा उभयगृहे यदि पापसंचयः।

स्वभुजहतरिपुर्महीपतिः सुरगुरुतुल्यमतिः प्रकीर्तितः॥52॥

विलग्ननाथः खलु लग्नसंस्थः सुहृद्गृहे मित्रदशां पथि स्थितः।

करोति नाथं पृथिवीतलस्य दुर्वारवैरिघ्नमिहोदये शुभे॥53॥

सम्पूर्णमूर्तिर्भगवान्शशाङ्को मेषांशकस्थो गुरुणा च दृष्टः।

नीचे न कश्चिन्न च वीक्षितोऽन्यैः प्राह क्षितीशं यवनाधिराजः॥54॥

लग्नाच्छशी त्रिरिपुलाभनभःस्थलेषु

सूतावखण्डितवपुः पृथवीश्वरः स्यात्।

दृष्टः सुरेन्द्रगुरुणा न च वीक्षितोऽन्यै-

र्जन्माधिपो दशमगः स्मरगोऽथवा स्यात्॥55॥

विभ्रद्रश्मिकरालपूर्णपरिधिर्नक्षत्रसमपालक

स्तुङ्गांशे समवस्थितैश्च सकलैः प्रोद्वीक्षितो व्योमगैः।

कुर्याद्भूमिपतिं यशस्यचरितं हस्त्यश्वसैनयं जगत्

योऽव्याच्छेषफणीन्द्रतुल्यमखिलोर्वीभारखिन्नः श्वसन्॥56॥

सुधामृणालोपमबिम्बशोभितः स्वांशकस्थैर्न नीचै-

र्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः।

तनयभवनसंस्थैर्नापि सूर्यप्रविष्टैः

भवति मनुजनाथः कीर्तिशुक्लीकृताशः॥58॥

नीचारिवर्गरहितैर्विहगैस्त्रिभिस्तु

स्वांशोपगैर्बलयुतैः शुभदृष्टैः।

गोक्षीरशङ्खधवलो मृगलाञ्छनश्च

स्याद्यस्य जन्मनि स भूमिपतिर्जितारिः॥59॥

कुमुदगहनबन्धुं श्रेष्ठमंशं प्रपन्नं

यदि बलसमुपेतः पश्यति व्योमचारी।

उदयभवनसंस्थः पापसंज्ञो न चैव

भवति मनुजनाथः सार्वभौमः सुदेहः॥60॥

वर्गोत्तमे हिमकरः सकलः स्थितोंऽशे

कुर्यान्महीपतिमपूर्वयशोभिरामम्।

यस्याश्ववृन्दखुरयातरजोभिभूतो

भानुः प्रभातशशिनोऽनुकरोति रूपम्॥61॥

वर्गोतमे हिमकरः सकलः स्थितोंऽशे

कुर्यान्महीपतिमपूर्वयशोभिरामम्।

यस्याश्ववृन्दखुरयातरजोभिभूतो

भानुः प्रभातशशिनोऽनुकरोति रूपम्॥62॥

सर्वग्रहकृते योगे चक्रवर्तीश्वरो भवेत्।

एकैकेन तथा जाता मण्डलानामधीश्वराः॥63॥

एकोऽपि विहगः कुर्यात्पञ्चमांशगतो नृपम्।

समस्तबलसम्पन्नश्चक्रवर्तिनमेव च॥64॥

यदि पश्यति चन्द्रमसं विबुधगुरुर्वृषभसंस्थितं(संस्थितः) प्रसवे।

अवति पृथिवीमुदग्रां स्फुरन्मणिद्योतितदिगन्ताम्॥65॥

कुर्यात्तुङ्गे त्रिकोणे वा स्वराशिस्थो विलोकयन्।

ग्रहस्तुषारकिरणं निषादमपि पार्थिवम्॥66॥

स्वगृहे तृतीयभागे शशी स्थितः पार्थिवं यदा कुरुते।

परिपूर्णबलः शुभदो यदि प्रसूतौ महाराजम्॥67॥

स्वांशे दिवाकरो यस्य स्वक्षेत्रे च क्षपाकरः।

स राजा गजदानौघधीकरोक्षिप्तभूतलः॥68॥

लग्ने रवि(सितयुक्ते)पुत्रसंयुते देवेज्येऽस्त(गृहेण चोदिते)गते नवोदिते।

दृष्टेऽसुरराजमन्त्रिणा ग्रामीणो नृपतिर्भवेदिह॥69॥

उदयेऽसुरमन्त्रिवरो गुरुभे गुरुदृष्टिंपथं च गतः।

कुरुते नियतं सनृपं यदि तुङ्गतश्च बुधः॥70॥

शुक्रभास्करेन्दवो (भाग)भावमेवमाश्रिताः।

जीवदृष्टमात्रकाः स्यात्तथा महीपतिः॥71॥

लग्नगाः सितशशाङ्कजभौमाः सप्तमे शशिनि वाक्यपतियुक्ते।

तिग्मरश्मितनयेन च दृष्टे जायते पृथुयशः पृथिवीशः॥72॥

विबुधगुरुर्यदि भौमनवांशे रुधिरनिरीक्षिपूर्णबलश्च।

जनयति कुत्सिजन्ममहीपं क्रियपरिसंस्थितकर्मगतोऽर्कः॥73॥

तृतीयगाःशुक्रशशाङ्कभास्कराः कुजोऽस्तसंस्थो नवमे बृहस्पतिः।

गणोत्तमो लग्नगृहांशकोद्गमो यदा तदा हीनकुलो महीपतिः॥74॥

जीवो बुधो भृगुसुतोऽथ निशाकरो वा

धर्मे त्रिशुद्धतनवः स्फुटरश्मिजालाः।

मित्रैर्निरीक्षितयुता यदि सूतिकाले

कुर्वन्ति देवसदृशं नृपतिं महान्तम्॥75॥

तपोगृहं यस्य भवेत्तदुच्चकं ग्रहेण तेनाथ युतं निरीक्षितम्।

ग्रहद्वयं स्वोच्चगतं यदा भवेत्तदा कुटुम्बनी नियतं महीपतिः॥76॥

सुतभवने (यदि देवनमस्यो)शशिदेवनमस्यौ भवनपतिप्रसमीक्षितदेहौ(देहः)।

भृगुतनयो यदि मोनसमेतो भवति नृपः खलु कुत्सितवंशः॥77॥

चन्द्रस्त्रिपुष्करस्थः स्वोच्चे वचसां पतिः सलक्ष्मीकम्।

उत्पादयति स्वामिनमुत्तमपात्रं(न्नतमनसं) समग्रभुवः॥78॥

केन्द्रस्वोच्चमुपेतः सुरमन्त्री दशमगो यदा शुक्रः।

नूनं स भवति पुरुषः समस्तपृथ्वीश्वरः ख्यातः॥79॥

स्वर्क्षे (शनिः, यदा)शशी विपुलरश्मिशिखाकलापाः

स्वांशे स्थिता बुधबृहस्पतिदानवेज्याः।

पातालगा दिनकरेण निरीक्षिताश्च

संसूचयन्ति नृपतिं (नृप)द्विजमुख्यजातम्॥80॥

रविर्नभस्थः स्वत्रिकोणगोऽपि वा स्वराशिसंस्थाः सितजीवचन्द्राः।

तृतीयषष्ठायगताश्च चन्द्रात्कुर्वन्ति गोपालमिह क्षितीशम्॥81॥

सप्तमभवने सौम्या मित्रांशगताः सुहृद्भिरिह दृष्टाः।

उच्चे कुजो यदि नृपः समस्तनृपपालकः श्रेष्ठः॥82॥

रविशशिबुधशुक्रैर्व्योम्नि(वक्त्रैः) मित्रांशकस्थै-

र्न च रिपुभवनस्थैर्नाप्यदृश्यैर्न नोचैः।

स तपसि भृगुपत्रे भूपतिः स्त्यात्प्रयाणे

गजमदजलसेकैर्लीयते(र्विघ्यते) यस्य रेणुः॥83॥

स्वोच्चै भानुः प्रकटितबलो व्योममध्ये सजीवः

शुक्रो धर्मे यदि(कुजयुतः) बलयुतः स्वं नवांशं प्रपन्नः।

लग्ने वर्गे शुभगगनगो राजपुत्रेण दृष्टः

पृथ्वीपालो धवलितजगत्स्यात्सितैः स्वैर्यशोभिः॥84॥

वृषे शशी लग्नगतः सुपूर्णः सितेन दृष्टो वणिजि स्थितेन।

बुधोऽपि पातालगतो यदि स्यात्तदान्यजातो भवति क्षितीशः॥85॥

क्षमासुतः स्वोच्चमुपाश्रितो (बली)यदा रवीन्दुवाचस्पतिभिर्निरीक्षितः।

भवेन्नरेन्द्रो यदि कुत्सितस्तदा समस्तपृथ्वीपरिरक्षणे क्षमः॥86॥

जायतेऽभिजिति(जगति) यः शुभकर्मा भूपतिर्भवति सोऽतुलवीर्यः।

नीचवेश्मकुलजोऽपि नरोऽस्मिन् राजयोग इति न (सव्यपदेशः)व्यपदेशः॥87॥

गण्डान्त(वैघृतिगृह)विष्टिपरिघव्ययतिपातजातस्ताराधिपः समुदये यदि कृत्तिकायाम्।

क्रीडेत्कृपाणफलकाहितचण्डवेगप्रोत्थापिताहितशिरोगुलिकाभिरीशः॥88॥

बुधादये सप्तमगे बृहस्पतौ चन्द्रे कुलोरे सुखराशिगेऽमले।

वियद्गते भार्गवनन्दने ग्रहे प्रशास्ति पृथ्वीं मनुजो निराकुलः॥89॥

एकान्तरगैर्विहगैः षड्भिश्चक्रं क्षितीश्वरं कुर्यात्।

अत्रैव शुभे लग्ने सकलमहीपालको नृपतिः॥90॥

अयमेव समुद्राख्यो द्वौ लग्ने यदि संस्थितौ।

(स करोति भुवो)करोति भूभुजां नाथं सौम्यैः केन्द्रेषु संस्थितैः॥91॥

निरन्तरं यदि भवनेषु षटसु ग्रहाः स्थिता उदयगृहात्समस्ताः।

स्वपङ्क्तिदन्नरपति मेव कुर्युश्चतुष्टयन्नरपतिमन्त्रिणं च॥92॥

सुतसुखदुश्चिक्यगता यदि कर्मणि कीर्तयन्ति यवनाद्याः।

बन्धुसुतार्थगजाढ्यो बहुभृत्यो जायते क्षितिपः॥93॥

कर्मास्तजलहोरासु ग्रहाः सर्वे प्रतिष्ठिताः।

कुर्वन्ति नगरं नाम यत्र स्यात्पृथिवीपतिः॥94॥

सुखतनुमदगाः शुभाः समग्राः कुजरविजास्त्रिधर्मलाभसंस्थाः।

यदि भवति महीपतिः प्रशान्तो यवनपतिकृतो ह्ययं महीपयोगः॥95॥

लाभधर्मस्थिताः सौम्याः पापाः कर्मणि संस्थिताः।

नृपतीनामयं योगो भवेत्कलशसंज्ञितः॥96॥

त्रयो ग्रहा भ्रातृसुतायसंस्थास्तथा शुभौ द्वौ रिपुसङ्गतौ च।

कलत्रलग्नं च गतौ च शेषौ नृपस्य योगः खलु पूर्णकुम्भः॥97॥

सुविस्तरं नीचकुलोद्भवा मया विचित्ररूपाः कथिताः क्षितीश्वराः।

अतःपरं पार्थिववंशजन्मनां भवन्ति योगा मुनिभिः प्रकीर्तिताः॥98॥

सिंहोदये दिनकरो मृगलाच्छनोऽजे(वा)कुम्भस्थितो रविसुतः स्वगृहे सुरेज्य।

स्वोच्चेऽपि भूमितनयः पृथिवीश्वरस्य जन्मप्रदः सकललोकनमस्कृतस्य॥99॥

शुभे लग्नं याते बलवति तथा धर्मराशिं क्रमेण

(शुभैः)सर्वैः शेषैर्लग्नं धनगृहमथ त्र्याषट्कर्मगैश्च।

महीपालः श्रीमान्भवति नियतं यस्य मातङ्सङ्घाः

प्रयाणे मेघानां स्रुतमदजलैर्भ्रान्तिमुत्पादयन्ति॥100॥

(सुरपतिगुरु)दनुजपगुरुर्बन्धुस्थाने स्वेश्मगतो यदा

तुहिनकिरणः सम्पूर्णाङ्गिस्तपः समवस्थितः।

त्रितनुभवभप्राप्ताः शेषा ग्रहा यदि भूपतिः

भवति घृतिमान् स्फीतश्रीकस्तथां बहुवाहनः॥101॥

स्वोच्चोदये कृतपदः कुमुदस्य बन्धुजीवोऽर्थगो वणिजि दानवपूजितश्च।

(शेषाष्च मत्स्ययुगले यदि चेद्भहेन्द्राः)कन्याजसिंहगृहगा बुधभौमसूर्याश्चन्द्रांशुनिर्मलशया भवति क्षितीशः॥102॥

नक्षत्रनाथसहितः सविता नभःस्थः सौरिर्विलग्नभवने हिबुके सुरेज्यः।

देवारिपूज्यबुधभूमिसुतैः सलाभैः ख्यातो महीपतिरिह स्वगुणैर्नरः स्यात्॥103॥

मृगराशिं परित्यज्य स्थितो लग्ने बृहस्पतिः।

करोत्यवश्यं नृपतिं मत्तेभपरिवारितम्॥104॥

लग्ने भौमो रविजसहितस्तीक्ष्णरश्मिः खमध्ये

वाचां स्वामी मदनगृहगो भार्गवो धर्मसंस्थः।

आये हेम्नः शिशिरकिरणो बन्धुराशिं प्रपन्नो

यद्येवं स्याद्विषु(विमल)लयशसो जन्मभूपालकस्य॥105॥

(क्षीणोऽपि)न्यूनोऽपि कुमुदबन्धुः स्वोच्चस्थः(स्वोच्चगतः) पार्थिवं करोति नरम्।

किं पुनरखण्डमण्डलकरनिकरप्रकटितदिगन्तः॥106॥

लग्नं विहाय केन्द्रे सकलकलापूरितो निशानाथः।

विदधाति महीपालं (वारणो)विक्रमधनवाहनोपेतम्॥107॥

यदि पश्यति दानवार्चितं वचसामधिपस्तदा भवेत्।

नृपतिर्बहुनागनायको भुजगेन्द्र इव प्रतापवान्॥108॥

दिवौकसां पतेर्मन्त्री कुर्यात्पश्यन्बुधं (यदा)नरम्।

शिरोभिः शासनं तस्य धारयन्ति नृपाः सदा॥109॥

लग्नाधिपतिः स्वोच्चे पश्यन्मृगलाञ्छनं नृपं कुरुते।

बहुगजतुरगबलौघैः क्षपितविपक्षं महाविभवम्॥110॥

इन्दुः स्वोच्चे पश्यन्करोति बुधभार्गवौ नरं नृपतिम्।

प्रणतारिपक्षमुच्छ्रितयशसं सौभाग्यवन्तं च॥111॥

अधिमित्रांशगश्चन्द्रो दृष्टो दीनवमन्त्रिणा।

अनिशं कुरुते लक्ष्मीस्वामिनं भूपतिं नरम्॥112॥

स्वांशेऽधिमित्रभागे वा गुरुणा यदि दृश्यते।

शशी महीपतिं कुर्याद्दिवसे नात्र संशयः॥113॥

जन्माधिपतिः केन्द्र बलपरिपूर्णः करोति परमर्द्धिम्।

ब्राह्मणकुलेऽपि नृपतिं कि पुनरवनीशसंभूतम्॥114॥

रविरप्यधिमित्रस्थो यदि चन्द्रसमीक्षितः।

अङ्गदेशाधिपं कुर्याद्धर्मार्थसहितं नृपम्॥115॥

उच्चस्थः शशितनयः कुमुदाकरबन्धुना च (सहितः)समधिगतः।

जनयति मगधाधिपतिं गजमदगन्धेन वासितदिगन्तम्॥116॥

प्रधानबलसंयुक्तः सम्पूर्णः शशलाञ्छनः।

एकोऽपि कुरुते जातं नराधिपमरिंदमम्॥117॥

केन्द्रे विलग्ननाथः श्रेष्ठबलो मानवाधिपं कुरुते।

गोपालकुलेऽपि नरं किं पुनरवनीश्वराणां च॥118॥

कर्कटसंस्थः केन्द्रे बृहस्पतिर्दशमधामगः शशिनः।

चतुरुदधिमेखलायाः स्वामी भूमेर्भवति जातः॥119॥

मेषे सहस्ररश्मिः सह शशिना संस्थितः करोतीशम्।

केरलकर्णाटकान्ध्रद्रविडानां चोलकस्यापि॥120॥

उच्चस्थस्त्रिदशगुरुः कैरववनबन्धसुङ्गमं प्राप्तः।

काश्मीरमण्डलभुवां करोति पुरुषाधिपमवश्यम्॥121॥

तुङ्गायस्वगृहोदयकण्टकनवमेषु यस्य शुक्रगुरू।

सोऽवश्यं भवति नरो राजांश(राजाग)समुद्भवो नृपतिः॥122॥

दिक्‍स्थानकालादिबलैरुदाराः शुभाः पुनः केन्द्रमुपागताश्च।

कुर्वन्ति पापैरविमिश्रचाराः पृथ्वीभुजं त्रिप्रभृतिग्रहेन्द्राः॥123॥

रवेर्द्वितीये बुधजीवभार्गवा न चाशुभैर्दृष्टयुता न(चार्क) वार्कगाः।

स्फुरत्करौघ स्फुटपिञ्चरीकृता नरं प्रकुर्युस्त्रि‍समुद्रपालकम्॥124॥

कुन्दाब्जकाशधवलः परिपूर्णमूर्तिर्जन्माधिपेन (कविना)बलिना शुभदेन दृष्टः।

स्त्रीमानभङ्गनिपुणं दयितं क्षपायाः प्रख्यातकीर्तिसुनयं कुरुते नरेन्द्रम्॥125॥

देवमन्त्री कुटुम्बस्थो भार्गवेण समन्वितः।

जनयेद्वसुधापालं निर्जितारातिमण्डलम्॥126॥

कारकयोगे जाता भवन्ति पृथ्वीभुजो नरास्तेषाम्।

गजतुरगपत्तिविचलितर(पांशु)जोवितानं भवेद्गगनम्॥127॥

कुजे विलग्ने तरणेश्च नन्दने रसातले शुक्रबृहस्पतीन्दुजाः।

मृहोदये मन्दनवांशकस्थिते रसातलेशो भवतीह पार्थिवः॥128॥

स्वोच्चे गुरुस्तनुगतः स्वगृहे शशाङ्कः

शुक्रो झषे परममुच्चमितोसितश्च।

मेषे तथैव भवान्सविता कुजश्च(स स्वर्गाधिपो, च वर्गाधिपो)

द्वीपाधिपो यदि भवेन्नृपिः प्रजातः॥129॥

शक्रेड्यः ससितः शुचिस्तिमियुगे स्वोच्चे च पूर्णः शशी

दृष्टस्तीव्रवि(खगेन चैव)लोचनेन दिनकृन्मेषे यदासौ नृपः।

सेनायाश्चलनेन रेणुपटलैर्यस्य प्रनष्टे रवा-

वस्तभ्रान्तिसमाकुला कमलिनी सङ्कोचमागच्छति॥130॥

क्रूरैर्नीचै रिपुभवनगैः षष्ठदुश्चिक्यगैर्वा

सौम्यैः स्वोच्चं परमुपगतैर्निर्मलैः केन्द्रगैश्च।

आज्ञां याते शिशिरकिरणे कर्कटस्थे निशाया-

मेकच्छत्रं त्रिभुवनमिदं यस्य स क्षत्रियेशः॥131॥

होरालेखामुपेतः स्फुटकरनिकरैः पूरिताङ्गः सुरेज्य-

श्चन्द्रः शुक्लार्धदेहो भवभवनगतः स्वेन पुत्रेण दृष्टः।

चन्द्राद्भानुर्द्वितीये(भानुस्तृतीये) यदि भवति तदा नैव दृष्टः कुजेन

प्रायो(पाता) जायेत (विद्वान्जातो)भूभृद्बहुजतुरगक्षुण्णभूपृष्ठपीठः॥132॥

रविशकुजैर्मेषे लग्ने सितार्किबुधैर्वृषे

धनुषि नवमे देवेज्ये च स्वभांशमुपागते।

रविरपि यदि स्वोच्चे वर्गे प्रधानबलोदयो

भवति नृपतिः सिद्धाज्ञातो(विद्वान्जातो) हतारिरणोद्भवः॥133॥

सितशशिसुतजीवैः पञ्चमस्थैर्नभोगै

रविरपि रिपुराशौ स्वोच्चगे भूमिपुत्रे।

तपसि च रपिपुत्रे जायते पार्थिवेन्द्रः

प्रथितविमलकीर्तिर्दानधर्मप्रतापैः॥134॥

त्रिदशगुरो रविर्हिमकरस्य भृगोस्तनयो

रवितनयः कुजस्य खलु दृष्टिपथं च गतः।

भवति विलग्नगो यदि चरोदयराशिगतः

प्रथितयशा भवेत्क्षितिपतिः क्षपितारिगणः॥235॥

बुधः कन्यालग्ने सुरपतिगुरुश्चैव तिमिगः

स्थितः क्षोणीपुत्रः प्रथमभवने(प्रसवसमये) वीर्यसहितः।

शनिः शत्रुस्थाने त्रिदशरिपुपूज्यश्च हिबुके

यदैवं स्यात्सूतो स्वभुजविजयी भूपतिरिह॥136॥

यमे विलग्ने मकरप्रतिष्ठिते दिवाकरे द्यूनगते सितेऽष्टमे।

कुजेऽलिगे कर्कटगे निशाकरे भवेत्प्रसिद्धो जगतीश्वरो नृपः॥137॥

मृगोदये भूमिसुते सुनिर्मले शनैश्चरे धर्मगृहे व्यवस्थिते।

दिवाकरे सप्तमगे सहेन्दुना चलस्वभावो नृपतिः प्रजायते॥138॥

शनैश्चरे लग्नगते सचन्द्रे बृहस्पतौ सप्तमराशिगे च।

शुक्रेण दृष्टे शशिजे स्वतुङ्गे जायेत पृथ्वीपतिरप्रधृष्यः॥139॥

चापे(पापाभावे सुरपुरोहितदृष्टिशुद्धा) भवेत्सुरगुरुर्हितदृष्टिशुद्धो

लग्ने सुरारिदयितः शशिनि स्वराशौ।

वापीतडागसुरवेश्मकरो नरोऽत्र

जायेत मानवपतिर्द्विजदेवभक्तः॥140॥

एकः स्वोच्चे शुभगगनगः संस्थितो निर्मलांशुः

केन्द्रे भानुः प्रकटितकरः केवलः पूर्णवीर्यः।

दृष्टः कुर्यादमरगुरुणा पञ्चमस्थेन जातं

भूमेर्नाथं बहुगजपतिं सर्ववन्द्यं कृतार्थम्॥141॥

षष्टे कुजार्किरवयः सहजेऽथवापि सिंहे सुरारिसचिवोऽथ भवर्क्षसंस्थः।

दृष्टः शुभैर्दिनकरेन्दुविहीनदृष्टिः कुर्यान्नृपं स्वभुजनिर्जितशत्रुपक्षम्॥142॥

वहति मृदुसमीरे(शरीरे) निर्मलव्याममध्ये विमलनिरुपसर्गाः खेचरा वृत्तवैराः।

उदयति सुरवन्द्ये मण्डले मातृकाणां यदि वृषभगृहस्थो भार्गवः स्यात्क्षितीशः॥143॥

शशिबुधरुधिराख्यैः स्वांशकस्थैर्न नीचैर्व्ययगृहसहजस्थैर्नापि सूर्यप्रविष्टैः।

तनयभवनसंस्थे वाक्पतौ चन्द्रयुक्त भवति मनुजनाथः कीर्तिशुक्लीकृताशः॥144॥

अधिमित्रगते(गृहे) केन्द्रे जन्माधिपतिर्विलग्नपतियुक्तः।

पश्यति बलपरिपूर्णो लग्नं स्यात्पुष्कलो योगः॥145॥

पुष्कलयोगे पुरुषा जायन्ते भूमिपालका नित्यम्।

सुचिरं भ्रमन्ति हतरिपुगजमदगन्धेन वासितदिगन्ताः॥146॥

राश्यादौ लग्नपतिः करोति जातं(लग्ने) नरेन्द्रदण्डपतिम्।

मध्ये मण्डलनाथं ग्रामपतिं चैव भवनान्ते॥147॥

पौष्णे फाल्गुन्यां वा मूले पुष्ये च भास्करः कुरुते।

लग्नगतो नरनाथं योजनशतमात्रके देशे॥148॥

अन्य राजयोग ज्ञान(यहाँ से अध्यायान्त तक के योगों के लिये तुलना करें जातकाभरण का राजयोग प्रकरण)

कृत्तिकारेवतीस्वातीपुष्यस्थायी भृगोः सुतः।

करोति भूभुजां नाथमश्विन्यामपि संस्थितः॥149॥

विदधाति सार्वभौमं लग्नांशपतिः स्वतुङ्गगः केन्द्रे।

नृपतिं लग्नाधिपतिर्जन्माधिपतिर्धनसमृद्धम्॥150॥

मीने निशाकरः पूर्णः सुहृद्ग्रहनिरीक्षितः।

सार्वभौमं नरं कुर्यात्सिद्धाज्ञाकं(सिद्धाज्ञाकंन्न) न संशयः॥151॥

याते भौमे कर्मस्थानं शिशिरकरभृगुसुतैस्तपः समवस्थितैः।

आये स्वोच्चे प्राप्तो भानु-स्त्रिदशपतिसचिवसहितो यदि प्रसवे(प्रभवे) भवेत्॥152॥

क्षोणीभर्ता याने यस्य प्रविचलिततुरगरजसा दिशः परितो (गतैः)गतः।

एवं कर्तुर्भुयो भूयो (परिश्रम)धरणितलपरिमलसुखं प्रयान्ति रवेर्हयाः॥153॥

शशिसहिते केन्द्रस्थे शनैश्चरे भवति (जातोत्र)जारजातस्तु।

राजा भुवि गजतुरगग्रामधनैर्वर्धितश्रीकः॥154॥

शुक्रवाक्पतिबुधैर्धनसंस्थैर्द्यूनगैः शशिरविक्षितिपुत्रैः।

जायते क्षितिपतिः पृथुवक्षाः सर्वतः क्षपितशत्रुसमूहः॥155॥

भानुः प्राणी शशिगृहयुतः शीतरश्चमिश्च तस्मि-

न्नेकः स्वोच्चे यदि गगनगो निर्मलः पूर्णरश्मिः।

लग्नं प्राप्तः सुरपतिगुरुः षष्ठगः स्यात्क्षितीश-

श्छन्नो यस्य प्रचलितचमूरेणुभिर्व्योममार्गः॥156॥

कुम्भस्याष्टमभागे त्रिकोणसंस्थे (पि च) निशानाथे।

जातो भवत्यवश्यं राजा शुभदः समस्तलोकस्य॥157॥

मेषस्य सप्तमांशे करोति पृथ्वीसुतः स्थितो नृपतिम्।

(सिंहस्य पञ्चमांशे)एकाधिकविंशेंऽशे नरमिथुनांशे भवेद्भूपः॥158॥

कुम्भस्य पञ्चदशके भागे चन्द्रः स्थितो महीपालम्।

कर्कटस्य च दशमे करोति पुरुषं सदा प्रभवे॥159॥

धनुषि च (त्रिशे)विंशे जीवः करोति नृपतिं स्थितो जनख्यातम्।

सिंहस्य पञ्चमांशे तथा च हेलिर्बुधो ज्ञेयः॥160॥

एकस्मिन्पञ्चकृतौ पञ्चदशस्वास्थितश्चन्द्रः।

भागेषु वीरनृपतिं करोति भुजलब्धपृथ्वीकम्॥161॥

मकरस्य पञ्चमांशे करोति रविजो(पुरुषं) नरेश्वरं सुनय(सुभगम्)म्।

योगं भूतलतिलकं धर्मज्ञं शास्त्रनिरतं च॥162॥

कर्कटके शशिजीवौ पञ्चसु भागेषु संस्थितौ कुरुतः।

भूमिपतिमप्रधृष्यं रविरिव सर्वग्रहणस्य॥163॥

चन्द्रः पुष्ये नृपतिं वर्गोत्तमकृत्त‍िकाश्विनौसंस्थः।

विदधाति सार्वभौमं त्रिपुष्करे वाऽपि परिपूर्णः॥164॥

अश्विन्यनुराधास्थः स्थितः श्रविष्ठासु पार्थिवं भौमः।

कुरुते स्वोच्चमुपगतो वर्गोत्तमगश्च नान्यत्र॥165॥

व्याम्नि शंखधवलो निशाकरो भार्गवस्तपसि संस्थितः शुचिः।

(सूर्य)आयगश्च यदि सर्व एव ते स्यान्महीपतिरतुल्यपौरुषः॥166॥

चन्द्रादुपचयसंस्था गगनसदः सर्व एवं यदि सूतौ।

जायेत माननिलयः समस्तपृथ्वीपतिः पुरुषः॥167॥

जीवनिशाकरसूर्यः पञ्चमनवमतृतीयगा वक्रात्।

यदि भवति तदा राजा कुबेरतुल्यो धनैर्वासो॥168॥

रविस्तृतीयो भृगुनन्दनः सुखे बुधस्य चान्ये यदि पञ्चमे स्थिताः।

न नीचराशौ न च शत्रुवेश्मगा भवेन्नरेन्द्रस्त्रिसमुद्रपारगः(पालकः)॥169॥

बृहस्पतेर्भौमदिवाकरेन्दवो गता द्वितीयाम्बुनभःस्थलं क्रमात्।

विपक्षराशौ परिशेषखेचरा यदा तदा भूमिपतिर्नृपात्मजः॥170॥

भृगोरपत्याद्बुधभास्करात्मजौ चतुष्टयस्थौ परिशेषखेचराः।

तृतीयलाभर्क्षगतास्तु ते यदा महीपतिं कुर्युरसंशयं तदा॥171॥

शुक्रबुधौ रवितनयात्केन्द्रे वाचस्पतिर्भवेदुच्चे।

सिंहसनाधिशायी यदि राजा स्वोच्चगाश्च परिशेषा॥172॥

सवितुस्तृतीपञ्चलाभर्क्षसमाश्रिताः तदा यस्य।

सर्वे ग्रहाः स नृपतिर्मन्त्री सेनापतिर्वाऽपि॥173॥

लग्नपतेः स्फुटरश्मेः पापा लाभे शुभाश्च केन्द्रस्थाः।

यदि भवति तदा नृपतिः स्वभुजार्जितसर्वभूमितलः॥174॥

लाभे तृतीयषष्ठे यदि पापा जन्मपस्य शुभदृष्टाः।

भवति तदा धरणीशः समस्तनृवन्दितः साधुः॥175॥

विचरति सुरपूज्यो मेषभेऽथापि सिंहे

दहनकिरणदृष्टे भूमिपुत्रे (सुरश्मौ)स्वराशौ।

न च गगनविचारो कश्चिदेकोऽपि नीचे

यदि नृपतिसमुत्थो जायते पार्थिवेन्द्रः॥176॥

चन्द्राद्ग्रहैर्निगदिताः सुनफादयश्च

केन्द्रस्थितैर्यदि भवन्ति च तेऽत्र योगाः।

विश्वम्भराधिपकुलेषु महत्सु जाता

योगेषु तेषु मनुजेश्वरतां लभन्ते॥177॥

केन्द्रगौ यदि तु जीवशशाङ्कौ यस्य जन्मनि च भार्गवदृष्टौ।

भूपतिर्भवति सोऽतुलकीर्तिर्नीचगो यदि न कश्चिदिह स्यात्॥178॥

उदयशिखरसंस्थो भार्गवो यत्र तत्र बुधरविसुतदृष्टः स्वांशकस्थोऽतिवीर्यः।

जनयति नरनाथं वाक्पतौ पञ्चमस्थे भुजबलहतशत्रुं सार्वभौमं गजाढ्यम्॥179॥

सिंहे कमलिनीनाथः कुलीरस्थो निशाकरः।

दृष्टौ द्वावपि जीवेन पार्थिवं कुरुतस्तदा॥180॥

बुधः कर्कटमारूढो वाक्पतिश्च धनुर्धरम्।

सूर्यभूसुतदृष्टौ च यदि स्फीतो महीपतिः॥181॥

शफारीयुगले चन्द्रः कर्कटे च बृहस्पतिः।

शुक्रः कुम्भे यदा शक्तस्तदा राजा भवेदिह॥182॥

सितदृष्टः शनिः कुम्भे पद्मिनीदयितो भवे(दायतोदये)।

चन्द्रे जलचरे राशौ यदि जातो नपो भवेत्॥183॥

कुजोऽलिगोऽथ मेषे वा रविजीवनिरीक्षितः।

वृषे ज्ञो शुक्रसंदृष्टस्तदाऽपि पृथिवीपतिः॥184॥

अमलवपुरवक्रः कैरवाणां विकासी स्वगृहमथ नवांशं स्वोच्चभांशं गतो वा।

हितगगननिवासैः पञ्चभिर्दृश्यमानो जनयति जगतीशं नीचभे नो यदि स्यात्॥185॥

लाभे मन्दो गुरुभृगुसुतावुद्गमे खे शशाङ्को

बान्धावर्को बुधकुतनयौ(तनयावर्थगौ) वक्रगौ चेत्स भूपः।

यत्सेनायास्ततमदजलक्षोभतो वारणेन्द्रै-

र्भूयः सेतोः स्मरति सहसा क्षोभितान्तोऽम्बुराशिः॥186॥

इति कल्याणवर्मविरचितायां सारावल्यां राजयोगाध्यायो नाम पञ्चत्रिंशः॥

षट्त्रिंशोऽध्यायः[सम्पाद्यताम्]


रश्मिप्रधानमेतद्यस्माच्छास्त्रं वदन्ति माणिन्धाः।

तस्मात्प्रयत्नतोऽहं कथयामि यथामतं तेषाम्॥1॥

स्वोच्चस्थे दश सूर्ये नव चन्द्रे पञ्च भू मतनये च।

पञ्चेन्दुजे सुरेड्ये सप्ताष्टौ भार्गवे शनो पञ्च॥2॥

एवं महेन्द्रशास्त्रे मणिन्धमयबादरायणप्रोक्ते।

सप्त प्रत्येकस्था निर्दिष्टा रश्मयो ग्रहेन्द्राणाम्॥3॥

सर्वे प्रमाणमेते मुनिवचनात्किन्तु सप्तसंख्यैव।

बहुवाक्यादस्माकं नीचगतः स्याद्विगतरश्मिः॥4॥

अभिमुखरश्मिमर्नीचाद्भ्रष्टः स्वोच्चात्पराङ्मुखो ज्ञेयः।

अन्तरगतेऽनृपातो यथा तथा संप्रवक्ष्यामि॥5॥

नीचविहीनः(न्यूने मण्डल) शोध्यश्चक्रात्पडभवनतो यदाभ्यधिकः।

आत्मीयरश्मिगुणितात्षड्भक्ताद्रश्मयस्तस्मात्(ताप)॥6॥

मित्रद्वादशभागे द्विगुणास्त्रिगुणाः स्वके च दीधितयः।

वक्रे पुनस्तथोच्चे स्वराशिगे तद्भवत्येव॥7॥

द्विगुणाः स्युर्दीधितयो वक्रस्येऽप्तवमेव स्युः।

वैरिद्वादशभागे नीचे च भवन्ति षोडशोनाः॥8॥

अस्तं गतो विरश्मिः शनिसितवर्ज्यं ग्रहो ज्ञेयः।

वक्रान्तस्थे द्विगुणा वक्रत्यागेऽष्टभागहीनाश्च।

एवं रश्मिविधानं पूर्वाचार्यैः समुद्दिष्टम्॥9॥

एकादि पञ्च यावद्रश्मिभिरतिदुःखिता कुलविहीनाः।

परतंत्रका दरिद्रा नीचरता संभवन्ति नराः॥10॥

परतो दशकं यावद्भृतकादीनां विदेशगमनरताः।

जायन्तेऽत्र मनुष्याः सौभाग्यपरिच्युता मलिनाः॥11॥

ऊर्ध्वं पञ्चदशाप्तिर्यावत्तवद्बहुश्रुताः सुजनाः।

धर्माभिरताः सुमुखाः कुलस्य तुल्याः प्रजायन्ते॥12॥

आविंशतेर्भवेयुः कुलाधिकाः (जन)धनयुता (धन)जनख्याताः।

कीर्तिकराश्च मनुष्या यथाक्रमं स्वजनसम्पूज्याः॥13॥

पूज्याः सुभगा धीरा कृतिनो भूपास्तु शरकृतिर्यावत्।

परतो भवन्ति मनुजाः (तत्साधित)संसाधितसकलकरणीयाः॥14॥

अत उत्तरेण चण्डा नृपाश्रिता नृपतिलब्धधनसौख्याः।

त्रिंशद्यावत्सचिवाः पूज्याश्च भवन्ति भूपानाम्॥15॥

एकत्रिंशद्भिस्तु प्रवराः ख्याता महीभुजामिष्टाः।

द्वात्रिंशद्भिः पुरुषाः (पञ्चदशग्राम)पञ्चाशद्ग्रामपतयः स्युः॥16॥

ग्रामसहस्राधिपतिं त्रिंशत्त्र्यधिका करोति रश्मीनाम्।

त्रिसहस्रग्रामाणां पुरुषं सूतौ चतुस्त्रिंशत्॥17॥

परतो मण्डलभाजो बहुकोशपरिग्रहा महासत्त्वाः।

त्रिंशत्षड्भिः सहिता रश्मीनां यस्य जन्मसमये स्यात्।

सार्थं भुनक्ति लक्षं स ग्रामाणां पुमान्नियतम्॥19॥

त्रिंशन्मण्डलसहिता रश्मीनां सम्भवे भवेद्येषाम्।

लक्षत्रितयपतित्वं ग्रामाणां जायते तेषाम्॥20॥

त्रिंशत्सनवा गावो जन्मनि येषां ग्रहोत्थिताः सन्ति।

ते तोषितसकलजना भवन्ति पृथ्वीश्वराः पुरुषाः॥21॥

दशजलधिगुणाया रश्मिसंख्या नराणां दिशति पृथुलभूमेः पालकत्वं च तेषाम्।

हतरिपुवनिताभिर्गीयतेऽतीव कीर्तिः करुणरुदितगर्भैरुद्यदाक्रोशशब्दैः॥22॥

शशिजलनिधिसंख्यैः रश्मिभिः श्रूयते यो जलनिधिरशनायाः पार्थिवः स्यात्स भूमेः।

द्विजलधिरशनाया पक्षवेदाख्यसंख्यैस्त्रिजलधिरशनाया वह्निवेदैस्तथैव॥23॥

वेदाब्धिसंख्यैश्च मयूखजालैर्जाता नरेन्द्राः खलु सार्वभौमाः।

सौम्याः सुरब्राह्मणभक्तिशीला दीर्घायुषः सत्त्वयुता भवन्ति॥24॥

परतः परतः किरणैर्द्वीपान्तरपालका निरुपसर्गाः।

सर्वनमस्याः सुभगा महेन्द्रतुल्यप्रतापात्र॥25॥

(चत्वारिंशद्वित्ता)चत्वारिंद्युक्ता पञ्चादिभिरत्र यस्य सूतौ स्यात्।

ज्ञेयं तस्यारिष्टं (सर्वक्षितिपालकानुक्ताः)सर्वक्षितिपालकं मुक्त्वा॥26॥

भुवनभरसहिष्णोः सर्वतः क्षीणशत्रोस्त्रिदशपतिमहिम्नः सर्वलोकस्तुतस्य।

विदधति विहगानां रश्मयोऽतीव दीप्तास्तुरगकृतिसमानाश्चक्रर्तित्वमेव॥27॥

अभिमुखकरप्रवाहाः फलं प्रयच्छन्ति पुष्टतरमाशु।

तद्विपरीतं पुंसां पराङ्मुखास्तु ग्रहेन्द्राणाम्॥28॥

जन्मसमये ग्रहाणां रश्मीनां संक्षये क्षयो भवति।

वृद्धेर्वधिष्णूनामधमोत्तमता क्रमेणैव॥29॥

इति कल्याणवर्मविरचितायां सारावल्यां रश्मिचिन्ता नाम षट्त्रिंशोऽध्यायः॥

सप्तत्रिंशोऽध्यायः[सम्पाद्यताम्]


श्रीदेवकीर्तिराजः पञ्चमहापुरुषलक्षणान्नृपतीन्।

कथयति यांस्तानहमपि कथयामि निराकुलीकृत्य॥1॥

स्वक्षेत्रे च चतुष्टये च बलिभिः स्वोच्चस्थितैर्वा ग्रहैः

शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथानुक्रमम्।

मालव्यो रुचकः शशोऽथ कथितो हंसश्च भद्रस्तथा

सर्वेषामपि(मति) विस्तरं(विस्तरान्मुनिमतात्संकल्पय ते) मतिमतां संक्षिप्यते लक्षणम्॥2॥

महीसुतात्सत्त्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद्गुरोश्च।

स्वरं सितात्स्नेहमिनेश्च वर्ण बलाबलं पूर्णलघूनि चैषाम्॥3॥

मृदुर्दयालुर्बहुदारभृत्यः(दासः) स्थिरस्वभावः प्रियसत्यवादी।

सुरद्विजोपास्तिकरः सहिष्णुर्भवेन्नरः सत्त्वगुणप्रधानः॥4॥

शूरः कलाकाव्यनिधि(विनिष्टबुद्धिः) सुबुद्धिः स्त्रीभोगसंसक्तमनाः (सक्तचितः क्रतुषु)प्रवीणः।

आडम्बरी हास्यरति(रतः) प्रगल्भो (गोपोक्षविद्रा, वेदार्थविद्रा)गेयाक्षविद्राजसिकः (प्रसिद्धः)प्रदिष्टः॥5॥

मूर्खोऽलसी वञ्चयिता परेषां क्रोधी विषण्णः पिशुनः क्षुधार्तः।

आचारहीनो न शुचिर्मदान्धो(र्गदार्तो) लुब्धः प्रमादी तमसाभिभूतः॥6॥

भारो भवति नृपाणां भूम्यर्धं भुञ्जतां मनुष्याणाम्।

येषां भागे त्वर्धं सकलमहीपालकास्ते स्युः॥7॥

समाः स्वरैः सिंहमृदङ्गदन्तिनां रथौघभेरीवृषतोयदायिनाम्।

समस्तभूमण्डलरक्षणक्षमा भवन्ति भूपा जितशत्रवो नराः॥8॥

स्निग्धैर्भवन्ति भूपा जिह्वात्वग्दन्तनेत्रनखकेशैः।

रूक्षैरेभिर्निस्वाः स्वरैश्च ते जातके कथिताः॥9॥

स्निग्धस्तेजोयुक्तः शुद्धो वर्णः प्रकीर्तितो नृपतेः।

विपरीतः क्लेशभुजां सुतार्थसुखभागिनां मध्यः॥10॥

व्योमाम्बुवाताग्निमहीस्वभावा जीवासुरेड्यार्किमहीजसौम्यैः।

छाया मरुत्पित्तकफस्वरूपा(कफानु) मिश्रैस्तु मिश्रा बलिभिर्नरस्य॥11॥

शब्दार्थविन्न्यायपटुः प्रगल्भो विज्ञानयुक्तो विज्ञानयुक्तो विवृतास्यभागः।

चित्राङ्गसन्धिः कृशपाणिपादो व्योमप्रकृत्या पुरुषोऽतिदीर्घः॥12॥

जलस्वभावो बहुवारिपायी प्रियाभिभाषी(ध्रुवं) द्रवभोजनश्च।

चलस्वरूपो बहुमित्रपक्षः क्षोणीपतिर्नातिचिरप्रगल्भः॥13॥

सत्त्वेन वायोः पुरुषः कृशाङ्गः क्षिप्रं च कोपस्य वशं प्रयाति।

कृत्यैकबुद्धिर्भ्रमणे रतश्च दाता सितो भूपतिरप्रधृष्यः॥14॥

शूरः क्षुधार्तश्चपलोऽतितीक्ष्णः(तृष्णाः) प्राज्ञः कृशो गौरतनुर्विरोधी।

विद्वान्सुपाणिर्बहुभक्षणश्च(सुमानी) वह्निस्वभावः पुरुषोऽतिकायः॥15।

कर्पूरजात्युत्पलपुष्पगन्धो भुनक्ति भोगान् स्थिरलब्धसौख्यः।

सिंहाभ्रघोषः स्थिरचित्तवृत्तिर्महीस्वभावः पुरुषः ससत्त्वः(सुसत्वः)॥16॥

स्फटिकोपलसङ्काशा स्वच्छा गगनोत्थिता भवेच्छाया।

निधिरिव पुंसां धन्या त्रिवर्गफलसाधनी सौम्या॥17॥

स्निग्धा सिता च हरिता कान्ता मातेव सर्वसुखजननी।

सौभाग्याभ्युदयशुभान्करोति जलसम्भवा छाया॥18॥

असितजलकान्तिः पापगन्धोऽतिमूढो

मलिनपरुषकायः शोकसन्तापतप्तः।

स (भवति)वहति वधदैन्यव्याध्यनार्थार्थनाशान्

विचरति पवनोत्था यस्य कान्तिः शरीरे॥19॥

कमनदहनदीप्तिश्चण्डदण्डोऽतिहृष्टः

प्रणतसकलशत्रुर्विक्रमाक्रान्तभूमिः।

भजति मणिसुवर्णं सर्वकार्यार्थसिद्धिं

प्रशमितगदशोको(गतकोपो) वह्निजायां प्रभायाम्॥20॥

आद्याम्बुसिक्तवसुधागरुतुल्यगन्धः

सुस्निग्धदन्तनखरोमशरीरकेशः।

धर्मार्थतुष्टिसुखभाग्यजनसम्प्रियश्च

च्छाया यदा भवति भूमिकृता मनुष्ये॥21॥

शीतार्तो बहुभाषको द्रुतगतिर्नावस्थितः कुत्रचित्

शूरो मत्सरवान्रुजाकररुचिर्दौर्भाग्ययुक्तोऽनयः।

दन्तान्खादति(दन्तात्खादति) नातिसौहृदमतिर्गान्धर्ववेत्ता कृशो

मित्राणां समुपार्जनेऽति समुपार्जनेऽतिनिपुणः स्वप्ने च खे गच्छति॥22॥

अपगतधृतिरूक्षश्मश्रुकेशः कृतघ्नः

(घटित)स्फुटिचरणहस्तः क्रोधनो नष्टकान्तिः।

विलपति च(न निबन्धं) निबन्धो वित्तसंक्षारकारी(चित्तसंहारकारी)

भवति पुरुष एवं मारुतैकप्रधानः॥23॥

दुर्गन्धी लघुतापनो विपुलघीः क्षिप्रप्रसादः पुनः

पीनो रक्तनखाक्षिपाणिचरणो वृद्धाकृतिर्दाहवान्।

मेधावी युधि निर्भयो हिमरुचिर्ब्रूते निगृह्यापरान्

नो भीतः प्रणयं प्रयाति बहुभिः कुर्यान्नतानां प्रियम् ‍॥24॥

स्वप्नेऽभिपश्यति सुवर्णदिनेशदीपान् दावाग्निकिंशुकजपामणिकर्णिकारान्।

रक्ताब्जषण्डरुधिरौघटित्समूहान् पित्ताधिको निगदितः खलु लक्षणज्ञैः॥25॥

श्रीमान् श्लिष्टाङ्गसन्धिर्धृतिबलसहितः स्निग्धकान्तिः सुदेहो

ग्रामी सत्त्वोपपन्नो हतमुरजघनध्वानघोषः सहिष्णुः।

गौरो रक्तान्तनेत्रो मधुररसरुचिर्बद्धवैरः कृतज्ञः

क्लेशे च स्यादखिन्नः सकलजनसुहृत्पूजको वा(नो) गुरुणाम्॥26॥

सुप्तस्तु पश्यति समुद्रनदीसरांसि

मुक्ताफलप्रहरहंससिताब्जशङ्खान्।

नक्षत्रकुन्दकुमुदेन्दुतुषारपातान्

श्लेष्माधिको मुनिवरैः कथितः क्रमेण॥27॥

बलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैर्मिश्राः।

न भवन्ति महीपाला दशासु तेषां सुतार्थयुताः॥28॥

न स्थूलोष्ठो न विषमवपुर्नातिरिक्ताङ्गसन्धि -

र्मध्ये क्षामः शशधररुचिर्हस्तिनादः(हस्तिमारः) सुगन्धः।

सन्दीप्ताक्षः समसितरदो जानुदेशाप्तपाणि-

र्मालव्योऽयं विलसति नृपः(वयः) सप्ततिर्वत्सराणाम्(सप्ततिं वत्सराणाम्)॥29॥

वक्त्रं त्रयोदशमितानि तथाङ्गुलानि(दशा)

दैर्घ्येण (विवरं)कर्ण विवराद्दशविस्तरेण।

मालव्यसंज्ञमनुजः स भुनक्ति नूनं

लाटान्समालवससिन्धुपारियात्रान्॥30॥

दीर्घास्यः स्वच्छकान्तिर्बहुरुचिरबलः साहसावाप्तकार्यं(दाप्त)

श्चारुभ्रूर्नीलकंशश्चरणरणरतो मन्त्रविच्चोरनाथः।

(मणः)रक्तश्यामोऽतिशूरो रिपुबलमथनः कम्बुकण्ठः प्रधानः

क्रूरो भर्ता नराणां द्विजगुरुविनतः क्षामसज्जानुजङ्घः॥31॥

खट्वाङ्गपाशवृषकार्मुकवज्रवीणारेखाङ्कहस्तचरणश्च (क्रत्वङ्गमालांघठैः)शताङ्गुलश्च।

मन्त्राभिचारकुशलस्तुलया सहस्रं मध्ये च तस्य कथित मुखदैर्घ्यतुल्यम्॥32॥

विन्ध्याचलसह्यगिरीन् भुनक्ति सप्ततिसमा नगरदेशान्।

शस्त्रानलकृतमृत्युः प्रयाति दैवालयं रुचकः॥33॥

तनुद्विजास्यो द्रुतगः शशोऽगः शठोऽतिशूरो निभृतप्रतापः।

वनाद्रिदुर्गेषु नदीषु सक्तः कृशोदयी नातिलघुः प्रसिद्धः॥34॥

सेनानाथो निखिलनिरतो दन्तुरश्चापि किंचित्

धातोर्वादे भवति निरतश्चञ्चलः कोशनेत्रः।

स्त्रीसंसक्तः परधनगृहो मातृभक्तः सुजङ्घो

मध्ये क्षमो बहुविधमती रन्ध्रवेदी परेषाम्॥35॥

पर्यङ्कुशङ्खहरिशस्त्रमृदङ्गमाला-

वीणोपमा यदि करे चरणे च रेखाः।

वर्षाणि सप्ततिमितानि करोति राज्यं

प्रत्यन्तिकः क्षितिपतिः कथितो मुनीन्द्रैः॥36॥

रक्तास्योन्नतनासिकः सुचरणो हंसः प्रसन्नेन्द्रियो

गौरः (श्लक्ष्णः)पीनकपोलरक्तकरजो हंसस्वरः श्लेष्मलः(चक्रासि)।

शङ्खाब्जाङ्कुशदाममत्स्ययुगलः(पीत) खट्वाङ्गचापाङ्गद-

श्चिह्नः पादकराङ्कितो मधुनिभे नेत्रे च वृत्तं शिरः॥37॥

सलिलाशयेषु रमते स्त्रीषु न तृप्तिं प्रयाति कामार्तः।

षोडशशतानि तुलितोऽङ्गुलानि दैर्घ्येण षण्णवतिः॥38॥

पातीह देशान्खलु शूरसेनान्गानारगङ्गायमनुनान्तरालान्।

जीवेदनू(जीवेन्नवघ्नां दश)नां शतवर्षसंख्यां पश्चाद्वनान्ते समुपैति नाशम्॥39॥

शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो

लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः।

कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डस्थलः

प्रायः पङ्कजगर्भपाणिचरणः सत्त्वाधिको योगवित्॥40॥

शङ्खासि (तोरण)कुञ्जरगदाकुसुमेषुकेतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः।

पत्रागुरुद्विपमदप्रथमाम्बुसिक्तभूकुङ्कुमप्रतिमगन्धतनुः सुघोणः॥41॥

शास्त्रार्थ विद्धृतियुतः समसंगतभ्रूर्नागोपमो भवति (चाति, चापि)चाथ निगूढगुह्यः।

सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्च‍ितकेशभारः॥42॥

स्वतन्त्रः सर्वकार्येषु स्वजन(स्वजनं प्रति)प्रीणन(क्षमी)क्षमः।

भुज्यते विभवश्चास्य नित्यं (अर्थि मित्र)मन्त्रिजनैः परैः॥43॥

भारस्तुलायां तुलितो यदि स्याच्छ्री(कान्यकुब्जाधिपतिः) मध्यदेशेष्वधिपस्तदासौ।

(हस्त्यादिमुख्यै)यस्त्र्यादिपुष्टैः सहितः सभद्रः सर्वत्र राजा शरदामशीतिः॥44॥

इति कल्याणवर्मविरचितायां सारावल्यां पञ्चमहापुरुषलक्षणं नाम सप्तत्रिंशोऽध्यायः॥

अष्टत्रिंशोऽध्यायः[सम्पाद्यताम्]


विस्तरतो निर्दिष्टाः क्षितिपतियोगा विचित्रसंस्थानाः।

भङ्गश्च भवति तेषां यथा तथा सम्प्रवक्ष्यामि॥1॥

कुजार्कजीवार्किभिरत्र नीचैर्द्वाभ्यां त्रिभिर्वैकतमे विलग्ने।

निशाकरे वृश्चिकराशिसंस्थे विशीर्यते राजकरो हि योगः॥2॥

अन्त्याष्टामादिभागे चरराश्यादिषु शशो यदा क्षीणः।

एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः॥3॥

सर्वे क्रूराः केन्द्रे नीचारिगता न सौम्ययुतदृष्टाः।

शुभदा व्ययरिपुरन्ध्रे तदाऽपि भङ्गो भवेन्नृपतेः॥4॥

लग्नं गणोत्तमोनं न खेचरैर्दृश्यते तदा भङ्गः।

भवति हि नृपयोगानां दारिद्र्याय प्रजातस्य॥5॥

घटोदये नीचगतैस्त्रिभिर्ग्रहैर्बृहस्पतौ सूर्ययुते च नीचगे।

एकोऽपि नोच्चे (तुशुभेन)त्वशुभे च सङ्गते प्रयान्ति नाशं शतशो नृपोद्भवाः॥6॥

शून्येषु केन्द्रेषु शुभैर्न वेन्दावस्तं गतर्नीचमथ प्रयातैः।

चतुर्ग्रहैर्वाऽपि गृहे रिपूणां प्रणश्यति क्ष्माधिपतेस्तु योगः॥7॥

स्वांशे रवौ शीतकरे विनष्टे पापैश्च दृष्टे शुभदृष्टहोने।

कृत्वाऽपि राज्यं च वने मनुष्यः पश्चात्सुदुःखं लभते गताशः॥8॥

शिशिरकिरणशत्रुर्ल(लग्नवच्चन्द्रदृष्टः लग्नप, सङ्गताः)ग्नगश्चन्द्रदृष्टः

सहजरिपुमदस्था भानुभूपुत्रमन्दाः।

शुभविरहितकेन्द्रैस्तगैर्वाऽपि सौम्ये-

र्नृपतिजननयोगा यान्ति नाशं क्षणेन॥9॥

पञ्चभिर्निम्नगैः खेटैरस्तं यातैरथापि वा।

प्रयान्ति विलयं योगा भूभुजां ये प्रकीर्तिताः॥10॥

उल्कायाः पतने चैव निर्घातव्यतिपातयोः।

केतोश्च दर्शने चैव यान्ति नाशं नृपोद्भवाः॥11॥

अन्यैः क्रूरोत्पातैस्त्रिशङ्कुतारा यदोदयं यान्ति।

सद्यः प्रयान्ति विलयं नृपयोगा भानुजो यदि विलग्ने॥12॥

कर्तारो नृपतीनां गगनतदो युद्धकाङ्क्षिणो मलिनाः।

रूक्षा जर्जरदेहा विघ्नं जनयन्ति राजयोगस्य॥13॥

परनीचं गते चन्द्रे क्षीणो योगो महीपतेः।

नाशमायाति राजेव दैवज्ञप्रतिलोमगः॥14॥

तुलायां पद्मिनीबन्धुसस्त्रिशांशे दशमे स्थितः।

हन्ति राज्यं यथा लोभः समस्तगुणसञ्चयम्॥15॥

जूकस्य दशमे भागे स्थितः कमलबोधनः।

सहस्रं राजयोगानां मन्दसेव करोत्यसौ॥16॥

स्वत्रिकोणगृहं केचित्स्वोच्चं याताः स्वमन्दिरम्।

अतिनीचे रविस्चैको न तेषां फलसंभवः॥17॥

गुरुर्मृगे विलग्नस्थो दुःखैः सन्तापयेन्नरम्।

कामार्तमधनं वेश्या(यद्वदि)वश्यमिन्दुर्नं चेत्स्वभे॥18॥

एकेनापि शशाङ्को ग्रहेण केमद्रुमे यदि न दृष्टः।

विघ्नयति राजयोगं मलिनाचारः प्रसूतः स्यात्॥19॥

भिक्षामटति त्र्याद्यैर्नीचर्क्षगतैः सुदुःखितो मलिनः।

सकलमहीभृत्पुत्रः परिभूतो जायते निःस्वः॥20॥

अत्यरिभवनं प्राप्तैः पञ्चादिभिरस्तगैश्च गगनचरैः।

नाशं प्रयाति राजा यदि रविचन्द्रौ न तुङ्गस्थौ॥21॥

सचिवो दानदेन्द्रस्य नीचांशे समवस्थितः।

संप्राप्तमतुलं राज्यं नरैर्हापयते ध्रुवम्॥22॥

राजयोगाः समाख्यातास्तेषां भङ्गश्च दारुणः।

परीक्ष्य यत्नतः प्राज्ञः फलं ब्रूयाद्बलाबलात्॥23॥

(हो.र 9 अ. 378 पृ.।)कमलभवनबन्धुः कन्ययालिङ्ग‍िताङ्ग-

स्त्वलिनि कुजसुरेड्यौ चन्द्रमा मेषसंस्थः।

न च यदि परिशेषर्दृश्यते स्यात्सभूपः

प्रचलितगजेमेघच्छादितानाशानभोऽभ्रः॥24॥

इति कल्याणवर्मविरचितायां सारावल्यां राजयोगभंगो नामाष्टत्रिंशोऽध्यायः॥

एकोनचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


अस्मिन्नायुर्दाये यस्माद्भ्रान्त्रः समस्तलोकोऽयम्।

तस्मात्पूर्वागमतः कथयामि निराकुलीकृत्य॥1॥

(द्र.वृ.पा.43।31-32, जातकपद्धति श्लो. 25)अंशोद्भवं विलग्नात्पैण्ड्यं भानोर्निसर्गजं चन्द्रात्।

एतेषा यो बलवानेकतमस्तस्य कल्पयेदायुः॥2॥

लग्नदिवाकरचन्द्रास्त्रयोऽपि बलरिक्ततां यदा यान्ति।

परमायुषः स्वरांशं ददति खगा जीवशर्मोक्तम्॥3॥

विलग्नादिकला भाज्या व्योमशून्ययमैः समाः।

लभ्यन्तेऽर्क(हतात्, नताः)हताः शेषाः(शेषं) स्व(नाम)मानगुणि(ताःस्वकाः)तांशकाः(द्र.वृ.जा.7।10)॥4॥

(वृ.पा. 43।14-15, वृ.जा.7।12)होरा सर्वबलोपेता राशितुल्यानि यच्छति।

वर्षाण्यन्यानि मासादिभागैस्त्रैराशिकात्पुनः॥5॥

(द्र.वृ.पा. 43।21. वृ.जा.7।11)वर्गोत्तमे स्वभवने स्वद्रेष्काणे नवांशके।

द्विगुणं सम्प्रयच्छन्ति त्रिगुणं वक्रतुङ्गयोः॥6॥

यदा तूपचयः सर्वः स्वराश्यादिस्थि(स्थिते)तैर्ग्रहैः(ग्रहे)।

समस्तवर्गणा तत्र कर्तव्या शास्त्रचिन्तकैः॥7॥

केन्द्रादिसंस्थिते खेटे सकलद्विगुणैककाम्(गाम्, काः)।

शंसन्तिं वगणां केचिन्न(तच्च ननु, तत्तु) च चूडामणेर्मतम्॥8॥

बहुताड(वर्गण)नसम्प्रातौ यां करोत्येकवर्गणाम्।

वराहमिहिराचार्यः सा न दृष्टा पुरातनैः॥9॥

रिपुराशौ त्रिभागोनामर्धोनं निम्नगास्तगाः।

दायं ग्रहाः प्रयच्छन्ति नास्तगौ सितभानुजौ(द्र.वृ.पा.46।9 तथा वृ.जा. 7।2)॥10॥

सर्वमर्धं तृतीयांशश्चतुर्थः पञ्चमस्तथा।

षष्ठञ्चांशः क्षयं याति नांश बहुरिभेरकगैः॥11॥

सौम्ये चार्धमितो याति नाशं बहुभिरेकगैः।

एक एव बली हन्ति स्वायुषः सर्वदा ग्रहः(द्र.वृ.पा. 34।10-11 तथा वृ.जा. 7।3)॥12॥

एकोनविंशतिर्भानोः शशिनः पञ्चविंशतिः।

तिथयः क्षितिपुत्रस्य द्वादशैव बुधस्य तु॥13॥

गुरोः पञ्चदशाब्दानि शुक्रस्याप्येकविंशतिः।

विंशति रविपुत्रस्य पिण्डायुः स्वोच्चसंस्थितेः॥14॥

स्वोच्चशुद्धो(सिद्धो) ग्रहः शोध्यः षड्राश्यूनो भमण्डलात्।

स्वपिण्डगुणितो भक्तो (भादि)राशिमानेन वत्सराः॥15॥

पूर्वोक्तं चिन्त्ययेत्सर्वं वक्रं मुक्तत्वारिराशिषु।

क्षयस्तत्र प्रकर्तव्यो नीचेऽर्धं वृद्धिरुच्चगे॥16॥

लग्नदायोऽशतुल्यः स्यादन्तरे चानुपाततः।
 तत्पतौ बलसंपन्ने राशितुल्यं स्वभाधिपे॥17॥

लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा।

भक्त्वा मण्डललिप्ताभिर्लब्धं (वर्षादि)वर्षाद्विशोधयेत्॥18॥

स्वायुषो लग्नगे क्रूरे लब्धस्यार्धं शुभेक्षिते।

एवमेव प्रकर्तव्यं जीवशर्मोक्तचन्द्रजे(द्र.वृ.पा. 43।12-13, वृ.जा.7।4।)॥19॥

विंशतिरेकं द्वितयं नव धृतिरिह विंशतिश्च पञ्चाशत्।

वर्षाणामपि संख्याः सूर्यादीनां निसर्गभवाः(द्र.वृ.पा.43।16-17, के.जा.पृ. 24श्लो.)॥20॥

मीनोदयेंऽशे (परमे)नवमे पञ्चविंशतिलिप्तिके।

गवि सौम्यैः स्वतुङ्गस्थैः शेषैरायुः परं भवेत्॥21॥

कर्किलग्ने गुरुः सेन्दुः केन्द्रगौ बुधभार्गवौ।

शेषैस्त्रिलाभषष्ठस्थैरमितायुर्भवेन्नरः(द्र.वृ.पा. 43।55 वृ.जा. 7।14)॥22॥

द्विघ्नाः षष्टिर्निशाः पञ्च परमं नरदन्तिनाम्।

द्वात्रिंशद्वाजिनामायुश्छागादीनां तु षोडश॥23॥

खरोष्ट्रयोः पञ्चवर्ग (एका) एकोऽपोह्यं वृषादिषु।

शुनां तु द्वादश प्रोक्तं गणितं परमायुषम्।

तत्तत्परं प्रमाणेन हत्वैषामायुरादिशेत्(द्र.वृ.पा. 43।26-28. वृ.जा. 7।5)॥24॥

पथ्याशिनां शीलवतां नराणां सद्वृत्तभाजां विजितेन्द्रियाणाम्।

एवं विधानामिदमायुरत्र (वृद्धिं समाप्नोति मुनिप्रवादः, नित्यं सदा वृद्धमुनिप्रवादः)नित्यं सदा वृद्धमुनिप्रणीतम्॥25॥

इति कल्याणवर्मविरचितायां सारावल्यां आयुर्दायो नामैकोनचत्वारिंशोऽध्यायः॥

चत्वारिंशोऽध्यायः[सम्पाद्यताम्]


आयुषो येन यद्दत्तं सा दशा तस्य कीर्तिता।

स्वदोषगुणयोगेन स्वदशासु फलप्रदाः(साम्ये न तद्दृशाः)॥1॥

दिवारात्रिप्रसूतस्य रविशुक्रपुरःसराः।

मणित्थस्त्वाह तज्ज्ञानं फलसाम्यं(साम्ये न तद्दशाः) न सा दशा॥2॥

लग्नार्कशीतरश्मीनां यो बली तस्य चाग्रतः।

तत्केन्द्रादिस्थितानां च दशाः स्युः सत्यभाषिते॥3॥

होरादिनेशशशिनां प्रबलो भवेद्यस्तत्कण्टकादिषु गताः कथिता दशेशाः।

पूर्वा दशाऽतिबलिनः सदृशेऽब्दवृद्धेः साम्ये भवेच्च शरदां प्रथमादितस्य॥4॥

लग्नार्कशीतरश्मीनां यदि (पूर्णबलो)पूर्णबलं भवेत्।

तदा सत्यमतं श्रेष्ठमन्यदा त्वपरा दशा॥5॥

स्वोच्चस्वराशिनिजभागसुहृद्गृहस्थाः सम्पूर्णवीर्यरुचिरा बलिनः स्वकाले।

मित्रोच्चभागसहिताः शुभदृष्टियुक्ताः श्रेष्ठा दशां विदधति स्ववयःसु खेटाः॥6॥

नीचशत्रुगृहं प्राप्ताः शत्रुनिम्नांशसूर्यगाः।

विवर्णाः पापसंबन्धा दशां कुर्युरशोभनाम्॥7॥

तुङ्गाच्च्युतस्य हि दशा सुहृदुच्चांशेऽवरोहिणी मध्या।

नीचाद्रिपुनीचांशे ग्रहस्य चारोहिणी कष्टा(द्र.वृ.जा.8।6 तता इसकी भट्टोत्पलौ टीका)॥8॥

सविता दशाफलानां पायचिता चन्द्रमाः प्रपोषयिता।

राशिविशेषेन्दोरतः फलोक्तिर्दशारम्भे॥9॥

मूलदशायामिन्दोः कन्यासु प्रेक्षिते चन्द्रे।

पण्याङ्गनाभिरनिशं समागमं प्राहुरिह यवनाः॥10॥

सौम्यस्त्रीधनलाभः कुलीरगेन्दौ भवेद्दशारम्भे।

कन्यां दूषयति नरः कुजभवने हन्ति वा युवतिम्॥11॥

विद्याशास्त्रज्ञानं मित्रप्राप्तिं करोति बुधराशौ।

शौक्रेऽन्नपानमतुलं सौख्यं (चन्द्रेविनाशं)चन्द्रेऽरिनाशं च॥12॥

सुखधनमानाज्ञाप्तिं जीवगृहे दिशति शीतांशुः।

परिणतवयसमरूपां सौरगृहे (वञ्चकीं)वर्धकीं वाऽपि॥13॥

दुर्गारण्यनिवासं कर्षणगृहकर्मसेतुकर्मान्तम्।

सिंहे शशी प्रकुरुते स्त्रीपुत्रविवादमरतिं च॥14॥

बन्ध्वर्यक्षयरोगाः कुजसौराभ्यां बुधेन पाण्डित्यम्।

दृष्टे तद्योनितमैः शेषैश्चन्द्रे दशाफलैर्योगः॥15॥

पाकस्वामिनि लग्ने सुहृदां वर्गेऽथवाऽपि सौम्यानाम्।

श्रेष्ठदशायां सू(स्फूर्तिः)तिर्लग्नादुपचय(गृहस्थो गृहस्थे)गृहस्थैर्वा॥16॥

मित्रोच्चोपचयस्थाने त्रिकोणे सप्तमे तथा।

पाकेश्वरात्स्थितश्चन्द्रः कुरुते (सुफलां) स्वफलां दशाम्॥17॥

(विपरीतश्चन्द्रे)विपरीते स्थिते चन्द्रे दशादौ पर्यवस्थिते।

स्वोच्चगस्यापि खेटस्य दशा न प्रतिपूजिता॥18॥

शत्रुनीचनवांशेषु शस्ते राशौ ग्रहस्य च।

दशा मिश्रफला रिक्ता विबलस्य दशा मता॥19॥

(द्रेक्काणैश्च, द्रेक्काणस्य)द्रेक्काणे च दशा मूर्तेः पूजिता मध्यमाधमाः॥

चरे (मिश्रे)मिश्रप्रतीपा च स्थिरे पापेष्टमध्यमाः॥20॥

चन्द्रावनेयसोमजसितजीवदिनाकरार्किहोराणाम्।

क्रमशो दशापरिग्रह इष्टो नैसर्गिकश्चैव॥21॥

स्वोच्चस्वकालबलिनः सम्पूर्णबलस्य वा निसर्गभवा।

(अनुपम)उत्तमशुभफलदासौ(स्यात्) ग्रहस्य नित्यं दशा भवति॥22॥

स्वराशौ स्वत्रिकोणे च स्वांशे च शुभमध्यमा।

स्वोच्चाभिलषिणश्चैव मित्रराश्यादिसंस्थिते॥23॥

शुभाधमदशा ज्ञेया विपरीतमतस्थिते।

अनेनैव विधानेन विज्ञेया पापदा दशा॥24॥

भानुदशायां लभते (पौरुषमेधाध्वदिषयकालीनैरर्थान् दौस्थयनैरर्थ्यात्)नवौषधादध्वविषदौर्जनैरर्थ्यान्।

गिरिदन्तचर्मवाह्निक्रौर्यनरेन्द्राहवाद्यैश्च॥25॥

नृपतेरर्थावाप्तिं धैर्यं भूयस्तथोद्यमं(द्वैरंभूयो) तैक्ष्ण्यम्।

ख्यातिं प्रतापवृद्धिं श्रेष्ठत्वं भूपतित्वं च॥26॥

भृत्यार्थचोरचक्षुःशत्त्राग्न्युदकक्षितपश्वराद्बाधाः।

सुतपत्नीबन्धुजनैर्निपीडितः स्याच्च पापरतिः॥27॥

क्षुत्तृष्णार्तिः शोको हृत्पीडा पैत्तिकास्तथा रोगाः।

गात्रच्छेदो भवति हि सूर्यदशायामनिष्टायाम्॥28॥

चन्द्रदशायां वित्तं स्त्रीसंगममार्दवात्पथि विहारात्।

जलतुहिनक्षीररसैरिक्षुविकारैस्तथा क्रीडा॥29॥

द्विजमन्त्राणां लब्धिः पुष्पाम्बरसेवनं मधुरता च।

अर्थविनाशमकस्मात्सुसंपदास्त्विष्टनां लभते॥30॥

तैक्ष्ण्यादवाप्तसिद्धिः पूजां प्राप्नोति गुरुनृपाभ्यां च।

मेधाधृतिपुष्टिकरी चन्द्रदशा शोभना नित्यम्॥31॥

कुरुते भयं कुलस्य च चन्द्रदशा स्वकुलविग्रहं कष्टम्।

निद्रालस्यं स्त्रीणां भयजननी शोकदा रतिदा॥32॥

भौमदशायां लभते नृपाग्निचोरप्रयोगरिपुमदः।

व्यालविषशस्त्रबन्धनसुतैक्ष्ण्यकूटैश्च धनलाभम्॥33॥

क्षित्याजाविक(तान्त्रिकस्वर्णावश्या)ताम्रकसुवर्णपण्यादिभिस्तथा द्यूतैः।

आसवकषायकटुकै रसैश्च धनधान्यभाग्यभवति॥34॥

मित्रकलत्रविरोधो भ्रातृसुतैर्विग्रहश्च तृष्णा च।

मूर्च्छा शौणितदोषः शाखाच्छेदो व्रणश्चापि॥35॥

परदाररतिर्द्वेष्यो गुरुसत्यानामधर्मनिरतश्च।

पित्तकृतैरपि दोषैरभि(ताक्षी)भूतो मानवो भवति॥36॥

सौम्यदशायां (प्राप्ते)पुत्रान् मित्रादाढ्याद्धनस्य सम्प्राप्तिः।

दीक्षितनृपर्जतेर्द्यूताद्वणिग्जनाच्चापि सम्भवति॥37॥

वेसरमहीसुवर्णं शुक्तिद्रव्यं यशः प्रशंसा च।

दूत्यं सौख्यमतुल्यं सौभाग्यं मतिचयख्यातिः॥38॥

धर्मक्रियासु सिद्धिर्हास्यरतिः शत्रुसंक्षयो भवति।

गणितालेख्यलिपीनां कौतुकभागी सदा पुरुषः॥39॥

पीडां धातुत्रितयात्पारुष्यं बन्धनं तथोद्वेगम्।

मानसशोकं वाऽपि बुधस्य कष्टा दशा कुरुते॥40॥

त्रिदशपतिगुरुदशायां मन्त्री नृपनृत्यनीतिभिर्वित्तम्।

मानगुणानां लब्धिरतिप्रतापः सुहृद्विवृद्धिश्च॥41॥

कान्तासुवर्णवेसरगजादिभोगी सदा पुरुषः।

माङ्गल्यपौष्टिकानां लाभो द्विषतां विनाशश्च॥42॥

लाभो भवति नराणां प्रीतिः सद्भूमिपैः सार्धम्।

जनताया नृपदक्त्रात्पण्याग्राद्गुरुजनाच्च धनलाभः॥43॥

व्यजनातपत्रसुमनोवस्त्रमनोवस्त्रध्वजपेयभ(विशेषतः क्षीणः)क्षणादीनाम्

गात्रश्वथपृथुशोकं पङ्गुत्वं गुल्मकर्णरोगांश्च।

पुंस्त्वविनाशं मेदःक्षयं नृपतितां भयं समाप्नोति॥44॥

शुक्रदशायां विजयः क्ष्माभवनविलासशयनपत्नीनाम्।

माल्याछादनभोजनयशःप्रमोदो निधिप्राप्तिः॥45॥

गेयरतिः स्त्रीसङ्गो नृपतेःकृषितो धनस्य सम्प्राप्तिः।

ज्ञानेष्टसौख्यसुहृदां मन्मथयोग्योपकरणानाम्॥46॥

कुलगुणवृद्धैर्वादो यानासनसंभवानि पापानि।

स्त्रीनृपतिकृतावश्यं लोकविरुद्धैः सह प्रीतिः॥47॥

सौरर्दशां प्रपन्नः प्राप्नोति पुमान्खरोष्ट्रमहिषाद्यान्।

कुलटां जरदङ्गीं वा कुलित्थतिलकोद्रवादींश्च॥48॥

वृन्दाग्रामपुराणामधिकारभवं च(चमत्कारं) सत्कारम्।

लोहत्रपुकादीनां स्वकीयपक्षस्थिरास्पदं चैव॥49॥

वाहननाशोद्वेगस्वत्वरितः स्त्रीस्वजनविप्रयोश्च।

युद्धेष्वपजयदोशो मद्यद्यूतोद्भवो मरुत्कोषः॥50॥

पुण्येष्वसिद्धिकलहं(सिद्ध) बन्धनतन्द्राश्रम तथा व्यङ्गम्।

भृत्यापत्यविरोधो भवति च कष्टा यदा दशा सौरेः॥51॥

सौम्यपापफलं प्रोक्तं सामान्यं स्वदशास्विदम्।

विशेषेण प्रवक्ष्यामि प्रत्येकं फलभेदतः॥52॥

स्वोच्चनीचत्रिकोणर्क्षं केन्द्रं शत्रुगृहं तथा।

पञ्चप्रकारसंयुक्तां दशा भानोः प्रकीर्तिताः॥53॥

राज्यं ददाति विपुलं दशा रवेर्लग्नसंस्थितस्य नॄणाम्।

केन्द्रस्थितस्य दद्यात्कटिगलनेत्रप्रकोपमरिगस्य॥54॥

नीचस्य दशा भानोरक्ष्योर्नाशं ज्वरं शिरोरोगम्।

बन्धनमान्याश्च रुजः कुष्ठामयदर्शनं चिह्नम्॥55॥

स्वोच्चप्राप्तस्य दशा ददाति राज्यं सहस्रकिरणस्य।

तुरगातपत्रचामरकरीन्द्रसंवधितं सम्यक्॥56॥

सवितुर्दशा च पुंसो विदधाति पुरा(स्वरा) त्रिकोणसंस्थस्य।

उत्तमविषयपतित्यं विघ्वस्ताशेषदुःखस्य॥57॥

शत्रुगृहेर्कदशायां नयनविनाशो भवेच्च कुब्जत्वम्।

ज्वालावक्तत्रजरोगा भवन्ति कृमयः(कुनयः) परिभवाश्च॥58॥

अष्टगतस्य भानोर्दशा क्षयं नयति सर्वगात्रं च।

भ्रमयति देशाद्देशं प्रमापयत्यपि च विक्लिष्टम्॥59॥

सामान्यतश्च षोढा चन्द्रदशा भिद्यते समासेन।

स्वोच्चसुहृच्छत्रुगृहे नीचे क्षीणे प्रपूर्णे च॥60॥

तत्रोच्चदशा राज्यं नीचदशा मरणमरिदशा बन्धम्।

कथयति नलिनीशत्रोर्मित्रदशा स्वजनसम्प्राप्तिम्॥61॥

क्षीणेन्दुदशायोगे चिन्हान्येतानि लक्षयेद्विद्वान्।

उदरामयज्वशिरोनयनोत्कोपः प्रतिश्यायान्(प्रतिश्रयाच्चापि)॥62॥

बलिनः परिपूर्णस्य च शशिनः कुरुते सदा दशा पुंसाम्।

दयितासहस्रपरिवृतमन्तःपुरमुत्तमस्त्रीकम्॥63॥

भवति नरस्य भ्रंशो विषयस्यान्तःपुरस्य भृत्यानाम्।

अष्टमचन्द्रदशायां म्रियते च स्वजनपरिभूतः॥64॥

यन्त्रतृणकाष्ठमयवंशकरञ्जीफलोदकाजीवो।

भवति कदन्नकुचेली नृपोऽपि भृतकोऽरिगृहदशायाम्॥65॥

लग्नगृहगस्य हि दशा मण्डललाभं तथोच्चस्यापि।

केन्द्रस्थितस्य कुरुते धनवाहनदेशसम्प्राप्तिम्॥66॥

षष्ठदशा(कष्ट दशा) व्यसनकरी मरणं च करोति निधनस्थदशा।

अस्तमितग्रहपाको बन्धनमात्रेण पीडयति॥67॥

वक्रोपगस्य हि दशा भ्रमयति च कुलाचक्रवत्पुरुषम्।

व्यसनानि(व्यसनानि) रिपुविरोधं करोति पापस्य न शुभस्य॥68॥

(तुच्छातितुच्छ)रिक्तातिरिक्तनिम्नातिनिम्नरिपुगृहदशासु।

पृथ्वीपतिरपि भूत्वा स्वभृत्यभृत्यो भवेत्पुरुषः॥69॥

देशत्यागो व्याधिर्भ्रंशोत्थानं मुहुर्मुहुः कलहः।

बन्धनमरातिजनितं रिपुराशिगतस्य हि दशायाम्॥70॥

महितकरिगलिमदजलसेकक्ष्मापीठवारितरजस्कः।

राजा कष्टसहायी रिक्तदशायां ध्रुवं भ्रमति॥71॥

अङ्गप्रत्यङ्गानां छेदं विदधाति षष्ठशत्रुदशा।

कोणद्यूनारिदशा निधनारिदशा शिरच्छेदम्॥72॥

रिपुभयविदेशगमनं बन्धनारोगादिपीडनं भवति।

नीचस्थग्रहपाके राजाभिभवो ध्रुवं पुंसाम्॥73॥

चिन्ता स्वाप्नानुभवैः परिणमति फलं विहीनवीर्यस्य।

पञ्चमहापुरुषोक्ताध्यायांस्तांस्तान्नियोजयेदत्र॥74॥

आदौ दशासु फलदः शीर्षोदयराशिसंस्थितो विहगः।

उभयोदये च मध्ये स्वान्त्ये पृष्ठोदये च नीचर्क्षे॥75॥

इति कल्याणवर्मविरचितायां सारावल्यां मूलदशाफलं नाम चत्वारिंशोऽध्यायः॥

एकचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


(द्र.वृ.पा. 51।13.14 तथा बृ.जा.8।3)अर्धमेकस्थितो भागं त्रिभागं सुतधर्मयोः।

सप्तमे सप्तमं भागं चतुर्थं चतुरश्रयोः(चतुरश्रये)॥1॥

मूलं दशाधिनाथस्य कृत्वांशं स्वगुणैर्ग्रहः।

करोत्यन्तर्दशां सत्यां बली हरति भागशः(भगभ)॥2॥

शुभस्य शुभदः पूर्णः क्रूरस्याशुभदो भवेत्।

केन्द्रादिविधिना चान्ये केचित्पाकक्रमेण तु॥3॥

सत्योक्तं तूच्यते कश्चिद्ददाति बलवान्ग्रहः।

नित्यं पाकक्रमात्कार्यः शेषास्तु परिपाकदाः॥4॥

भागाः सदृशाः सहिता दशाब्दपिण्डस्य भागहारोऽयम्।

प्रत्यंशताडितः स्यात्पृथक्त्वन्तर्दशाः(चान्तर) स्युः॥5॥

एकर्क्षसंस्थितदशा प्रदिशति बन्धं स्वनाशं वा।

जनयति कण्टकसहिता त्रिकोणसंस्थस्य सुखमतुलम्॥6॥

एकद्वित्रिचतुर्था नक्षत्रे रिपुदशा ग्रहाणां स्यात्।

व्याधिक्लेशविवादान्नृपतेश्च भयं यदा(तथा) जनयेत्॥7॥

दारमरणं च जनयति सप्तमगान्तर्दशा प्रणाशं वा।

शत्रोर्दासीकरणं परपुरुषेणोपभोग वा॥8॥

अन्तर्दशा ग्रहाणामष्टामधाम्नि प्रतापयेत्पुरुषम्।

कुरुते च धनविनाशं शत्रुगता बन्धनं च विध्वंसम्॥9॥

अन्तर्दशा यदा (स्यात्) द्वित्रिचतुर्णामेकराशिसंस्थानाम्।

बन्धनविनाशदै(दैन्ये)न्यं विदधात्यशुभग्रहाणां तु॥10॥

चतुर्थस्थानसंस्थस्य ग्रहस्यान्तर्दशा भवेत्।

मित्रारोग्यकरी(करं) नित्यं सौख्यमानविवर्धनम्(वर्धनीम्)॥11॥

शमयति रिपुप्रतापं नरोगत्वं करोति धनलाभम्।

भानुदशायां चन्द्रः प्रविशंस्तन्नास्ति यन्न शुभम्॥12॥

विद्रुमसुवर्णमणयः सङ्ग्रामजयः प्रचण्डता पुंसः।

असृजो दशाप्रवेशे सूर्यदशायां भवति सौख्यम्॥13॥

दद्रूविचर्चिकाद्यैः (पाम्ना)पापैः कुष्ठैश्च गर्हितशरीरः।

तरणिदशायां प्रविशति बुधो यदा स्यादरेर्वृद्धिः॥14॥

व्याधिभिररिभिर्व्यसनैः पापैच विमुच्यते तथाऽलक्ष्म्या।

अनुयति धर्मपदवीं जीवस्यान्तर्दश यदा भानोः॥15॥

शिरसो रुग्गलरोश्चित्रं(छिद्रं) सहसा ज्वरः शूलम्।

तपनदशायां शुक्रे देशत्यागो भवेदरिभिः॥16॥

आदित्यस्य दशायां शनैश्चरान्तर्दशा यदा भवति।

नृपपरिभूतो दीनो विपक्षसार्थेन हतशक्तिः॥17॥

क्षयरोगमयं शौर्यं नृपप्रभावां सदा विभवम्।

चन्द्रदशायां पुंसो भानुः कुरुतेऽर्थलाभं च॥18॥

पित्तासृग्वह्निभयं क्लेशं रोगं करोति वक्रदशा।

चन्द्रदशायां च भयं (प्रमाणपणम्)प्रमोषणं चैव चौरैश्च॥19॥

चन्द्रशायां ज्ञदशाप्रवेशने चिह्नमुत्तमो लाभः।

गजवाजिनां धनानां सम्प्राप्तिः सौख्यमतुलं च॥20॥

चन्द्रदशायां प्राप्ता त्रिदशेड्यदशा करोति धनलाभम्।

यत्नोपात्तमकस्याद्वस्त्रालङ्कारविविधहस्त्यश्वम्॥21॥

तुहिनकरस्य दशायां प्रविशत्यन्तर्दशा यदाऽऽस्फुजितः।

जलयानहारभूषणबहुपत्नीभिः समागमं कुरुते॥22॥

स्वजनायासवियोगं रोगाभिभवं तथा महाव्यसनम्।

चन्द्रदशायां सौरिः करोति निःसंशयं पुंसायम्॥23॥

चण्डं साहसनिरतं नरेन्द्रसग्रामपूजितं (धात्र्यम्)धन्यम्।

विविधधनागमयुक्तं भौमदशायां करोति रविः॥24॥

विविधधनागमलाभं सौख्यं बहुमित्रसम्प्राप्तिम्।

वक्रदशायां चन्द्रः करोति मुक्तामणिप्रभृतीन्॥25॥

दिशति भयं शत्रुभ्यो वाजिगजानां प्रमोषणं चोरैः।

दाहं च यदा प्रविशति भौमदशायां बुधस्य दशा॥26॥

वक्रदशायां च गुरोः सुचरितकरणेन शुभधर्मा।

नृपतिर्विशुद्धचेताः पुण्यानि करोत्यनन्तानि॥27॥

रुधिरदशायां शुक्रप्रवेशने भवति सङ्गरभयार्तिः।

व्याधिव्यसनायासैर्धनापहारः प्रवासैश्च॥28॥

व्यासनानि व्यसनानां भवन्त्यपर्युपरि जनविनाशश्च।

वक्रदशायां रविजे प्रविशति चान्तर्दशायां हि॥29॥

इन्दुसुतस्य दशायां प्रविशति सूर्यो यदा तदा चिन्हम्।

कनकाश्वविद्रुमगजान् विदधाति श्रियमकस्माच्च॥30॥

प्रविशन्ती चन्द्रदशा बुधस्य कण्डूं करोति कुष्टं च।

क्षयरोगमङ्गभङ्गं गजाद्भयं वाहनविनाशम्॥31॥

मस्तकशूलनिरोधैर्नानाक्लेशैश्च युज्यते जन्तुः।

इन्दुसुतस्य दशायां भौमस्यान्तर्दशा यदा भवति॥32॥

रिपुरोगपापमुक्तः पुण्यानि करोति भूपतेर्मन्त्री।

जीवे चरति दशायां बुधस्य पुरुषो भवेन्नियतम्॥33॥

गुरुविबुधातिथिभक्तो वस्त्रालङ्करपुष्यगन्धरुचिः।

इन्दुसुतस्य दशायां शुक्रस्यान्तर्दशा यदा भवति॥34॥

खण्डसुखकामसेवी विलुप्तधर्मार्थभोगसुतवित्तः।

भवति नरोऽत्र दशायां बुधस्य मन्दो यदा चरति॥35॥

रिपुभयकलहै(विरोधैः)र्मुक्तः प्रयाति गुरुतां नरेन्द्रस्य।

विक्रमसाहससौख्यैर्जीवदशायां रवौ चरति॥36॥

पत्नीसहस्रभर्ता जितरोगरिपुः परोन्नतिं लभते।

प्रकटयति राजचिन्हं चन्द्रदशा गुरुदशायां हि॥37॥

तीक्ष्णः परोपतापी शूरो रणलब्धकीर्तिधनः।

सौख्यमनन्तं लभते जीवदशायां कुजे चरति॥38॥

वेश्यामद्यव्यसनैः परिभूतो (निर्धनो भवति)भवति निर्धनः सोऽपि।

सौम्ये जीवदशायां विलुप्तधर्मो भदेत्पुरुषः॥39॥

व्याधिविनाशं सौख्यं मित्रैः सह सङ्गतिं तथा पूजाम्।

मातापित्रोर्भक्तिं जीवदशायां (बुधे)बुधो लभते॥40॥

रिपुभयविनाशदुःखैरभिभूतो ब्राह्मणोपजीवी च।

जीवदशायां शुक्रे प्रविशति नित्यं भवेत्पुरुषः॥41॥

वेश्यामद्यद्युतैरभिभूतो महिषखरयुक्तः।

सौरे जीवदशायां विलुप्तधर्मो भवेत्पुरुषः॥42॥
 गण्डोदराक्षिरोगैः क्षितिपतितो मन्धनादिभिस्तप्तः।

शुक्रदशायां सूर्ये विचरित नूनं भवेत्पुरुषः॥43॥

अन्तर्दशां दशायां सितस्य शशिनो यदा भवति चिह्नम्।

नखदशनशिरोरोगैः सह भवति च कामिलरोगः॥44॥

पित्तासृक्कृतरोगो भूलाभः संश्रयो नृपतितश्च।

शुक्रदशायां भौमे मन्दोत्साहः पुमान्भवति॥45॥

 

शुक्रदशायां पुंसां बुधस्य चान्तर्दशा यदा भवति।

युवतिकृतं धनलाभं सौख्यं च मनोरथं(मनोरमं) लभते॥46॥

अन्तर्दशां दशायां भृगोर्गुरोर्धर्मशीलसम्पत्तिम्।

विदधाति विषयराज्यं पुंसां धनरत्नमतिसौख्याम्॥47॥

वृद्धस्त्रीभिः क्रीडां पुरनगरगणधिपत्यमरिनाशम्।

शुक्रदशायां सौरिः करोति बहुमित्रसंयोगम्॥48॥

धनपुत्रदारनाशं भयमतुलं संदधाति पुरुषस्य।

रविपुत्रस्य दशायां सूर्यस्यान्तर्दशा न सन्देहः॥49॥

स्त्रीमरणं हरणं वा बन्धुवियोगं पुनः पुनः कलहम्।

अन्तर्दशां दशायां शनेः शशाङ्कस्य विदधाति॥50॥

देशभ्रंशं व्याधिं दुःखानि करोत्यनेकरूपाणि।

अन्तर्दशा दशायां रविजस्य महीसुतस्य यदा॥51॥

सौभाग्यसौख्यविजयप्रमोदसत्कारमानधनलाभम्।

सौरिदशायां सौम्यो विदधात्यन्तर्दशाप्राप्तः॥52॥

अनुयाति शिष्टपदवीं ग्रामादिकलत्रसौख्यसम्पन्नः(संपत्तिम्)।

रवितनयस्य दशायां प्रविशति जीवे सदा पुरुषः॥53॥

वर्धयति मित्रपक्षं भिनत्ति शोकान्यशः प्रकाशयति।

सौरिदसायां शुक्रः पत्नीधनविजयलाभकरः॥54॥

नीचोच्चातिविभेदेन शत्रुमित्रबलाबलम्।

अन्तर्दशासु मतिमांश्चिन्तयेच्च प्रयत्नतः॥55॥

अन्तर्दशासु शुभायां मूलदशायां शुभा यदा भवति।

भवति तदा बहुसौख्यं धनलब्धिरतीव पुरुषाणाम्॥56॥

रविकिरणमुषितदीप्तेर्दशाग्रहस्य मलिनां तनुं कृत्वा।

मानयशोर्थविलासप्रतापरूपोद्यमान्हन्ति॥57॥

होराजन्माधिपयोः(धिपते) शत्रुदशायां नरोऽतिमूढमतिः(विमूढ)।

राज्याच्च्युतो विपक्षैरभिभूतोऽन्यं समाश्रयति॥58॥

व्योमलग्नप्रपन्नस्य दसायां राज्यामाप्नुयात्।

नरेन्द्राणां समायोगे सुवीर्यस्याथवा पुनः॥59॥

लग्ने जीवः सितबुधयुतः सप्तमस्थोर्कंपुत्रः

कर्मप्राप्तो दहनकिरणो भोगिनां जन्म कुर्युः।

केन्द्रे सौम्या न शुभगृहगा यत्र पापाभिधाना

यद्येवं स्याच्छवरनृपतिर्जायते वित्तवांश्च(द्र.वृ. जा. 11।30 तथा इसकी भट्टोत्पली टीका में गार्गि का वचन।)॥60॥

इति कल्याणवर्मविरचितायां सारावल्यां अन्तदर्शाफलो नामैकचत्वारिंशोऽध्यायः॥

द्विचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


क्रूरदशायां क्रूरः प्रविश्य चान्तर्दशां यदा कुरुते।

पुंसः(पुंसां) स्यात्सन्देहस्तदाऽरियोगः सदैव महान्॥1॥

क्षितितनयस्य दशायां रविजरयान्तर्दशा यदा विशति।

बहुकालजीविनामपि मरणं निःसंशयं कुरुते॥2॥

क्रूरराशौ स्थितः पापः षष्ठे स्यान्निधनेऽपि वा।

तत्स्थितेनारिणा दृष्टः स्वपाके मृत्युदो ग्रहः॥3॥

विलग्नाधिपतेः शत्रुर्लग्नस्यान्तर्दशां गतः।

करोत्यकस्मान्मरणं सत्याचार्यः(चार्यप्रभाषिते) प्रभाषते॥4॥

इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टफलं नाम द्विचत्वारिंशोऽध्यायः॥

त्रिचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


प्रवेशे बलवान्खेटः शुभैर्वा(र्वा सं) सुनिरीक्षितः।

सौम्याधिमित्रवर्गस्थो मृत्यवे न भदेत्तदा॥1॥

मूलं दशाधिनाथस्य विबलस्य दशा यदा।

बलिनः स्यात्तदा भङ्गो दशारिष्टस्य तद्ध्रुवम्॥2॥

युद्धे च विजयी तस्मिन्ग्रहयोगे शुभे(शुभो) यदि।

दशायां न भवेत्कष्टं स्वोच्चदिषु य संस्थितः॥3॥

इति कल्याणवर्मविरचितायां सारावल्यां दशारिष्टभङ्गो नाम त्रिचत्वारिंशोऽध्यायः॥

चतुश्चतावरिंशोऽध्यायः[सम्पाद्यताम्]


अत्युग्रमतिद्रव्यं महान्तमपि भास्करः स्वतुङ्गस्थः।

मृष्टाशनाम्बराढ्यं सुभूषणं शीतगुः कुरुते॥1॥

तेजस्विनं कुतनयो दुष्प्रसहं गर्हितं प्रवासरतम्।

मेधाविनं कुलाढ्यं सुनिपुणवाक्यं बुधः स्वोच्चे॥2॥

विख्यातं गुरुराढ्यं विद्वांसं(विद्वांसं भूपत्कृतं प्रसवे।) सत्कृतं कुशलम्।

स्वोच्चे भृगोश्च तनयो विलासहास्यप्रगीतनृत्तरतम्॥3॥

स्वोच्चे रवितनयो नृपलब्धनियोगमभिजनयेत्।

ग्रामपुराधिपतित्वमरण्यकधान्यं कुनारिलाभं च॥4॥

(हो.र. 4 अ. 594 पृ.)भानुस्त्रिकोणसंस्थो धनवन्तं मुख्यमतिनिपुणम्।

भोक्तारं (धनवन्तं)गुणवन्तं शशी प्रसूतौ त्रिकोणगः पुरुषम्॥5॥

वक्रोऽपि तस्करपतिं शूरं खलु निर्दयं चापि।

सौम्यो विनोदशीलं जयिनं च स्वत्रिकोणगः कुरुते॥6॥

जीवः पुनर्हितकरं महत्तरं नयविदं सुखोगेतम्।

दानवपूज्यो जनयेद्ग्रामपुरवरिष्ठमाढ्यमतिसुभगम्॥7॥

आत्मत्रिकोण आर्किर्धनतृप्तं कुलयुतं शूरम्।

तीक्ष्णमयूखः कुरुते महोग्रमत्युच्चार्माणम्॥8॥

धर्मरतं हिमरश्मिर्मनस्विनं रूपवन्तमात्मार्क्षे।

आढ्यं प्रचण्डमचलं भौमः कुरुते स्वराशिगः पुरुषम्॥9॥

शशितनयोऽपि विधत्ते वल्गकथं पण्डितं वाऽपि।

काव्यश्रुतिज्ञाढ्यं गुरुचेष्टं(शुभचेष्टं) वाक्यपतिः स्वराशिस्थः॥10॥

दावनपूज्यः कुरुते कृषीबलं स्फीतवित्तं च।

कुरुते शनैश्चरोऽपि मान्यदुःखं स्वराशिगः पुरुषम्॥11॥

मित्रगृहेऽर्कः ख्यातं स्थिरसौहृदमर्थदातारम्।

मित्रर्क्षगः शशाङ्को यतस्ततो लब्धसौख्यबहुमानम्॥12॥

अङ्गारकोऽपि कुरुते सुहृद्धनारक्षणासक्तम्।

शशिजः सुहृद्गृहगतः करोति चातुर्यहास्यधनवन्तम्॥13॥

वचसामधिपः पूज्यं सतां च सुविशिष्टकर्माणम्।

मित्रगृहे भृगुतनयः सुहृत्प्रियं (दयितमिह सूतम्)दयितवित्तमतिशूरम्॥14॥

भास्करसूनुः कुरुते परान्नभोजिनमर्धकर्मरतम्।

नीचे सविता कुरुते प्रेष्यं बान्धवजनावधूतं च॥15॥

हिमरश्मिरल्पपुण्यं रोगिणमपि दुर्भगं लोके।

नीचस्थः क्षितितनयोऽनर्थव्यसनोपतप्तमतिनीचम्॥16॥

कुरुते हिमकरपुत्रः क्षुद्रं स्वज्ञातिबन्धु(बद्धवैरं च)वैरं च।

नीचे गुरुः प्रकुरुते मलिनं प्राप्तावमानमतिदीनम्॥17॥

असुरदयितोऽस्वतन्त्रं प्रणष्टदारं विषमशीलम्।

कोणो विपन्नशीलं विगर्हिताचारमर्थरहितं च॥18॥

कुरुते शत्रुगृहेऽर्को निःस्वं विषयप्रपीडि‍तं चापि।

तुहिनमयूखः कुरुते हृद्रोगिणमरिगृहे नरं सततं॥19॥

(बन्ध्वरिभङ्गैः भौमो विकलं वा दुर्भगं लोके)बन्धारिभङ्गभाजं दीनं विकलं च दुर्भगं भौमः।

(आज्ञामात्र)अज्ञानमतिविहीनं बुधोऽरिभे नैकदुःखमतिदीनम्॥20॥

क्लीबं गुरुर्विधत्ते (बधिरनरं)नयहीनं धनविहीनं च।

शुक्रोऽरिगृरे भृतकं कुतन्त्रमतिदुःखितं जनयेत्॥21॥

भास्करसुतोऽपि कुरुते मलिनं व्याध्यांदशोकसन्तप्तम्।

स्वेषूच्चभागेषु फलं समग्रं स्वक्षेत्रतुल्यं भवनांशकेषु।

नीचारिभागेषु जघन्यमेव मध्यं फलं मित्रगृहांशकेषु॥22॥

द्वावुच्चगौ जनयतो धनिनं कीर्त्यान्वितं तदा पुरुषम्।

नगरारक्षकलाढ्यं चमूपतिं च त्रयः प्रथितम्॥23॥

(आढ्यो) आढ्यं नृपात्तकीर्ति चत्वारो राजधर्मसंयुक्तम्।

ख्यातं नृपती(समं)ष्टतमं पञ्चचानेकविधबृद्धकोशं च॥24॥

षड्ग्रहाः स्वोच्चगाः कुर्युर्नृपतिं पुरुषं सदा।

प्रदानमा(गुण)नसम्पन्न बहुवाहनमण्डितम्॥25॥

स्वोच्चं याताः सर्वे समुद्रपर्यन्तमेदिनीनाथम्।

जनयन्ति चक्रवर्तिनमवनीशं जातकं चिन्त्यम्॥26॥

द्वाभ्यां त्रिकोणसंस्थाभ्यां कुटुम्बी कुलवर्धनः।

श्रेष्ठः प्रख्यातमकीर्तिश्च ग्रहाभ्यां भुवि जायते॥27॥

महाधनस्त्रिभिश्चैव गणग्रामादिनायकः।

आढ्यो नृपाप्तसत्कारश्चतुर्भिर्लोकसम्मतः॥28॥

आरक्षकः प्रधानः सेनापुरनगरभूपकोशानाम्।

पञ्चग्रहैस्त्रिकोणे भवति कुटुम्बी सुबहुसौख्यः॥29॥

विद्यादानधनौधैः समन्वितो भवति षड्भिरेव पुमान्।

राज्यं प्रशास्ति नियतं गोपालकुलेऽपि संजातः॥30॥

स्वत्रिकोणगतैः सर्वैर्भज्जातौ महीपतिः।

वसुस्त्रीबलसम्पन्नौ विद्याशास्त्रविशारदः॥31॥

द्वौ स्वगृहस्थौ कुरुतः कुलाधिकं बन्धुपूजितं धन्यम्।

वंशकरमर्थसहितं स्थानयशोभिस्त्रयो विहगाः॥32॥

ख्यातं विशिष्टचेष्टं श्रेणीपुरनगरपं च चत्वारः।

पञ्चावनीश्वरसमं प्रभूतगोभूमियुवतिसम्पन्नम्॥33॥

षड्भिः प्रवृद्धशब्दो द्युदिकोशस्वजनवाजिमानाढ्यः।

भवति नृपवंशजातो नियतं पृथिवीपतिः स्वर्क्षे॥34॥

राजाधिनृपः स्वर्क्षे जनयन्ति जितारिपक्षमिह सप्त।

मित्राश्रयं सुवृत्तं द्वौ मित्रगृहसमाश्रितौ कुरुतः॥35॥

बान्धवसुहृदुपकर्ता त्रिभिर्विशिष्टो भवेद्गुणैः ख्यातः।

ब्राह्मणदेवाराधनपरश्चतुर्भिर्धुरन्धरः ख्यातः॥36॥

राजोपसेवकः स्यातपञ्चभि (राढ्यं)राढ्यो नरेश्वरः कर्ता।

विस्तीर्णभोगवाहनवतुमान्षड्भिर्नरेन्द्रतुल्यः स्यात्॥37॥

सर्वैर्मित्रर्क्षगतैर्बहुवाहनभृत्यसाधनो राजा।

द्वाभ्यां नीचे नीचश्चिन्ताबह्वाग्रहमेतः॥38॥

मूर्खो(धर्माभिरतः)ऽधर्मरतोऽस्वस्त्रिर्ग्रहैरध्व(र्नीचगैरध्वगः)गो नरः प्रेष्यः।

आलस्यनष्टचेष्टश्चतुर्भिरिह नीचगैर्भृतकः॥39॥

(अमृतः)अगृहः प्रभिन्नदारः पञ्चभिरिह कथ्यते नरो दासः।

(खास)घातभयश्रमतप्तः षड्भिर्नीचो भवेत्क्षामः॥40॥

भिक्षुस्त्यक्ताशितभुग्भवति पुमान् विगतसर्वस्वः।

नीचैः सप्तभिरखिलैर्दिक्चिरधृताम्बरः सूतः॥41॥

द्वावरिभूवनसमेतौ क्लेशवतां नित्यविग्रहरुचीनाम्।

अतिपरिभूतानामपि नृणां जन्मप्रदौ कथितौ॥42॥

विविधव्ययदुःखभुजां त्रयः श्रमोत्पन्ननेष्टवित्तानाम्।

चत्वार इष्टयोषित्पुत्रार्थविनाशजाधितप्तानाम्(रोग)॥43॥

पञ्चारिगृहे विहगा इष्टव्यसनाभिघाततप्तानाम्।

षड्रोगाङ्कितवपुषां(रोगपीडतानां) दुःखवतां चैव जन्मकराः॥44॥

सप्तारिभे ग्रहेन्द्रा बीभत्सकुले प्रसूतानाम्।

(अल्पा)शय्याच्छादनभोजन(वाञ्छि)वञ्चितकानां भवन्ति सदा॥45॥

इति कल्याणवर्मविरचितायां सारावल्यां उच्चादिचिन्तनं नाम चतुश्चत्वारिंशोऽध्यायः॥

पञ्चचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


स्त्रीणां जन्मफलं तुल्यं पुंभिः सार्धं तदुच्यते।

विशेषस्तत्र यो दृष्टः कथ्यते विस्तरेण सः॥1॥

वैधव्यं निधने चिन्त्यं शरीरं जन्मलग्नतः(भाक्)।

सप्तमे पतिसौभाग्यं पञ्चमे प्रसवस्तथा॥2॥

प्रकृतिस्था लग्नेन्द्वोः समभे सच्छोलरूपाढ्या।

भूषणगुणैरुपेता शुभवीक्षितयोश्च युवतिः स्यात्॥3॥

पुरुषाकृतिशीलयुता दुःशीला दुखिता विषमराशौ।

क्रूरैर्वीक्षितयुतयोः पापा स्त्री स्याद्गुणैर्हीना॥4॥

लग्नेन्द्वोर्यो बलवास्त्रिंशांशेऽधिष्ठितोऽधिपैः फलं क्रमशः।

भूसुतभार्गवबोधनसुरगुरुमार्तण्डदेपभवैः॥5॥

कन्यैवारगृहे दुष्टा भौमत्रिंशांशके भवेत्।

कुचरित्रा तथा शौक्रे समाया बोधनेऽबला॥6॥

जैवे साध्व्यर्कजे दासी ज्ञर्क्षे कौजे तु कापटी।

शौक्रे प्रकीर्णकामा च बौधे गुणवती भवेत्॥7॥

जैवे सती शनौ क्लीबा दुष्टा कौजे सितर्क्षगे।

शौक्रे ख्यातगुणा बौधे कलासु निपुणा मता॥8॥

जैवे गुणान्विता मन्दे पुनर्भूः चन्द्रर्भे ततः।

स्वच्छन्ता कथिता कौजे शौक्रे च कुलपांसना॥9॥

बौधे शिल्पान्विता नारी जैवे बहुगुणा स्मृता।

पतिघ्नी चार्कभे कौजे वाचाला भार्गवे सती॥10॥

बौधे पुंश्चेष्टिता जैवे राज्ञी मन्दे कुलच्युता।

कौजे बसुगुणार्यर्क्षे शौक्रे वाग्व्यसनी(हो. र. 10 अ. 719 पृ. चाप्यसती) तथा॥11॥

बौधे विज्ञानसंयुक्ता जैवे नैकगुणा स्मृता।

मन्दे चाल्परतिः प्रोक्ता दासी कौजे तथार्किभे॥12॥

सुप्रज्ञा च भदेच्छौक्रे बुधे दुःस्था खला तथा।

जैवं पतिव्रता नित्यं मन्दे नीचानुसेविनी॥13॥

शुक्रासितौ यदि परस्परभागसंस्थौ

शौक्रे च दृष्टिपथगावदुये घटांशे।

स्त्रीणामतीव मदानग्निमदः(वह्निगदः) प्रवृद्धः(वृद्धिः)

स्त्रीभिः समं(शमं)च पुरुषाकृतिभिर्लभन्ते(र्यभेत)॥14॥

शून्येऽस्ते कापुरुषो बलहीनः सौम्यदर्शनविहीने।

चरभे प्रवासशीलो भर्ता क्लीबो ज्ञमन्दयोश्च भवेत्॥15॥

उत्सृष्टा सूर्येस्ते कुजे च विधवा नवौढैव।

कन्यैवाशुभदृष्टे शनैश्चरे वृद्धतां याति॥16॥

अशुभे क्षीणेऽस्तगते त्यक्ता पत्या भवेदशुभदृष्टे।

क्रूरैर्विधवास्तगतैर्भवति पुनर्भूस्तया मिश्रैः॥17॥

अन्योन्यभागगतयोः सितकुजयोरन्यपुरुषसक्ता स्यात्।

द्यूने शिशिरकरः वा (गुतनये)स्याद्युवतिरनुज्ञया भर्तुः॥18॥

सौरारगृहे तद्वच्छशिनि सशुक्रे विलग्नगे जाता।

मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति॥19॥

द्यूने तु कुजनवांशे शनिना दृष्टं सरोगयोनिः स्त्री।

सद्भृगुभागे चारुश्रोणी पतिवल्लभा भवति॥20॥

द्युने वृद्धो मूर्खः सौरगृहे स्यान्नवांशके वाऽथ।

स्त्रीलोलः क्रोधपरः कुजभेऽथ नवांशके भर्ता॥21॥

शुक्रगृहेऽथ नवांशेऽतिरूपसौभाग्यसंयुक्तो भर्ता।

नैपुणविज्ञानयुतस्यथैव बौधेऽथवा नवांशे वा॥22॥

मदनार्तो मृदुचित्तः शशिभेऽथ नवांशक भर्ता।

गुरुसितभागेऽप्यथवा गुणवाव्नितेन्द्रियो भवति॥23॥

अतिकर्मकृदतितीक्ष्णो रविभेऽप्यथवांशके भवति भर्ता।

सप्तमभवनोपेतैर्नित्यं स्त्रीणां समवर्धार्यम्(धार्यः)॥24॥

र्इर्ष्यान्विता सुखपरा लग्ने सितचन्द्रयोबुर्धन्द्वोश्च।

सुखिता कलासु कुशला गुणशतहिता विनीता स्यात्॥25॥

शुक्रबुधयोर्विलग्ने रुचिरा सुभगा कलासु निपुणा च।

दास्यम्बरसौख्ययुता शुभेषु पापेषु विपरीता॥26॥

पापेऽष्टमे तु विधवा निधनाधिपतिर्नवांशके यस्य।

तस्य दशायां मरणं वाच्यं तस्याः शुभैर्द्वितीयस्थैः॥27॥

कन्यालिवृषभसिंहे शिशिरमयूखेऽल्पपुत्रा(पुत्रता तस्याः) स्यात्।

पुत्रभवने शुभयुते निरीक्ष‍िते वा तथैव स्यात्॥28॥

रिक्तं(रिक्तैर्बु) बुधेन्दुभृगुजै रविजे च मध्ये

शेषैर्बलेन सहितैर्विषमर्क्षलग्गे।

जाता भवेत्पुरुषिणी युवती सदैव

पुंशचेष्टिता विचरति प्रथिता च लोके॥29॥

क्रूरे जामित्रगते नवमे यदि खेचरो भवति नूनम्।

(प्रब्रज्य मावमे ग्रहसंभवे नैव नोप्नाति)आप्नोति प्रव्रज्यां पापग्रहम्भवामबला॥30॥

बलिभिर्बुधगुरु शुक्रैः शशाङ्कसहितैर्विलग्नगैः समभे।

स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रार्थकुशला च॥31॥

जन्मकाले विवाहे च चिन्तायां वरणे तथा।

चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि(द्र.वृ.जा. 24।15,16)॥32॥

इति कल्याणवर्मविरचितायां सारावल्यां स्त्रीजातकफलो नाम पञ्चचत्वारिंशोऽध्यायः॥

षट्चत्वारिशोंऽध्यायः[सम्पाद्यताम्]


शिखिजलसास्त्रज्वरजस्त्वामयतृट् क्षुत्कृतो भवेन्मृत्युः।

सूर्यादिभिर्निधनगैः परदेशे पथि स्वके चराद्यैश्च॥1॥

यो बलयुक्तो निधनं पश्यति तद्धातुकोपजो मृत्युः।

तत्संयुक्तभगात्रे बहुभिर्बलिभिर्बहुप्रकारः स्यात्(द्र.वृ.जा. 25।1)॥2॥

(द्र.वृ. जा. 25।2)सूर्याङ्कारकयोः खबन्धुगतयोः शैलग्रपातोद्भवो

मृत्युर्भूतनयेन्दुभुतनयैः कूपे खसप्ताम्बुगैः।

पापालोकितयोर्हिमोष्णकरयोः कन्यास्थयोर्बन्धतो

लग्ने सूर्यशशाङ्कयोस्तिमियुगे तोये (यदा)सदा (मज्जति)मज्जतः॥3॥

कर्किणि मन्दे मकरे चन्द्रे मृत्यु(दरोदर)र्जलोदरकृतः स्यात्।

(पापांशस्थे) पापान्तःस्थे चन्द्रे कुजभवने शस्त्रवह्निभवः॥4॥

कन्यायां पद्मिनीशत्रुः पापमध्यगतः (स्तदा)सदा।

रक्तोत्थशेषजं मृत्युं करोति ध्रुवमेव हि॥5॥

सौरर्क्षे शुभयोर्मध्ये (रज्ज्वग्न्युत्पातजं शशी)शशी रज्जवग्निपीजम्।

कुर्यान्मृत्युं न सन्देहश्चाणक्यवचनं तथा॥6॥

नवमसुतयोरशुभयोः पापग्रहदृष्टयोर्भवेन्मृत्युः।

द्रेक्काणैः पाशभुजगनिगडैश्छिद्रेऽथवा गप्त्याम्॥7॥

मीनोदये दिनकरे शशिनि सपापेऽस्तगे सिते मेषे।

स्त्रीहेतुकं हि मरणं स्वमन्दिरे स्याद्वदन्त्येके॥8॥

रुधिरे (सुते)सुखेऽथवार्के वियति यमे क्षोणचन्द्रयुक्तैः(युक्ते)।

पापेस्त्रिकोणलग्ने शूलप्रोतस्य निर्दिशेन्मरणम्॥9॥

हिबुकेऽर्के वियति कुजे क्षीणेन्दुयुतेऽर्कजेन संदृष्टे।

काष्ठेनाभिहतः सन्भ्रियते जातो न सन्देहः॥10॥
 क्षीणेन्दुभौमरविन्दनसूर्ययुक्तैः छिन्द्रास्पदोदयसुखैर्लगुडाहतस्य।

मुत्युर्वियन्नवमलग्नसुतस्थितैस्तैर्धूमाग्निबन्धनशरीरनिकुट्टनैः स्यात्॥11॥

हिबुकास्तकर्मसहितैः कुजभानुशनैश्चरैर्भवति मृत्युः।

(सायुध)आयुधहुतभुग्भूपतिकोपप्रभवः सदा पुंसाम्॥12॥

कर्माम्बुवित्तसंस्थेः कुजेन्दुमन्दैः क्षतः क्रिमिकृतोऽन्तः।

(द्र.वृ.जा. 15।7)खस्थेऽर्केन्दुकुजे वा सुराप्रपान(प्रपात)प्रतापकृतः॥13॥

सप्तभवने भौमे क्षीणेन्दुदिवाकरार्किभिर्लग्ने।

मरणं जातस्य वदेद्यन्त्रोत्पीडनभवमवश्यम्॥14॥

तुलायां रुधिरे याते कुजर्क्षे भास्करे स्थिते।

चन्द्रे मन्दगृहं प्राप्ते विण्मध्ये मरणं भवेत्॥15॥

गलितेन्द्वर्कभूपुत्रैर्गतै(व्योमष्टनवबबन्युषु, व्योमाष्टमन्धुयु)र्व्योमास्तबन्धुषु।

विण्मध्ये तु भवेन्मृत्युः सिद्धसेनः प्रभाषते॥16॥

बलिना कुजेन दृष्टे क्षीणेन्दौ रन्ध्रगेऽर्कजे मृत्युः।

गुल्ममहावेदनया कृमिदाहायुधकृतो भवति॥17॥

रवौ सरुधिरे द्यूने निधने रविसंभवे।

रसातलस्थे हिमगौ मृत्युः पक्षिकृतो भवेत्॥18॥

लग्नच्छि(मित्र)द्रत्रिकोणेषु रव्यारार्किनिशाकरैः।

मृत्युः स्याच्छैलपातेन (वक्र)शस्त्रकुड्यादिपातजः॥19॥

उदयनवांशाधिपतेः समानभूतौ वदन्ति यवनेन्द्राः।

ग्रहयोगेक्षणकाद्यैः परिकल्प्यं चान्यदपि तज्ज्ञैः॥20॥

उदितांशसमो मोहः स्वेशेन(शेषेण) निरीक्षते द्विगुणितः स्यात्।

त्रिगुणः शुभैश्च दृष्टे समस्तमुनयो व्यवस्यन्ति॥21॥

उदयाद्द्वाविंशातिमद्रेक्काणो भवति कारणं मृत्योः।

(अधिपोद्भवो)तस्याधिपतिभवो वा निर्याणं सूचयेत्स्वगुणैः॥22॥

(हो. र. 7 अ. 189 पृ.)मेषाद्ये द्रेक्काणे क्रूरगहवीक्ष‍िते च संयुक्ते।

अम्ब्वहिविषपित्तकृतं मरणं नृणां समादेश्यम्॥23॥

विद्याद्द्वितीयभागे मरणं जल जलकृमिहिमारण्यैः।

एवं तृतीयभागे तटाककूपप्रपाताद्वा॥24॥

करभाश्वखरोष्ट्रेभ्यो मृत्युर्ज्ञेयो वृषस्याद्ये।

पित्ताग्निवातचोराद्द्वितीयभागे वृषस्यैव॥25॥

विद्यात्तृतीयभागे यानासनवाजिपातकृतम्।

पुंसां भवति हि मरणं रणशिरसि महास्त्रकृतमेव॥26॥

आद्ये मिथुनत्र्यंशे कासश्वासोद्भवो भवति।

(मृत्युर्विषवृकमहिषा)मृत्युर्महिषविषाद्याद्द्वितीयभागे च संनिपादाद्वा॥27॥

वनवासितचतुश्चरणात्पर्वतप(नागाद्गणा)तनाद्गजात्तथा(रण्यैः)रण्यात्।

भवति हि मृत्युः (मन्त्यै)पुंसामन्ते भागे तु जुतुमस्य॥28॥

ग्राहेण मद्यपानात्कण्टदोषेण वा तथा स्वप्नात्।

भवति हि कर्कटकाद्येमृत्युर्नृणां तृतीयभागे तु॥29॥

अभि(अभिशापा)घाताद्विषपानान्मध्ये त्र्यंशे भयं समादिष्टम्।

(प्लीह)विहगप्रमेहगुल्मा(ल्मस्त्रंसनदोषेण च तथान्त्ये)सृक्तन्द्रीदोषेण च तथान्त्ये॥30॥

सलिलविषपादरोगात्सिंहाद्ये त्र्यंशके भवेत्पुंसाम्।

मध्ये तृतीयभागे जलामयकृतो वनोद्देशे॥31॥

विषशस्त्रयोगदोषैरभिशापाद्वा तथा च पाताद्वा।

अन्त्ये सिंहत्र्यंशे भवति ही मृत्युर्न सन्देहः॥32॥

आद्ये कन्यात्र्यंशे मस्तकरोगात्तथानि (श्वसन)लान्मृत्युः।

व्यालगिरिदुर्ग( न्मृत्युः)वनजो मध्ये भूपात्मजादथवा॥33॥

करभखरशस्त्रतोयादतिखातात्स्त्रीकृतान्नपानाद्वा।

अन्त्ये कन्यात्र्यंशे नॄणां मृत्युः तदा इष्टः॥34॥
 आद्ये वणिक्त्रिभागे युवति(चतुष्पदनिपान)चतुष्पान्निपातदोषेण।

मध्ये तु जठररोगैरन्त्ये व्यालाम्बुजातेभ्यः॥35॥

आद्येऽलिनस्त्रिभागे विषशस्त्रस्त्री(रसा) कृतान्नपानभवः।

मध्ये तु वस्त्रभारस्रंसनरोगैर्भवति मृत्युः॥36॥

अन्त्ये तृतीयभागे लोष्टकपाषाण(घातेन)जनितवेदनया।

भवति हि मरणं ह्यथवा नॄणां जङ्घास्थिभङ्गकृतम्॥37॥

चापस्याद्ये त्र्यंशे गुदानिलसमुद्भवैर्विविधरोगैः।

मध्ये विषगुरुदोषैनिलकृतैर्वा भवेन्मृत्युः॥38॥

अन्त्ये तृतीयभागे जलमध्ये तत्समुत्थितैर्वाऽपि।

मृत्युर्नॄणां दृष्टो जठरामयदोषसंभूतः॥39॥

मकराद्ये द्रेक्काणे नृपहिंसाव्याघ्रकारणान्मृत्युः।

ऊरुविनाशादथवा जलचरसत्त्वाद्विषैकशफसर्पात्॥40॥

दहनास्त्रतस्करेभ्यो ज्वरादमानुषविभेदनान्मध्ये।

अन्त्ये मकरस्त्र्यंशे स्त्रीणां मृत्युः सदा इष्टः॥41॥

कुम्भे प्रथमत्र्यंशे स्त्रीभ्यस्तोयैस्तथा जठररागैः।

ज्ञेयो मृत्युर्नॄणां पर्वतहरनाद्विषादेर्वा॥42॥

मध्ये स्त्रीकृतदुःखैर्गुह्यजरोगैर्भवति मृत्युः।

अन्त्ये मिथुनचतुष्पदमुखरोहकृतैर्भवेत्पुंसाम्॥43॥

अंशे मीनयुगाद्ये गुल्मग्रहणीप्रेहयुवतीभ्यः।

जङ्घाजठरज(लजै)रोगैर्गजग्रहकृतैः समादिशेन्मृत्युम्॥44॥

नौभेदाज्जलमध्ये झषे दृगाणद्वितीयजातानाम्।

अन्त्ये भवति हि मरणं कुत्सितरोगैर्न सन्देहः(इस अध्याय में उक्त तुलनीय है जा. भ. नि. अध्याय)॥45॥

इति कल्याणवर्मविरचितायां सारावल्यां निर्याणफलं नाम षट्चत्वारिंशोऽध्यायः॥

सप्तचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


जन्मविधावज्ञाते (श्नोऽथ)प्रश्नोत्थविलग्नतो भवेत्स्पष्टम्।

जन्मसमयो(समये) नराणामतिप्रयत्नेन संचिन्त्य॥1॥

दशविध(विधि)चिह्नैर्ज्ञात्वा जातं पुरुषं प्रसाधयेल्लग्नम्।

अत एव प्रथमतरं तानि समस्यान्यहं वक्ष्ये॥2॥

मेषविलग्ने जातः प्रचण्डरोषो विदेशगमनरतः।

लुब्धः कृशोऽल्पसौख्यः सेर्ष्यः स्खलिताभिधायी च॥3॥

पित्ता(पित्तानिलोष्ण)निलोष्ठरोगैभितप्तनुः क्रियापटुर्भीरूः।

मेषाक्षिधर्मपरश्चलोऽल्पमेधाः परार्थना(रतः)शकरः॥4॥

भोक्ता ख्यातः कुनखो भ्रातृविहीनस्तथा पितृत्यक्तः।

शीघ्रगतिर्मन्दसुतो विविधार्थयुतः सुशीलश्च॥5॥

कुकुलोद्गतां (सुशीलां)विशीलां (व्यङ्गां स्वजनेऽघृणां) स्वजनेऽपि च निर्घृणां स्त्रियं लभते।

अपकृष्टोदयसौख्यः कुधर्मसंवर्धितार्थश्च॥6॥

वृषविलग्ने शूरः क्लेशसहिष्णुः सुखी रिपुनिहन्ता।

बाल्ये संचययुक्तः पृथुपीनललाटघोणगण्डोष्ठः॥7॥

उद्युक्तकर्मसुभगः पितुर्जनन्याः सुशर्मकृद्दाता।

विविधव्ययोऽतिरौद्रः कफानिलात्मा पिता कुमारीणाम्॥8॥

स्वजनावमर्दनपरो (नियुक्तो)धर्मविवृत्तोऽबलाप्रियश्चपलः।

भोजनपाननिगृध्नुर्नानाम्बरभूषणैकमतिः॥9॥

मिथुनविलग्ने जातः प्रियदारो भूषणप्रदानरतिः।

(पूज्यतमः)पूज्यवचः सुवर्चस्वा द्विमातृको रिपुविनीतः स्यात्॥10॥

गान्धर्वशिल्पकुशलः श्रुतिशास्त्रार्थप्रहा(भास्य)स्यकाव्यमतिः।

सौम्योऽथ मण्डनरुचिर्मदवश्यः स्यात्सतां सत्यः॥11॥

असहिष्णुरनिष्टसुतः शठोऽल्पबन्धुश्च संस्थितो भवति।

हीनाधिकाङ्गपादो विनीतवृत्ताक्षिपक्ष्मा च॥12॥

चण्डाकारो वश्यो दारुणरिपुपक्षसंहरणशीलः।

भूरत्नकाञ्चनार्मि(नेप्सित)कजलार्थभागी भवेत्पुरुषः॥13॥

कर्किणि लग्ने भीरुर्नैकनिवासश्चलप्रज्ञः।

मेधान्वितोऽतिधुर्यो गुह्यरुगार्तो निहन्ति रिपून्॥14॥

अन्तर्विषमः कामी द्विजदेवतात्यर्चनप्रदानरतः।

धर्मरतः कफबहुलः युवतितनुः(तनुः संस्तुतो गणैर्नियतम्)संस्थितो गुणैर्नियतम्॥15॥

कन्यानुजो न बन्धुर्दृष्टाल्पसुतो विगर्हितकुटुम्बः॥

बहुमतकुत्सितयुवतिः परार्थभागी दृढग्राही॥16॥

परदेशगः सुधीरः साहसकर्मा जलाधिगतवित्तः।

स्त्रीभूषणाम्बरसुखैर्भोगैश्च समव्नितो भवति॥17॥

सिंहोदये प्रसूतो मांसरुचिर्नृपतिलब्धमानधनः।

धर्माच्च युतोऽप्य(ह्यसंस्थ)संस्थः कुटुम्बकार्येषु रतवामः॥18॥
 सिंहस्य समानमुखः स्थितिमान्गाम्भीर्यसत्त्वसंयुक्तः।

धृष्टोऽल्पवचा लुब्धः परघातकरो बुभुक्षावान्॥19॥

पर्वतवनानुसारी सुरोषणो दृढसुहृत्प्रमादी च।

दुष्प्रसहो हतशत्रुः ख्यातसुतः प्रणतसाधुजनः॥20॥

कृष्यादिकर्मधनवान्व्यापाररतो बहुदव्ययो भवति।

वेश्या-नटी-नियमनाद्भार्यातश्चातिदन्तरोगाच्च॥21॥

षष्ठे साधुत्वयुतः शिक्षागान्धर्वकाव्यशिल्पपटुः।

प्रियवल्गुकथाभाषी प्रणयी दानोपचाररतः॥22॥

कन्याविलाससत्त्वस्थितिर्दयावान्परस्वभोक्ता च।

भोक्ता देवभ्रमणः स्त्रीप्रकृतिर्विनयवाक् कितवः॥23॥

भूमण्डलवर्धनभाक् सुभगः कामी यशोच्छ्रयं लभते।

ऋजुधर्मवान्सुरूपः सुरुचिः कान्तो गुरूणां च॥24॥

पापैरहार्यवृत्तैः सहजैश्च समं विरुद्धश्च।

कन्याप्रजोऽनिलकफो नीचारिविवर्जितकथश्च॥25॥

सप्तमलग्ने जातो विषमाङ्ग शीलवर्जितश्चपलः।

उपचितहीनद्रविणः (सुखकृद्देहा)सुखहृद्देहानुसारी(कारी) स्यात्॥26॥

(कक्षाधिकः खलरुचिः)कफवातिककलिरुचिको दीर्घमुखशरीरधर्मतिवेत्ता।

बहुदुःखभाक्सुमेधाः परावमर्दी सुचारुकृष्णाक्षः॥27॥

अतिथिद्विजदेरतिः (तनुः)क्रतुक्रियावान्गुरुषु भक्तः।

पूज्यः पितान्यभाजां जातः सत्यश्च मृदुशुक्लः॥28॥

भ्रातृप्रियोऽर्थमुख्यः शुचिश्च पापोपचारबन्धुश्च।

(दाता)कान्तः कुत्सितवृत्तो धर्मव्यवसायनीचमतिः॥29॥

वृश्चिकलग्ने पुरुषः (तनुर्व्या)पीनपृथुव्यायताङ्गस्तीक्ष्णश्च।

अन्तर्विषमः शूरो मातुरभीष्टो (रतोद्य)रणोद्यतस्त्यागी॥30॥

गम्भीरपिङ्गलोद्धतदृक्तुमहाहृन्निमग्नठरश्च।

अन्तर्विलग्नघोणः साहसनिरतः स्थिरश्चण्डः॥31॥
 विश्वासहासवश्यः पित्तरुगार्तः कुटुम्बसम्पन्नः।

गुरुसुहृदां द्रोहरतः (वरा)पराङ्गनाकर्षणानुरतः॥32॥

बन्धोल्बणवक्त्रः स्याद्भूपतिसेवी सशत्रुपक्षः स्यात्।

प्रयतोऽर्तदः सुयुवतिधर्मं प्रति वत्सलः क्षुद्रः॥33॥

कार्मुकलग्ने जातः स्थूलदरस्तुङ्गापृथुलमूर्धा च।

प्रणतानां प्रियकारी धृतिसत्त्वसमन्वितः सुनयः॥34॥

मलिननासिकोष्ठकुनखी ह्रीमानतिपीवरोरुजठरश्च।

विज्ञानशास्त्रकुशलः प्रत्यग्रमतिः सुलभप्रकोपश्च॥35॥

बलिनामर्षणपरः कुलमुख्यो नाशितारिपक्षश्च।

संग्रामपदश्रेष्ठबहुलश्छलबहुलश्छिद्रबन्धुगुणः॥36॥

शिल्पादिकर्मनिरतः स्वकर्मदान्(बाग्बन्धु) बन्धुवर्गशुभदश्च।

कान्तो (वदनाजिपदो)वदनाक्षिगदो नृपाद्धृतार्थः सुधर्मरतः॥37॥

मृगवदने लग्नस्थे कृशगात्रो भीरुरेणवक्त्रश्च।

वातव्यधिभिरार्तः प्रदीप्तङ्गोग्रनासः स्यात्॥38॥

लघुसत्त्वोऽमिततनयो रोमचितः पाणिपादविस्तीर्णः।

आचारगुणैर्हीनस्तृषार्तरामाभिराममतिः॥39॥

गिरिवनचारी शूरः शास्त्रश्रुतिशिल्पगेयवाद्यज्ञः।

क्षुद्रबलः सकुटुम्बो द्विष्टो दुष्टश्च बन्धुशठः॥40॥

कुत्सितशीलः कान्तः कुत्सितदारोऽनसूयको धनवान्।

धर्मरतो नृपसेवी न चापि दाता सुखी सुभगः॥41॥

कुम्भविलग्ने पुरुषः सुनीचकर्मा कुलाधिको मूर्खः।

स्फुटिताग्रनसो नीचः सक्रोधपरोऽलसात्मा च॥42॥

वैरप्रियोऽप्रहृष्टः पारुष्यद्यूतनीचदासीष्टः।

उपहृतबन्धुः क्षुब्धः क्षयोदयो प्राप्तवित्तश्च॥43॥

पिशुनः शठो दरिद्रो विनष्टबन्धुर्बहिष्कृतो लोके।

नो संमतः परेषां प्रकृष्टसम्पद्गुरुरतिश्च॥44॥

कुम्भोदयो न शस्तो लग्नविधौ सर्वथैव सत्यमते।

यवनैर्वर्गोऽपि तथा चाणक्यो वदति नो वर्गम्॥45॥

मीनविलग्ने जातो धन्यः स्फुटनासिकोऽस्फुटाक्षश्च।

विज्ञानकाव्यबुद्धिर्मानादरलब्धकीर्तिश्च॥46॥

विवृतोष्ठरदः कुष्ठी विदारितास्यो वृषादिसंलुब्धः।

दाक्षिण्यप्रत्ययवान् मेषच्छागादिसम्पन्नः॥47॥

शौचाचारश्रुतिवाग्धृतिमान्(श्रुत) कन्याप्रजो विनीतश्च।

सौम्यमतिः सत्त्वयुतो गान्धर्वस्त्रीरतिज्ञश्च॥48॥

बहुशीलोदारमतिर्भ्रातृधनौमर्षणः सुबन्धुश्च।

बलवति राशावेतत्तदधिपतौ वा बलं(वक्षे) सर्वम्॥49॥

इति कल्याणवर्मविरचितायां सारावल्यां नष्ट जातकाध्याये लग्नगुणो नाम सप्तचरिंशोंऽध्यायः॥

अष्टचत्वारिंशोऽध्यायः[सम्पाद्यताम्]


रिक्तोत्कटदृ क्रूरो धनपः शुक्लाधिकोग्रदाररतः।

पीनोन्नतः प्रचण्डस्तस्करनाथः क्रियादिहोरायाम्॥1॥

चोरः प्रमादबहुलः खराग्रपादाङ्गुलिर्द्वितीयायाम्।

स्निग्धायताक्षतुरः पृथुपीनतनुः सुमेधाश्च॥2॥

श्यामो विशालचक्षुर्ललाटवक्षाः(पक्ष) प्रगल्भरतिवश्यः।

स्थूलास्थितनुर्वृषभप्रथमार्धे स्याद्वपुष्मांश्च॥3॥

पृथ्वायतवृत्ततनुमुदारसत्त्वं सुमूर्धजं जनयेत्।

व्यस्तकटिं वृषभाक्षं वृषभे होराद्वितीयायाम्॥4॥

मध्यायतोऽतिदक्षो मध्यतनुर्मृदुशिरोरुहाङ्घ्रिश्च।

मिथुनाद्यर्धे शूरः सुरपेप्सुः स्याद्धनी प्राज्ञः॥5॥

मधुरायताक्षकामी शूरो मृदुकर्मठो वचस्वी च।

परदारदत्तदेहो भवेन्नृमिथुनद्वितीयहोरायाम्॥6॥

उद्धतमूर्तिः सुशिराः प्रगल्भधीर्मन्दृक्चलाङ्गुशठः।

श्यामतनुः सुकृतघ्नो भग्नाग्ररदः कुलीरहोरायाम्॥7॥

द्यूते रतोऽध्वनिरतः पृथुवक्षा सत्प्रमाणसम्पन्नः।

कठिनशरीरः क्रोधी जायेत कुलोरभद्वितीयायाम्॥8॥

रक्तान्तदृक्प्रगल्भो गुरुरायतविग्रहश्च सिंहाद्ये।

जिह्मस्वभावसुखभागन्तस्थिरकार्यसत्त्वश्च॥9॥

स्त्रीमृष्टपानभोजनवस्त्रेप्सुर्बहुविचेष्टकठिनाङ्गः।

दाताध्वरतोऽल्पसुतो भोगी स्थिरसौहृदोऽन्त्यार्धे॥10॥

सुकुमारमूर्तिकान्तः सुवाक्यगीताङ्गनारतिर्मधुरः।

गान्धर्वविद्युवत्याः सुभगः पूर्वार्धजः श्रेष्ठः॥11॥

ह्रस्वो हठश्रुतार्थः स्थूलशिराः सम्मतो विवादी च।

सेवालेख्यलिपिज्ञः क्षयवृद्धियुतः सुखी द्वितीयार्धे॥12॥

वृत्तानन उच्चनसस्त्वसितायतसुनयनो विलासी स्यात्।

पीनायताऽस्थिसारो धनवान्स्वजनप्रियस्तुलीद्यर्धे॥13॥

बह्वर्थभाक् स्थिरार्थः श्यामाकुञ्चितशिरोरुहश्च शठः।

वृत्ताक्षरत्स्वपरार्धे सुत्वग्घीनाग्रपादश्च॥14॥

रक्तान्तपिङ्गदृष्टिः साहसकर्मान्वितो रणे शूरः।

दुष्टस्वभावरामाप्रियोऽर्थंभाग्वृश्चिकाद्यर्धे॥15॥

विस्तीर्णोपचितायतपीनाङ्गः क्ष्माधिपोपसेवी स्यात्।

बह्वृणमित्रसमेतः स्फुटिताक्षो वृश्चिकापरार्धे स्यात्॥16॥

दारितपृथुमुखवक्षाः परिकुञ्चितनेत्रगण्डः स्यात्।

बाल्ये त्यक्तात्मगुरुश्चापाद्यर्धे तपस्वी च॥17॥

पद्माक्षो दीर्घमहाबाहुः शास्त्रर्थवित्सुमूर्तिः स्यात्।

वाक्सुभगो धन्योऽपि च धनुरपरे निर्वृतो यशस्वी च॥18॥

श्यामो मृहाक्षधन्यः स्त्रीष्वजितः सौम्यमूर्तिशठ आढ्यः।

मृष्टाशनः (सुवेषो)सुचेष्टो मृगाद्यभागे तनूच्चघोणः स्यात्॥19॥

रक्तान्तदृष्टिरलसो गुरुदीर्घाटनपरो भवति मूर्खः।

श्यामो रोमचिताङ्गस्तीक्ष्णः सहसः सुरौद्रकर्मा च॥20॥

स्त्रीमित्रभागरसविन्मृदुलोऽपसुतश्च सद्गुणः शूरः।

ताम्रो भास्वरवर्णो यानमतिः कुम्भपूर्वार्धेः॥21॥

आताम्रदारिताक्षः कृशः स्थिरोऽत्यल्पमूर्तिरलतः स्यात्।

नैकृतिकः सुविषादी कृपणः कुम्भापरे सुशठः॥22॥

ह्रस्वः पृथुचारुतनुर्महाललाटो बृहृद्वदनवक्षाः।

स्त्रीदयितो मीनार्धे प्रथमे सुयशाः क्रियापटुः शूरः॥23॥

दाता सुतुङ्गनासो निपुणो मेधान्वितः शुभदनेत्रः।

नृपदयितः स्त्रीसुभागश्चारुर्मीनापरे सुवाक्यः स्यात्॥24॥

चन्द्रार्कयोरेकतरे बलस्थे होरापतिः पश्यति केन्द्रगो वा।

होरा यथोद्दिष्टफलप्रदा स्याद्गगर्भस्थसत्त्वस्य समुद्भवेषु॥25॥

इति कल्याणवर्मविरचितायां सारावल्यां होरागुणो नाम अष्टचत्वारिंशोऽध्यायः॥

एकोनपञ्चोऽध्यायः[सम्पाद्यताम्]


दाता हर्ता दीप्तः क्षयोदयी सङ्गरप्रचण्डः स्यात्।

प्रियविग्रहस्त्रिभागे मेषाग्रे बन्धुषूग्रदण्डश्च॥1॥

स्त्रीचञ्जलो विहीरी रतिमान्गीतप्रियो मनस्वी स्यात्।

मित्रार्थभाक्सुरूपः स्त्रीवित्तरुचिर्द्वितीये च॥2॥

गुणवान्परदोषकरश्चलसत्त्वयुतो नरेन्द्रसेवी स्यात्।

स्वजनप्रियोऽतिधर्मतृतीयभागे प्रियादरोऽज्ञश्च॥3॥

प्रियपानभोज्यनारीवियोगतप्तो वृषस्य पूर्वांशे।

वस्त्रावङ्कारयुतो युवतिप्रकृतानुसारी स्यात्॥4॥

सौम्यवपुस्त्रीसुभगो महाधरो रूपधनयुक्तः।

बलवान्स्थिरो मनस्वी लुब्धस्त्रीणां स्याद्धनान्युपादाय।

सन्तप्यते तु पश्चाद्वृषस्य भागे तृतीये च॥6॥

मिथुनादिमे दृगाणे पृथूत्तमाङ्गो धनान्वितः प्रांशुः।

कितवो गुणी विलासी नृपाप्तमानो वचस्वी स्यात्॥7॥

ह्रस्वाननस्वरूपः सौम्यवपुः सूक्ष्ममूर्धजतनुः स्यात्।

धन्यो मृदुमहाधीर्द्वितीयभागे प्रतापवान्सुयशाः॥8॥

स्त्रीद्वेषणो वपुष्पान्महाशिराः शत्रुसंयुतः प्रांशुः।

रूक्षनखाङ्घ्रिकरतलश्चलार्थविभृतो दृढस्तृतीये स्यात्॥9॥

कर्कटादिमभागे देवब्राह्मणरतश्चलो गौरः।

कृत्यकरश्च परेषां सुधीः सुमूर्तिः शुभांगनः सुभगः॥10॥

लुब्धः स्वाद्वदनपरः स्वप्नरतः स्त्रीजितोऽभिमानी स्यात्।

सहजान्वितो विलासी चपलो बहुरुग्द्वितीये च॥11॥

स्त्रीचञ्चलोऽर्थभागी विदेशनिरतः प्रियासवः साधुः।

काननतोयानुरतो दुर्दृष्टिर्माल्यवांस्तृतीये स्यात्॥12॥

सिंहादिद्रेष्काणे दाता भर्तारिनिर्जिगोषुः स्यात्।

बहुधनयोषित्सुसुहृद्वहुजननृपसेवकः सुसत्त्वश्च॥13॥

सुरुचिरकारी दाता स्थिरो वपुष्मान्रणेप्सुः स्यात्।

सुखभाक् श्रुतिधर्मरुचिर्विस्तीर्णमतिर्द्वितीये च॥14॥

लुब्धः परस्वहरणे कल्यः स्तब्धो महामतिः कितवः।

नायततनुमूर्तिः स्यान्नैकापत्यः प्रगल्भोऽन्त्ये॥15॥

श्यामः सुवाग्निनीतः प्रांशुः सुकुमारमूर्तिरबलाद्ये।

स्त्रीभ्योर्थंभागनिष्ठो दीर्घशिरा मधुसमाक्षश्च॥16॥

धीरो विदेशभागी शिल्पकथापण्डितः समरशौण्डः।

वाचाटः श्रुतवाक्यो वनौकसां संमतो द्वितीये स्यात्॥17॥
 गीतापरार्धभागी सङ्गीतरतिर्नरेन्द्रदयितः स्यात्।

ह्रस्वस्वरूपवेषश्चान्ते पृथुदृक्शिरस्कश्च॥18॥

कन्दर्परूपनिपुणस्तुलादिभागेऽध्वसेवज्ञः।

श्यामकला पण्यरतो नियोगधीरः सुमेधावी॥19॥

पङ्कजविशालनेत्रः सुरूपवाक्साहसः (किलापी)विलापी स्यात्।

ख्यातः स्ववंशवर्धितवृद्धानुचरो द्वितीये च॥20॥

चपलः शठः कृतघ्नो विरूपजिह्मोपचितमूर्तिः।

नष्टसुहृद्द्रविणयशयाः स्वल्पमतिर्भागके तृतीये स्यात्॥21॥

गौरः स्थिरः प्रचण्डो रणोत्कटः स्यान्नरो विशालाक्षः।

स्थूलविशालशरीरः कलिप्रियो वृश्चिकाद्यांशे॥22॥

मृष्टान्नपानचतुरश्चलेक्षणो हेमगौरमूर्तिः स्यात्।

कान्तः परवित्तयुतः शीलकलावाग्द्वितीयेंऽशे॥23॥

निःश्मश्रुरोमहिंस्रः पिङ्गाक्षमहोदरः प्रहर्ता च।

सहजच्युतस्तृतीये पीवरबाहुः सुधीरहृदयश्च॥24॥

परिमण्डलाक्षवक्त्रो गणेषु मुख्यो धनुर्दृगाणाद्ये।

स्वोपचितस्वाचारस्तथा मुदुर्भवति संजातः॥25॥

शास्त्रार्थवित्प्रवक्ता क्रतुशतहर्ता द्वितीये च।

मन्त्रभृतां श्रेष्ठतमस्त्वनेकतीर्थायतनचारी॥26॥

बन्धुप्रधानचतुरः सतां गतिर्धर्मभाक् तृतीयेऽपि।

(मानी)कामी पराङ्गनाभावरूपयशोभाजनो विजिष्णुश्च॥27॥

व्यालम्बभुजः श्यामः प्रथितयशोरूपकान्तिशठः।

स्मितभाषी मकराद्ये स्त्रीषु जितो वल्गुचेष्टधनयुक्तः॥28॥

अल्पवदनश्च मध्ये चलः परस्त्रीधनापहर्ता स्यात्।

चतुरः सतां गतिज्ञः प्रदानशीलो दुरन्तपादः स्यात्॥29॥

(वाचाटः)वाचालः कलुषकृशो दीर्घाङ्गः पितृवियुक्तश्च।

लभते विदेशगमनाद्व्यसनान्यपि मृगमुखस्यान्ते॥30॥

स्त्रीमानयशोभुतिः स्फीतप्रभवो घटस्याद्ये।

प्रांशुः कर्मसु निष्ठो धनवान्नृपसेवको जातः॥31॥

लुब्धः समर्थमधुरो गौरः पिङ्गोद्धताक्षहास्यधनः।

उद्घृष्टवचा मतिमान्बहुमित्रः स्याद्द्वितीये तु॥32॥

दीर्घः शठः प्रतापो कृशोऽपबाहुः सुतार्थभाक्स्तब्धः।

बह्वनृतोऽन्तर्विषमो विदारिताक्षो रतिविदन्त्ये॥33॥

मधुपिङ्गाक्षो गौरो मेधावी सत्क्रियारतिज्ञश्च।

सुखभागी मीनाद्ये (चारयुतो)जलचरयुगले विनीतश्च॥34॥

नार्युपचारप्रवरो मृष्ठान्नरतिः(रुचिः) परार्थभुक् (कारी)कामी।

स्त्रीसज्जनातिदयितो वदतां श्रष्ठो द्वितीये तु॥35॥

श्यामः कलासु निपुणः (दान)पृथुपादसुहृत्प्रदानश्च।

मृष्टान्नपानहास्यो मीनयुगान्त्ये भवेत्पुरुषः॥36॥

इतीरितोऽयं स्वगुणस्भावो द्रेक्काणजानां (गुणचिन्हकल्पैः)गुणविद्विकल्पैः।

द्रेक्काणभे(णगे) वीर्यवति स्वदृष्टे द्रेक्काणकल्पं तु फलं विदध्यात्॥37॥

इति कल्याणवर्मविरचितां सारावल्यां नष्टजातकाध्याये द्रेक्काणाध्यायो नामैकोनपञ्चशोऽध्यायः॥

पञ्चाशोऽध्यायः[सम्पाद्यताम्]

(नववर्गगुणचिन्ताध्यायः)

अतोंऽशके (गतेति)लग्नगते तु वक्ष्ये वर्णस्वभावाकृतिलक्षणानि।

प्रधानवीर्येंऽशपतौ शशीव तत्स्वामिराशिक्रमशो विधत्ते॥1॥

अजसंस्थानमुखः स्यान्मेषाद्यांशेऽल्पनासिकांगभुजः(रुहः)।

चण्डध्वनिर्विरूपः संकुचिताक्षः कृशोऽक्षताङ्गश्च॥2॥

श्यामगुरुस्कन्धभुजो ह्रस्वललाटः सुजत्रुकः स्फुटदृक्।

दीर्घास्यनसो मृदुवाक्तृतीयभागे कृशाङ्घ्रिसन्धिश्च॥3॥

व्यालुप्तकेशगौरो व्यस्तभुजश्चारुनयननासश्च।

वाक्पण्डितस्तृतीये जातस्तु कृशोरुजानुजंघश्च॥4॥

विभ्रान्तदृक्प्रचण्डो ह्रस्वनसोऽटनखराङ्घ्रिरोमा च।

अभ्रातृकः कृशः स्याच्चतुर्थनवभागजः पुरुषः॥5॥

दृप्तो गजेन्द्रनयनः पृथुनासाभ्रूललाटको मध्ये।

पीनोपचिताग्रतनु(ततो) खरतररोमाङ्घ्रितनुकेशः॥6॥

श्यामो मृदुर्मृगाक्षो गुरुः कृशस्फिक्कठोरुचरणः स्यात्।

व्यस्तोदरकभुजांसः षण्ढो भीरुश्च बहुभाषी॥7॥

दूर्वाङ्कुराभचपलः सितनेत्रः सप्तमे भवेत्पुरुषः।

कुलटापतिर्नृशंसो विशालविस्तीर्णमूर्तिः स्यात्॥8॥

वानरमुखप्रवक्ता खरपिङ्गतनुश्च गुह्यगदः।

हिंस्त्रोऽनृतपापरतः सुहृत्प्रियोग्रः सदाष्टमजः॥9॥

दीर्घः कृशो विहारी व्यस्तललाटश्रवोऽश्ववदनश्च।

बह्वभिधानाभिरतस्त्वनृजुर्नवमांशजो भवति॥10॥

समकृष्णतनुः स्तब्धः पूर्वमघान्त्येऽन्त्यकर्मा स्यात्।

नीचः प्रकृतिविरुद्धो विषमाक्षिनिरीक्षणो वृषस्याद्ये॥11॥

गम्भीरदृगलसात्मा विनतशिरावक्त्रकश्च लघुमेधाः।

प्रतिकूलकर्ममिथ्याबहुप्रलापी द्वितीये स्यात्॥12॥

मृद्वङ्गवान्व्मुष्मान्सुनसस्पष्टायताक्षबृहदङ्गः।

यज्ञादिकर्मनिरतः स्थिरपार्ष्णिकरस्तृतीयनवमांशे॥13॥

ह्रस्वोदरः सुरोषो मेषाक्षः पिङ्गलस्त्वधनयुक्तः।

परधनहरणाभिरतश्चतुर्थभागे वृषस्य नरः॥14॥

व्यालः सुतुङ्गघोणो महर्षभाकारवक्त्रघनकेशः।

स्यात्पञ्चमे विलासी बृहद्भुजस्कन्धकटिगौरः॥15॥

स्वक्षः स्थिरः सुकेशः स्निग्धतनुर्वल्गुवाक्प्रगल्भः स्यात्।

माधुर्यहास्यनिरतः कृशः सुनिपुणो भवेत्ष्ष्ठे॥16॥

मृतसुतयुवतीषु रतो मनाक्प्रलम्बाग्रनासिकाक्षः स्यात्।

उद्बद्धांगः स्वजनद्वोषी गुरुपादसूक्ष्मकेशश्यच॥17॥

व्याघ्रेक्षणः सुदशनस्त्वचितस्फुटनासिकोऽल्पकर्मा स्यात्।

उद्वृत्तनीलकेशोग्रनखो मुखरस्तथाष्टमजः॥18॥

मान्योऽल्पसत्त्वभीरुः क्रोधी समरुचिरमूर्तिकितवः स्यात्।

सञ्चितधनः प्रसिद्धः कृशस्त्वधस्तात्प्रलाप्यन्ते॥19॥

रोमोपचितांसभुजे घनासितापांगदृक्तथोच्चनसः।

दूर्वाकाझडश्यामः कृशाङ्घ्रिपाणिस्तृतीयभवनाद्ये॥20॥

घटशीर्षोऽशुचिकर्मा घातरुचिर्मध्यलग्नघोणः स्यात्।

बहुभाषी बहुचेष्टो द्वितीयभागे तु विग्रहाधिपतिः॥21॥

गौरोऽतिरक्तनयनः सुनासिकः समतनुः सुमेधा स्यात्।

दीर्घाननोऽसितभ्रूर्वाचा चतुरस्तृतीयेंऽशे॥22॥

सुभ्रुललाटकामी नीलोत्पलमूर्तिर्विपुलवक्षाः स्यात्।

सितदन्तो(वक्त्रो) मृदुवक्त्र(वक्रं) प्रशस्तरोमाचितश्चतुर्थेऽशे॥23॥

पृथ्वाननो बृहत्स्फिक्पीवरवक्षोभुजश्च खलः।

स्थूलशिरा मायावी सितानुकूलेक्षणस्तु पञ्चमजः॥24॥

मध्वीक्षणः प्रलापी व्यस्तललाटः समस्सुतनुः।

कितवश्चलश्च रुचिरोष्ठरदः षष्ठे तु सत्त्वयुतः॥25॥

ताम्रारुणाक्षवर्णः समुन्नताक्षो विशालवक्षा स्यात्।

शिक्षास्त्रशिल्पनिपुणो हास्यरतिः सप्तमे जातः॥26॥

श्यामो गुरुर्मनस्वी ललितो मधुराभिधानश्च।

व्यस्तविवृन्शरीरो दीर्घासितदृक्कलाविदष्टमजः॥27॥

वृत्तासितदृक्सुतनुः सिद्धो मेधाबलो रतिज्ञः स्यात्।

विज्ञानकाव्यनिरतो नवमे जायेत मिथुनस्य॥28॥

निर्मलचारुसुगौरः सुमूर्धजः स्याद्विशालकुक्षिश्च।

मंगलमुखोन्नताक्षस्तन्वंगभुजः कुलीराद्ये॥29॥

(छविचरणोढः)रक्तच्छवीरणोग्रः कलाप्रियः स्याद्विडालमुखनेत्रः।

कर्किद्वितीयभागे त्यागी कृशजानुजंघश्च॥30॥

गौरः सुनेत्रवाग्मी सुकुमारस्थूलयोषिदंगश्च।

धीमान्मृदुकर्मरतस्तृतीयभागे भवेदलसः॥31॥

श्यामच्छविर्नतभ्रूर्विशालपीनोन्नतः सुनासाक्षः।

क्षीणः पुरुषो दाता स्वजातिकार्यश्चतुर्थे स्यात्॥32॥

घण्टास्वरो नतास्यः सुसंहतभ्रूः सुदीर्धबाहुः स्यात्।

सेवारतो विकर्मा मध्ये दुर्मर्षणोऽल्पमेधाश्च॥33॥

दीर्घविशालशरीरः प्रशस्तनयनो बहुप्रतापः स्यात्।

गौरः सुवंशघोणो वक्ता षष्ठे च पृथुदन्तः॥34॥

भिन्नशिरोरुहरोमा वृहत्तनुः स्यात्सिरालजङ्घश्च।

परगृहरक्षणशीलः काकाकारश्च सप्तमजः॥35॥

घण्टाशिराः कुशिल्पी सुमुखभुजांगश्च कूर्मगतिः।

मध्यविलग्ननसः स्यादष्टभागे तु कुष्ठश्च॥36॥

गौरो झषनेत्रगुरुर्मृदूदरोऽथ पृथुपीनवक्षाः स्यात्।

दीर्घहनुर्लम्बोष्ठो महोरुकृशजानुगुल्फोऽन्त्ये॥37॥

मन्दोदरः प्रचण्डो रक्ताग्रनसो बृहच्छिराः शूरः।

उन्नतमांसलवक्षाः सिंहे प्रथमे भवेद्भागे॥38॥

उन्नतविततललाटश्चतुरस्त्रतनुर्विलोमनेत्रश्च।

दीर्घभुजोन्नतवक्षाः पृथुग्रघोणो द्वितीयेंऽशे॥39॥

रोमान्वितायतभुजश्चकोरनयनस्तलस्त्यागी।

उन्नासिकस्तृतीये स्निग्धतनुर्बाहुवृत्तगलः॥40॥

घृतमण्डगौरगात्रो दीर्घासितलोचनो मृदुशिरोजः।

भिन्नध्वनिश्चतुर्थे पृथुकरचरणश्च भेककुक्षिः स्यात्॥41॥

घण्टाशिरोऽल्पकोशो सितघोणाक्षश्च लोमशांगतनुः।

लम्बोदरप्रचण्डो दंष्ट्रोत्कटपीनहृन्मध्ये॥42॥

स्त्रस्ताल्परोममूर्तिः स्निग्धसमासितविलोचनो दीर्घः।

श्यामः सत्रीणां चतुरो विकत्थनो वाक्यपण्डितः षष्ठे॥43॥

दीर्घाननः ‍सिरालः पीनतनुः स्त्रीषु दुर्भगः कृष्णः।

स्यात्सप्तमे सुचण्डो रोमचितः कूटनिष्ठुराभाषी॥44॥

उत्कृष्टवाक्स्थिरांगः (सूभ्रूर्ग)सुभगो गम्भरीदृग्विकर्मा च।

निःस्वः कूटकरः स्यादष्टमभागे प्रसूतश्च॥45॥

रासभमुखोऽसिताक्षो व्यालम्बभुजः सुपार्ष्णिजङ्घश्च।

श्वासनिपीडितवक्षा नवमांशे जायते मनुजः॥46॥

सारंगाक्षो वक्ता प्रदानसम्भोगवान्धनाढ्यश्च।

श्यामोन्नतहृदयः स्यात्षष्ठे प्रथमांशके जातः॥47॥

पूर्णाननः (वक्षा)सुचक्षुः (पिशुनः कलहप्रियः सुगूढवयाः)स्निग्धो मृदुवादशीलश्च।

लम्बोदरश्चलः स्याद्द्वितीयभागे महोरुश्च॥48॥

स्फुटनासिकापुटः स्यात्प्रशस्तपादश्च पीनपादभुजः(पाणि)।

विस्पष्टवाक्च गौरः कन्यासु सुहृत्तृतीयेंऽशे॥49॥

श्रुतवान्स्त्रीषु च रमते सुकुमारो मधुररक्तगौरश्च।

तीक्ष्णश्चतुर्थभागे प्रबोधनोऽधःकृशो द्वितूर्धा च॥50॥

स्थूलोष्ठबाहुरुन्नततनुः पृथुशिरोरुहांसः स्यात्।

पञ्चमजः पृथुवक्षा पराश्रयोद्बद्धजंघश्च॥51॥

स्निग्धच्छविः सुवाक्यः शस्ततनुः शास्त्रकृतमतिप्रचुरः।

लिपिलेख्यकलाभिज्ञः सुमनाः षष्ठांशजी विहारी च॥52॥

ह्रस्ववदनोन्नतांसः स्निग्धभुजोन्तेऽन्ते च केशगौरः स्यात्।

सप्तमजः पृथुजठरः पृथुतरचरणोऽम्बुभीरुश्च॥53॥

सुकुमारगौरदीर्घश्चि त्रोन्नतदृक्प्रचण्डमानी स्यात्।

व्यालम्बपीनबाहुः पिंगलरोमाष्टमे जातः॥54॥

ख्यातो मृदुसुखमूर्तिर्विशालनेत्रो बलासदृशसत्त्वः।

चतुरो नवमेंऽशे स्यान्नतांसलेख्यादिविद्वांश्च॥55॥

गौरो विशालनेत्रः श्लाघी दीर्घाननोऽर्थगोप्ता स्यात्।

नवपण्यकर्मकुशलस्तुलाधराद्यैशजः सुविख्यातः॥56॥

प्लुतमण्डलनेत्रः स्यात्करालदन्तो निमग्नमध्यस्तु।

युगले विस्तृतहृदयः कुतनुर्घनसंहतभ्रूश्च॥57॥

गौरोऽश्वमुखः सुरदो महोन्नताक्षः कृशोऽपि लब्धयशाः।

दीर्घकरोरुहघोणस्तृतीयजः स्यात्सुचरणश्च॥58॥

तन्वंसबाहुभीरुस्तून्नतदन्तः कृशो मृगतरलदृक्।

ह्रस्वनसः सुविषादी श्यामो शीलश्चतुर्थजो भवति॥59॥

गम्भीरदृक्स्थिरात्मा सुहृत्प्रियः पंचमे ह्यमानी स्यात्।

खरकेशः समनेत्रो मध्यप्रतिलग्नघोणदृप्तश्च॥60॥

पीनाङ्गो गौरः स्याद्विशालनेत्रः सुनासिकावंशः।

स्निग्धनखः सुतयज्ञः षष्ठेंऽशे शास्त्रविज्जातः॥61॥

रक्तावदातम(रति)तिमान्गुरुह्रस्वतनुः कृशो ललाटे स्यात्।

लुब्धः प्रचण्डदुर्गः सप्तमभागे मनस्वी च॥62॥

तुङ्गांसगण्डभोक्ता कठिनतनुर्दीर्घकृष्णभ्रूः।

निर्णिक्तवाक्प्रशान्तः सद्वक्षस्त्वर्धमस्तकोऽष्टमजः॥63॥

स्वक्षः प्रसन्नगौरः समचारुतनुः पटुः कलाभिरतः।

दाक्षिण्यहास्यनिरतो विटस्वभावो भवेन्नवमे॥64॥

ह्रस्वोन्नतौष्ठघोणः सुललाटः स्याद्दृढाङ्गौरश्च।

दर्दुरकुक्षिर्धटकोऽष्टमराशौ प्रथमनवभागे॥65॥

गौरः पृथ्वायतहृद्बाहुस्ताम्रोग्रदृग्द्वितीये स्यात्।

उद्वृत्तबलनिहन्ता साहसकृदनल्पकेशश्च॥66॥

प्राज्ञो दृढांसबाहुः प्रयत्नकोशो विशुद्धवाक्यः स्यात्।

कानीनको वपुष्मान्गौरो रुचिराधरस्तृतीयेंऽशे॥67॥

परदारद्रोहरतिः क्षेप्ता धीरश्चतुर्थजो दीर्घः।

श्यामोऽसितकेशाक्षो नटः प्रगल्भश्च पीनरोमांसः॥68॥

गम्भीरस्ताम्राक्षो मग्ननसः पञ्चमे धीरः।

मृष्टोदरोग्रकर्मा व्यस्तदृढाङ्गो यशस्वी स्यात्॥69॥

धृष्टो वरिष्ठबुद्धिः पृष्ठोच्चनसो गम्भीरसत्त्वः स्यात्।

सुनयः प्रचण्डकर्मा षष्ठे दक्षोऽल्पकचधनभ्रूश्च॥70॥

दारितमुखः स्थिराङ्गः प्रविकीर्णरदः शिरावनद्धाङ्गः।

निम्नोदरः प्लुताक्षः स्त्रस्ततनुः सप्तमे भवेदंशे॥71॥

स्फुटिताग्रनसः कालो विपन्नशीलो मलीमसाङ्गः स्यात्।

भिन्नोत्कटैः शिरोजैः सन्त्यक्तमतिस्तथाष्टमजः॥72॥

गौरो मृगाकृतिमृदुः प्रशान्तपिङ्गाक्षरोमदृढपीनः।

सुसमेतश्च गुरूणां मतः प्रजातो नवमभागे॥73॥

सुबृहन्नसोजदृष्टिः स्फुटाग्रभाषी सुदन्तरोमा च।

गौरः सुबद्धवृषणश्चापाद्यांशे प्रचण्डः स्यात्॥74॥

प्रोत्तुङ्गशिराः स्थिरविद्विस्तीर्णाक्षो गुरुस्फिगूरुश्च।

विकृताग्रनसो दीर्घो महाहनुः स्याद्द्वितीयेंऽशे॥75॥

शिक्षाशास्त्रमतिज्ञः प्रगल्भगम्भीरमूर्तिसुनयश्च।

स्त्रीवल्लभो मनस्वी तृतीयजो हास्यशिल्पज्ञः॥76॥

दक्षो मधुमण्डलदृग्गौरः कच्छपविवृद्धकुक्षिश्च।

प्राज्ञो नटः सुकेशः पृथुशुभमूर्तिश्चतुर्थः स्यात्॥77॥

पृथुकर्णनेत्रवदनः प्रबद्धहरिविग्रहो महाभ्रूः स्यात्।

पीनोन्नतांसहन्ता पञ्चमजो गूढरोमदृढबुद्धिः॥78॥

स्निग्धासितान्तपृथुदृक् महाललाटः सुमूर्तिकाव्यरतः।

पृथुपीनमुखो हीनः षष्ठे विद्वात्कथः सुधनः॥79॥

श्यामो मृदुर्वचस्वी तुंगशिराः सङ्ग्रहानुसन्धिरतः।

दीर्घो विशालनयनो दाक्षिण्य चण्डश्च सप्तमजः॥80॥

चिपिटाग्रनासिकः स्याद्विस्तीर्णशिराः सुबद्धवैरश्च।

विभ्रान्तदृक्प्रलापी(भाषी) गुरुष्वभिमतोऽष्टमांशभवः॥81॥

गौरो हयाकृतिमुखो दीर्घासितदृक् तथाल्पवाक्यः स्यात्।

सत्यः सतां विषादी नवमे कुटिलोरुजंघश्च॥82॥

विरलाग्ररदः श्यामः प्रभिन्नवाक्योऽशिरोर्जा वरनासः।

गीताध्वहास्यनिरतो मकराद्ये चलधनः कृशांगः स्यात्॥83॥

अलसशठः कुटिलनसो गीताभिरतिर्विशालदेहश्च।

प्रचुरांगनासु निरतो बहुभाषी स्याद्द्वितीयजः कल्प्यः॥84॥

गान्धर्वकलाकामः ख्यातांगो गौरदृक्सुमनसः।

बहुमित्रबन्धुरतिमांस्तृतीयजः स्विष्टकर्मा च॥85॥

रक्तासितवृत्ताक्षो महाललाटभुजदुर्बलांगकरः।

भवति हि विकीर्णकेशश्चतुर्थजो विरलदन्तवाक्यः स्यात्॥86॥

उद्गण्डघोणकुक्षिर्भवति हि भोक्ता सुनासिकावंशः।

श्यामो वृत्तोरुभुजः पञ्चमभागे स्थिरारम्भः॥87॥

स्निग्धच्छविः सुवेषः कामरतः सूक्ष्मसमरदसुवक्ता।

षष्ठांशजः पृथुहनुर्महाललाटः पुमान्भवति॥88॥

श्यामोऽलसः सुभाषी कु(रूक्षित)ञ्चितकेशो बृहत्तनुः कठिनः।

मृदुपादपाणिमतिमान्सप्तमजः शीलसम्पन्नः॥89॥

गम्भीरदृक्सुघोणी रक्तास्यो भिन्ननखशिरोजः स्यात्।

उद्बद्धतनुः शक्तोऽष्टमजो घटपृथुललाटश्च॥90॥

विपुलाक्षिहृत्सुमेधाः पूर्णमुखो गीतवाद्यनिरतश्च।

माधुर्यसत्त्वयुक्तः साधुर्नवमे भवेत्सुजनः॥91॥

श्यामो मृदुः कृशांगः पीनहनुः शास्त्रकाव्यमतिः।

कामी रतिमान्कान्तः कुम्भस्याद्यांशके भवेज्जातः॥92॥

त्वङ्नखदृष्टिशिरोजैः खरैश्च सुविपन्नवत्सलः साधुः।

दीर्घो त्रिशिरा मूर्खो द्वितीयभागे भवेज्जातः॥93॥

संसक्ततनुः प्रमदाप्रियश्च वैदूर्यकान्तिधरः।

शास्त्रार्थवित्प्रयोक्ता तृतीयनवभागसंजातः॥94॥

कान्तानुरतो गौरो विदारितास्यो रिपुप्रणाशकरः।

गम्भीरधीरसत्त्वश्चतुर्थजो भोगरतियुक्तः॥95॥

स्पष्टार्थवित्कलाज्ञः खररोमधराङ्ध्रिरुग्रः स्यात्।

संरुद्धगण्डकर्णः पञ्चमजः कृष्णवर्णश्च॥96॥

व्याघ्राननः प्रगल्भः कुञ्चितकेशः सुनिश्चितार्थश्च।

व्यालमृगोरगहन्ता षष्ठेंऽशे वल्लभो नृपतेः॥97॥

मेषाक्षिमुखस्तीक्ष्णो ग्राम्यरतिः स्त्रीषु परिभूतः।

पित्तरुगर्दितदेहः सप्तमजः सत्त्वधृतियुक्तः॥98॥

स्थिरसत्त्वबुद्धिरतिमान्नरेन्द्रयोधो नरेश्वरः सुभगः।

स्थूलरदो विपुलाक्षः कुम्भे स्यादष्टमेंऽशके पुरुषः॥99॥

श्यामः सम(वदनो)ग्रदशनो विशेषितः सुधनदारपुत्रश्च।

नवमांशजः सुवाक्य प्रथितः शक्तो भवेत्पुरुषः॥100॥

गौरोऽपि रक्तदेहः प्रभामृदुस्त्रीमतिप्रचलचित्तः।

ह्रस्वगलः कृशमध्यो मीनस्याद्यांशके पुरुषः॥101॥

(पृथुपीनमुग्रनासः)पृथुपीनभग्ननासः क्रियापटुर्मांसभुग्रुचिरदेहः।

काननपर्वतचारी बृहच्छिराः स्याद्द्वितीयांशे॥102॥

गौरः शठः सुचक्षुः शस्ततनुर्धर्मवान्सुविद्वांश्च।

दाक्षिण्यवान्विनीतस्तृतीयजो रूपवांश्चतुरः॥103॥

गुणवान्विपन्नशीलः प्रवृद्धसेवी क्रिया(पटुर्वीरः)पटुर्विद्वान्।

सत्त्वाधिको नयज्ञस्तुङ्गनसः स्याच्चतुर्थे तु॥104॥

दीर्घोऽसितः प्रतापी तुङ्गाङ्गः स्वल्पनासिकः स्वक्षः।

हिंसारतिः शुभरदो दुष्प्रसहः पञ्चमे प्रलापी स्यात्॥105॥

कान्तः प्रतापगुणवान्प्रसन्नवंशोऽल्पनासिको मादी।

तिर्यग्वदनः ख्यातः षष्ठेंऽशे स्यात्तथा निपुणः॥106॥

पुरुषाभिमानपरकृद्धर्मरुचिः श्रेष्ठकश्च सचिवः स्यात्।

प्रबलो विषादशीलः (शठः)शठोऽस्थिरः सप्तमे भागे॥107॥

दीर्घो बृहच्छिराः स्यात्कृशोऽलसो रूक्षनेत्रकेशश्च।

मन्दात्मजोऽर्थनिरतो रणकुशलो ह्यष्टमे भागे॥108॥

ह्रस्वो मृदुः सुधीरो विशालवक्षोक्षिनासिकः स्निग्धः।

(वित)विहिताङ्गबुद्धिगुणवान्नमेंऽशे स्यात्पुमान्ख्यातः॥109॥

यत्प्रोक्तं(प्रोक्तामशादि) राशिफलं द्वादशभागेऽपि तत्फलं वाच्यम्।

सप्तमभागसमानं शेषेषु विनिर्दिशेत्प्राज्ञः॥110॥

इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये नववर्गगुणचिन्ता नाम पञ्चाशोऽध्यायः॥

एकपचाशोऽध्यायः[सम्पाद्यताम्]

(नष्टाजाकाध्यायः)

(द्र. वृ. जा. 16।1)प्रश्नकाले विलग्नस्य पूर्वार्धेऽप्युत्तरायणे।

अपरे दक्षिणे ब्रूयाज्जन्मसम्पृच्छतो बुधः॥1॥

ऋतुर्वाच्यो दृगाणांशे लग्नसंस्थेऽपि वा (गृहे)ग्रहैः।

अयनस्य विलोमे तु परिवर्तः परस्परम्॥2॥

शशिज्ञगुरुभिः सार्धं (पूर्वः)सितलोहितसूर्यजैः।

द्रेक्काणेऽर्धे भवेत्पूर्वे मासः पूर्वे(पूर्वः) परे परः॥3॥

अनुपातात्तिथिः कल्प्या केचिदाहुरिनांशजाम्।

लग्नभागैर्द्विरभ्यस्तैः पञ्चभिर्लभ्यते गुरुः॥4॥

वयोनुमानाद्वर्षाणि द्वादश द्वादश क्षिपेत्।

द्युरात्रिनामधेयेषु विलोमाज्जन्मसम्भवः॥5॥

लग्नभागैः क्रमेणैव वेला मृग्याऽनुपाततः।

लग्नत्रिभागराशीनां यो बली जन्मकृद्भवेत्॥6॥

शीर्षादि संस्पृशन् प्रष्टा पृच्छेत्तद्राशिमादिशेत्।

यावद्गतः शशी लग्नाच्चन्द्रात्तावति जन्मभः॥7॥

मीनोदये वदेन्मीनं लग्नांशसदृशोदयम्।

लग्नाद्भानुदृगाणे च यावत्यर्काच्च तावति॥8॥

विलग्नं कथयेत्प्राज्ञ इति शास्त्रस्य निश्चयः।

लग्नगे वीर्यगे वाऽपि च्छायांगुलहते हृते॥9॥

रविभिर्जन्मशिष्टं हि कथयेदविशङ्कितः।

तिष्ठतः शयनस्थस्य निविष्टस्योत्थितस्य च॥10॥

लग्नादिकेन्द्रवेश्मानि वदेज्जन्मविधौ क्रमात्।

भावं विचार्य सकलं यद्यत्तुल्यं तु तत्तथा॥11॥

(द्र. वृ. जा. 26।15)संस्कारनाममात्रा द्विगुणा च्छायांगुलैः समायुक्ताः।

त्रिघनविभक्ताच्छेषं नक्षत्रं तद्धनिष्ठादि॥12॥

(द्र.वृ. जा. 26।9)वृषसिंहौ दशगुणितौ वसुभिर्मिथुनालिकौ वणिङ्मेषौ।

मुनिभिः कन्यामकरौ बाणैः शेषाः स्वसंमितैरेव॥13॥

गुरुणा कुजेन भृगुणा बुधेन्दुभान्वार्किभिः क्रमशः।

वर्षर्तुमासतिथयो द्युनिशाभनवांशवेलाश्च॥14॥

एवं क्रमेण हृत्वा स्वविकल्पविभाजिताच्छेषम्।

एवं भवन्ति सर्वे नवदानविशोधने च पुनः॥15॥

यवनेन्द्रदर्शनाद्यैः कथितं तदिहात्र सर्वमेव मया।

किन्तु स्फुटं न सर्वं स्पष्टं सारस्वतं चिन्त्यम्॥16॥

पादत्रितयं विदलं दिनरजनीमानयोः क्रमात्क्रमशः।

पृच्छकराशिसमानैर्दिवसनिशासंज्ञितं पिण्डम्॥17॥

वारघ्नभवि(निभृताग्रं)हृताग्रं प्रोद्गच्छति तावदेव नक्षत्रम्।

अश्विमघामूलाद्यं वि(नवकं नवकं)नवं सनवं क्रमादृक्षम्॥18॥

तल्लिप्तासप्तहृताच्छेषाद्वारो भवेच्च ऋ(पृच्छादि)क्षादि।

शेषं प्राग्वत्कार्यं पृच्छकसूर्यादिभिर्दायम्॥19॥

उद्गतदशा व्यतीत गम्याथ विलोमतो भवेन्नित्यम्।

तावत्संख्या योज्या नष्टविधौ कालपरिमाणे॥20॥

इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्यायो नामैकपञ्चाशोऽध्यायः॥

द्विपञ्चाशोऽध्यायः[सम्पाद्यताम्]

(अष्टकवर्गाध्यायः)

उक्तो हि यवनवृद्धैरष्टकवर्गो निवेदयति पुंसाम्।

हेतुं शुभाशुभं वा प्रतिदिवसं संभवन्तमिह॥1॥

स्वात्केन्द्रायनवाष्टवित्तगृहगो भौमार्कसून्वोरवि –

र्जीवादायनवात्मजारिषु सितात् षड्द्वादशास्तस्थितः।

चन्द्राद्वृद्धिषु बोधनात्सनवधीरिः फेषु लग्नाच्छुभः

साम्बुद्धादशगोऽष्टवर्गविधिना संशोधितो भास्करः॥2॥

लग्नाद्भ्रातृदशायशत्रुषु शशी सास्तादिषु स्वाच्छुभः

भौमात्सार्थनवात्मजेषु रवितः साष्टाङ्गनास्थो गुरोः।

केन्द्रायाष्टधनेषु धर्मसुखधीत्र्यायास्तखस्थः सितात्।

केन्द्रायत्रिसुताष्टगः शशिसुताद्धीत्र्यायषट्स्वर्कजात्॥3॥

भौमो वृद्धिषु सात्मजासु रवितः साद्यासु लग्नाच्छुभः

चन्द्रात्कर्मविना च केन्द्रविवरस्या(प्राप्ति)प्तिस्थितः स्वाद्गृहात्।

धर्मायाष्टमकण्टकेषु रविजाज्ज्ञात्र्यायधीशत्रुषु

शुक्रादन्त्यभवारिमृत्युषु गुरोः षड्लाभकर्मान्त्यगः॥4॥

ज्ञोऽष्टायादिशुभार्थबन्धुषु सुताभ्रातृस्थितो भार्गवात्

भौमार्क्योः सदृशास्तगो रिपुभवच्छिद्रान्त्यसंस्थो गुरोः।

प्राप्त्यन्त्यारितपःसुतेषु तपनात्स्वात्स(त्सायकर्मत्रिगः)त्रिकर्मादिषु

स्वाज्ञायारिजलाष्टमेषु शशिनो लग्नात्सपूर्वाच्छुभः॥5॥

केन्द्रायास्तधनेषु भूमितनयात्स्वात्सत्रिषु ब्राह्मणो

भानोः सत्रिनवेषु धर्मदशधीस्वा(लाभा)यारिगो भार्गवात्।

धर्मायास्तधनात्मजेषु शशिनः कोणात्त्रिषड्धीव्यये

स्वाज्ञा याम्बुन(नवरिःफपुत्र)वारिपुत्रतनुषु ज्ञात्सास्तगस्तूदयात्॥6॥

लग्नादातनयायरन्ध्रनवगश्चन्द्रात्सितः सव्ययः

स्वात्साज्ञेषु शुभो यमान्नवदशात्र्यायाष्टपञ्चाम्बुषु।

त्र्यन्त्यायारिसुहृन्नवेषु रुधिराद्रिःफायरन्ध्रेष्विनात्

ज्ञात्र्यायारिनवात्मजेष्वथ गुरोर्धीखाष्टधर्मायगः॥7॥

(स्वात्र्यायात्मज)स्वादायात्मजषट्त्रिकेषु रविजः सान्त्याम्बरस्थः कुजात्

भानोः केन्द्रधनायमृत्युषु तनोस्त्र्यायारिखाद्याम्बुगः।

आज्ञायाष्टनवान्त्यशत्रुषु बुधादिन्दोर्भवारित्रिषु

शुक्रादन्त्यभवारिषु द्विजवरात्प्रा(स्वाध्याय)प्त्यान्त्यधीशत्रुगः॥8॥

इत्युक्तं शुभमन्यदेवमशुभं चारक्रमेण ग्रहाः

शस्ताशस्तविशेषितं विदधति प्रोत्कृष्टमेतत्फलम्।

स्वर्क्षस्वोच्चसुहृद्गृहेषु सुतरां शस्तं त्वनिष्टं समं

(स्वोच्चस्वामिगता) स्वस्वस्वामिगतं दशापतिबलाद्धन्त्यष्टवर्गोद्भवम्॥9॥

रविरुधिरौ भवनं प्रविशन्तौ गुरुभृगुजौ गृहमध्यसमेतौ।

शनिशशिनौ खलु निर्गमकाले शशितनयः फलदस्तु सदैव॥10॥

इति कल्याणवर्मविरचितायां अष्टकवर्गाध्यायी नाम द्विपञ्चाशोऽध्यायः॥

त्रिपञ्चाशोऽध्यायः[सम्पाद्यताम्]

(वियोनिजन्माध्यायः)

दैवविदां (नीतिकारं)प्रीतिकरं विश्वसनीयं समस्तलोकस्य।

कनकाचार्यस्य मताद्वियोनिसंज्ञं प्रवक्ष्यामि॥1॥

लग्ने कर्कटके सशीतकिरणे वा सद्ग्रहैः सङ्गते

स्वर्क्षस्थैर्जगतोऽस्य सृष्टिमकरोद्विश्वेश्वरः शाश्वतीम्।

यस्यैवं भवति प्रसूतिसमये पुंसः स सम्पालयेत्॥2॥

समभिव्यनक्ति होरा सस्थावरजंगमं यथा लोके।

कालनिमित्ताकारैर्दैशेन च तत्प्रवक्ष्येऽहम्(तत्प्रपञ्चोयम्)॥3॥

क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनलग्ने वा।

सौम्यार्किभ्यां केन्द्रे (तद्वीक्षिते चोदये)तदीक्षिते वा वियोनिः स्यात्॥4॥

आधाने जन्मनि वा प्रश्ने वा द्वादशांशगे चन्द्रः।

यस्मिन्व्यवस्थितः स्याल्लग्ने वा तत्समं सत्त्वम्॥5॥

वर्णाकृतिप्रभेदाद्ग्रहयोगनिरीक्षणैर्मुनिभिरुक्ताः।

तानहमपि प्रवक्ष्ये विशेषतः सारमादाय॥6॥

मेषवृषौ मुखगलयोरंसकपादेषु मिथुनमीनौ स्तः।

पृष्ठोदयपार्श्वेषु च निवेशितौ कर्किकुम्भधरौ॥7॥

सिंहमृगौ जघनस्थौ पश्चिमचरणे स्थितौ युवतिचापौ।

गुह्यवृषणप्रदेशस्फिक्पुच्छौ जूककीटर्क्षौ॥8॥

मिथुनादयस्तुलान्ताः सव्ये भागे चतुष्पदानां च।

वामे झषघटधरमृगकार्मुकभृद्वृश्चिकाश्चिन्त्याः॥9॥

मेषादिभिरुदयस्थैरंशैर्वा ग्रहयुतैश्च दृष्टैर्वा।

स्वं स्वं वर्णं ब्रूयाद्गात्रे चिह्नं व्रणं वाऽपि॥10॥

स्वगृहांशकसंयोगाद्विद्याद्वर्णान्परांशके रूक्षान्।

सप्तमसंस्थाः कुर्युः पृष्ठे रेखां स्ववर्णसमाम्॥11॥

वीक्षन्ते यावन्तो वियोनिवर्णाश्च तावन्तः।

बलदीप्तो गगनचरः करोति वर्णं वियोनीनाम्॥12॥

पीतं करोति जीवः शशी सितं भार्गवो विचित्रं च।

रक्तौ दिनकररुधिरौ रविजः कृष्णं बुधः शबलम्॥13॥

स्वे राशौ परभागे परराशौ स्वांशके तिष्ठन्।

पश्यन् ग्रहोऽपि लग्नं सुवर्णवर्णं तदा कुरुते॥14॥

परिघपरिवेषजलदैः शंकुकवेधैर्ध्वजैश्च वृक्षैश्च।

वृषमृगदण्डैः सर्पैः शक्रधनुःपांसुभिर्वापि॥15॥

यद्वर्णेन वृतः स्याद् ग्रहस्तमिह वर्णमादिशेन्मतिमान्।

स्वाभाविकैर्ग्रहाणां वर्णैर्वर्णा भवन्ति जातानाम्॥16॥

विहगोदितदृक्काणे ग्रहेण बलिना युते च चरभांशे।

बौर्धेऽशे वा विहगाः स्थलाम्बुजाः(शनिशशीक्षणाद्योगात्) शशिनिरीक्षिताः क्रमशः॥17॥

लग्ने जलजे बन्धौ(पक्षी) पंक्तिः स्याद्वीक्षितेऽपि वा जलजाः(जलजः)।

स्थलजे वा तद्दृष्टे ग्रहवर्णसमस्थलप्रभवः॥18॥

(लग्ने)लग्नार्कजीवचन्द्रैरबलैः शेषैश्च मूलयोनिः स्यात्।

स्थलजलभवनविभागा वृक्षादीनां प्रभेदकराः॥19॥

अन्तःसारान्वृक्षान्भानुर्दुर्गान्करोति तद्रूपान्।

क्षीरस्नेहसमेतान् शशी गुरुः फलसमेतांश्च॥20॥

कटुकण्टकिनो रुधिरः सुदुर्भगांस्तरणिजस्तथा शुक्रः।

कुसुमफलस्नेहयुतान्बुधश्च बलवर्जितं जनयेत्॥21॥

क्रूरः सौम्यगृहस्थो वृक्षमनिष्टं करोति शुभदेशे।

सौम्यश्च पापभवने कुत्सितदेशे शुभं चापि॥22॥

व्यामिश्रैः शुभभूमौ भवन्ति मिश्राः सदा वृक्षाः।

स्थलजलपतयस्तेषां स्थलजलजानां तु संभवे दक्षाः॥23॥

स्थलजलखगौ विलग्नाद्यावति राशौ तु तेऽपि तावन्तः।

स्वांशात्परांशगामिषु यावत्संख्या भवन्ति तावन्तः॥24॥

स्वांशे सौम्यैरबलैर्वियोनिलग्ने वियोनिजातं च।

तद्वद्बलिभिः पापैः स्वराशिसदृशांशसंयुक्तैः॥25॥

अबलग्रहराशिगता अस्तं याताः पराजिता भिन्नाः।

क्रूरयुता दृष्टा व सद्यो निघ्नन्ति ते नित्यम्॥26॥

उद्भिज्जरायुजानां तथैव सस्वेदजाण्डजानां च।

प्रसवं व्यस्तसमस्तं ग्रहयोगैर्लक्षणैर्वक्ष्ये॥27॥

दुर्बलगृहे ग्रहेन्द्रा मेषो राशिर्यदोदयं याति।

भानुश्चतुष्पदगृहे चतुष्प(सम्भवति तत्र)पदस्तत्र भवति सामान्ये॥28॥

सामान्येनाभिहितो वियोनिसंज्ञो मया समासेन।

अधुना कौतुकजननं विशेषतः संप्रवक्ष्यामि॥29॥

इह तु द्वादशभागो राशौ राशौ प्रचोदितः पूर्वम्।

जनयन्ति ते वियोनिं याता बलिभिः शशाङ्करविलग्ने॥30॥

मेषे (शशिनि)शशी तदंशे छागादिप्रसवमाहुराचार्याः।

गोमहिषाणं गोंऽशे नररूपाणां तृतीयेंऽशे॥31॥

तत्र चतुर्थे भागे कूर्मादीनां भवेदुदकजानाम्।

व्याघ्रादीनां परतः परतो ज्ञेयं नराणां च॥32॥

वणिगंशे पररूपा वृश्चिकभागे तथा भुजंगाद्याः।

खरतुरगाद्या नवमे मृग(मृगाः समीनास्तथा)शिखिनां स्यात्तथा दशमे॥33॥

ज्ञेयाश्च तत्र विविधा(वृक्षा गुल्मा) वृक्षास्तृणजातयश्चित्राः।

एकादशे च पुरुषा जलजा नानाविधाश्चान्त्ये॥34॥

मेषे द्वादशभागे जायन्ते जातयो विविधरूपाः।

शेषेष्वपि चैवं स्याद्भवनेषु यथाक्रमं नियतम्॥35॥

यो यत्र भवेदाद्यस्तस्याकृतिमादिशेत्कृते तत्र।

ब्रूयात्क्रमेण मतिमान्द्वादशभागात्मके नवमे॥36॥

ज्ञेयादेवं पुंग्रहनवांशकैर्लग्नगैर्द्विमूर्तिभ्यः।

आद्यांशे योगैरपि जायन्ते बहुविधाः सत्त्वाः॥37॥

श्वप्रभृतीनां प्रसवे यावन्तो द्वादशांशका लग्ने।

तावन्ति वदेत्प्राज्ञः पुंस्त्रीसंज्ञान्यपत्यानि॥38॥

लग्ने जीवोऽथवा सौरश्चन्द्रो वाऽपि स्थितो भवेत्।

कूर्मादीनां तथा संख्या द्वादशांशेषु यावती॥39॥

शुक्रो भौमो बुधो वाऽपि चन्द्रो वापि शनैश्चरः।

कुर्वन्ति बलयुक्तानि भागेष्वंगानि पूर्ववत्॥40॥

स्वांशात्परस्य भागे यस्मिन्काले ग्रहाः समुपयान्ति।

तत्र विकारा ज्ञेया लोकविरुद्धा ध्रुवं प्राज्ञैः॥41॥

वृश्चिकलग्ने भवने तन्नवभागेऽथवा द्विपदसंज्ञे।

बिलवासिनां प्रसूतिर्घोराणां निर्दिशेत्तत्र॥42॥

गोधानां सर्पाणां लोमशानां च शल्यकानां च।

मूषकबिलेशयानां राशिमतां चापि कीटानाम्॥43॥

लूतानां नकुलानां वृश्चिकषड्बिन्दजातकानां च।

अविषाणां सर्पाणां श्वभ्राश्मनिवासिनां चैव॥44॥

हयनरविदेहलग्ने द्वादशभागे नवांशके वापि।

पश्यति नरेन्द्रसचिवस्तत्रोत्पत्तिर्भवेदेषाम्॥45॥

वाजिखराश्वतराणां गोमहिषाणां तथोष्ट्राणाम्।

गुरुवर्णतुल्यरूपान्प्रवदेन्मतिमान्बलेनैव॥46॥

मृगवदने लग्नस्थे तन्नवभागे तथापि सूर्यांशे।

आरण्यानां सूतिं सत्त्वानां निर्दिशेत्क्रमशः॥47॥

नागानां खड्गानां वृकशरभवराहवानराणां च।

ऋक्षोग्रसृगालानां व्याघ्रादीनां भवेत्सूतिः॥48॥

मीने मीनांशे वा तज्जे सूक्ष्मांशकेऽपि वा लग्ने।

गुरुदृष्टे विज्ञेयो बहूदकोत्थः सदा सत्त्वः॥49॥

मेषे मेषांशे वा भौमेन निरीक्षिते सदाचावी।

वृषभे तु वदेत्तद्वद्गोमहिषाद्यान्सदा भृगुणा॥50॥

स्वं स्वं पूर्वविलग्नं स्वैः स्वैर्दृष्टं यदेह पतिभिस्तु।

स्वभवनसदृशान्विद्वान्प्रवदेदविशङ्कितं तत्र॥51॥

ग्राम्यगृहेषु नवांशाः (पञ्चमदशमाष्टराशि)पञ्चमनवमांशसंयुक्ताः।

आरण्यानां सूतिं ग्रामेषु सुनिश्चितां कुर्युः॥52॥

स्थलजलराशिविभागा नागरभवनेषु लग्नसंस्थेषु।

स्थलजलचरसत्त्वानां जनयन्ति भवं हि विटपानाम्॥53॥

उदयति वणिग्विलग्ने तद्द्रेक्काणे सितेन संदृष्टे।

शुकसारिकान्यपुष्टाश्चकोरभासाश्च जायन्ते॥54॥

सिंहोदये तथाद्ये सूक्ष्मांशे रविनिरीक्षिते सूतिः।

कुक्कुटमयूरतित्तिरिपारावतवञ्जुलादीनाम्(?)॥55॥

स्थिरभोदये तदंशे सौरग्रहसंयुते च दृष्टे च।

प्रासादगृहादीनामुत्पत्तिः(भूताप्तिः) पूर्ववज्ज्ञेया॥56॥

इति कल्याणवर्मविरचितायां सारावल्यां वियोनिजन्माध्यायो नाम त्रिपञ्चाशोऽध्यायः

इति कल्याणवर्मविरचितायां सारावल्यां नष्टजातकाध्याये नववर्गगुणचिन्ता नाम पञ्चाशोऽध्यायः॥ </poem>

चतुःपञ्चाशोऽध्यायः[सम्पाद्यताम्]

<poem> (अष्टकवर्गफलाध्यायः)

तिर्यग्विश्वोर्ध्वमन्दं गिरिगिरिशपदं न्यस्य चक्रं तदूर्ध्वं

मेषाद्याः राशयः स्युर्ग्रहगणसहिता शिष्टमिष्टस्य सद्म।

तस्याधः सोऽपि मुख्यं ग्रहगणमुदयं चाप्यधः क्ष्माक्रमेण

न्यस्याद्यः स्वीयचक्रे स्वपदसहितभाक् खाष्टके बिन्दुरेखा॥1॥

पूर्णैर्बिन्दुभिरष्टभिः पदगतैर्हीनोऽपि भूपो भवेत्

एकैकोनतया क्रमात् फलविधिः सर्वेप्सिताप्तिर्यशः।

वित्ताप्तिश्च सुखैः सह प्रियसुहृत् प्राप्तिर्विपच्छून्यता

वित्तानामपि हानिराधिकृशता शून्यक्रमे संक्षयः॥2॥

सूर्यस्याष्टसु बिन्दुषु क्षितिपतेराप्ता विभूतिर्धनं

सप्तस्वद्भुतकान्तिसौख्यविभवः षट्सु प्रतापोन्नतिः।

पञ्चस्वर्थसमागमः सदसतोः साम्यं चतुष्के त्रिके

त्वध्वश्रान्तिरथो द्विके गदभयं रूपेऽथ शून्ये मृतिः॥3॥

इन्दोर्भोगविभूतयोऽथ विभवाः वस्तारन्नगन्धोद्गमाः

सन्मैत्री द्विजसंगमाद्धृतिमती दुःखाढ्यसौख्यस्थितिः।

द्वेषो बन्धुजनैः प्रियार्धविरहोऽकस्माद् विपद्दुस्तरा

शोकोद्वेगजकष्टमत्र नियतं प्रोक्तं फलानामिदम्॥4॥

आरस्यार्थमहीसपत्नविजयाः सौभाग्यकान्तिप्रदाः

राज्ञां वल्लभता प्रसिद्धगुणता साम्यं विपत्संपदोः।

भ्रातृस्त्रीविरहो विपत्परिभवो राजाग्निपित्तज्वरैः

स्फोटैर्दूषितगात्रता जठररुङ्मूर्च्छाक्षिरुङ्मृत्यवः॥5॥

ज्ञस्य क्ष्मापतिमान्यता द्रविणतो विज्ञानसौख्याप्तयः।

सर्वोद्योगफलोदयो नवसुहृत्प्राप्तिर्निरुद्योगता।

चित्तव्याकुलताऽर्थहानिवशतः स्त्रीपुत्रमित्रादिभि-

र्वैराद् धैर्यमतिक्षयोऽथ सततं सर्वस्वहानिर्मृतिः॥6॥

जीवस्याच्छयशः सुखार्थनिचयः सौभाग्यसौख्याप्तयो

वासो वाहनहेमलब्धिरहितध्वंसक्रियासिद्धयः।

लाभच्छेदविहीनता श्रवणदृक्-पुंस्त्वंप्रणाशादयो

भूभृत्कोपभयं गदैर्विकलता बन्ध्वर्थपुत्रक्षयः॥7॥

शुक्रस्याखिलभोगवस्त्रवनितापुष्पान्नपानाप्तयो

भूषामौक्तिकतुष्टयः प्रियवधूलाभः सुहृत्सङ्गमः।

मध्यत्वं शुभपापयोर्जनपदग्रामोच्चविद्वेषिता

स्थानभ्रंशरुजः कफश्च विषमे सर्वापदां सङ्गमः॥8॥

सौरेर्ग्रामपुरप्रजाद्यधिपता दासीखरोष्ट्राप्तयः

पूजाचोरनिषादसैन्यपतिभिर्धान्यार्थसौख्यागमः।

अन्योपाश्रितसौख्यता सुतवधूभृत्यार्थविध्वंसनं

लब्धोद्वेगरुजः महाऽधनतया भार्यादिसर्वक्षयः॥9॥

इत्थं होराशास्त्रं रचितं कल्याणकोविदेनैव।

पूर्वाचार्यैर्निर्मितमवलोक्य मुदं प्रयातु दैवज्ञः॥10॥

पौलिस-वसिष्ठ-रोमश-यवन-बादरायणास्तथा शक्तिः।

अत्रिश्च भरद्वाजो विश्वामित्रो गुडाग्निकेशौ च॥11॥

गर्ग-पराशर-जीवा एतैरन्यैश्च विस्तरं रचितम्।

कथयति शास्त्रेषूक्तं जातकमिति चित्रगुप्तक्तम्॥12॥

इति कल्याणवर्मविरचितायां सारावल्यां चतुःपञ्चाशोऽध्यायः॥

स्रोतः[सम्पाद्यताम्]

  • राष्ट्रिय संस्कृत संस्थान, लखनऊ परिसर
"https://sa.wikisource.org/w/index.php?title=सारावली&oldid=402449" इत्यस्माद् प्रतिप्राप्तम्