श्रीसिद्धान्तसुधानिधिः/अध्यायः २-पादः ३/आह्निकम् ३

विकिस्रोतः तः
← आह्निकम् २ श्रीसिद्धान्तसुधानिधिः
आह्निकम् ३
[[लेखकः :|]]

तृतीयपादे तृतीयमाह्निकम्
प्रतिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।। 46 ।।
मात्रशब्दोऽवधारणार्थो द्वन्द्वान्ते श्रुतत्वात्प्रत्येकान्वयी। प्रातिपदिकस्येति षष्ठ्यर्थजन्यत्वस्यार्थपदार्थैकदेशे ज्ञानेऽन्वयः। विशेष्यत्वं थन् प्रत्ययार्थः। प्रातिपदिकजन्यज्ञानविशेष्यमात्रे लिङ्गमात्रे परिमाणमात्रे मंख्यामात्रेप्रथमा स्यात्। वचनपदस्य संख्यापरत्वात्। प्रातिपदिकार्थस्तु तदन्वयव्यतिरेकानुविधायिशाब्द(1)प्रत्ययार्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयत्वेन विवक्षायां प्रथमा। तेनैकत्वा(1)दावनुभवेऽपि न क्षतिः। प्रत्ययश्च स्वप्रकृतिकः तेनाख्यातार्थे कर्तरि तदन्वयेऽपि न दोषः। (1)तरेऽन्वयात् प्रत्ययार्थेति। एवञ्च चन्द्र इव मुखमित्यादौ प्रतियोगितया सादृश्याद्यन्वयेऽपि(1)तरविभक्तेरभेदार्थत्वपक्षे दोषतादवस्थ्यम्। सामानाधिकरण्याद्विभक्तिरित्याश्रयणात्। स्वतन्त्रप्रथमायामेवास्य नियामकत्वाद्वा। विभक्तेः प्रतियोग्याद्यर्थपरत्वमित्यादेश्चैकदेशिमात्रेणाभ्युपगमात्। एतेन वीरः पुरुष इत्यादौ प्रातिपदिकार्थत्वाभावमाशङ्क्य संसर्गस्य वाक्यार्थत्वेन बहिरङ्गत्वात्स्वार्थमात्रनिमित्तकप्रथमप्रवृत्तवपदसंस्कारबाधानुपपत्तिः। अन्यथा सर्वत्रैव प्रथमायाः पूर्वं प्रवृत्तौ द्वितीयादिप्रकरणं निर्विषयं स्यात्। अभेदान्वयस्य कर्मादिविरहे सार्वत्रिकत्वाद्वचनसामर्थ्यात्प्रथमा। घट इत्यादावप्यस्त्याद्यध्याहारस्यावश्र्यकत्वात्। मात्रग्रहणे सम्बोधने चेत्यस्यारम्भेण च विभक्तिवाच्याधिक्यस्य व्यवच्छेदाच्च। राहोः शिर इत्यादावपि औपाधिकभेदेन षष्ठीप्रवृत्त्या अभेदस्य षष्ठ्यर्थत्वाभावाच्चेति क्लेशः परास्तः। अव्ययेषु प्रथमाविभक्तेः सावकाशत्वात्।
नच संख्याशास्त्रैकवाक्यतयास्यप्रवृत्तेस्तत्र कथं प्रवृत्तिरिति वाच्यम्। अर्थे प्रथमेत्युक्तंऽपि कस्यार्थे इत्याकाङ्क्षायां ङ्याप्प्रतिपदिकादित्यनेन प्रकृतिसम्येमाणात् यस्माद्विहितास्तस्येति सम्भवात् प्रातिपदिकग्रहमस्याधिक्यात्संख्यारहितेऽप्यव्ययार्थे प्रथमेत्यर्थस्याकरसिद्धत्वात्। एतदुदाहरणतया उच्चैर्तीचैरित्यस्य लिखितत्वाच्च। षष्ठ्यैव पदत्वसिद्धावपि ग्राम उच्चैस्तव स्वं ग्राम उच्चैस्ते स्वं इत्यत्र सपूर्वायाः प्रथमाया विभाषेत्ये तत्प्रवृत्त्यर्थं प्रथमाया अपेक्षितत्वात्। नच तत्राप्यभेदान्वयस्य ग्रामादौ सत्त्वात् निरवकाशत्वमविशिष्टमिति वाच्यम्।विजयते इत्यादौ द्योतकेषु उपसर्गेषु सावकाशत्वानपायात्।
नच तत्र प्रथमोत्पत्तौ प्रयोजनाभावः। आते पितर्मरुतां सुम्नमेतु, प्रतित्वा दुहितर्दिव इत्यादौ पदोत्तरं विहितानां युष्मदस्मदादेशानां तिङ्‌ङतिङ्‌इति निघातस्य च तथात्वात्। निपातस्यानर्थकस्य प्रातिपदिकसंज्ञे'ति वार्तिकात्। द्योत्यार्थेनैवार्थवत्त्वाद्वा। जयत्यादेः प्रकृष्टजयपरत्वेऽपि प्रकर्षे प्रशब्दान्वयव्यातिरेकानुविधानमत्त्वात्।
अपि च स्वः पश्येत्यादौ अव्ययोत्तरं प्रथमाया एव स्वीकारात् स्वरादेः कर्मत्वसंसर्गेण धात्वर्थान्वयः प्रथमायाः कर्मत्वे लक्षणा वेत्यवश्यं वाच्यम्। तथाच तत्रापि प्रथमाविधेः सावकाशत्वं सुलभमेव। किञ्च चैत्रः पचतीत्यत्रैव तदवकाशः। नच तिङ्र्थे कर्तर्यभंदेन सम्बन्धेन तदन्वयान्न तथेति वाच्यम्। नैयायिकैः कृतेरेव तत्रान्वयस्वीकारान्। एतदनुरोधेन प्रथमान्तमुख्यविशेषअयकबोधस्य सूत्रकाराभिमतत्वकल्पनस्यापि सम्भवाच्च। धान्येन धनीत्यादौ अभेदस्यापि विभक्त्यर्थत्वाच्च। षष्ठ्याः शेषार्थत्वेनाभेदस्य तदर्थताया दुर्वारत्वात्। कालादौ सर्वेषां स्वरूपसंबन्धत्वेन षष्ठीवाच्यतावच्छेदकसंबन्धत्वावच्छिन्नत्वस्य पदार्थमात्रे सत्त्वाद्विभक्तिवाच्याधिक्यव्यवच्छेदासम्भवाच्च। एतेन `नवा वाक्यार्थत्वात्'इति वार्तिकं व्याख्यातम्।
यत्तु प्रातिपदिकार्थेति वाक्ये लिङ्गविशिष्टपरिभाषायाः संबन्धोऽस्ति नवा नाद्यः यस्मात्स्वादिविधिस्तस्मादित्यर्थपर्यवसाने प्रातिपदिकग्रहणवैयर्थ्यात्। नान्त्यः मृडानी हिमानीत्यादौ प्रथमानापत्तेः अर्थे प्रथमेतिन्यासे तु यस्मात्स्वादिविधिस्तस्येति लाभेन स्वादीनां च प्रतिपदिकाल्लिङ्गबोधकप्रत्ययविशिष्टाच्च विहितत्वान्नयतोपस्थइतिकत्वस्य तदर्थतया पुंयोगमहत्त्वादेरपि तथात्वात्तत्सिद्धेः इति।
तत्तुच्छम्। प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापीति परिभाषायाः प्रातिपदिकोद्देशेन यत्कार्यं विधीयते तन्मात्रपरत्वात्। धर्मिग्राहकमानेन तथैव लब्धत्वाच्च। इहच न प्रातिपदिकोद्देशेन प्रथमाविधानं किन्तु प्रातिपदिकार्थे वाच्ये प्रथमेति। ङ्याप्प्रातिपदिकादित्यस्यैव प्रातिपदिकोद्देशेन स्वादिविधायकतया तत्र परिभाषाप्रवृत्तेः सर्वसंमतत्वाच्च। नचोक्तदोषः लिङ्गग्रहणेन तत्सिद्धेः। नच पुंयोगादेरधिकार्थस्य प्रतीत्या न तथेति वाच्यम्। लिङ्गबोधकप्रत्ययार्थातिरिक्तार्थस्यैव व्यवच्छेद्यत्वात्। पुंयोगमहत्त्वादेश्च ङ्यादिबोध्यत्वात्। एतेन मृणाल्यादयो व्याख्याताः। स्त्रीस्यात्काचिन्मृणाल्यादि विवक्षापचये यदीत्यमरः।
यत्तु अर्थे प्रथमेति न्यासेनोपपत्तिरिति तन्न। कस्येति विशेषाकाङ्क्षापेक्षया कस्मिन्नर्थे इत्यस्याआकाङ्क्षायाः स्वरूपविषयकत्वेनान्तरङ्गत्वात्। कर्मादावर्थे प्रथमेत्यस्यापि प्रसङ्गात्। कर्मादीनां सेनिहितत्वात पूर्वोपस्थित्वात् अर्थत्वस्य कर्मत्वकरणत्वादिरूपशक्यतावच्छेदकानुगममात्रपरतया कर्मत्वादेरेव शाब्दे लाभोपपत्तेः। सर्वनाम्नां वुद्धिस्थत्वादिवत् शक्यतावच्छेदकैक्यस्यापि शक्त्यैक्यसंपादकत्वात्। ततश्च कस्येत्याकाङ्क्षाविरहेणङ्याप्प्रतिपदिकानां प्रतियोगित्वेन लाभानुपपत्तौ सर्वविप्लवप्रसङ्गात्। अनभिहिते कर्मादौ द्वितीयादि, प्रथमा त्वभिहितानभिहितसाधारण्येनेति अनभिहितस्थले द्वितीयादिभिः सह वैकल्पिकत्वेन प्रथमायाः समावेशसम्भवात्।
एतेन सम्बोधनेचेति ज्ञापकेन मात्रग्रहणस्य प्रत्याख्यानमपि निरस्तम्। उक्तविधया तस्या अपूर्वविधित्वेनैवोपपत्तिप्रसङ्गात्। प्रातिपदिकपदोपादाने तु अन्तरङ्गतया सम्बन्धिन्येव साकाङ्क्षतया तदन्वयेनैवाकाङ्क्षाशान्तौ कर्मादीनां नान्वय इति वैषम्यम्। एवंच त्वद्रीत्या सूत्रस्यैव वैयर्थ्यापत्तिः। स्वौजसमौट्इत्यादिनैव प्रथमाया विधानात्। कर्मणि द्वितीयैवेत्याद्यर्थनियमपक्षे प्रातिपदिकार्थमात्रे द्वितीयादीनां, कर्मण्येव द्वितीयेत्यादिप्रत्ययनियमपक्षे कर्मादौ प्रथमायाश्च व्यावृत्त्यर्थं नियमद्वयसम्पादकत्वेन सूत्रमार्थक्यमिष्टम्। तच्च कर्मादावेव प्रथामाया विधानप्रसङ्गेन दूराषास्तं स्यात्।
ननु प्रत्ययनियमपक्षे कर्मादौ प्रथमायाः स्वयमेव प्राप्तत्वात्। सूत्रवैयर्थ्यभीत्या कर्मादौ प्रथमाविधाने सूत्रतात्पर्यं नकल्पयिष्यते किन्तु ङ्याप्‌प्रातिपदिकार्थे इत्यत्रैवेति चेन्न। शास्त्रतात्पर्यानुसारेणैव नियमस्य कल्प्यत्वात्। प्रातिपदिकार्थमात्र प्रथमाविधानस्यैवानुपपत्तौ यथोक्तनियमस्यैव शशविषाणायमानत्वात्। द्वितीयादीनां परस्परातिरिक्तार्थे परस्परव्यवच्छेदपरतयैव कर्मणि द्वितीयेत्यादिशास्त्राणां तात्पर्यप्रसङ्गात्। द्वितीया कर्मण्येव तृतीया कर्तृकरमयोरेवत्यादिभिरेव नियमस्वरूपापत्तेः। तृतीयादिव्यवच्छेदश्च तत्फलमित्यस्य सम्भवात्। प्रथमायाः कर्मादावेव विहितत्वे तद्व्यवच्छेदस्याशक्यत्वात्। ततश्च प्रातिपदिकार्थमात्रे प्रथमाविधानसिद्धौ प्रत्ययनियमस्य प्रथमाव्यवच्छेदार्थत्वं, तत्सिद्धौच प्रथमायाः प्रातिपदिकार्थमात्रे विधानं इति दोषो दुर्वारः। अन्यथाऽर्थे प्रथमोति न्यासे प्रातिपदिकस्यार्थोपरि प्रतियोगित्वेनान्वयलाक्षानुपपत्तेरुक्तत्वादिति तिष्ठतु तावत्।
एवं परिमाणग्रहणमप्यावश्यकम्। प्रकृत्यर्थस्याभेदेन प्रथमार्थे परिमाणे तस्य च परिच्छन्नत्वसम्बन्धेन व्रीहावन्वये यादृशो बोधस्तस्यासिद्धेः। नचोक्तबोधोऽसिद्ध एव। लिङ्गादिसाहचर्येण न्यायप्राप्तार्थानुवादकत्वम्यैव परिमाणांशे स्वीकारेण परिमाणस्य वाच्यत्वकल्पनादिति वाच्यम्। अनन्तस्थले द्रोणादिशब्दानां तत्परिमितलक्षणमपेक्ष्य प्रथमाया वाच्यत्वस्यैव कल्पयितुमुचितत्वात। नच द्रोणं व्रीहिमानयेत्यादौ लक्षणावश्यकत्वात्प्रथमास्थलेऽपि तथेति वाच्यम्। तथापि लक्षणाया निरूढत्वसम्पादनाय परिमाणग्रहणस्यावश्यकत्वात्। `गुणवचनेभ्यो मतुपो लुगिष्ट'इत्यादिवत्।
वचनग्रहणं तूक्तेष्वप्येकत्वादिषु यथा स्यात्। एकः द्वौ बहवः। अन्यथानभिहिताधिकाराद्बहुषु बहुवचनमित्यादिनास्य प्रकरणस्यैकवाक्यत्वात्परिगणनस्य च प्रत्याख्यातत्वात्प्रकृत्यैवेकत्वादीनामभिहितत्वात्। अनभिहिताधिकारप्रत्याख्यानेऽपि उक्तार्थत्वादेव प्रथमा न स्यात्।
यत्तु न केवला प्रकृतिः प्रयोक्तव्या न केलवः प्रत्ययः इति वचनादेव एकादिभ्यः प्रथमा भविष्यति। अन्यथा एकं पश्य, एकेन कृतमित्यादौ गत्यन्तराभावादिति तन्न। तत्र कर्मत्वादीनामनुक्तत्वेन द्वितीयादेः सम्भवात्। नच प्रातिपदिकार्थस्यानुक्तत्वात्सथमेति तुल्यम्। तस्य प्रातिपदिकेनैवोक्तत्वात्। नचैवं प्रथमाविधायकस्यैव निर्विषयत्वानुपपत्तिः। तत्र वचनबलात्प्रथमाप्रवृत्तावपि एक इत्यादौ वचनव्यत्ययस्य दुर्वारत्वात्।
यत्तु एकत्वे एकवचनमित्याद्यर्थनियमैर्द्विवचनादीनां व्यावर्तनेऽपि एकत्वादावेकवचनादीनां विधानाभावादुक्तार्थानामप्रयोग इति न्यायाप्रवृत्तिः। एकत्वे एकवचनमिति प्रत्ययनियमपक्षेऽपि सजातीयापेक्षतया संख्यान्तरे एकवचनादीनां व्यावर्तनेऽपि संख्यारहिते एकवचनादीनामव्यावर्तनात्। एक इत्यादौ एकत्वादिप्रत्ययः सुपैव नतु प्रकृत्येत्यत्र नियामकाभावात्। उपस्थिताः नामर्थानामत्यन्तत्यागे मानाभावाच्च। संख्यान्तरम्भवे एव नियमप्रवृत्तेः। एकशब्दादौ च द्विवचनादीनां यथायथमसम्भवादित्यादि।
तदपि चिन्त्यम्। शास्त्रतात्पर्याविषयत्वेऽर्थानां त्यागेऽपि क्षतिविरहात्। उपस्थितिमात्रस्याप्रयोजकत्वात्।
एतेनानन्वितार्थकप्रयोगापेक्षयानुवादमात्रप्रयोगस्य न्याय्यत्वादिति निरस्तम्। प्रथमोपस्तित्वे द्वौ बहव इत्यत्रैकवचनापत्तेर्दुर्वारत्वात् च।
यदपि सम्बोधनेचेति ज्ञापकेन कर्माद्याधिक्ये प्रथमाया अप्रवृत्तेर्मात्रग्रहणं व्यर्थमिति।
तत्राप्याहुः-तदभावे शेषे षष्ठ्यापत्तौ तद्बाधनार्थं सूत्रस्यावश्यकत्वात्कथं नियमार्थत्वमिति। यत्त्वेवं कर्मणि द्वितीयेत्यादीनामपि नियमत्वं न स्यात्। अतः मोत्सर्गं सापवादं च प्रकरणं तदेव लक्ष्यसंस्कारकं एवञ्च कर्मणि द्वितीयेत्यस्याभावे शेषेषष्ठीत्यस्याप्यभावाद्द्वितीयाया आप प्राप्तत्वेन नियमत्वं युक्तमेवेति।
तत्रेदं वक्तव्यम्-वार्त्तिककारस्त्वाह अभिहेते प्रथमेति। तिङादिभिरभिहिते कर्त्रादौ प्रथमा भवतीत्यर्थः। वृक्ष इत्यादौअस्तिक्रियाध्याहारात् उदाहरणानि। एवञ्च वीरः पुरुष इत्यादौ विशेषणविशेष्यभावस्याधिक्येऽपि अभिहितत्वात्प्रथमा सिध्यतीति भावः।
एतच्च निरस्तम्। अभिहितानभिहिते हि प्रथमाभाव इति। अस्यार्थः। प्रासादे आस्ते इत्यत्र क्रियाद्वयानिरूपितमधिकरणं प्रासादाख्यं, तच्च सदिप्रकृतिकेन घञाभिहितं आसेर्लटानभिहितं तत्रैकस्याः शक्तेरभिहितत्वात्तान्नबन्धना प्रथमा परत्वात्सप्तमीं बाधित्वा स्यात्। अथ तिङ्‌समानाइदकरणे प्रथमेति वक्तव्यम्। उक्तस्थले तु वैयधिकरण्यात्प्रथमाया अभवाः। तिङ्‌सामानाधिकरण्यं हि तत्प्रतिपाद्यप्रतिपादकत्वम्। तच्च चैत्रः पचतीत्यादावस्ति। कर्तृत्वरूपेणाख्यातेन प्रातिस्विकरूपेण च प्रातिपदिकेन चैत्रस्य प्रतिपादनात्। प्रासादे आस्ते इत्यत्र त्वाख्यातोक्तकर्तृविशेषप्रतिपादकत्वविरहात्। प्रासादशब्दे न प्रथमेति चेत्।
मैवम्। लटि तिङामप्रसिद्धिप्रसङ्गात्। तथाहि-देवदत्त पच्‌ लट्‌ इति स्थिते तिङुत्पत्तेः पूर्वं तिङ्‌समानाधिकरणत्वाभावेन प्रथमैवोति नियमस्याभावात्। देवदत्तशब्दादविशेषविहिताः सर्वे स्वादयः सम्भवन्त्येवेत्यप्रथमासामानाधिकरण्यसत्त्वाच्छतृशानचावेव स्याताम्। नचेष्टापत्तिः। देवदत्तः पचतीति वाक्यविलोपापत्तेः। नच कर्मण्येव द्वितीयेत्यादिविभक्तिनियमाश्रयणान्न द्वितीयादिकमपीति वाच्यम्। कर्मणि द्वितीयैवेत्यर्थनियमपक्षे तदापत्तेः। शेषत्वेन षष्ठ्याः सम्भवाच्च।
नच तिङ्‌विधिसामर्थ्यात्तिबादयो भविष्यन्तीति वाच्यम् लङादौ तिङ्‌विधेः सावकाशत्वात्। अत एव प्रथमाविधेरपि न सामर्थ्यम्। लड्‌भिन्नलकारस्थले एव सावकाशत्वात्।
नचाप्रथमासामानाधिकरणे इत्यस्य प्रसज्यप्रतिषेधत्वमाश्रित्य प्रथमासामानाधिकरण्ये शतृशानचोर्निषिद्धत्वादत्र च तस्यापि सत्त्वान्न शतृशानचोरापत्तिरिति वाच्यम्। असमर्थसमासस्य वाक्यभेदस्य चाश्रयणे गौरवात्।
भाष्ये तु पर्युदासपक्षेऽपि विभक्तिनियमे दोषो नेत्युक्तम्। तच्विन्त्यमिति दीक्षिताः। द्वितीया कर्मण्येवेत्यादिविभक्तिनियमे द्वितीयादेरनुत्पत्तावपि षष्ठ्या दुर्वारत्वात्। षष्ठी शेषे एवेति नियतत्वात्। विभक्त्यन्तरनियमो यत्र न प्रवृत्तः तस्यैव शेषत्वात् तथाच प्रथमाभिन्नविभक्तिसामानाधिकरण्यसत्त्वाद्‌दुर्वारौ शतुशानचाविति।
सम्बोधने च ।। 47 ।।
प्रथमा स्यात्। चैत्र मैत्र आगच्छति। सबोधनं च अयमेतद्वाक्यार्थबोधवान्भवत्वितीच्छा। तत्र विवक्षितविवेकेनेच्छा प्रथमार्थः। विशेष्यतासम्बन्धेन प्रकृत्यर्थस्येच्छायां तस्याश्च स्वनिष्ठविशेष्यतानिरूपितविषथितासम्बन्धावच्छिन्नप्रकारताशालिबोधनीष्ठविशेष्यतानिरूपितविषयितासम्बन्धेन क्रियायामन्वयः। मैत्रकर्तृकगमनक्रियाबोधोऽस्य जायतामित्याकारकेच्छायां तथैव सम्भवात्। चैत्रविषयिका या इच्छा तस्यां विषयित्वेन विशेषणीभूतो यो बोधः तस्मिन् विषयितासम्बन्धेन प्रकारतापन्ना मैत्रकर्तृकागमनक्रियेन्वयधीः।
एतेनाचेनऽपि सम्बोधनं व्याख्यातम्। उक्तेच्छायास्तत्रापि सम्भवात्। तेनैकवाक्यतया व्रजानि देवदत्तेत्यादी निघातः। तदुक्तं हरिणा-
सम्बोधनपदं यच्च तत्क्रियायां विशेषणम्।
व्रजानि देवदत्तेति निघातोऽत्र तथा सतीति।।
सामन्त्रितम् ।। 48 ।।
उक्तप्रथमान्तमामन्त्रितसंज्ञं स्यात्। महासंज्ञाकरणसामार्थ्यात्तदन्तग्रहणम्। संज्ञाप्रदेशा `आमन्त्रितं पूर्वमविद्यमानव'दित्यादयः। सेति किम् हे पचन् हे पचमानेत्यादौ शत्रादेः सम्बोधन एव विहितत्वात्प्रातिपदिकार्थ एव तदन्तर्भावात्पूर्वसूत्रेणैव प्रथमायामपि उक्तसंज्ञा यथा स्यात्। यदा तु उक्तशत्रादेरपि कर्तृबोधकत्वमेव लोट इव द्विर्वचनरहितस्य तदा `सम्बोधनेचे'त्येव प्रथमा। अनन्तरस्य विधिर्वेति तस्या एवं संज्ञाप्रवृत्तावपि रूपसिद्धेः सेति न कर्तव्यम्।
एकवचनं सम्बुद्धिः ।। 49 ।।
आमन्त्रितप्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्। संज्ञाप्रदेशा `एङ्‌हस्वात्संबुद्धे'रित्यादयः। सुः सम्बुद्धिरिति वक्तव्ये एकवचनग्रहणं प्रत्ययमात्रस्य संज्ञा यथा स्यात्। प्रक्रमात्तदन्तस्य माभूत्।
षष्ठी शेषे ।। 50 ।।
शेषशब्दोऽन्यार्थः, तत्र पूर्वोक्तानां कर्मादीनां प्रतियोगित्वेनान्वये कर्मादिकारकेभ्योऽन्येऽर्थाः शेष इत्युच्यन्ते। यद्यपि वास्तवः क्रियाकारकभावः सर्वत्रास्ति राज्ञः पुरुष इत्यत्र राजा पुरुषाय ददातीति प्रत्ययात् कर्तृसम्प्रदानभावः। वृक्षस्य शाखेति लोकप्रसिध्या वृक्षस्य, वैशोषिकरीत्या तु शाखाया अधिकरणत्वं, क्रयापहारयाञ्चाविनिमयानां स्वत्वोपायानां क्रियात्मकत्वाच्च। अपहारस्य स्वत्वहेतुतायाः शास्त्रानभिहितत्वेऽपि यथेष्टविनियोगात्मकताद्युपायत्वात्। तथापि स्वस्वामिभावादिमात्रसबन्धविक्षायां क्रियाकारकसम्बन्धस्य वस्तुसतोऽप्यविक्षैवशेषः। तदुक्तम्।
सम्बन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते इति।
अश्रुतायां राज्ञः पुरुष इत्यादौ। श्रुतायां मातुः स्मरतीत्यादौ। मातुः सम्बन्धि स्मरणमित्यर्थः। इह प्रत्ययनियमपक्षेशेष एव षष्ठीत्यवधारणार्थं शेषग्रहणम्।
अर्थनियमपक्षे तु षष्ठीत्येव वाच्यम्। षष्ठ्यास्तदन्यस्याश्च प्राप्तौ षष्ठ्येवेति। ननु प्रतिसम्बन्धिनि षष्ठीनिवृत्त्यर्थं शेषग्रहणमस्तु। सम्बन्धस्य द्विष्ठतया तस्मादपि तत्प्रसक्तेः। नच प्रातिपदिकार्थोमात्रेऽन्तरङ्गत्वात्प्रथमेति वाच्यम्। सम्बन्धस्याधिकस्य प्रत्ययादितिचेन्न। तस्य वाक्यार्थतया पश्चात्प्रतीतिरित्यस्य प्रागेवोक्तत्वात्। पुरुषइत्युक्ते प्रातिपदिकार्थमात्रप्रतीतेः। राज्ञ इत्येतावन्मात्रोक्तावपि प्रतियोगिविशेषानवच्छिन्नस्य(1) स्वामित्वस्य प्रतितेश्चेत्यन्वयव्यतिरेकाभ्यां राजपुरुषयोर्गुणप्रधानभावव्यवस्थया षष्ठिनियमोपपत्तेः तदुक्तम्-
द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते।
तत्राभिधीयमानस्तु प्रधानेषु प्रयुज्यते।।
सम्बन्धस्योभयनिष्ठस्य गुणोत्तरषष्ठ्यैव प्रत्यायितत्वान्नप्रतिसम्बन्धिनि प्रधाने षष्ठीत्यर्थः।
तथाहि-क्रियापेक्षाः कारकशक्तयः प्रातिपदिकार्थेषु कल्प्यन्ते यदा प्रातिपदिकार्थस्य क्रियावेशविवक्षायां शक्तिलक्षणार्थातिरेको भवति तदा शक्तयः प्रातिपदिकार्थतां न प्रतिपद्यन्ते। दात्रेण लुनातीत्येव तदा प्रयोगो नतु दात्रं करममिति। क्रियायोगविवक्षायां करणादिशब्दैः शक्तयो न प्रतिपाद्यन्ते अपितु विभक्तिभिरेव। निष्कृष्टशक्त्यभिधानस्य तदेकसाध्यत्वात्। विवेचितं चैतत्प्राक्।
यदा तु योग्यतामात्रविवक्षा तदा दात्रं करणमिति। तदाच विभक्त्युत्पत्तौ संज्ञानामनिमित्तत्वम्। तदुक्तम्।
स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते।
विभक्त्यादिभिरेवासावुपकारः प्रतीयते।।
इति। विभक्तिपदं सुप्तङुभयपरम्। आदिपदं कारकार्थककृत्तद्धितपरम्। तथास्वविशेषसम्बन्धविवक्षायां राज्ञः पुरुष इति। स्वामित्वमात्राभिप्राये तु राजा स्वामीतिभावः। यदा तु पुरुषनिष्ठस्वत्वनिरूपितं राज्ञः स्वामित्वं विवक्ष्यते तदा पुरुषस्य राजेति। राज्ञः पुरुषस्य धनं इत्यत्र तु पुरुषधनयोर्यः सम्बन्धस्तस्य राजपदोत्तरषष्ठ्यानभिहितत्वात्तत्प्रतिपादनार्थं षष्ठीति बोध्यम्।
ज्ञोऽविदर्थस्य करणे ।। 51 ।।
ज्ञानभिन्नार्थकत्वेन विवक्षितस्य जानातेः करणे शेषत्वेन विवक्षिते षष्ठी। सर्पिषो ज्ञानम्। वस्तुतः करणीभूतं यत्सर्पिस्तत्सम्बन्धिनी प्रवृत्तिः ज्ञानपदं तर्पूवकत्वसम्बन्धेन प्रवृत्तिपरम् एतत्प्रकरणं समासनिवृत्यर्थमिति पूर्वं व्याख्यातम्। यत्तु तिङन्तोदाहरणं ग्रन्थेषु तदुपलक्षणं कृदन्ततत्तद्धातूनामिति प्रामाणिकाः।
अधिगर्थदयोशां कर्मणि ।। 52 ।।
शेषत्वेन विवक्षिते षष्ठी। इक्‌स्मरणे। ककार इहैव विशेषणार्थः। सोपसर्गग्रहणं तु एकदेशानुमतिद्वारा `इङिकावध्युपसर्गतो न व्यभिचरत'इति सूचनार्थम्। अतएव स्मृत्यर्थेति नोक्तम्। तथापि इण्वदिकइत्यत्र कटी इत्यत्रप्रश्लिष्टस्यायतेर्वारणाय कित्वध्रौव्याच्च। मातुरध्यया पितुः स्मरणमित्यादि।
कृञः प्रतियत्ने ।। 53 ।।
प्रतियत्नो गुणाधानम्। एधो दकस्योपस्करणम्। (जातिरप्राणिनामित्येकवद्भावः)।
रुजार्थानां भाववचनानामज्वरेः ।। 54 ।।
अज्वरिसंताप्योरितिवक्तव्यम्। भेदप्रतियोगिकोटौ संतापिरपि निवेश्य इत्यर्थः। उभयभिन्नानां भावकर्तृकाणां रुजार्थानां कर्मणि शेषे षष्ठी। चौरस्य रोगस्य रुजा। वचनेत्यत्र धातोर्ल्युटः साधुत्वमात्रार्थमुपादानात्तदर्थस्याविवक्षितत्वात्प्रत्ययार्थस्य कर्तुरेव विवक्षितत्वाद्भावकर्तृकोऽर्थः संपन्नः।
केचित्तु भावे वचनं येषां ते भाववचनाः सन्ति भावे कर्तरियेषां वचनमुच्चारणं भावकर्तृकधात्वर्थप्रतिपादनाय येषामभिधानमिति यावद्दित्याहुः।
अज्वरीत्यादि किम्। रोगस्य चोरज्वरः चोरसंतापो वा इत्यत्र कर्मषष्ठ्येव यथा स्यात्। तेन समाससिद्धिः खरे च विशेष इति प्रागुक्तम्।
आशिषि नाथः ।। 55 ।।
सर्पिषो नाथनम्। तत्संबन्धिनी इच्छेत्यर्थः। आशिषि किम्। माणवकस्य नाथनम्। याञ्चात्र नाथत्यर्थः। अत्र समासोऽपि।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।। 56 ।।
चौरस्योज्जासनम्। जसुहिंसायाम्। निप्रौ संहतौ विपर्यस्तौ व्यस्तौ च। चोरस्य निप्रहणनम्। प्रणिहननम्। निहननं प्रहणनं वा। नट स्यन्दने चुरादिः। नटनृत्तावित्यस्य घटादेर्न ग्रहणम्। दीर्धनिर्देशात्। चौरस्योन्नाटनम्। क्रथ र्हिसायामिति घटादिः। तस्य मित्त्वेऽप्यत्र निपातनाद्वृद्धिरिति वृत्तिः। अतएव युजादौ क्रथेः पाठः प्रामादिक इति संप्रदायः। नच घटादिपाठवैयर्थ्यम्। अक्रथि अक्राथि, क्रथं क्रथं, क्राथंक्राथमित्यत्र `चिण्णमुलोर्दीर्घोऽन्यतरस्या'मिति विकल्पेन चरितार्थत्वात्।
यत्तु न्यासकृतोक्तम्। दीर्घनिर्देशान्मित्वेऽपि वृद्धिः षष्ठ्यपि तत्रैव। चङन्तेषु तु वृध्यभावाद्द्वितीयैव। चोरमचक्रथदिति। तत्राहुः-तिङन्तानामेतत्प्रकरणे उदाहरणत्वं नच क्राथेरेव षष्ठी नतु ह्रस्वस्येति व्याख्यानात्प्रकरणं भित्वा तिङन्तोदाहरणत्वप्रस्त्विति वाच्यम्। मानाभावात्। तथापि द्वितीयाया दुर्वारत्वाच्चेति।
एतेनातिदेशिकषित्त्वेन षिद्भिदादिभ्य इत्यङर्थो घटादिपाठ इति हरदत्तोक्तमपि परास्तम्। घटादयः षित इत्यस्य घटादिगणान्तराले पाठात् षित्वातिदेशवचनोत्तरं पठ्यमानस्य क्रथेःषित्वायोगादिति। वृषलस्य पेषणम्। हिंसायां किम्। धानापेषणम्। अचेतनानां मुख्यहिंसाविरहः।
व्यवहृपणोः समर्थयोः ।। 57 ।।
द्यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थत्वम्। शतस्य व्यवहरणं पणनं वा। शतसम्बन्धि क्रयविक्रयरूपेम विनियोगो देवनं वेत्यर्थः। एकार्थयोः किम्। शलाकाव्यवहारः गणनेत्यर्थः ब्राह्मणपणनं स्तुतिरित्यर्थः।
दिवस्तदर्थस्य ।। 58 ।।
इह शेष इत्यस्य नान्वयः। उत्तरसूत्रद्वयारम्भात्। अन्यथा तत्र कर्मणि द्वितीयाविधानानुपयोगात्। अतएव पूर्वसूत्रे दिविर्न निर्दिष्टः। तत्र शेषसम्बन्धात्। पणादिसमानार्थकस्य दिवः कर्मणि षष्ठी। अत्र दिङन्तमप्युदाहरणम्। कर्मणि षष्ठ्या अप्राप्ताया एव विधानात्समासनिवृत्तौ तात्पर्याभावात्। शतस्य दीव्यति। तदर्थस्य किम्। ब्राह्मणं दीव्यति स्तौतीत्यर्थः।
विभाषोपसर्गे ।। 59 ।।
शतस्य शतंवा प्रदीव्यति।
द्वितीया ब्राह्णणे ।। 60 ।।
मन्त्रभिन्नो वेदो ब्राह्मणम्। `शेषे ब्राह्मण शब्द'इति जैमिनिसूत्रात्। तद्विषये प्रयोगे पूर्वोक्तार्थस्य दिवः कर्मणि द्वितीया। षष्ट्यपवादः नच गां घ्नन्ति, गां प्रदीव्यन्ति इत्यत्र व्यवस्थितविभाषया पूर्वेणैव सिद्धमिति वाच्यम्। गामस्य तदहः सभायां दीव्येयुः इत्यनुपसर्गार्थं एतदारम्भात्।
प्रेष्यब्रुवोर्हविषो देवतासंप्रदाने ।। 61 ।।
इष गताविति दैवादिकस्य लोटि मध्यमैकवचनं प्रेष्येति। साहचार्याट् ब्रुविरपि लोण्मध्यमैकवचनान्त एवात्र गृह्यते। देवतासंप्रदानं यस्यार्थस्य तद्वृत्त्योः देवतोदेश्यकत्यागार्थयोरिति यावत्। प्रेष्यब्रूहीति शब्दयोः कर्मणो हविर्विशेषवाचकाच्छब्दात्षष्ठी। अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य अनुब्रूहि वा। प्रेष्येत्यादि किम्। अग्नये गोमयानि प्रेष्य। देवतीति किम्। माणवकाय पुरोडाशान्प्रेष्य। हविषोऽप्रस्थितस्येति वक्तव्यम्। प्रस्थितत्बेन हविर्विशेषणे षष्ठी न भवतीत्यर्थः। इन्द्राग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रेष्येति। इह शेषस्य नान्वयः। तिङन्तयोरेवानुकरणेन समासानापत्तेः उत्तरत्र च्छन्दोग्रहणाद्भाषायामपीदम्।
चतुर्थ्यर्थे बहुलं छन्दसि ।। 62 ।।
षष्ठी स्यात्। पुरुषमृगश्चन्द्रमसे गोधाकालकादार्वाघास्तटे वनस्पतीनाम्। षष्ठ्यर्थे चतुर्थीत्यपि वक्तव्यम्। या खर्वेण पिबति तस्यै खर्वः। यद्वा चतुर्थीत्येको योगः। प्रकरणात् षष्ठ्यर्थे इत्यस्य लाभः। अर्थे इत्यपरः। चतुर्थ्यर्थे षष्ठीति तदर्थः। व्यत्ययवचनाद्वा सिद्धम्।
यजेश्च करणे ।। 63 ।।
छन्दसि करणे बहुलं षष्ठी, घृतस्य घृतेन वा यजते।
कृत्वोर्थप्रयोगे कालेऽधिकरणे ।। 64 ।।
अत्र प्राञ्चः। शेषग्रहणमनुवर्तते उत्तरसूत्रे कर्मग्रहणात्। अन्यथा कर्तरि चेत्यवक्ष्यत्। शेषसंबद्धं कर्मग्रहणं मानुवृतदित्यर्थमेव कर्मणस्तत्र पृथगुपादानादिति।
अन्ये तु सन्निहिततरस्य प्रकृतसूत्रस्थाधिकरणस्यैव निवृत्त्यर्थे कर्मग्रहणसम्भवाद्व्याख्यानमेव शेषानुवृत्तौ मानमित्याहुः। पञ्चकृत्वोऽह्नो भोजनम्। द्विरह्नो भोजनम्। शेषे किम्। द्विरहन्यधीते इति सप्तम्याः षष्ठ्या बाधो माभूत्।
कर्तृकर्मणोः कृति ।। 65 ।।
शेष इति निवृत्तम्। कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात्। भवतः शायिका। अपां स्रष्टा। कर्तृकर्मणोः किम्। शास्त्रेण भेत्ता।
ननु कृतीति व्यर्थम्। धातोर्हि द्वये प्रत्यया विधीयन्ते तिङः कृतश्च। तत्र तिङ्‌प्रयोगे न लोकेति षष्ठीप्रतिषेधात्कृद्योग एव षष्ठीपर्यवसानं सुलभं नचाव्ययप्रयोगे वक्ष्यमाणः षष्ठीनिषेधः कृतोऽव्ययस्य ये कर्तृकर्मणी तत्रैव प्रवर्ततां नतु उच्चैः कटानां स्रष्टेत्यत्राकृतोऽव्ययस्य ये कर्तृकर्मणी तत्र माभूदित्युक्तरार्थं तदिति वाच्यम्। उच्चैःस्थानस्थितानां कटानां स्रष्टेत्यर्थात् कृदन्तस्यैव ते कर्तृकर्मणी नत्वक्रियावाचिन उच्चैः शब्दस्येति। सामर्थ्यादेव तत्र कृद्ग्रहणलाभात्। नचोभयप्राप्ताविति वक्ष्यमाणे कृतीति शब्दोपात्ते विशेष्ये उभयप्राप्तावित्यस्य बहुव्रीहित्वसिद्धेः। अन्यथान्तरङ्गत्वात्तत्पुरुषः स्यात्। ततश्च द्वयोः कृतोर्थे कर्तृकर्मणी तत्र निषेधो माभूत्। आश्चर्यमिदं वृत्तम् ओदनस्य च नाम पाको ब्राह्मणानां च प्रादुर्भाव इति वाच्यम्। तथाप्यत्र तद्ग्रहणे प्रयोजनाभावात्। तत्रापि व्याख्यानेन बहुव्रीहिनिर्णयसम्भवाच्चेति चेत्।
अत्रभाष्यकृतः तद्धितस्य ये कर्तृकर्मणी तत्र माभूदिति कृद्ग्रहणम्। कृतपूर्वी कटम्। भुक्तपूर्वी ओदनमिति। कृतं पूर्वमनेनेति सुप्सुपेति समासः। सपूर्वाच्चेति इनिः। कर्तात्र तद्धितेनोक्त इति ततः षष्ठ्या अप्रसक्तावपि कटात् कर्मणः षष्ठी माभूत्।
स्यादेतत्। कृतः कटः पूर्वमनेनेत्यस्मिन् विग्रहे क्तप्रत्ययेन कर्मणोऽबिहतत्वाद्द्वितीयया न भाव्यम्। सुतरां तदपवादेन षष्ठ्या इहाप्यनभिहिताधिकारात्। एवं कृतशब्दस्य कटेन सापेक्षत्वात्समासतद्धितावनुपपन्नाविति चेत्। अत्राहुः-
विशेषकर्मसंबन्धनिर्मुक्तेऽपि कटादिभिः।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते।।
अकर्मकत्वे सत्येवं क्तान्ते भावाभिघायिनि।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम्।।
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः।
क्रिया संबध्यते तद्वत्कृतपूर्व्यादिषु स्थितेति।।
अस्यार्थः-कृतः कटोऽनेनेति वाक्ये कृतकटयोः सामानाधिकरण्यं अस्मिंश्चार्थविशेषे न भाव्यमेव वृत्त्या। तस्याः सामान्यविषयत्वात्। तथाहि-कर्मसामान्ये भावे वा क्तप्रत्यये सति कटरूपकर्मविशेषान्वयमप्रतिपद्यमान एव कृतशब्दः पूर्वशब्देन समस्यते। नच कर्मसामान्येति पक्षे कटस्याभिधानं दुर्वारं शक्यं च क्षुदुपहन्तु मित्यादिवदिति वाच्यम्। तद्धितवृत्तावेकार्थीर्भूतस्य कृतशब्दार्थस्य पृथक्‌कटेन संबन्धाभावात्। इति प्रथमश्लोकार्थः।
नन्वेवं कटशद्वस्यापि क्रियायोगाभावे द्वितीया नस्यादिति चेन्न। ग्रामं कृतवानित्यादौ गुणभूतयाऽपि क्रियया कारकाणां संबन्धदर्शनात्। तदाहः अविग्रहेति। प्राधान्येनागृह्यमाणापीत्यर्थः। पूर्वं कृतमनेनेत्यर्थे व्पुत्पादितस्य कृतपूर्वीत्यस्य पूर्वं कृतवानित्यर्थसंपत्त्या करोतिक्रियापेक्षकर्मत्वानपायात्। इति
अत्र नव्यमीमांसकाः। एवं सति राजपदस्यापि ऋद्धपदानपेक्षस्य पुरुषपदेन समासे कृते पश्चादृद्धपदान्वयापत्तिः। ओदनः पच्यतेतमां, गुरुर्धरित्री क्रियतेतरां त्वयेत्यादावपि द्वितीयापत्तिश्च। उक्तयुक्तेः गुणीभूतेन लकारार्थेन कर्मणा ओदनादीनां योगइत्युक्तौ च क्तप्रत्ययार्थेनापि तदापत्तेः। क्रियायाः कारकेष्विव शक्तेरपि शक्तिमत्युत्थिताकाङ्क्षत्वात्, वैषम्भे बीजाभावात्। ओदनं पच्यते इति भावाख्यातेऽपि द्वितीयापत्तिश्च। तस्मान्न धात्वर्थे कर्मान्वयः। मीमांसकमते धात्वर्थान्वयस्य कारकाणामव्युत्यपितु तद्धितार्थ एव। कर्तृत्वस्यात्र तद्धितार्थतया पाचकादिवद्विशेषणतया लक्षणया स्वातन्त्र्येण वा कृतेरपि तद्धितार्थत्वा तस्यां९ च लिङ्गान्वयिन्यां विशेष्यवाचकपदोपस्थाप्यायां चान्वये ओदनस्य पाचक इतिवन्न समासभङ्गः। तद्वाचकपदेन कर्मत्वानुक्त्या प्रथमानापत्तिश्च। पच्यतेतमामित्यादौ तु अतिशयमात्रस्य तद्धितार्थत्वान्न कृत्यभिधानम्। तत्र लकारार्थकृताविव तदन्वयात्तेनैव तदन्वयात्तेनैव कर्मत्वस्योक्तत्वान्न द्वितीया। तरप्रत्ययस्य तात्पर्यग्राहकत्वाङ्गीकारेण तरामित्यस्यानर्थकत्वेन विशेषणसापेक्षस्यापि तेन सह व्युत्पत्तेश्च। एवमोदनस्य पाचकतम इत्यादौ योज्यम्। व्याकरणं प्राज्ञ इत्यत्रापि स्वार्थिकतद्धितेन कृदर्थकृतेरप्युपादानेन तत्र कर्मान्वयो द्रष्टव्यः।
नचैवं ओदनस्य पाचकः, कृष्णस्य कृतीरित्यत्र कारकान्वयो न स्यात्। धात्वर्थे त्वयानभ्युपगमात्। घञर्थस्य च लिङ्गान्वयित्वात्। तादृशेऽप्यन्वयोपगमे च वस्तुपदाभिधेयायामपि तत्प्रसङ्गादिति वाच्यम्। तत्रापि पक्तेत्यादिवत् कृतिविशिष्टपाकस्य कृतिलक्षणाभ्यां पृथक्‌कृतिपाकयोर्वाभिदानेन कृतौ कारकान्वयोपपत्तेः। पाकानुकूलकृतिसाध्यः पाक इत्यन्वयसंभवात्।
यद्वा तत्र शेषषष्ठ्येव। तस्या अपि अध्याहृतास्त्यादिक्रियायां परम्परान्वयः नच कृद्योगे षष्ठीविधिवैयर्थ्यम्। कर्त्रादिवाचकतृजादिपरत्वमात्रेण तदुपपत्तेः। तत्सिद्धं कृद्योग एव कर्तृकर्मणोः षष्ठी। नतु सार्थकतद्धितयोगे कारकवाचितद्धितयोगे वेत्येतदर्थं कृद्‌ग्रहणं तद्धितयोगे कारकाणां कृतावन्वय इत्येवं ज्ञापकत्वादिति।
तत्रेदं वक्तव्यम्। अतिप्रसङ्गनिरासः प्रयोगानुसारादेव सुलभः। अन्यथा कुतो भवान् पाटलिपुत्रक इत्यादावसमर्थसमासस्य भाष्यसिद्धत्वात्सर्वसंमततया तेनाप्यतिप्रसङ्गापत्तिः स्यात्। किञ्चात्र कृतशब्दाद्भावे प्रत्ययः कर्मणि वा नाद्यः। तद्धितस्य कृति लक्षणायां मानाभावप्रसङ्गात्। अन्यथा शय्यते इत्यादावपि तत्प्रसङ्गात्। नान्त्यः। सही सामान्ये, विशेषरूपे वा। नाद्यः त्वदुक्तदोषापत्तेः। नान्त्यः। अनन्वितत्वं कटाभिधानंचेत्यन्यतरस्य दुर्वारत्वात्। किञ्च पूर्वीति तद्धितस्य लिङ्गान्वयित्वात्कथं तदर्थकृतौ कारकान्वयः। कर्तैव तत्र लिङ्गान्वयीति चेत्।
न। कृतेः पृथक्घञर्थत्वे कृतेर्न लिङ्गान्वय इत्यस्य विनिगन्तुमसक्यत्वात्। पाकानुकूलकृतिसाध्यः पाक इत्यप्युक्तम्। घञादिभिः सिद्धभावापन्नभावः प्रत्याय्यते इति सिद्धान्तविरोधात्। नापि तृजदिमात्रविषयकत्वेन सूत्रसार्धक्यम्। हरिस्मरणमित्यादौ कर्मषष्ठ्या समासे कारकपूर्वतया कृदुत्तरप्रकृतिस्वर इत्यस्य समासस्य च सर्वाभियुक्तसंमतस्यासिद्धिप्रसङ्गात्। मानुःस्मृतमित्यादेरसिद्धेश्च। कृद्योगषष्ठ्यास्तत्राप्रवृत्तौ शेषशष्ठ्या एव नलोकेति सूत्रे निष्ठाप्रयोगे निषेध इति त्वया वाच्यत्वात् इत्यास्तां विस्तरः।
प्रकृतमनुसरामः। अत्र प्रत्यवतिष्ठन्ते। अस्तु क्तार्थपरित्यागेन कथञ्चिद्‌वृत्तिः मासजातादौ वृत्तिवाक्ययोरुपस्तितत्यागस्यापि दर्शनात्। एवमपि कृद्‌ग्रहणं व्यर्थम्। नलोकेति निष्ठायोगे षष्ठीनिषेधसिद्धेः। निष्ठान्तधातूपात्त क्रिययोगे तन्निषेधात्। ग्रामं गतवानित्यादावपि कारकाणां क्रिययैवान्वयात्। नच पाचयति चैत्रो मैत्रेणेत्यादौ णिच्प्रकृत्यर्थक्रियाकर्तुः प्रयोज्यात्षष्ठी माबूदित्यर्थं तदितिवाच्यम्। लयोगे नेत्येव निषेधोपपत्तेः। नच णिजन्तोपस्ताप्यक्रियायोग एव नतु लकारान्तीपस्थाप्यक्रियया णिच एव लकारान्तरत्वादिति वाच्यम्। लप्रकृत्या लान्तपदेन वा या क्रियोपात्ता तद्योगे नेत्यर्थस्य गुणक्रियासाधारण्यात्। लक्ष्यानुरोधेन गौणमुख्यन्यायाप्रवृत्तेः। अन्यथा तत्र तृतीयापि न स्यात्। भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानामित्युभयत्र षष्ठ्या अपीष्ठत्वादिति।
अत्राहुः-तद्धिताधिक्यव्यवच्छेदार्थं कृद्ग्रहणं व्याकरणं प्राज्ञ इति प्रज्ञादिभ्यश्चेति स्वार्थेऽण् इति सांप्रदायिकाः। एवं च ओदनस्य पाचकतम् इत्यत्र षष्ठी नेति ग्रन्थकृतामाशयः। कर्तव्यपूर्वी कटमित्यत्र तव्ययोगे माभूदिति कृद्ग्रहणव्यावर्त्यमपि संभवत्येव। भाष्यस्यात्रोदासीनतयाभियुक्तप्रयोगदर्शनादन्यतरन्निर्णेयमिति दीक्षिताः। यथा लक्षणमप्रयुक्ते इति न्यायेन कर्तव्यपूर्वी कटमित्येव युक्तमिति रहस्यम्।
अत्र पक्षधरमिश्राः। देवदत्त ओदनमित्यत्र पचतीति शब्दस्यानध्याहारे कर्तुरनभिधानात्तृतीया स्यादिति दोषस्तदध्याहारेऽपि समानः। न्यायादिमते आख्यातेन कर्तुरनभिधानात्। कर्तृसंख्याभिहितेति चेत् देवदत्तस्य पाक इत्यत्रापि तृतीयापत्तिः। कृत्प्रत्ययेन संख्यानभिधानादितिमणिकारफक्किकायां व्याचख्युः।
नन्वत्र कृद्योगे षष्ठयेवापवादिका अन्यथा तृतीयाप्रसक्तौ तत्सूत्रप्रणयनानुपपत्तिरिति। मैवम्। कृद्योगेऽपि षष्ठी न कर्तृत्वप्रकारेण बोधयति किन्तु सम्बन्धत्वेन। सम्बन्धस्तु कर्तृत्वमेवेत्यन्यदेतत्। तथा च कर्तृसंख्यानभिधाने कर्तृत्वप्रकारकान्वयबोधार्थं तृतीयानियमे प्रकृतेऽपि तथा स्यादित्यर्थ इति।
नन्वेवं सूत्रवैयर्थ्यम्। सम्बन्धत्वप्रकारकबोधजनिकायाः शेषवचनादेव सिद्धेः। एवं चैत्रस्य गत इत्यादौ शेषषष्ठीत्यस्यानुपपत्तिः। न लोकेतिसूत्रेण शेषषष्ठीनिषेधस्यैवैतन्मते वाच्यत्वात्। हरिस्मरणमित्यादौ कर्मषष्ठ्या समासे कृदुत्तरप्रकृतिस्वरानुपपत्तिश्च। तृतीयादेः कर्तृत्वप्रकारकबोधजनकतया तदपवादस्यापि षष्ठयास्तथौचित्याच्चेति।
उच्यते। सम्बन्धत्वेन कर्तृत्वकर्मत्वबोधिका षष्ठी निष्ठायोगे न साधुरित्यत्र नलोकेत्यादिसूत्रस्य तात्पर्यात्सम्बन्धान्तरबोधिकायाः साधुत्वमेवेति टीकाकृतः। नचैतदप्ययुक्तम्। शेषषष्ठ्यापि सम्बन्धत्वरूपेण कर्तृत्वादेरेव बोधनात्। अत एवाधीगर्थेतिसूत्रे मातृस्मरणयोरस्थानादिक्रियानिमित्तः सम्बन्धो यद्वास्मरणक्रियारूपतया स्वत एव संबोधनाक्रियान्तरकृतः यथा जतु काष्ठयोः संश्लेषो जतुकृतः, जतुनस्तु स्वैनैव नतु जत्वन्तरेणेति मतद्वये कैयटेनोक्तम्। अन्यथा शेषष्ठ्यापि सम्बन्धत्वेन विषयस्यैव बोधे मातरं स्मरतीत्यादिवत् शङ्कानुत्तानात्। सम्बन्धत्वंतु कर्तृत्वमेवेति। मिश्रोक्तेरपि कृद्योगषष्ठीपरत्वात्।
वस्तुतस्तु उभयत्राप्यस्तु सम्बन्धत्वप्रकारककर्तृत्वविशेष्यक एव बोधः तथापि न सूत्रवैयर्थ्यम्। नलोकादिसूत्रे निषेधप्रतियोगित्वेनैतत्सूत्रोक्तषष्ठ्याऽन्वयार्थतया सार्थक्यात्। एतेन स्वरोऽपि व्याख्यातः। नच कृद्योगेऽपि शेषवचनादेव षष्ठीप्राप्तौ अस्यारम्भात्। ज्ञोऽविदर्थस्येत्याद्यष्टसूत्रीवत्समासनिवृत्त्यर्थत्वमेव स्यादिति वाच्यम्। कर्मणिचेति समासनिषेधसूत्रस्य वैयर्थ्यात्। तस्य कर्तृकर्मणोरित्येतत्सूत्रीयषष्ठीग्रहणव्यावृत्तिमात्रार्थत्वात्। उभयप्राप्ताविति सूत्रस्यैतद्बोध्यषष्ठीनियममात्रपरत्वाच्च। अधीगर्थेत्यादीनां कर्मणि शेषषष्ठीविदायकानां वैयर्थ्याच्च। तैषां कृन्मात्रविषयकत्वस्य सिद्धान्तितत्वात्। तत्रैतत्सूत्रेणैव त्वद्रीत्या समासनिवृत्तिसिद्धेः।
इदंच वस्तुगत्योक्तम्। कृद्योगे तृतीयाद्वितीययोरसाधुत्वज्ञापनार्थत्वेनैवोपपत्तेः। चैत्रेण हत इत्यादौ च निष्ठायोगे षष्ठीनिषेधस्य वक्ष्यमाणत्वात्।
उभयप्राप्तौ कर्मणि ।। 66 ।।
उभयोः कर्तृकर्मणोः प्राप्तिर्यत्र तस्मिन् कृति कर्मण्येव षष्ठी स्यात्। नियमार्थमिदम्। आश्चर्यं गवां दोहोऽगोपेन। `अकाकारयोः प्रयोगे प्रतिषेधो न' इति वक्तव्यम्। उक्तनियमो न प्रवर्तते इत्यर्थः। भेदिका देवदत्तस्य काष्ठानाम्। चिकीर्षा विष्णुमित्रस्य कटस्य। उभयत्र षष्ठी। नच क्तिना बाधा न भवति सुटा सीयुटो बाधा नेतिच वृत्तिरसङ्गतेति वाच्यम्। अप्रत्ययादित्यकारस्यैव प्राथम्येन ग्रहणात्। गुरोश्च हल इत्यकारस्य प्रकृतेऽनुपादानात् इति केचित्। करणत्वविवक्षयेति केचित्। `शेषे विभाषा'इति वक्तव्यम्। स्त्रीप्रत्ययविषयमेवेदमिति केचित्। विचित्रा खलु पाणिनेः सूत्रस्य कृतिः पाणिनिना वा।
अन्येतु उभयभिन्ने प्रत्ययमात्रे विकल्पः। नञिवयुक्तन्यायस्यानित्यत्वादित्याहुः। शब्दानामनुशासनमाचार्यस्याचार्येण वा।
क्तस्य च वर्तमाने ।। 67 ।।
नलोकेति वक्ष्यमाणनिषेधस्यापवादः। वर्तमानार्थकक्तस्य योगे षष्ठी। राज्ञां मतो बुद्धः पूजितो वा। `नपुंसके भावे उपसंख्यानम्'। छात्रस्य हसितम्। शेषवचनाद्वा सिद्धम्। कर्तृत्वविवक्षायां तृतीया। छात्रेण हसितम्।
अधिकरणवाचिनश्च ।। 68 ।।
क्तस्य योगे षष्ठी। इदमेषां शयितम्। अकर्मकेभ्यस्तूभपत्रापि। इदमेषां भुक्तमोदनस्य। नचोभयप्राप्तौ कर्मणीत्यस्य प्राप्तिः। कर्तृकर्मणोःकृतीत्येतन्मात्रपरत्वात्। एवंच गत्यर्थेषु चातुशशब्द्यम्। इहाहिना सृप्तमिति भावे। इहाहिः सृप्त, इदमहिः सृप्त इति कर्तरि। इहाहेः सृप्तं ग्रामस्य पार्श्वे इति। पार्श्व इत्यधिकरणप्रयोगो नायमधिकरणे क्तः किन्तु भावे इति सूचनार्थः।
नलोकाव्ययनिष्ठाखलर्थतृनाम् ।। 69 ।।
तृनामित्यत्र प्रत्ययस्वरूपतिरोभावापत्त्या णत्वं न प्रयुक्तमितिकेचित्। सौत्रत्वादिति कैयटानुसारिमः। एषां योगे षष्ठीन स्यात्। कर्तृकर्मणोरित्यस्यापवादः। लादेशः। ओदनं पचन् पचमानः पेचानः पचिवान्। `लादेशे सल्लिट्‌ ग्रहणं किकिनोः प्रतिषेधार्थम्'। लग्रहणमपनीय सल्लिडिति वक्तव्यम्। सदिति शतृशानचोर्ग्रहणम्। लिट्‌पदेन कानच्‌क्वसोः लिट्‌संज्ञाविधानात् किकिनोश्च। यथान्यासे तु किकिनोर्लादेशत्वाभावात् पपिः सोमं ददिर्गा इत्यत्र निषेधो न स्यात्।
भाष्ये तु किकिनौ लिट्‌चेति लिट्‌कार्यातिदेशः। नतु लिट्‌संज्ञा। विशेषातिदेशे च सामान्यमप्यतिदिश्यते। अव्यभिचारात्। तेन लमात्रनिबन्धनः षष्ठीप्रतिषेध इत्युक्तम्। उःकटं चिकीर्षुः। कन्यामलङ्करिष्णुः। उकारान्तप्रयोगे इत्यर्थात्। व्यपदेशिवद्भावेन केवलेनापि निषेधसौलभ्यात्। उकेन सह द्वन्द्वं कृत्वा पश्चाल्लकारेण समासः तेन सहैव द्वन्द्वे तु युणावादेशौ स्याताम्। उकः काशीमागामुकः। कमेर्भाषायामनिषेधः। लक्ष्म्याः कामुकः। अव्ययं कटं कृत्वा। तोसुन्कसुनोरप्रतिषेधः। पुरा सूर्यस्योदेतोराधेयः। पुराक्रूरस्य विसृपो विरप्शिन्। निष्ठा देवदत्तेन कृतम्। ओदनं भुक्तवान्। खलर्थः त्वया सुकरम्। इक्ष्वाकूणां दुरापेऽर्थे इतिशेषषष्ठी। सिद्धय इत्यत्र वान्वयः। ईषज्जयः स्फुटमनेन देशाननोऽपीति सुरारिः। `शानँश्चानश् शतॄणामुपसंख्यानम्' तृन्निति शतृशानचावित्यारभ्य तृनो नकारेण प्रत्याहारः। तेन शानन्प्रभृतीनामपि ग्रहणम्। सोमं पवमानः। पूङ्यजोः शानन्। नडमाघ्राणः। ताच्छील्यादौ चानश्। अधीयन् पारायणम्। इङ्‌धार्योरिति शतृप्रत्ययः। तृन्। पाता सुतमिन्द्रो अम्नु सोमम्। स सर्वस्वं दाता तृणमिव सुरेशं विजयते इति सुबन्धुः। `द्विषःशतुर्वेति वक्तव्यम्'। मुरस्य मुरं वा द्विषन्। एतच्च प्रत्ययग्रहणे प्रतिषेधार्थम्। प्रत्याहारग्रहणे विध्यर्थमिति विशेषः।
अकेनोर्भविष्यदाधमर्ण्ययोः ।। 70 ।।
यथासंख्यवारणाय योगविभागः। अकस्य भविष्यति। इन आधमर्ण्ये च। चकारेम भविष्यतीत्यनुवृत्तिः। षष्ठी न स्यात्। एधानाहारको व्रजति। व्रजं गामी। आधमर्ण्ये शतं दायी। भविष्यदित्यस्य स्वरितत्वम्। प्रतिज्ञास्वरिताः पाणिनीयाः। तेन भविष्यदधिकारविहितस्यैवाकस्य ग्रहणान्नेह वर्षशतस्य पूरकः। ण्वुल्‌तृचाविति सामान्यतो विहितोऽयं नतु भविष्यदधिकारस्थः।
कृत्यानां कर्तरि वा ।। 71 ।।
षष्ठी वा स्यात्। कर्तव्यमिदं कृष्णस्य कृष्णेन वा। नचकृत्यानां भावकर्मणोरेव विधानात्कर्तृग्रहणं व्यर्थम्। कर्मणोऽभिधानावश्यकत्वेन तत्र षष्ठ्याः प्रसक्त्यभावादिति वाच्यम्। गेयो माणवकः साम्नामित्यत्र तत्सम्भवात्। भव्यगेयेत्यादिना कर्तरि यद्विधानेन कर्मणोऽनभिधानात्। नच आक्रष्टव्या ग्रामं शाखेत्यत्र दोषवारणार्थमपि तत्। कृषेर्द्विकर्मकत्वात्प्रधानकर्मणः शाखायाः कृत्येनाबिधानात्। गौणकर्मणो ग्रामस्यानभिधानादिति वाच्यम्। योगविभागेनैव तद्वारणात्। कृत्यानामुभयप्राप्तौ नेत्यनुवर्तते अतः कर्तर्यपि न षष्ठी किन्तु तृतीयैव। नेतव्या व्रजं गावः कृष्णेन। कर्तरि वा। सर्वं निवृत्तम्। अर्थः पूर्ववत्।
तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ।। 72 ।।
तुल्यार्थयोगे तृतीया वा स्याच्छेषे पक्षे षष्ठी। कृष्णेन कृष्णस्य वा तुल्यः समो वा। अतुलेति किम्। कृष्णस्य तुलोपमा वा नास्ति। अथ कथं तुलां यदारोहति दन्तवाससा, स्फुटोपमं भूतिसितेन शंभुनेत्यादि।
अत्राहुः-तोलनं तुला अत्रैव निपातनादङ्‌णिलोपौ। उपमितिरुपमा धात्वर्थं प्रति करणात्तृतीया। तेनोपमीयेन तमालनीलमित्यादिवत्। प्रकृतसूत्रस्य तु शेषषष्ठ्यपवादत्वेन तृतीयाविधायकस्य नेह प्रवृत्तिरिति।
अन्येतु `स्वबालभारस्य तदुत्तमाङ्गजैः समं चमर्य्येव तुलाभिलाषिणः' इत्यादिवत्सहयोगे तृतीया। सहार्थोऽत्र गम्यमान इति परं विशेष इत्याहुः।
तत्त्वं तु भेदानुयोगिपदानां धर्मिसमर्पकतया भेदप्रतियोगित्वमपि तादृशयोरेव तुलोपमाशब्दयोः कृष्णस्य तुलोपमा वा नास्ति इत्यत्र तुलोपमाशद्बयोस्तद्वत्परत्वाङ्गीकारात्। तुलां यदारोहतीत्यादो तु सादृश्यमात्रपरत्वान्नेयं तृतीया। अत एव इवादिप्रयोगे न तृतीयाप्रसक्तिः। तत्र शेषषष्ठ्या अप्यप्रसक्तेश्च। वेति वर्तमानेऽप्यन्यतरस्यां ग्रहणं उत्तरत्र चकारेम स्वस्यानुकर्षणार्थम्। अन्यथा संनिहितायास्तृतीयाया एवानुकर्षप्रसङ्गात्।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।। 73 ।।
एतैर्योगे चतुर्थीषष्ठ्यौ स्त आशिषि गम्यायाम्। सुखपर्यन्तानां द्वन्द्वं कृत्वाऽर्थशब्देन बहुव्रीहिः। मद्रभद्रयोरन्यतरो न पठनीय इति केचित्। अर्थशद्ब्रोऽपि पृथगेव निमित्तम्। व्याख्यानात्तु सर्वशब्दानामत्रार्थपरत्वमित्यन्ये। आयुष्यं चिरजीवितं वा चैत्रस्य चैत्राया वा भूयात्।ष एवं मद्रं भद्रं कुशलं निरामयं सुखं अर्थः प्रयोजनं हितं पथ्यमित्यादि। हितयोगे चतुर्थ्या अनाशिषि सावकाशत्वादाशिष्यनेन विकल्पः। आशिषि किम्। चैत्रस्यायुष्यमस्ति। तत्वकथनमेतत्। श्रीः
इति श्रीसिद्धान्तसुधानिधौ द्वितीयाध्यायस्य तृतीये पादे तृतीयमाह्निकम्। पादश्चायं समाप्तः।