शुक्रनीतिसारः

विकिस्रोतः तः

प्रथमो अध्यायः[सम्पाद्यताम्]

प्रणम्य जगदाधारं सर्गस्थित्यन्नकारणम्‍ ।
संपूज्य भार्गवः पृष्टो वन्दितः पूजितः स्तुतः ॥१॥

पूर्व देवैर्ययान्यायं नीतिसार उवाच तान्‍ ।
शतलक्षश्लोकमितं नीतिशास्त्रमयोक्तवान्‍ ॥२॥

स्वयंभूर्भगवाँल्लोकहितार्थ संग्रहेण वै ।
तत्सारं तु वसिष्ठाद्यैरस्माभिर्वृद्धिहेतवे ॥३॥

अर्ल्पायुर्भूभृदाद्यर्थ संक्षिप्तं तर्कविस्तृतम्‍ ।
क्रियैकदेशबोधीनि शास्त्राण्यन्यानि संति हि ॥४॥

सर्वोपंजीवकंलोकस्थितिकृन्नीतिशास्त्रकम्‍ ।
धर्मार्थ काममूलं हि स्मृतं मोक्षप्रदं यतः ॥५॥

अतः सदानीतिशास्त्रमभ्यसेद्यत्नतो नृपः ।
यद्विज्ञानान्नृपाद्याश्च शत्रुजिल्लोकरंजकाः ॥६॥

सुनीतिकुशला नित्यं प्रभंवित च भूमिपाः ।
शब्दार्थानां न किं ज्ञानं विना व्याकरणादभवेत्‍ ॥७॥

सर्वलोकव्यवहारस्थितिर्नीत्या विना नहि ।
यथाऽशनैर्विना देहस्थितिर्न स्याद्धि देहिनाम्‍ ॥८॥

राजाचे नीतिशास्त्र ज्ञानामागील प्रयोजन
सर्वाभीष्टकरं नीतिशास्त्रं स्यात्सर्वसंमतम्‍ ।
अत्यावश्यं नृपस्यापि स सर्वेषां प्रभुर्यतः ॥९॥

शत्रवो नीतिहीनानां यथाऽपथ्याशिनां गदाः ।
सद्यः केश्रिश्च कालेन भवंति न भवंति च ॥१०॥

नृपस्य परमो धर्मः प्रजानां परिपालनम्‍ ।
दुष्टनिग्रहणं नित्यं न नीत्याऽतो विना ह्युभे ॥११॥

अनीतिरेव सच्छिद्रं राज्ञो नित्यं भयावहम्‍ ।
शत्रुसंवर्धनं प्रोक्तं बलहासकरं मलत्‍ ॥१२॥

नीति त्यक्त्वा वर्त्ततेयः स्वतंत्रः स हि दुःखभाक्‍ ।
स्वतंत्रप्रभुसेवा तु ह्यसिधारावलेहनम्‍ ॥१३॥

स्वाराध्यो नीतिमान्‍ राजा दुराराध्यस्त्वनीतिमान्‍ ।
यत्र नीतिबले चोभे तत्र धीस्सर्वतोमुखी ॥१४॥

अप्रेरितहितकरं सर्वराष्ट्रं भवेद्यथा ।
तथा नीतिस्तु संद्यार्था नृपेणात्महिताय वै ॥१५॥

भिन्नं राष्ट्रंबलं भिन्नं भिन्नोऽमात्यादिको गणः ।
अकौशल्यं नृपस्येतदनीतेर्यस्य सर्वदा ॥१६॥

राजदंडभयाल्लोकः स्वस्वधर्मपरो भवेत्‍ ।
यो हि स्वधर्मनिरतः स तेजस्वी भवेदिह ॥१७॥

विना स्वधर्मान्न सुखं स्वधर्मो हि परं तपः ।
तपः स्वधर्मरुपं यद्वर्थितं येन वै सदा ॥१८॥

देवास्तु किंकरास्तस्य किं पुनर्मनुजा भुवि ।
सुदण्डैर्धर्मनिरताः प्रजाः कुर्यान्महाभयैः ॥१९॥

नृपः स्वधर्मानिरतो भूत्वा तेजः क्षयोऽन्यथा ।
नित्यं बुद्धिमतोऽप्यर्थः स्वल्पकोऽपि विवर्धते ।
तिर्थच्चोऽपि वंश यांति शौर्यनीतिबलैर्धनैः ॥२०॥

सात्विकं राजसं चैव तामसं त्रिविधं तपः ।
याद्दक्तपति योऽत्यर्थ ताद्दग्‍ भवति वै नृपः ॥२१॥

यो हि स्वधर्मनिरतः प्रजानां परिपालकः ।
यष्टा च सर्वयज्ञानां नेता शत्रुगुणस्य च ॥२२॥

दानशौण्डः क्षमी शूरो निः स्पृहो विषयेण्वपि ।
विरक्तः सात्त्विकः स हि नृपोऽन्ते मोक्षमन्वियात्‍ ॥२३॥

विपरीतस्तामतसः स्यात सोऽन्ते नरकभाजनः ।
निर्घृणश्च मरोन्मत्तो हिंसकः सत्यवर्जितः ॥२४॥

राजसो दांभिको लोभी विषयी वंचकश्शठः ।
मनसाऽन्यश्च वचसा कर्मणा कलहप्रियः ॥२५॥

नीचप्रियः स्वतंत्रश्च नीतिहीनश्छलांतरः ।
स तिर्यक्त्वं स्थावरत्वं भविताऽन्ते नृषाधमः ॥२६॥

देवांशान्‍ सात्त्विको भुंक्ते राक्षसांशांस्तु तामसः ।
राजसो मानवांशांस्तु सत्त्वे धार्य मनो यतः ॥२७॥

सत्त्वस्य तमसः साम्यान्मानुषं जन्म जायते ।
यद्यदाश्रयते मर्त्यस्तत्तुल्यो दिष्टतो भवेत्‍ ॥२८॥

कर्मैव कारणं चात्र सुयतिं दुर्गतिं प्रति ।
कर्मेव प्राक्तनमपि क्षणं कि कोऽस्ति चाक्रियः ॥२९॥

न जात्या ब्राह्मणश्चात्र क्षत्रियो वैश्य ऐव न ।
न शूद्रो न च वै म्लेच्छो भेदिता गुणकर्मभिः ॥३०॥

ब्रह्मणस्तु समत्पन्नाः सर्वे ते किं तु ब्राह्मणाः ।
न वर्णतो न जनकाद्‍ ब्राह्मतेज; प्रपयते ॥३१॥

ज्ञान कर्मोपासनाभिर्देवताराधने रतः ।
शान्तो दांतो दयालुश्च ब्राह्मणश्च गुणैः कृतः ॥३२॥

लोकसंरक्षणे दक्षः शूरो दांतः पराक्रमी ।
दुष्टनिग्रहशीलो यः स वै क्षत्रिय उच्चते ॥३३॥

क्रयविक्रयकुशला ये नित्यं पण्यजीविनः ।
पशुरक्षाकृषिकरास्ते वैश्याः कीर्तिता भुवि ॥३४॥

द्विजसेवाचनरताः शूराः शान्ता जितेन्द्रियाः ।
सीरकाष्ढतृणवहास्ते नीचाः शूद्रसंज्ञकाः ॥३५॥

त्यक्तस्वधर्माचरणा निर्घृणाः परपीडकाः ।
चण्डाश्च हिंसका नित्यं म्लेच्छस्ते ह्यविवेकिनः ॥३६॥

प्राक्कर्मफलभोगार्हा बुद्धिः संजायते नृणाम्‍ ।
पापकर्मणि पुण्ये वा कर्तुं शक्तो न चान्यथा ॥३७॥

बंद्धिसत्पधते ताद्दग्‍ याद्दक्कर्मफलोदयः ।
सहायास्ताद्दशा ऐव याद्दशी भवितव्यता ॥३८॥

प्राक्कमवशतः सर्वं भवत्येवेति निश्चितम्‍ ।
तदोपदेशा व्यर्थाः स्युः कार्याकार्यप्रबोधकाः ॥३९॥

श्रीमन्तो वन्द्यचरिता मन्यन्ते पौरुषं महत्‍ ।
अशक्ताः पौरुषं कर्तुं क्लीबा दैवमुपासते ॥४०॥

दैवे पुरुषकारे च खलु सर्वं प्रतिष्ठितम्‍ ।
पूर्वजन्मकृतं कर्मेहाजितं तद्‍ द्विधा कृतम्‍ ॥४१॥

बलवत्प्रतिकारि स्याद्‍ दुर्बलस्य सदैव हि ।
सबलाबलयोर्ज्ञानं फलप्राप्त्याऽन्यथा नहि ॥४२॥

फलोपलब्धिः प्रत्यक्षहेतुना नैव दृश्यते ।
प्राक्कर्महैतुकी सा तु नान्यथैवेति निश्चयः ॥४३॥

यज्जयतेऽल्पक्रियया नृणां कपि महत्फलम्‍ ।
तदपि प्राक्तनादेव केचित्‍ प्रागिह कर्मजम्‍ ॥४४॥

वदन्तीहैव क्रियया जायते पौरुषं नृणाम ।
सस्नेहवर्तिर्दीपस्य रक्षा वातात्‍ प्रयत्नतः ॥४५॥

अवश्यंभाविभावानां प्रतीकारो न चेद्यदि ।
दुष्टानां क्षपणं श्रेयो यावद्‍ बुद्धिबलोदयैः ॥४६॥

प्रतिकूलानुकूलाभ्यां फलाभ्यां च नृपोऽप्यतः ।
यीषन्मध्याधिकाभ्यां च त्रिधा दैवं विचिन्तयेत्‍ ॥४७॥

रावणस्य च भीष्मादेर्वनभंगे च गोग्रहे ।
प्रतिकूल्यं तु विज्ञातयकस्याद्वानरान्नरात्‍ ॥४८॥

कालानुकूष्यं विस्पष्टं राघवस्यार्जुनस्य च ।
अनुकूले यदा दैवे क्रियाऽल्पा सुफला भवेत्‍ ॥४९॥

महती सत्क्रियाऽनिष्टफला स्यात्‍ प्रतिकूलके ।
बलिर्दानेन संबद्धी परिश्चन्द्रस्तथैव च ॥५०॥

भवतीष्टं सत्क्रिययाऽनिष्टं तद्विपरीतया ।
शास्त्रतः सदसज्ज्ञात्वा त्यक्त्वाऽसत्सयाचरेत्‍ ॥५१॥

कालस्य कारणं राजा सदसत्कर्मणस्त्वतः ।
स्वक्रौर्योद्यतदण्डाभ्यां स्वधर्मेस्थापयेत्‍ प्रजाः ॥५२॥

स्वाम्यमात्यसुह्रत्कोशराष्ट्रदुर्गबलानि च ।
सप्तांगमुच्यते राज्यं तत्र मूर्धा नृपः स्मृतः ॥५३॥

द्दगमात्यः सुह्रच्छोत्रं मुखं कोशो बलं मनः ।
हस्तौ पादौ दुर्गराष्ट्रे राज्यांगानि स्मृतानि हि ॥५४॥

यदि न स्यान्नरपतिः सम्यड्‍ नेता ततः प्रज्ञाः ।
अकर्णधारा जलधौ विप्लवेते नौरिव ॥५५॥

न तिष्ठन्ति स्वस्वधर्मे विना पालेन वै प्रजाः ।
प्रजया तु बिना स्वामी पृथिव्यां नैव शोभते ॥५६॥

न्यायप्रवृत्तो नृपतिरात्मानमय च प्रजा ।
त्रिवर्गेणोपसंधत्ते निहन्ति ध्रुवमन्यथा ॥५७॥

वायुर्गन्धस्य सदसत्कर्मणः प्रेरको नृपः ।
धर्मप्रवर्त्तको धर्मनाशकस्तमसो रविः ॥५८॥

पिता माता गुलरुभ्राता बन्धुर्वैश्रवणो यमः ।
नित्यं सप्तगुणैरेषां युक्तो राजा न चान्यथा ॥५९॥

गुणसाधनसंदक्षः स्वप्रजायाः पिता यथा ।
क्षमयित्र्य पराधानां माता पुष्टिविधायिनी ॥६०॥

हितोपदेष्टा शिष्यस्य सुविधाऽध्यापको गुरुः ।
स्वभागोद्धारकृद्‍ भ्राता यथाशास्त्रं पितृर्थनात्‍ ॥६१॥

आत्मस्त्रीधनगुह्यानां गोप्ता बन्धुस्तु मित्रवत्‍ ।
धनदस्तु कुबेरः स्याद्यमः स्याश्च सुदण्डकृत्‍ ॥६२॥

प्रवृद्धिमति सम्राजि निवसन्ति गुणा अमी ।
ऐते सप्त गुणा राज्ञा न हातव्याः कदाचन ॥६३॥

क्षमते योऽपराधं स शक्तः स दयने क्षमी ।
क्षमया तु विना भूपो न भात्यखिल सदगुणैः ॥६४॥

स्वान्‍ दुर्गुणान्‍ परित्यज्य ह्यतिवादांस्तितिक्षते ।
दानैर्मानैश्च सत्कारैः स्वप्रजारंजकः सदा ॥६५॥

दान्तः शूरश्च शस्त्राकुशलो रिनिषूदनः ।
अस्वतन्यश्च मेधावी ज्ञानविज्ञानसंयुतः ॥६६॥

नीचाहीतो दीर्घदर्शी वृद्धसेवी सुनीतियुक्‍ ।
गुणिजुष्टस्तु यो राजा स ज्ञेयो देवतांशकः ॥६७॥

अवश्यमेव भोक्तव्यं कृतकर्मफलं नरैः ।
प्रतिकारैर्विना नैव प्रतिकारे कृते सति ॥६८॥

तथा भोगाय भवति चिकित्सितगदो यथा ।
उपदिष्टेऽनिष्टहेतौ तत्तकर्तुं यतेत कः ॥६९॥

रज्यते सत्फले स्वान्तं दुष्फले नहि कस्यचित्‍ ।
सदसद्धोधकान्येव द्दष्टवा शास्त्राणि चाचरेत्‍ ॥७०॥

नयस्य विनयो मूलं विनयः शास्त्रनिश्चयात्‍ ।
विनयस्येन्द्रियजस्तद्युक्तः शास्त्रपृच्छति ॥७१॥

आत्मानं प्रथमं राजा विनयेनोपपादयेत्‍ ।
ततः पुत्रांस्तनोऽमात्यांस्ततो भृत्यांस्ततः प्रजाः ॥७२॥

परोपदेशकुशलः केवलो न भवेन्नृपः ।
प्रजाधिकारहीनः स्यात्‍ सगुणोपि नृपः क्कचित्‍ ॥७३॥

न तु नृपविहीनाः स्युर्दुर्गुणा ह्यपि तु प्रजाः ।
यथा न वियवेन्द्राणी सर्वदा तु तथा प्रजाः ॥७४॥

सदानुरक्तप्रकृतिः प्रजापालनतत्परः ।
विनीतात्मा हि नृपतिर्भूयसीं श्रियमश्नुते ॥७५॥

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम्‍ ।
ज्ञानांकशेन कुर्वीत वशमिन्द्रियदंतिनम्‍ ॥७६॥

ऐकस्येव हि यो शक्तो मनसः सन्निबर्हणे ।
महीं सागरपर्यन्तां स कथं ह्यवजेष्यति ॥७७॥

शब्द स्पर्शश्च रुपं च रसो गन्धश्च पञ्चमः ।
ऐकैकन्त्वलमेतेषां विनाशप्रतिपत्तये ॥७८॥

द्युतं स्त्री मद्यमेवैतत्मित्यं बह्वनर्थकृत्‍ ।
अद्युक्तं युक्तियुक्त हि धनुपुत्रमतिप्रदम्‍ ॥७९॥

स्त्रीणांर्द्वनामापि संह्लादि विकरोत्येव मानसम‍ ।
किपुनर्दर्शनं तासां विलासोल्लासितभ्रुवाम्‍ ॥८०॥

रहः प्रचारकुशला मृदुगद्रदभाषिणी ।
कं न नारी वशीकुर्यान्नरं रक्तान्तलोचना ॥८१॥

मुनेरपि मनो वश्यं सरागं कुसतेंऽगना ।
जितेंद्रियस्य का वार्ता किंपुत्रश्चाजितात्मनाम्‍ ॥८२॥

व्यायच्छन्तश्च बहवः स्त्रीषु नाशं गता अर्या ।
इंद्रदण्डक्यनहुषरावणाद्या नृपा ह्यतः ॥८३॥

मद्य आणि काम - क्रोध यांचा प्रयोग
अतिमद्यं हि पिबतो बुद्धिलोपो भवेत्किल ।
प्रतिभां बुद्धिवैशद्यं धैर्यं चित्तविनिश्चयम्‍ ॥८४॥

तनोति मात्रया पीतं मद्यमन्याद्विनाशकृत ।
कामक्रोधौ मद्यतमो नियोक्तव्यौ यथोचितम्‍ ॥८५॥

परस्त्री संगमे कामो लोभो योज्यो नान्यधनेषु च ।
स्वप्रजादण्डने क्रोधो नैव धार्यो नृपैः कदा ॥८६॥

किमुच्चते कुटुम्बीति परस्त्रीसंगमान्नरः ।
स्व प्रजादण्डनाच्छूरो धनिकोऽन्यधनैश्च किम्‍ ॥८७॥

अरक्षितारं नृपतिं ब्राह्मणं चातपस्विनम्‍ ।
धनिकं चाप्रदातारं देवा ध्नन्ति त्यजन्त्यधः ॥८८॥

स्वामित्वं चैव दातृत्वं धनिकत्वं तपः फलम्‍ ।
ऐनसः फलमथित्वं दास्यत्वं च दरिद्रता ॥८९॥

द्दष्ट्वा शास्त्राण्यथात्मानं सन्नियम्य यथोचितम्‍ ।
कुर्यान्नृपः स्ववृत्तं तु परत्रेह सुखाय च ॥९०॥

दुष्टनिग्रहणं दानं प्रजायाः परिपालनम्‍ ।
यजनं राजसूयादेः कोशानां न्यायतोऽर्जनम्‍ ॥९१॥

करदीकरणं राज्ञां रिपूणां परिमर्दनम्‍ ।
भूमेरुपार्जनं भूयो राजवृत्तं तु चाष्ट्या ॥९२॥

न वर्धितं बलं यैस्तु न भूपाः करदीकृताः ।
न प्रजाः पालिताः सम्यक्ते वै षंढतिला नृपाः ॥९३॥

प्रजा सूद्विजते यस्माथत्कर्म परिनिन्दति ।
त्यज्यते धनिकैर्यस्तु गुणिभिस्तु नृपाधमः ॥९४॥

नट गायक गणिकामल्लषंढाल्पजातिषु ।
योऽतिसक्तो नृपो निन्द्यः स हि शत्रुमुखे स्थितः ॥९५॥

बुद्धिमंतं सदा द्वेष्टि मोदते वंचकैः सह ।
स्वदुर्गुणं न वै वेत्ति स्वात्मनाशाय सो नृपः ॥९६॥

नापराधं हि क्षमते प्रदंडो धनकारकः ।
स्वदुर्गुणश्रवणतो लोकानां परिपीऽकः ॥९७॥

नृपो यदा तदा लोकः क्षुभ्यते भिद्यते यतः ।
गूढ चारैः श्रावयित्वा स्ववृत्तं दूषयंति के ॥९८॥

भूषयंति च कैर्भावैरमात्याद्याश्च तद्विदः ।
मयि कीद्दक्‍ च संप्रीतिः केषामप्रीतिरेव वा ।
ममागुणैर्गुणैर्वापि गूढं संश्रुत्य चाखिलम्‍ ॥९९॥

चारैः स्वदुर्गुणं ज्ञात्वा लोकतः सर्वदा नृपः ।
सुकीर्त्यै संत्यजेन्नित्यं नावमन्येत वै प्रजाः ॥१००॥

शक्तेनापि हि न घृतो दण्डा तपो रजके कचित्‍ ।
ज्ञान विज्ञान संपन्न - राजदत्ताभयो पि च ॥१०१॥

समक्षं वक्ति न भयाद्राज्ञो गुर्वपि दूषणम्‍ ।
स्तुतिप्रिया हि वै देवा विष्णुमुख्या इति श्रुतिः ॥१०२॥

किं पुनर्मनुजा नित्यं निंदाजः क्रोध इत्यतः ।
राजा सुभागदंडी स्यात्सुक्षमी रंजकः सदा ॥१०३॥

यौवनं जीवितं चित्तं दाया लक्ष्मीश्च स्वामिता ।
चञ्चलानि षडेतानि ज्ञात्वा धर्मरतो भवेत्‍ ॥१०४॥

अदानेनापमानेन छलाञ्च कटुवाक्यतः ।
राज्ञः प्रबलदंडेन नृपं मुंचति वै प्रजा ॥१०५॥

अतिभीसमतिदीर्घसूत्रं चातिप्रमादिनम्‍ ।
व्यसनाद्विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥१०६॥

विपरीतगुणैरेभिः सात्वया रज्यते प्रजा ।
ऐकस्तनोति दुष्कीर्ति दुर्गुणः संघशो न किम्‍ ।
मृगयाऽक्षास्तया पानं गर्हितानि महीभुनाम्‍ ॥१०७॥

द्दष्टास्तेभ्यस्तु विपदः पांडुनैषधवृष्णिषु ।
कामक्रोधस्तथा मोहो लोभो मानो मदस्तथा ।
षड्वर्गमुत्यृजेदेनमस्मिंस्त्यक्ते सुखी नृपः ॥१०८॥

दंडक्यो नृपतिः कामात्क्रोधाच्च जनमेजयः ।
लोभदैलस्तु राजषिर्मोहाद्वाता पिरासुरः ॥१०९॥

पौलस्त्यो राक्षसो मानान्मदाद्दम्भोभ्दवो नृपः ।
प्रयाता निधनं ह्येते शत्रुषड्वर्गमाश्रिताः ॥११०॥

शास्त्राय गुरुसंयोगः शास्त्रं विनयवृद्धवे ।
विद्याविनीतो नृपतिः सतां भवति समतः ॥१११॥

प्रेर्थमाणोप्यसदवृत्तैर्नाकार्येषु प्रवतते ।
श्रृत्या स्मृत्या लोकतश्च मनसा साधु निश्चितम्‍ ॥११२॥

यत्कर्मधर्मसंज्ञं तद्वचवस्यति च पंडितः ।
आददानः प्रतिदिनं कलाः सम्यड्महीपतिः ॥११३॥

जितेंद्रियस्य नृपतेर्नीतिशास्त्रानुसारिणः ।
भवत्युच्चलिता लक्ष्म्या कीर्तयश्च नभः स्पृशः ॥११४॥

अंगानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
धर्मशास्त्रपुराणानि त्रयीदं सर्वमुच्यते ॥११५॥

कुसीदकृषिवाणिज्यं गोरक्षा वार्तयोच्यते ।
संपन्नो वार्तया साधुर्न वृत्तेर्भयमृच्छति ॥११६॥

सुजनैः संगमं कुर्याद्धर्माय च सुखाय च ।
सेव्यमानस्तु सुजनैर्महानतिविराजते ॥११७॥

हिमांशुमालीव तथा नवोत्फल्लोत्पलं सरः ।
आनन्दयति चेतांसि तथा सुजनचेष्टितम्‍ ॥११८॥

ग्रीष्मसूर्यांशुसंतप्तमुद्वेजनमनाश्रयम्‍ ।
मरुस्थलभिवोदग्रं त्यजेद्‍ दुर्जनसंगतम्‍ ॥११९॥

निः श्वासोद्रीणहुतभुग्‍ धुमधूम्रीकृताननैः ।
वरमाशीविषैः संगं कुर्यान्त त्वेव दुर्जनैः ॥१२०॥

क्रियतेऽभ्यर्हणीयाय सुजनाय यथांऽजलिः ।
ततः साधुतरः कार्यो दुर्जनाय हिताथिना ॥१२१॥

ह्यदि विद्ध ऊवात्यर्थ यथा संतप्यते जनः ।
पीडितोऽपि हि मेधावी न तां वाचमुदीरयेत्‍ ॥१२२॥

प्रियमेवाभिधातव्यं नित्यं सत्सु द्विषत्सु वा ।
शिखीव केकां मधुरां वाचं ब्रुते जनप्रियः ॥१२३॥

मदरक्तस्य हंसस्य कोकिलस्य शिखंडिनः ।
हरंति न तथा वाचो यथा वाचो विपश्चिताम्‍ ॥१२४॥

ये प्रियाणि प्रभाषंते प्रियमिच्छंति सत्कृतम्‍ ।
श्रीमन्तो वंद्यचरिता देवास्ते नरविग्रहाः ॥१२५॥

नहीदृशं संवननं त्रिषु लोकेषु विद्यते ।
दया मैत्री च भृतेषु दानं च मधुरा च वाक्‍ ॥१२६॥

पराक्रमो बलं बुद्धिः शौर्यमेते वरा गुणाः ।
एभिर्हीनो न्यगुणयुग्मद्दिभुक्‍ सयतो मि च ॥१२७॥

महीं स्वल्पां नैव भुक्ते द्रुतं राज्ज्याद्विनश्यति ।
महाधनाथ नृपतेर्विभात्यल्पो पि पार्थिवः ॥१२८॥

अव्याहताज्ञस्तेजस्वी एभिरेव गुणर्भवेत्‍ ।
राज्ञः साधारणास्त्वन्ये न शक्ता भूप्रसाधने ॥१२९॥

पूज्यस्त्वेभिर्गुणैभूपो न भूपः कुलसंभवः ।
न कुले पूज्यते याद्दग्वलशौर्यपराक्रमैः ॥१३०॥

ग्रामद्वयान्तरे चैव पान्थशाला प्रकल्पयेत्‍ ।
नित्यं सम्मार्जितां चैव ग्रामपैश्च सुगोपिताम्‍ ॥१३१॥

तत्रागतं तु संपृच्छेत्पान्थं शालाधिपः सदा ।
प्रयातोसि कुतः कस्यात्क्क गच्छसि ऋतंवद ॥१३२॥

ससहायोऽसहायो वा सशस्त्रः किं सवाहनः ।
का जातिः किं कुलं नाम स्थितीः कुत्रास्तिते चिरम्‍ ॥१३३॥

इति पृष्ट्व लिखेत्सायं शस्त्रं तस्य प्रगृह्य च ।
सावयानमना भूत्वा स्वापं कुर्विति शासयेत ॥१३४॥

तत्रस्थान्गणयित्वा तु शालाद्वारं पिधाय च ।
संरक्षयेद्यामिकेश्च प्रभाते तान्‍ प्रबोधयेत्‍ ॥१३५॥

शस्त्रं दद्याश्च गणयेद्‍ द्वारमुद्धारय मोचयेत्‍ ।
कुर्यात्सहायं सीमान्तं तेषां ग्राम्यजनस्सदा ॥१३६॥

प्रकुर्याद्दिनकृत्यं तु राजधान्यां वसन्नृपः ॥१३७॥

उत्थाय पश्चिमे यामे मुहूर्ताद्वितयेन वै ।
नियतायश्च कत्यास्ति व्यवश्च नियतः कति ॥१३८॥

कोशभूतस्य द्रव्यस्य व्ययः कतिगतस्तथा ।
व्यवहारे मुद्रितायव्ययशेषं कतीति च ॥१३९॥

प्रत्यक्षतो लेखतश्च ज्ञात्वा चाद्य व्ययः कति ।
भविष्यति च तत्तुल्यं द्रव्यं कोशन्त्‍ निर्हरेत्‍ ॥१४०॥

पश्चात्तु बेगनिर्मोक्षं स्नानं मौहूर्तिकं मतम्‍ ।
सन्ध्यापुराणदानैश्च मुहूर्तद्वितयं नयेत्‍ ॥१४१॥

पारितोषिकदानेन मुहूर्तं तु नयेत्सुधीः ।
धान्यवस्त्रस्वर्णरत्नसेनादेशविले खनैः ॥१४२॥

सायव्ययैमुहूर्तानां चतुष्कं तु नयेत्सदा ।
स्वस्थचित्तो भोजनेन मुहूर्तं ससुह्रन्नृपः ॥१४३॥

प्रत्यक्षीकरणाज्जीर्णनवीनानां मुहूर्तकम्‍ ।
ततस्तु प्राडविवाकादिबोधितव्यवहारतः ॥१४४॥

मुहूर्तद्वितयं चैव मृगयाक्रीडनैर्नयेत्‍ ।
व्यूहाभ्यासैर्मुहूर्तं तु मुहूर्तं सन्धया ततः ॥१४५॥

मुहूर्तं भोजनेनैव द्विमुहूर्तं च वार्तया ।
गूढचारैः श्रावितया निद्रयाष्टमुहूर्तकम्‍ ॥१४६॥

एव विहरतो राज्ञः सुखं सम्यक्प्रजायते ।
अहोरात्रं विभज्यैवं त्रिंशभ्दिस्तु मुहूर्तकैः ॥१४७॥

नयेत्कालं वृथा नैव नयेत्स्त्रीमद्यसेवनैः ।
यत्कालै ह्युचितं कर्तु तत्कार्य द्रागशंकितम्‍ ॥१४८॥

काले वृष्टिः सुपोषाय ह्यन्यथा सुविनाशिनी ।
कार्यस्थानानि सर्वाणि यामिकैरभितोऽनिशम्‍ ॥१४९॥

नयवान्नीतिगतिवित्सिद्ध शस्त्रादिकैर्वरैः ।
चतुर्भिः पञ्चभिंर्वापि षड्‍ भिर्वा गोपयेत्सदा ॥१५०॥

तत्रत्यानि दैनिकानि श्रृणुयाल्लेखकाधिपैः ।
दिने दिने यामिकांना प्रकुर्यात्परिवर्तनम्‍ ॥१५१॥

शासनं त्वीद्दशं कार्य राज्ञा नित्यं प्रजासु च ॥१५२॥

दासे भूत्येऽथ भार्यायां पुत्रे शिष्येपि वा क्कचित ।
वाग्दंडपरुषन्नैव कार्य मददेशसंस्थितैः ॥१५३॥

तुलाशासनमानानां नाणकस्यापि वा क्कचित्‍ ।
निर्यासनां च धातूनां सजातीनां घृतस्य च ॥१५४॥

मधुदुग्धवसादीनां पिष्टादीनां च सर्वदा ।
कूट नैव तु कार्यं स्याद्वलाश्च लिखितं जनैः ॥१५५॥

युत्कोचग्रहणं नैव स्वामिकार्यविलोपनम्‍ ।
दुर्वृत्तकारिणं चोरं जारमेद्वषिणं द्विषम‍ ॥१५६॥

न रक्षन्त्वप्रकाशं हि तथान्यानपकारकान्‍ ।
मातृणां पितृणां चैव पूज्यानां विदुषामपि ॥१५७॥

नावमानं नोपहासं कुयुः सदवृत्तशालिनाम्‍ ।
न भेदं जनयेयुर्वै नृनार्योः स्वामिभृत्ययोः ॥१५८॥

भ्रातृणां गुरुशिष्याणां न कुर्युः पितृपुत्रयोः ।
द्यूतं च मद्यपानं च मृगया शस्त्रधारणम्‍ ॥१५९॥

गोगजाश्वोष्ट्रमहिणीनृणां वै स्थावरस्य च ।
रजतस्वर्णरत्नानां मादकस्य विषस्य च ॥१६०॥

क्रयं वा विक्रयं वापि मद्यसंधानमेव च ।
क्रयपत्रं दानपत्रमृणनिर्णय पत्रकम्‍ ॥१६१॥

राजाज्ञथा विना नैव जनैः कार्यं चिकित्सितम्‍ ।
महापापाभिशपनं निधिग्रहणमेव च ॥१६२॥

स्वधर्ममहानिमनृतं परदाराभिमर्शनम्‍ ॥१६३॥

कूटसाक्ष्यं कूटलेख्यमप्रकाश प्रतिग्रहम्‍ ।
निर्धारितकराधिक्यं स्जेयं साहसमेव च ॥१६४॥

मनसापि न कुर्वन्तु स्वामिद्रोहं तथैव च ।
भृत्या शुतकेन भागेन वृद्धया दर्पबलाच्छलात्‍ ॥१६५॥

आघर्षणं न कुर्वन्तु यस्य कस्यापि सर्वदा ।
परिमाणोन्मानमानं धार्यं राजमुद्रितम्‍ ॥१६६॥

गुणसाधनसंदक्षा भवन्तु निखिला जनाः ।
साहसाधिकृते दधुविनिगृहयाततायिनम्‍ ॥१६७॥

उत्सृष्टा वृषभाद्या यैस्तैस्ते धार्याः सुयंत्रिताः ।
इति मच्छासनं श्रृत्वा येऽन्यथा वर्तयन्ति तान्‍ ॥१६८॥

विनिशिष्यामि दण्डेन महता पापकारकान्‍ ।
इति प्रबोधयेन्नित्यं प्रजाः शासनडिंडिमैः ॥१६९॥

प्रजानां पालनं कार्य नीतिपूर्व नृपेण हि ।
मार्गसंरक्षण कुर्यान्नृपः पान्थसुखाय च ॥१७०॥

पान्थप्रपीडका ये ये हंतव्यास्ते प्रयत्नतः ।
राजस्य यशसः कीर्तेर्धनस्य च गुणस्य च ॥१७१॥

प्राप्तस्य रक्षणेन्यस्य हरणेऽनुद्यमोपि च ।
संरक्षणे संहरणे सुप्रयत्नो भवेत्सदा ॥१७२॥

शौर्यपांडित्यवक्तृत्वं दातृत्वं न त्यजेत्क्कचित्‍ ।
बलं पराक्रमं नित्यमुत्थानं चापि भूमिपः ॥१७३॥

समितौ स्वात्मकार्ये वा स्वामिकार्ये तथैव च ।
त्यक्त्वा प्राणभयं युध्येत्स शूरस्त्वविशंकित; ॥१७४॥

पक्षं संत्यज्य यत्नेन बालव्यापि सुभाषितम्‍ ।
ग्रहणाति धर्मतत्त्वं व व्यवस्यति च पण्डितः ॥१७५॥

राज्ञोपि दुर्गुणान्वक्ति प्रत्यक्षमविशंकितः ।
स वक्ता गुणतुल्यांस्तान्न प्रस्तौति कदाचन ॥१७६॥

अदेयं यस्य वै नास्ति भार्यापुत्राविकं धनम्‍ ।
आत्मानमपि सन्दत्ते पात्रे दाता स उच्यते ॥१७७॥

बल, पराक्रम आणि उत्थान काय आहे ?
अशंकितक्षमो येन कार्यं कर्तुं बलं हि तल्‍ ।
किंकरा यिव येनान्ये नृपाधाः स पराक्रमः ॥१७८॥

युद्धानुकूलव्यापार युत्थाननमितिकीर्तितम्‍ ।
विषदोषभयादन्नं विमृशेत्‍ कपिकुक्कुरैः ॥१७९॥

हंसाः स्खलन्ति कूजन्ति भृंगा नृत्यन्ति मायुराः ।
विरौति कुक्कुरो माद्येत्‍ क्रौंचो वै रेचते कपिः ॥१८०॥

ह्रष्टरोमा भवेद्‍ बभ्रुः सारिका वमते तथा ।
हष्टवैवं सविषं चान्नं तस्माद्‍ भोज्यं परीक्षयेत्‍ ॥१८१॥

शीर्यं प्रवर्धते नित्यं लक्ष्यसन्धानमेव च ॥१८२॥

अकातरत्वं शस्त्रास्त्रशीघ्र पातनकारिता ।
मृगयायां गुणा ऐते हिंसादोषों महत्तरः ॥१८३॥

सदैकनायकं राज्यं कुर्यान्न बहुनायकम्‍ ।
नानायकं क्कचिदपि कर्तुमीहेत भूमिपः ॥१८४॥

राजकुले तु बहवः पुरुषा यदि संति हि ।
तेषु ज्येष्ठो भवेद्राजा दोषास्तत्कार्यसाधकाः ॥१८५॥

गरीयांसो वराः सर्वसहायेभ्योऽभिवृद्धये ।
ज्येष्ठोपि बधिरः कुष्ठी मूको न्धः ऐव यः ॥१८६॥

स राज्यार्हो भवेन्नैव भ्राता तत्पुत्र ऐव हि ।
स्वकनिष्ठोणि ज्येष्ठस्य भ्रातुः पुत्रस्तु राज्यमाक्‍ ॥१८७॥

यथाऽग्रजस्य चाभावे कनिष्ठा राज्यभागिनः ।
सर्वस्मादधिको दाता शूरस्त्वं धामिको ह्यसि ।
ऐति वाचं न धुणुयाच्छावका वंचकास्तु ते ॥१८८॥

रागाल्लोभाद्‍ भयाद्राज्ञः स्युर्मूका ऐव मंत्रिणः ।
नताननुमतान्विद्यान्नृपतिः स्वार्थसिद्धये ॥१८९॥

पृथक्पृथड्मतं तेषां लेखायित्वा ससाधनम्‍ ।
विमृशेत्स्वमतेनैव यत्कृर्याद्वहुसम्मतम्‍ ॥१९०॥

अतः स्वबांधवैमित्रैः स्वसाम्यप्रापितैर्गुणैः ।
प्रकृतिभिर्नृपो गच्छेन्न नीचैस्तु कदाचन ॥१९१॥

मिथ्यासत्यसदाचारैर्नीचः साधुः क्रमात्स्मृतः ।
साधुभ्योऽतिस्वमृदुत्वं नीचाः संदर्शऽयान्ति हि ॥१९२॥

ग्रामान्पुराणि देशांश्च स्वयं संवीक्ष्य वत्सरे ।
अधिकारिगणैः काश्च रंजिताः काश्च कर्षिताः ॥१९३॥

प्रजास्तासां तु भूतेन व्यवहारं विचिन्तयित्‍ ।
न भुत्यपक्षपाती स्थात्प्रजापक्षं समाश्रयेत्‍ ॥१९४॥

न संत्यजेञ्च स्वस्थानं नीत्या शत्रुगणं जयेत्‍ ।
स्थानभ्रष्टा नो विभांति दंताः केशा नखा नृपाः ॥१९५॥

उक्तं समासतो राजकृत्यं मिश्रेऽधिकं ब्रुवे ॥१९६॥

द्वितीयो अध्यायः[सम्पाद्यताम्]

यद्यप्यल्पतरं कर्म तदप्येकेन दुष्करम्‍ ।
पुरुषेणासहायेन किमु राज्यं महोदयम्‍ ॥१॥

सर्वविद्यासु कुशलो नृपो ह्यपि सुमंत्रवित्‍ ।
मंत्रिभिस्तु विना मंत्रं नैकोऽर्थं चितयेत्क्कचित्‍ ॥२॥

सभ्या धकारिप्रकृतिसभासत्सु मते स्थितः ।
सर्वदा स्यान्नृपः प्राज्ञः स्वमते न कदाचन ॥३॥

प्रभुः स्वातन्त्र्यमापन्नो ह्यनर्थायैव कल्पते ।
निन्नराष्ट्रो भवेत्सद्यो भिन्नप्रकृतिरेव च ॥४॥

कुलगुणशीलवृध्वाञ्छरान्‍ भक्तान्प्रियंवदान्‍ ।
हितोपेदशकान्नलेशसहान्‍ धर्मरतान्सदा ॥५॥

कुमार्गगं नृपमपि बुद्धयोद्धर्त्तुं क्षणाञ्छुचीन ।
निर्मत्सरान्कामक्रोध लोभही नान्निरालसान्‍ ॥६॥

हीयते कुसहायेन स्वधर्माद्राज्यतो नृपः ।
कुकर्मणा प्रतष्टास्तु दितिजाः कुसहायतः ॥७॥

नष्टा दुर्योधनाद्यास्तु नृपाः शूरा बलाधिकाः ।
निरभिमानो नृपतिः सुसहायो भवेदतः ॥८॥

युवराज आणि मंत्रीगण यांची नियुक्ती
युवराजोऽमात्यगणो भुजावेतौ महीभुजः ।
तावेव नयने कर्णो दक्षसव्यौ क्रमात्स्मृतौ ॥९॥

बाहुकर्णाक्षिहीनः स्याद्विना ताभ्यामतो नृपः ।
योजयेञ्चिन्तयित्वा तौ महानाशाय चान्यथा ॥१०॥

सुनीतिशास्त्रकुशलान्‍ धनुर्वेदविशारदान्‍ ।
क्लेशसहांश्च वाग्दंडपारुष्यानुभवान्‍ सदा ॥११॥

शौर्ययुद्धरतान्‍ सर्वकलाविद्याविदोंऽजसा ।
सुविनीतान्प्रकुवीत हयमात्याद्यैर्नृपः सुतान्‍ ॥१२॥

सुवस्त्राद्यैर्भूषयित्वा लालयित्वा सुक्रीडनैः ।
अर्हयित्वाऽऽसनाद्यैश्च पालयित्वा सुभोजनैः ॥१३॥

कृत्वा तु यौवराज्यार्हान्‍ यौवराज्येऽभिषेचयेत्‍ ।
अविनीतकुमारं हि कुलमाशु विनश्यति ॥१४॥

राजपुत्रः सुदुर्वृत्तः परित्यागं हि नार्हति ।
क्लिश्यमानः स पितरं परानाश्रित्य हन्ति हि ॥१५॥

व्यसने सज्जमानं तं क्लेशयेद्‍ व्यसनाश्रयैः ।
दुष्टं गजमिवोद्‍ वृत्तं कुर्वीत सुखबन्धनम्‍ ॥१६॥

सुदुर्वृत्तास्तु दायादा हन्तव्यास्ते प्रयत्नतः ।
व्याघ्रादिभिः शत्रुभिर्वा छलै राष्ट्रविवृद्धये ॥१७॥

अतोऽन्यथा विनाशाय प्रजाया भूपतेश्च ते ।
प्राप्यापि महतीं वृद्धिं वर्तेत पितुराज्ञया ॥१८॥

पुत्रस्य पितुराज्ञापि परमं भूषणं स्मृतम्‍ ।
भार्गवेण हता माता राघवस्तु वनं गतः ॥१९॥

पितृस्तपोबलात्तौ तु मातरं राज्यमापतुः ।
शापानुग्रहयोः शक्तो यस्तस्याज्ञा गरीयसी ॥२०॥

सोदरेषु च सर्वेषु स्वस्याधिक्यं न दर्शयेत्‍ ।
भागार्हभ्रातृणां नष्टो हयवमानात्सुयोधनः ॥२१॥

पितुराज्ञोल्लंघनेन प्राप्यापि पदमुत्तमम्‍ ।
तस्माद्‍ भ्रष्टा भवन्तीह दासवद्राजपुत्रकाः ॥२२॥

ययातेश्च यथा पुत्रा विश्वामित्रसुता यथा ।
पितृसेवापरस्तिष्ठेत्कायवाड्मानसैः सदा ॥२३॥

तत्कर्म नियतं कुर्याद्येन तुष्टो भवेत्पिता ।
तन्न कुर्याद्येन पिता मनागपि विषीदति ॥२४॥

यस्मिन्पितुर्भवेत्प्रीतिः स्वयं तस्मिन्प्रियं चरेत्‍ ।
यस्मिन्द्वेषं पिता कुर्यात्स्वस्यापि द्वेष्य ऐव सः ॥२५॥

असंमतं विरुद्धं वा पितुर्नैव समाचरेत्‍ ।
चारपूचकदोषेण यदि स्यादन्यथा पिता ॥२६॥

प्रकृत्यनुमतं कृत्वा तमेकान्ते प्रबोधयेत्‍ ।
अन्यथा सूचकान्नित्यं महाद्दंडेन दण्डयेत्‍ ॥२७॥

विद्यया कर्मणा शीलैः प्रजा संरंजन्मुदा ।
त्यागी च सत्वसपन्नः सर्वान्कुर्याद्वशे स्वके ॥२८॥

परीक्षकैर्द्रावयित्वा यथा स्वर्ण परीक्षते ।
कर्मणा सहवासेन गुणैः शीलकुलादिभिः ॥२९॥

भृत्यं परीक्षयेन्नित्यं विश्वात्स्यं विश्वसेत्तदा ।
नैव जातिर्न च कुलं केवलं लक्षयेदपि ॥३०॥

कर्मशीलगुणाः पूज्यास्तथा जातिकुलेन हि ।
न जात्या न कुलेनैव श्रेष्ठत्व प्रतिपश्चते ॥३१॥

विवाहे भोजने नित्यं कुलजातिविवेचनम्‍ ।
सत्यवान्‍ गुणसम्पन्नस्तथाऽभिजनवान्धती ॥३२॥

सुकुलश्च सुशीलश्च सुकर्मा च निरालसः ।
यथा करोत्यात्मकार्यं स्वामिकार्यं ततोऽधिकम्‍ ॥३३॥

चतुर्गुणेन यानेन कायवाड्मानसेन च ।
भृत्या च तुष्टो मृदुवाक्कार्यदक्षः शचिर्दुढः ॥३४॥

परोपकारणे दक्षो ह्यपकारपराड्मुखः ।
स्वाम्यागस्कारिणं पुत्रं पितरं चापि दर्शकः ॥३५॥

अन्यायगामिनी परयो यतद्रूप; सुबोदकः ।
नाक्षेप्ता तद्रिरं कांचित्तन्यूनस्या प्रकाशकः ॥३६॥

अदीर्घसूत्रः सत्कार्ये ह्यसत्कार्ये चिरक्रियः ।
न तभ्दार्यापुत्रमित्रच्छि द्रदर्शी कदाचन ॥३७॥

तद्भद्‍ बुद्धिस्तदीयेषु भार्यापुत्रादि बन्धुषु ।
न श्लाघते स्पर्धते न नाभ्यसूर्यात निन्दति ॥३८॥

नेच्छत्यन्याधिकारं हि निःस्पृहे मोदते सदा ।
तद्दत्तवस्त्रभूषादिधारक स्तत्पुरोऽनिशम्‍ ॥३९॥

भृतितुल्यव्ययी दान्तो दयालुः शूर ऐव हि ।
तदकार्यस्य रहसि सूचको भृतको वरः ॥४०॥

विपरीतगुणैरेभिर्भृतको निन्द्य उच्यते ।
ये भृत्या हीनभृतिका ये दंडेन प्रकर्षिताः ॥४१॥

शठाश्च कातरा लुब्धाः समक्षप्रियवादिनः ।
मत्ता व्यसनिनश्चार्ता उत्कोचेष्टाश्च देविनः ॥४२॥

नास्तिका दाम्भिकाश्चैवासत्यवाचोऽप्यसूयकाः ।
ये चापमानिता येऽसद्वाक्यैर्मर्मणि भेदिताः ॥४३॥

रिपोर्मित्राः सेवकाश्च पूर्ववैरानुवन्दिनः ।
चण्डाः साहसिका धर्महीना नैते सुसेवकाः ॥४४॥

संक्षेपतस्तु कथितं सदसद्‍ भृत्यलक्षणम्‍ ।
मन्त्रानुष्ठानसम्पन्नस्त्रैविद्यः कर्मतत्परः ॥४५॥

जितेन्द्रियो जितक्रोधो लोभमोहविवर्जितः ।
षडंगवित्सांगधनुर्वेद विच्चाश्रमवित्‍ ॥४६॥

यत्कोमभीत्या राजापि धर्मनीतिरतो भवेत्‍ ।
नीतिशास्त्रव्यूहादिकुशलस्तु पुरोहितः ॥४७॥

सैवाचार्यः पुरोधा यः शापानुग्रहयोः क्षमः ।
विना प्रकृतिसन्मन्त्राज्यनाशो भवेद्‍ ध्रुवम्‍ ॥४८॥

रोधनं न भवेत्तेस्माद्राज्ञस्ते स्युः सुमन्मिणः ।
न बिभेति नृपो येभ्यस्तैः स्यात्‍ किं राज्यवर्धनम्‍ ॥४९॥

यथालंकारवस्त्राद्यैः स्त्रियो भूष्यास्तथा हि ते ।
राज्यं प्रजा बलं कोशः सुनृपत्वं न वर्धितम्‍ ॥५०॥

यन्मन्मतोऽरिनाशस्तैर्मंत्रिभिः किं प्रयोजनम्‍ ।
कार्यकार्यप्रविज्ञाता स्मृतः प्रतिनिधीस्तु सः ॥५१॥

सर्वदर्शी प्रधानस्तु सेनावित्सचिवस्तथा ।
मंत्री तु नीतिकुशलः पण्डितो धर्मतत्त्ववित्‍ ॥५२॥

लोकशास्त्रनयज्ञस्तु प्राडविवाकः समृतः सदा ।
देशकालप्रविज्ञाता ह्यमात्य इति कथ्यते ॥५३॥

आयव्ययप्रविज्ञाना सुमंत्रः स च कीर्तितः ।
इंगिताकारचेष्टज्ञः स्मृतिमान्देशकालवित्‍ ॥५४॥

षाड्गुण्यमंत्रविद्वाग्मी वीतभीर्दूत इष्यते ।
अहितं चापि यत्कार्यं सद्यः कर्तुं यदोचितम्‍ ॥५५॥

अकर्तुं यद्धितमपि राज्ञ प्रतिनिधी सदा ।
बोधयेत्कारयेत्कुर्यान्त कुर्यान्न प्रबोधयेन्‍ ॥५६॥

सत्यं वा यदि वाऽसत्यं कार्यजाते च यत्किल ।
सर्वेषां राजकृत्येषु प्रधानस्ताद्विचिन्तयेत ॥५७॥

गजानां च तथाऽश्वानां रथानां पदगामिनाम्‍ ।
सदुद्दढानां तथोष्ट्राणां वृषाणां सद्य एव हि ॥५८॥

वाद्यकाषासु संकेतव्यूहाभ्यसनशालिनम्‍ ।
प्राक्प्रत्यग्गामिनां राज्यचिन्ह शस्त्रास्त्र धारिणाम्‍ ॥५९॥

परिचारगणानां हीनमध्योत्तम कर्मणाम्‍ ।
अस्त्राणामस्त्रजातीनां संघः स्वतुर गीगणः ॥६०॥

कार्यक्षमश्च प्राचीनः साधस्कः काते विद्यते ।
कार्यासमर्थः कत्यस्ति शस्त्रगोलाग्नि चूर्णयुक्‍ ॥६१॥

सांग्रामिकश्च कत्थस्ति संभारस्तान्विचिन्त्य च ।
सचिवश्चापि तत्कार्य राज्ञे सभ्यग्‍ निवेदयेन ॥६२॥

साम दानञ्च भेदश्च दण्डः केषु कदा कथम्‍ ।
कर्तव्यः किं फलं तेभ्यो बहुमध्यं तथाऽल्पकम्‍ ॥६३॥

एतत्संचिन्त्य निश्चित्य मन्मो सर्व निवेदयेन्‍ ।
साक्षिभिलिंखितैर्भोवौश्छलैर्भूतैश्च मानुषान्‍ ॥६४॥

स्वानुत्पादि संप्राप्त व्यवहार न्विचिन्त्य च ।
दिव्य - संसाधनाद्‍ वापि केषु किं सायते परम्‍ ॥६५॥

युक्ति प्रत्यक्षानुमानोपमानैर्लोकशास्त्रतः ।
बहुसंमत्त संसिद्धान्विनिश्चित्य सभास्थितः ॥६६॥

समभ्यः प्राडविवाकस्तु नृपं सम्बोधयेतत्सदा ।
वर्तमानश्च प्राचीना धर्माः के लोकसंधिताः ॥६७॥

शास्त्रेषु के समुद्दिष्टा विसभ्यन्ते च केऽधुना ।
लोकशास्त्र विरुद्धाः के पण्डितस्तान्विचिन्त्य च ॥६८॥

नृपं संबोधयेनैश्च परन्तेह सुखप्रदैः ।
इयञ्च संचितं द्रव्यं वत्सरेऽस्मिस्तृणादिकम्‍ ॥६९॥

व्ययीभूतमियश्चैव शेषं स्थावर जंगमम्‍ ।
इयदस्तीवि वै राज्ञे सुमन्तो विनिवेदयेत्‍ ॥७०॥

पुराणि च कति ग्रामा अरण्यनि च सन्ति हि ।
कर्विता कति भूःकेन प्राप्तो भागस्ततः कति ॥७१॥

भागशेषं स्थितं कस्मिन्कत्यकृष्टा च भूमिका ।
भागद्रव्यं वत्सरेऽस्मिञ्छुल्कदण्डादिजं कति ॥७२॥

अकृष्टपच्यं कति च कति चारण्यसंभवम्‍ ।
कति चाकरसंजातं निधिप्राप्तं कतीति च ॥७३॥

अस्वामिकं कति प्राप्तं नाष्टिक तस्कराह्रतम्‍ ।
संचितं तु विनिश्चत्यामात्यो राज्ञे निवेदयेत्‍ ॥७४॥

समासाल्लक्षणं कृत्यं प्रधानदशकस्य च ।
एकस्मिन्नधिकारे तु पुरुषाणां त्रयं सदा ॥७५॥

निपुज्जीत प्राज्ञतमं मुख्यमेकन्तु तेषु वै ।
द्वौ दर्शकौ तु तत्कार्ये हायनैस्तान्निवर्तनम्‍ ॥७६॥

त्रिभिर्वा पञ्चभिवपि सप्तभिर्दशभिश्च वा ।
दृष्ट्वा तत्कार्यकौशल्ये तथा तं परिवर्तयेत्‍ ॥७७॥

नाधिकारं चिरं दद्याद्यस्मै कस्मै सदा नृप ।
अधिकारे क्षमं दृष्ट्वा ह्यधिकारे नियोजयेत्‍ ॥७८॥

अधिकारमदं पीत्वा को न मुह्येत्पुनश्चिरम्‍ ।
अतः कार्यक्षमं दृष्ट्वा कार्येऽन्ये तं नियाजयेत्‍ ॥७९॥

तत्कार्ये कुशलं चान्यं तत्पदानुगतं खलु ।
नियोजयेद्वर्तने तु तदभावे तथा परम्‍ ॥८०॥

तद्‍ गुणों यदि तत्पुत्रस्तत्कार्ये तं नियोजयेत्‍ ।
यथा यथा श्रेष्ठपदे ह्यधिकरी यदा भवेत्‍ ॥८१॥

अनुक्रमेण संयोज्यो ह्यन्ते तं प्रकृति नयेत्‍ ।
तपस्विनो दानशीलाः श्रुतिस्मृतिविशारदाः ॥८२॥

पौराणिकाः शास्त्रविदो दैवाज्ञा मानित्रिकाश्चये ।
आयुर्वेदविदः कर्मकाण्डज्ञास्तान्मिकाश्चये ॥८३॥

ये चान्ये गुणिनः श्रेष्ठा बुद्धिमन्तो जितेन्द्रियाः ।
तान्‍ सर्वान्‍ पोषयेद्‍ भृत्या दानैर्मानैः सुपूजितान्‍ ॥८४॥

हीयते चान्यथा राजा ह्यकीर्ति चापि विन्दति ।
बहुसाध्यानि कार्याणि तेषामप्यधिपांस्या ॥८५॥

तत्तकार्येषु कुशलाञ्ज्ञात्वा तांस्तु नियोजयेत्‍ ।
अमन्त्रमक्षरं नास्ति नास्ति मूलमनौषधम्‍ ॥८६॥

अयोग्यः पुरुषो नास्ति योजकस्तत्र दुर्लभः ।
नीतिशस्त्रास्त्रव्यूहादिनतिविद्याविशारदाः ॥८७॥

अबला मध्यवयसः शूरा दान्ता दृढांगकाः ।
स्वधर्म निरता नियं स्वामिभक्ता रिपुद्विषः ॥८८॥

शूद्रा वा क्षत्रिय वैश्या म्लेच्छाः संकटसम्भवाः ।
सेनाधिपाः सैनिकाश्च कार्या राज्ञा जयार्थिना ॥८९॥

दान्तस्तु सधनो यस्तु व्यवहार विशारदः ।
धनप्राणोऽतिकृपणः कोषाध्यक्षः स एव हि ॥९०॥

स्वधर्माचरणे दक्षो देवताधने रतः ।
निःस्पृह स च कर्तव्यो देवतुष्टिपतिः सदा ॥९१॥

याचकं विमुखं नैव करोति न च संग्रहम्‍ ।
दानशीलश्च निर्लोभी गुणज्ञश्च निरालसः ॥९२॥

दयालुर्मृवाग्दान - पात्रविन्नति - तत्परः ।
नित्यमेभिर्गुणैर्युक्तो दानस्यक्षः प्रकीर्तितः ॥९३॥

व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः ।
रिपौ मित्रे समा ये च धर्मता सत्यवादिनः ॥९४॥

निरालसा जितक्रोधकामलोभाः प्रियंवदाः ।
सभ्या सभासदः कार्या वृद्धाः सर्वासु जातिषु ॥९५॥

परोपकार निरतः परमर्माप्रकाशकः ।
निर्यत्सरो गुणग्राही सद्‍ विद्यः स्यात्‍ परीक्षकः ॥९६॥

वृक्षान्‍ संपुण्य यत्नेन फलं पुष्पं विचिन्वति ।
मालाकार इवात्यन्तं भागहारस्तथाविधः ॥९७॥

गणनाकुशलो यस्तु देश भाषाप्रभेदवित्‍ ।
असंदिग्धगूढार्थं बिलिश्वेत्स च लेखकः ॥९८॥

शस्त्रास्त्रकुशलो यस्तु दृढांगश्च निरावसः ।
यथायोग्यं समाहूयीत्‍ प्रनम्रः प्रतिहारकः ॥९९॥

यथा विक्रयिणां मूलधननाशो भवेन्नहि ।
तथा शुल्कं तु हरति शौल्किकः स उदाह्रतः ॥१००॥

जपोपवास - नियम- कर्मध्यानरतः सदा ।
दान्तः क्षमो निःस्पृहश्च तपोनिष्ठः स उच्यते ॥१०१॥

याचकेभ्यो ददात्यर्थं भार्यापुत्रादिकं त्वपि ।
न संगृहणाति यत्किंचितद्‍ दानशीलः स उच्चते ॥१०२॥

पठनं पाठनं तुक क्षमास्त्वभ्यासशालिनः ।
श्रृतिस्मृतिपुराणानां श्रुतज्ञास्त्रे प्रकीर्तिताः ॥१०३॥

साहित्यशास्त्रनिपुणः संगीतज्ञश्च सुस्वरः ।
सर्गादिपञ्चकज्ञाता स वै पौराणिकः स्मृतः ॥१०४॥

मीमांसातर्कवेदान्त शब्द शासन तत्परः ।
अहवान्बोधितुं शक्तस्तत्वतः शास्त्रविश्च सः ॥१०५॥

संहितां च तथा होरां गणितं वेत्ति तत्वतः ।
ज्योतिर्षिच्च स विज्ञेयोस्त्रिकालज्ञश्च यो भवेत ॥१०६॥

बीजानुपूर्व्या मंत्राणां गुणान्दोषांश्च वेत्ति यः ।
मंत्रानुष्ठान संपन्नो मांत्रिकः सिद्धदैवतः ॥१०७॥

हेतुलिंगौषधीमिर्यो व्याधीनां तत्वनिश्चयम्‍ ।
साध्यासाध्यं विदित्वोपक्रमते स भिषक्स्मृतः ॥१०८॥

श्रृतिस्मृतीतदैर्मन्मानुष्ठानैर्देवतार्चनम्‍ ।
कर्तु हिततमं मत्वा यतते स च तांत्रिकः ॥१०९॥

अनन्याः स्वामिभक्ताश्च धर्मनिष्ठा दृढांकाः ।
अबाला मध्यवयसः सेवासु कुशलाः सदा ॥११०॥

सर्वं यद्यत्कार्यजातं नीचं वा कर्तुमुद्यताः ।
निदेशकारिणो राज्ञा कर्तव्याः परिचारिकाः ॥१११॥

शत्रुप्रजाभृत्यवृत्तं विज्ञातुं कुशलाश्च ये ।
ते गूढाचराः कर्त्तव्या यथार्थश्रुतबोधकाः ॥११२॥

प्रोक्तंपुण्यतमं सत्यं परोपकरणं तथा ।
आज्ञायुक्तांश्च भृतकान्सततं धारयेन्नृपः ॥११३॥

हिंसा गरीयसी सर्वपापेभ्योऽनृतभाषणम्‍ ।
गरीयस्तरमेताभ्यां युक्तान्भृत्यान्त धारयेत्‍ ॥११४॥

यदा यदुचितं कर्तुं वक्तुंवा तत्प्रबोधयन्‍ ।
तद्वक्ति कुरुते द्राक्तु स सद्‍ भृत्यः सुपूज्यते ॥११५॥

उत्थाय पश्चिमे यामे गृहकृत्यं विचिन्त्य च ।
कुत्वोसर्गं तु विष्णुं हि स्पृत्वा स्नायाद नन्तरम्‍ ॥११६॥

प्रातः कृत्यं तु निर्वर्त्य यावत्सार्धमुहूर्तकम्‍ ।
गत्वा स्वकार्यशाजां वा कार्याकार्यं विचिन्त्य च ॥११७॥

विनाज्ञया विशन्तं तु द्वास्थः सम्यङ निरोधयेत्‍ ।
निदेशकार्य विज्ञाप्य तेनाज्ञप्त प्रमोचयेत्‍ ॥११८॥

प्रियं तथ्यं च पथ्यं च वदेद्धर्मार्थकं वचः ।
समानवार्तया चापि तद्धितं बोधयेत्सदा ॥११९॥

यत्कार्ये यो नियुक्तः स भूयात्तत्कार्यतप्तरः ।
नान्याधिकार मन्विच्छेन्ताभ्यसूयेश्च केनचित्‍ ॥१२०॥

न न्यून लक्षयेत्कस्य पूरयेत स्वशक्तितः ।
परोपकरणादन्यन्न स्यान्मित्रकरं सदा ॥१२१॥

करिण्यामीति ते कार्य न कुर्यात्कार्यलम्बनम्‍ ।
द्राक्कुर्यात्त समर्थश्येत्साशं दीर्घ न रक्षयेत्‍ ॥१२२॥

एकवारमप्यशितं यस्यान्नं ह्यादरेण च ।
तदिष्टं चिन्तयोन्नित्यं पालकस्याञ्जसा न किम्‍ ॥१२३॥

अप्रधानः प्रधानः स्यात्काले चात्यन्त सेवनात्‍ ।
प्रधानोऽप्यप्रधानः स्यात्सेवालस्यादिना यतः ॥१२४॥

मित्रायापि न वक्तव्यं राजकार्य सुमिन्त्रतम्‍ ॥१२५॥

भृतिविना राजद्रव्यमदत्तं नाभिलाषयेत्‍ ।
राजाज्ञया विना नेच्छेत्कार्यमाध्यस्थिकीं भृतिम्‍ ॥१२६॥

न निहन्याद्‍ द्रव्यलोभात्सत्कार्यं यस्थ कस्यचित्‍ ।
स्वस्त्रीपुत्रधनप्राणैः काले संरक्षयेन्नृपम्‍ ॥१२७॥

उत्कोचं नैव गृण्हीयांचन्यथा बोधयेन्नृपम्‍ ।
अन्यथा दंडकं भूपं नित्यं प्रबलदण्डकम्‍ ॥१२८॥

निगृह्य बोधयेत्सम्यगेळांते राज्यगुप्तये ।
हितं राज्ञश्चहितं यल्लोकानां तन्न कारयेत्‍ ॥१२९॥

नवीनकरशुल्काद्यैर्लोक उद्विजते ततः ।
गुणनीतिबलद्वेषी कुलभूतोऽप्यधार्मिकः ॥१३०॥

नृपो यदि भवेत्तं तु त्यजेद्राष्ट्रविनाशकम्‍ ।
न कार्यं भृतकः कुर्यान्नृपलेखाद्विना क्कचित्‍ ।
नाज्ञापयोल्लेखनेन ऽ विनाऽल्पं वा महन्नृपः ॥१३१॥

भ्रान्ते पुरुषधर्मत्वाल्लेख्यं निर्णायकं परम्‍ ।
अलेख्यमाज्ञापयति ह्यलेख्यं यत्करोति यः ॥१३२॥

राजकृत्यमुभौं चोरौ तौ भृत्यनृपति सदा ।
नृपसंचिन्हितं लेख्यं नृपस्तन्न नृपो नृपः ॥१३३॥

राजाद्यांकितलेख्यस्य धारयेत्स्मृतिपत्रकम्‍ ।
कालेऽतीते विस्मृतिर्वा भ्रान्तिः संजायते नृणाम्‍ ॥१३४॥

यथोपन्यस्तयाध्यार्थसंयुक्तं सोत्तरक्रियम्‍ ॥१३५॥

सावधारणकं चैव जयपत्रकमुच्यते ।
सामन्तेष्यथ भृत्येषु राष्ट्रपालादिकेषु यत्‍ ॥१३६॥

कार्यमादिश्यते येन तदाज्ञापत्रमुच्यते ।
सर्वेश्रृणुत कर्तव्यमाज्ञया मम निश्चितम्‍ ॥१३७॥

स्वहस्तकालसम्पन्नं शासनं पत्रमेव तत्‍ ।
गृहभूम्यादिकं दत्त्वा पत्र कुर्यात्प्रकाशकम्‍ ॥१३८॥

अनुच्छेद्यमनाहार्यं दानलेख्यं तदुच्चते ।
गृहक्षेत्रादिकं क्रित्वा तुल्यमूल्यप्रमाणयुक्‍ ॥१३९॥

पत्रं कारयते यत्तु क्रयलेख्यं तदुच्यते ।
वृध्यै धनं गृहीत्वा तु कृतं वा कारितं च यत ॥१४०॥

समाधिमच्च तत्प्रोक्तमृणलेखां मनीषिभिः ।
अभिशापे समुत्तीर्णे प्रायश्चिते कृते बुधैः ॥१४१॥

दत्तं लेख्यं साक्षिमद्यच्छुद्धिपत्रं वदुच्चते ।
मूल्यत्वेन च यद्दत्तं प्रतिदानं स्मृतं हि तत्‍ ।
सेवाशौर्यादिसंतुष्टैर्दतं तत्पारितोषिकम्‍ ॥१४२॥

भृतिरुपेण संदत्तं वेतनं तत्‍ प्रकीर्तितम्‍ ।
धान्यवस्त्रगृहाराम योगजादिरथार्थकम्‍ ॥१४३॥

विद्याराज्याधनार्थं धनाप्त्यर्थं तथैव च ।
व्यथीकृतं रक्षणार्थमुपभोग्यं तदुच्चते ॥१४४॥

यत्र यादृग्‍ व्यवहारस्तत्र तादृक्प्रकल्पयेत्‍ ॥१४५॥

कारणादि समायोगात्पदार्थस्तु भवेद्‍ भुवि ।
येन व्ययेन संसिद्धस्तद्वययस्तस्य मूल्यकम्‍ ॥१४६॥

मूल्याचे न्यूनाधिक्य यांचे कारण निर्देश
सुलभासुलभत्वाश्चागुणत्व गुणसंश्रयेः ।
यथाकामात्पदार्थानामर्घ हीनाधिकं भवेत्‍ ॥१४७॥

कमी वेतन देण्याने होणार्‍या अनर्थाचे निर्देश
ये भृत्या हीनभृतिकाः शत्रवस्ते स्वयंकृताः ॥१४८॥

परस्य साधकास्ते तु छिद्रकोश प्रजाहराः ।
मन्दो मध्यस्तथा शीघ्रस्त्रिविधं भृत्य उच्चते ॥१४९॥

समा मध्या च श्रेष्ठा च भृतिस्तेषां क्रमात्स्मृता ।
भृत्यानां गृहकृत्यार्थ दिवा यामं समुत्सृजेत्‍ ॥१५०॥

निशि यामत्रयं नित्यं दिनभृत्येऽर्धयामकम्‍ ।
पादहीनां भृतिं खर्ति दद्यात्त्रैमासिकीं ततः ॥१५१॥

पञ्चवत्सरभृत्ये तु न्यूनाधिक्यं यथा तथा ।
षाण्मासिकीं तु दीर्घार्त्ते तदूर्ध्वं न च कल्पयेत्‍ ॥१५२॥

नैव पक्षार्धमार्तस्य हाव्याऽल्पापि वै भृतिः ।
संवत्सरोषितस्यापि ग्राह्यः प्रतिनिधिस्ततः ॥१५३॥

सुमहद्‍ गुणिनं त्वार्त भृत्यर्धं कल्पयेत्सदा ।
चत्वारिंशत्समा नीताः सेवद्या येन वै नृपः ।
ततः सेवां विना तस्मै भृत्यर्थ कल्पयेत्सदा ॥१५४॥

यावज्जीवं तु तत्पुत्रेऽक्षमे बाले तदयकम्‍ ।
भार्यायां वा सुशीलायां कन्यायां वा स्वश्रेयसे ॥१५५॥

स्वामिकार्ये विनष्टो यस्तत्पुत्रे तद्‍ भृतिं वहेत्‍ ।
यावद्वालो न्यथा पुत्रगणान्दृष्ट्वा भृतिं वहेत्‍ ॥१५६॥

भृतिदानेन संतुष्टा मानेन परिवर्धिताः ।
सान्त्विता मृदुवाचा ये न त्यजन्त्यधियं हि ते ॥१५७॥

अधमा धनमिच्छन्ति धनमानौ तु मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम्‍ ॥१५८॥

नोपकृतं मन्यते स्म न तृष्यति सुसेवनैः ।
कथान्तरे न स्मरति शंकते प्रलधत्यपि ॥१५९॥

क्षुब्धस्तनोति मर्माणि तं नृपं भृतकस्त्यजेत्‍ ।
लक्षणं युवराजादेः कृत्यमुक्तं समासतः ॥१६०॥

तृतीयो अध्यायः[सम्पाद्यताम्]

अथ साधारणं नीतिशास्त्रं सर्वेषु चोच्चति ।
सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ॥१॥

सुखं च न विना धर्मात्तस्मद्धर्मपरो भवेत्‍ ।
त्रिवर्गशून्यं नारम्भं भजेत्तं चाविरोधयन्‍ ॥२॥

अनुयायात्प्रतिपदं सर्वधर्मेषु मध्यमः ।
न वेगितोऽन्यकार्यः स्यान्त वेगानीरयेद्‍ बलान्‍ ।
भवत्या कल्याणमित्राणि संवेतेतरदूरगः ॥३॥

हिंसास्तेयान्यथाकाम - पैशुन्यं परुषानृतम्‍ ।
सम्मिन्नालापल्यापादममिथ्यादूग्नि पर्यमम्‍ ॥४॥

पापकर्मेति दशया कायवाङमानसैस्त्यजेत्‍ ।
धर्मकार्यं यतग्व्‍ शक्त्या नो चेत्‍ प्राप्नोति मानवः ॥५॥

प्राप्तो भवति तत्पुण्यमता वै नास्ति संशयः ।
मनसा चिन्तयत्‍ पापं कर्मणा नाभिरोचयेत्‍ ॥६॥

तत्‍ प्राप्नोति फलं तस्येत्येव धर्मविदो विदुः ।
अवृत्ति व्याधि - शोकार्ताननुवर्तेत शक्तितः ॥७॥

अगमवत्‍ सततं पश्येदपि कीटपिपीलिकम ।
उपकारप्रधानः स्यादपकारपरेऽप्यरौ ॥८॥

संपद्विपत्स्वेकमना हेतावीर्षेत्‍ फले न तु ।
काले हितं मितं ब्रुयादविसंवादि पेशलम्‍ ॥९॥

पूर्वाभिभाषी सुमुखः सुशीलः करुणामृदुः ।
नैकः सुखी न सर्वत्र विस्मब्धो न य शंकितः ॥१०॥

न कञ्चिदात्पनः शत्रुं नात्मानं कस्यचिद्रिपुम्‍ ।
प्रकाशयेन्नापमानं न च निःस्नेहतां प्रभो ॥११॥

जनस्याशयमालक्ष्य यो यथा परितुष्यति ।
तं तथैवानुवर्तेत पराराधनपण्डितः ॥१२॥

न पीड्येदिन्द्रियाणि न चैतान्यतिलालयेत्‍ ।
इन्द्रियाणि प्रमायीनि हसन्ति प्रक्षभं मनः ॥१३॥

इंद्रियांचे संयमन न केल्याने अनर्थ होतो
एणो गजः पतंगश्च भृंगो मीनस्तु पञ्चमः ।
शब्दस्पर्शरुपगंधरसैरेत हताः खलु ॥१४॥

एषु स्पर्शो वरस्त्रीणां स्वानाहारी मुनेरपि ।
अतोऽप्रभत्तः सेवेत विषयांस्तु यथोचितान्‍ ॥१५॥

मात्रा स्वस्त्रा दुहित्रा वा नात्यनौकन्तिक वसेन्‍ ।
सहवासोऽन्यपुरुषैः प्रकाशमपि भाषणम्‍ ॥१६॥

स्वातंत्र्यं न क्षणमपि ह्यावासोऽन्यगृहे तथा ।
भर्त्रा पिताऽथवा राज्ञा पुत्रश्वसुरबान्धवैः ॥१७॥

स्त्रीणां नैव तु देवः गृहकृत्यैर्विना क्षणः ।
चण्डं षण्ढं डण्दशीमकामं सुप्रवासिनम्‍ ॥१८॥

सुदरिद्रं रोगिणं च ह्यन्यस्त्रीनिरतं सदा ।
पति दृष्ट्वा विरक्ता स्यान्तारी वाऽनरुं समाश्रयेत्‍ ॥१९॥

त्यक्त्वातान्‍ दुर्गुणान्‍ यम्नात्ततो रक्षाः स्त्रियो नरैः ।
वस्त्रान्नभूषणं प्रेममृदुवाग्भिश्च श्राक्तितः ॥२०॥

स्वात्यन्तसन्निवषेण स्त्रिथं पुत्रं च रक्षयेत्‍ ।
नासिकां न विकृष्णीयान्नाकस्माद्विलिखेद्‍ भवम्‍ ॥२१॥

न संहताभ्यां पाणिभ्यां कण्डू येदात्मनः शिरः ।
नां गैश्चेष्टेत विगुणं नासितोत्कटुकश्चिरम्‍ ॥२२॥

देहवाक्‍ चेतसां चेष्टाः प्राक्‍ श्रमाद्‍ विनिवर्त्तयेत्‍ ।
नोर्ध्वजानुश्चिरं तिष्ठेन्नक्तं सेवेत न द्रुमम्‍ ॥२३॥

तथा चत्वरचैत्यं न चतुष्पथसुरालयान्‍ ।
शून्यारवीशून्यगृहश्मशानानि दिवापि न ॥२४॥

सर्वथेक्षेत नादित्यं न भारं शिरसा वहेत्‍ ।
नेक्षेत सततं सूक्ष्मं दीप्तामेध्याप्रियाणि च ॥२५॥

आचार्यः सर्व चेष्टासु लोक एव हि धीमतः ।
अनुकुर्यात्‍ तमेवातो लौकिकार्थे परीक्षकः ॥२६॥

राजदेशकुलज्ञानिसद्धर्मान्‍ नैव दूषयेत्‍ ।
शक्तोऽपि लौकिकाचारं मनसापि न लंधयेत्‍ ॥२७॥

अयुक्तं यत्‍ कृतं योक्तं न बलाद्धेतुनोद्धरेत्‍ ।
दुर्गुणस्य च वक्तारः प्रत्यक्षं विरला जनाः ॥२८॥

लोकतः शास्त्रतो ज्ञात्वा ह्यतस्याज्यांस्त्यजेत्‍ सुधीः ।
अनयं नयसंकाशं मनसापि न चिन्तयेत्‍ ॥२९॥

अयं सहस्त्रापराधी किमेकेन भवेन्मम ।
मत्वा नाधं स्मरेदीषदिबन्दुना पूर्यते धरः ॥३०॥

नक्तं दिनानि मे यान्ति कथम्भूतस्य सम्प्रति ।
दुःखभाग्‍ न भवेदेव नित्यं सत्रिहितस्मृतिः ॥३१॥

अग्निदो गरदश्चैव शस्त्रोन्मत्तो धनापहः ।
क्षेत्रदारहरश्चैतान्‍ षड्‍ विद्यादाततायिनः ॥३२॥

नोपेक्षेत स्त्रियं बालं रोगं दासं पशुं धनम्‍ ।
विद्याभ्यासं क्षणमपि सत्सेवा बुद्धिमान्तरः ॥३३॥

नपुंसकश्च स्त्री बालश्चण्डो मूर्खश्च साहसी ।
यत्राधिकारिणश्चैते न तत्र दिवसं वसेत्‍ ॥३४॥

अविवेकी यत्र राजा सभ्या यत्र तु पाक्षिकाः ।
सन्मार्गोज्झितविद्वांसः साक्षिणोऽनृतवादिनः ॥३५॥

दुरात्मनां च प्राबल्य स्त्रीणां नीचजनस्थ च ।
यत्र नेच्छेद्धनंमानं वसति तत्र जीवितम्‍ ॥३६॥

माता न पालयेद्वाल्ये पिता साधुन शिक्षयेत्‍ ।
राजा यदि हरेद्वित्तं का तत्र परिदेवना ॥३७॥

आप्तवाक्यमनाद्दत्य दर्पेणाचरितं यदि ।
फलितं विपरीतं तत्‍ का तत्र परिदेवना ॥३८॥

सावधानमना नित्यं राजानं देवतां गुरुम्‍ ।
अग्नि तपस्विनं धर्मज्ञानवृद्धं सुसेवयेत्‍ ॥३९॥

मातृपितृगुरुस्वामि भ्रातृपुत्रसखिष्वपि ।
न विरुद्धेन्नापकुर्यान्मनसाऽपि क्षणं कचित्‍ ॥४०॥

स्वजनैर्न विरुद्धयेत न स्पर्धेत बलीयसा ।
न कुर्यात्‍ स्त्रीबालवृद्धमूर्खेषु च विवादनम्‍ ॥४१॥

एकः स्वादु न भुञ्जीत एकोऽर्थान्न विचिन्तयेत्‍ ।
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्‍ ॥४२॥

नान्यधर्म हि संवेत न द्रुक्ष्याद्वै कदाचन ।
हीनकर्मगुणैः स्त्रीभिर्नासीतैकासने कचित्‍ ॥४३॥

सफलता मिळावी म्हणून षड्दोषांचा त्याग आवश्यक
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा क्रोध आलस्यं दीर्घ सूत्रता ॥४४॥

प्रभवन्ति विधाताय कार्यास्यैते न संशयः ।
चिरं संश्रृणुयान्नित्यं जानीयात्क्षिप्रमेव च ।
विज्ञाय प्रभजेदर्थान्न कामं प्रभनेत्‍ कचित्‍ ॥४५॥

क्रयविक्रयातिलिप्सां स्वदैन्यं दर्शयेन्नहि ।
कार्य विनाऽन्यगेहे न नाज्ञातः प्रविशेदपि ॥४६॥

अपृष्टो नैव कथयेद्‍ गृहकृत्यं तुं कं प्रति ।
बह्वर्थाल्पाक्षरं कुर्यात्‍ संल्लापं कार्यसाधकम्‍ ॥४७॥

न दर्शयेत्‍ स्वाभिमतमनुभूताहिना सदा ।
ज्ञात्वा परमतं सम्यक्‍ तेनाज्ञातोत्तरं वदेत्‍ ॥४८॥

दम्पत्यो कलहे साक्ष्यं न कुर्यात्‍ पितृपुत्रयोः ।
सुगुप्तः कृत्यमन्मः स्यान्न त्यजेच्छरणागतम्‍ ॥४९॥

यथाशक्ति चिकीर्षेत्तु कुर्यान्मुह्येश्च नापदि ।
कस्यचिन्न स्पृशेन्मर्म मिथ्यावादं न कस्यचित्‍ ॥५०॥

नाश्लीलं कीर्तयेत्‍ कञ्चित्‍ प्रलापं न च कारयेत्‍ ।
अस्वर्ग्य स्याद्धर्म्यमपि लोकविद्वेषितं तु यत्‍ ॥५१॥

स्वहेतुभिर्न हन्येत कस्य वाक्यं कदाचन ।
प्रविचार्योत्तरं देयं सहसा न वदेत्‍ कचित्‍ ॥५२॥

शत्रोरपि गुणा ग्राह्या गुरोस्त्याज्यास्तु दुर्गुणाः ।
उत्कर्षो नैव नित्यं स्यान्नापकर्षस्तथैव च ॥५३॥

प्राक्कर्मवशतो नित्यं सधनो निर्धनो भवेत्‍ ।
तस्मात्‍ सर्वेषु भूतेषु मैत्री नैव च हापयेत्‍ ॥५४॥

दीर्घदर्शी सदा च स्यात्‍ प्रत्युत्पन्नमतिः कचित्‍ ।
साहसी सालसी चैव चिरकारी भवेन्न हि ॥५५॥

यः सुदुनिष्फलं कर्म ज्ञात्वा कर्तुं व्यवस्यात ।
द्रागादौ दीर्घदर्शी स्यात्‍ स चिरं सुकमश्नुते ॥५६॥

यतते नैव कालेऽपि क्रियां कर्तुं य सालसः ।
न सिद्धिस्तस्य कुत्रापि स नश्यति च सान्वयः ॥५७॥

विचारल्याशिवाय अचानक कार्य करु नये
क्रियाफलमविज्ञाय यतते साहसी च सः ।
दुःखभागी भवत्येव क्रियया तत्फलेन वा ॥५८॥

भृत्यो भ्राताऽपि वा पुत्रः पत्नी कुर्यान्न चैव यत्‍ ।
विधास्यन्ति च मित्राणि तत्कार्यमविशंकितम्‍ ॥५९॥

यो हि मित्रविज्ञाय याथातथ्येन मन्दधीः ॥६०॥

मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ।
न हि मानसिको धर्मः कस्यचिज्‍ ज्ञायतिऽञ्जसा ॥६१॥

अतो यतेन तत्प्रात्यै मित्रलब्धिर्वस नृणाम्‍ ।
नात्यन्तं विश्वसेत्‍ कश्चिद्‍ विश्वस्तमपि सर्वदा ॥६२॥

पुत्रं वा भ्रातरं भार्याममात्यमधिकारिणम्‍ ।
धनस्त्रीराज्यलोभो हि सर्वेषामधिको यतः ॥६३॥

प्रामाणिकं चानुभूतमाप्तं सर्वत्र विश्वसेत्‍ ।
विश्वासित्वात्मवद्‍ गूढस्तत्कार्य विमृशेत्‍ स्वयम्‍ ॥६४॥

तद्वाक्यं तर्कतोऽनर्थ विपरीतं न चिन्तयेत्‍ ।
दानैर्मानैश्च सत्कारैः सुपृज्यान्‍ पूजयेत्‍ सदा ॥६६॥

यशवोऽपि वंश यान्ति दानैश्च मृदुभाषणैः ।
न विद्यया न शौर्येण धनेनाभिजनेन च ॥६७॥

न बलेन प्रमत्तः स्याच्चातिमानी कदाचन ।
नाप्तोपदेषं संवेत्ति विद्यामत्तः स्वहतुभिः ॥६८॥

अनर्थमप्यभिप्रेतं मन्यते परमार्थवत्‍ ।
महाजनैर्धृतः पन्था येन सत्यज्यते बलात्‍ ॥६९॥

बलेन बाधते सर्वानश्वादीनपि ह्यन्यथा ॥७०॥

मानमत्तो मन्यतेस्म तृणवच्चाखिलं जगत्‍ ।
अनर्होपि च सर्वेभ्यस्त्वत्यर्घासनमिच्छति ॥७१॥

मदा एतेऽवलिप्तानां सतामेते दमाः स्मृताः ।
विद्यायाश्च फलं ज्ञानं विनयश्च फलं श्रियः ॥७२॥

यज्ञदाने बलफलं सद्रक्षणमुद्राह्रतम्‍ ।
नामिताः शत्रवः शौर्यफलं च करदीकृताः ॥७३॥

शमो दमश्चार्जवं चाभिजनस्य फलं त्विदम्‍ ।
मानस्य तु फलं चैतत्सर्वे स्वसद्दश इति ॥७४॥

विद्या कुठेही मिळाली तरी ग्रहण करावी
सुविद्यामन्मभैषज्यस्त्रीदानं दुष्कुलादपि ॥७५॥

गृहणीयात्‍ सुप्रयत्नेन मानमुत्सृज्य साधकः ।
परद्रव्यं क्षुद्रमपि नादत्तं स हरेदणु ॥७६॥

नोश्चारयेदघं कस्य स्त्रियं नैव च दूषयेत्‍ ।
न ब्रूयादनृतं साक्ष्यं कृतं साक्ष्यं न लोपयेत्‍ ॥७७॥

प्राणात्ययेऽनृतं ब्रूयात्‍ सुमहत्कार्यसाधने ।
जायापत्योश्च पित्रोश्च भ्रात्रोश्च स्वामिभृत्ययोः ॥७८॥

भगिन्योर्मित्रयोर्भेदं न कुर्याद्‍ गुरुशिष्यायोः ।
न मध्याद्‍ गमनं भाषाशालिनोः स्थितयोरपि ॥७९॥

सुह्रदं भ्रातरं बन्धुमुपयर्चात्‍ सदात्मवत्‍ ।
कुयोद्विहारमाहारं निर्हारं विजने सदा ॥८०॥

व्यवसायी सदा च स्यात्‍ सुखं व्यायाममभ्यसेत्‍ ।
अन्नं न निन्द्यात्‍ सुस्वस्थः स्वीकुर्यात्‍ प्रीतिभोजनम्‍ ।
आहारं प्रवरं विद्यात्‍ षड्रसं मधुरोत्तरम्‍ ॥८१॥

विहारं चैव स्वस्त्रीभिर्वेश्याभिर्न कदाचन ।
नियुद्धं कुशलैः सार्धं व्यायामं नतिभिर्वरम्‍ ॥८२॥

हित्वा प्राक्पश्चिमौ यामौ निशि स्वापो वरो मतः ।
दीनान्धपंगुवधिरा नोपहास्याः कदाचन ॥८३॥

नानिष्टं प्रवदेत्‍ कस्मिन्न च्छिद्रं कस्य लक्ष्येत्‍ ॥८४॥

आज्ञाभंगस्तु महतां राज्ञः कार्यो न वै क्कचित्‍ ।
असत्कार्य नियोक्तारं गुरं वापि प्रबोधयेत्‍ ॥८५॥

नातिक्रामेदपि लघुं कचित्‍ सत्कार्यबोधकम्‍ ।
कृत्वा स्वतन्मां तरुणीं स्त्रियं गच्छेन्त वै क्कचित्‍ ॥८६॥

स्त्रियो मूलमनर्थस्य तरुण्यः कि परैः सह ।
न प्रमाद्येन्मदद्रव्यैर्न विमुह्येत्‍ कुसन्ततौ ॥८७॥

न कुटुम्बं भृतं येन नाशिताः शत्रवोपि न ॥८८॥

प्राप्तं सरक्षितं नैव तस्य कि जीवितेन वै ।
स्त्रीभिजिंतो ऋणी नित्यं सुदरिद्रश्च याचकः ॥८९॥

गुणहीनोऽर्थहीनः सन मृता एते सजीवकाः ।
आयुर्वित्तं गृहच्छिद्रं मन्ममैथुनभेषजम्‍ ॥९०॥

दानमानापमानं च नवैतानि सुगोपयेत्‍ ।
नाहंक्करोच धर्मान्धः शास्त्राणां तत्वचिन्तनैः ॥९१॥

एकं शास्त्रमधीयानो न विन्द्यात्‍ कार्यनिर्णयम्‍ ।
स्याद्वहवागमसंदर्शी व्यवहारो महानतः ॥९२॥

बुद्धिमानभ्यसेन्नित्यं बहुशास्त्राण्यतन्द्रितः ।
तदर्थंतु तु गृहीत्वापि तदधीना न जायते ॥९३॥

वेश्या तथा विद्या वापि वशीकर्तृं नरं क्षणा ।
नेयात्‍ कस्य वंश तट्‍ वत्‍ स्वाधीनं कारयेज्जगत्‍ ॥९४॥

श्रृतिस्मृतिपुराणानामर्थ विज्ञानमेव च ।
सहवासात्पण्डितानां बुद्धिं पण्ज प्रजायते ॥९५॥

खादन्न गच्छेदध्वानं न च हस्येन भाषणम्‍ ।
शोकं न कुर्यान्नष्टस्य स्वकृतेरपि जल्पनम्‍ ॥९६॥

स्वशंकितानां सामीप्यं त्यजेद्वै नीचसेवनम्‍ ।
सँल्लापं नैव श्रृणुयाद्‍ गुप्तः कस्यापि सर्वदा ॥९७॥

उत्तमैरननुज्ञातं कार्य नेच्छेच्च तैः सह ।
देवैः साकं सुधापानाद्राहोश्छिन्नं शिरो यतः ॥९८॥

प्रेम्णा समीपवासेन स्तुत्या मत्या च सेवया ॥९९॥

कौशल्येन कलाभिश्च कथाभिर्ज्ञानतोऽपि च ।
आदरेणार्जवनैव शौर्याद्दानेन विद्यया ॥१००॥

प्रत्युत्थानाभिगमनैरानन्दस्मित भाषणैः ।
उपकारेः स्वाशयेन वशीकुर्याज्जगत्‍ सदा ॥१०१॥

एते वश्यकरोपाया दुर्जने निष्फलाः स्मृताः ।
तत्सन्निधि त्यजेत्प्राज्ञः शक्तस्तं दण्डते जयेत्‍ ॥१०२॥

छलभूतैस्तु तद्रुपैरुपायैरेभिरेव वा ।
मृगयाक्षाः स्त्रियः पानं व्यसनानि नृणां सदा ॥१०३॥

चत्वार्येतानि सन्त्यज्य युक्त्या संयोजयेत्‍ कचित्‍ ।
कूटेन व्यवहारं तु वृत्तिलोपं न कस्य चित्‍ ॥१०४॥

न कुर्याच्चिन्तयेत्कस्य मनसाप्याहितं क्कचित्‍ ।
तत्कार्य तु सुखं यस्मद्‍ भवेत्त्रैकालिकं दृढम्‍ ॥१०५॥

मृते स्वर्गं जीवति च विन्द्यारकीर्तिं दृढां शुभास्‍ ।
जागर्ति च सचिन्तो च आधिव्याधिनिपीडितः ॥१०६॥

जारश्चोरो बलिद्विष्टो विषयी धनलोलुपः ।
कुसहायी कुनृपतिर्भिन्नामात्य - सुह्रत्प्रजः ॥१०७॥

कुर्याद्यथा समीक्ष्यैतत्‍ सुखं स्वप्याश्चिरं नरः ।
गुरुणां पुरतो राज्ञो न चासीत महासने ॥१०८॥

प्रौढपादो न तद्वाक्यं हेतुभिकृतिं नयेत ।
यत्कर्तव्यं न जानाति कृतं जानाति चेतरः ॥१०९॥

नैव वक्ति च कर्तव्यं कृतं यश्चोत्तमो नरः ।
न प्रियाकथितं सम्मङमन्येतानुभवं बिना ॥११०॥

अपराधं मातृस्नुषा भ्रातृपत्नीसपत्निजम्‍ ।
अनृतं साहसं माया मुर्खत्वमतिलोभता ॥१११॥

अशौचं निर्दया दर्पः स्त्रीणामष्टौ स्वदुर्गुणाः ।
षोडशाब्दात्परं पुत्रं द्वादशाब्दातपरं स्त्रियम्‍ ॥११२॥

न ताडयेद्‍ दुष्टवाक्यैः पीडयेन्न स्नुषादिकम्‍ ।
अनृतं साहसं मौर्ख्यं कामाधिक्यं स्त्रियां यतः ॥११३॥

कामाद्विनैकशयने नैव सुप्यात्स्त्रिया सह ।
दृष्ट्वा धनं कुलं शीलं रुपं विद्यां बलं वयः ॥११४॥

कन्यां दद्यादुत्तमं चेन्मैत्रीं कुर्यादभात्मनः ।
भार्यार्थिनं वयोविद्यारुपिणं निर्धनं त्वपि ॥११५॥

न केवलेन रुपेण वयसा न धनेन च ।
आदौ कुलं परीक्षेत ततो विद्यां ततो वयं ॥११६॥

शीलं धनं ततो रुपं देशं पश्चाद्विवाहयेत्‍ ।
कन्या वरयते रुपं माता वित्तं पिता श्रुतम्‍ ॥११७॥

बान्धवाः कुलमिच्छन्ति मिष्टान्नमितरे जनाः ।
भार्यार्थं वरयेत्कन्यामसमानर्षि गोत्रजा म्‍ ॥११८॥

भ्रातृमतीं सुकुलं च योनिदोविर्जिताम्‍ ।
क्षणशः कणशश्चैव विद्यामर्थं च साधयेत्‍ ॥११९॥

न त्याज्यौ तु क्षणकणौ नित्यं विद्याधनार्थिना ।
सुभार्यापुत्रमित्रार्थं हितं नित्यं धनार्जनम्‍ ॥१२०॥

दानार्थं च बिना त्वेतैः कि धनैश्च जनैश्च किम्‍ ।
भाविसंरक्षणक्षयं धनं यत्नेन रक्षयेत्‍ ॥१२१॥

जीवामि शतवर्षं तु नन्दाभि च धनेन च ।
इति बुध्द्या संचिनुयाद्धनं विद्यादिकं सदा ॥१२२॥

पंचवित्यब्दपूरं तदर्थं वा तदर्धकम्‍ ।
विद्याधनं श्रेष्ठतरं तन्मूलमितरद्धनम्‍ ॥१२३॥

दानेन वर्धते नित्यं न भाराय न नीयते ।
अस्ति यावत्तु सधनस्तावत्सर्वैस्तु सेव्यते ॥१२४॥

निर्धनस्त्यज्यते भार्यापुत्राद्यैः सगुणोप्यतः ।
संसृतौ व्यवहाराय सारभूतं धनं स्मृतम्‍ ॥१२५॥

अतो यतेन तत्प्राप्तयै नरः सूपाय साहसैः ।
सुविद्यया सुसेवाभिः शौर्येण कृषिभिस्तथा ॥१२६॥

कौसीदवृद्ध्या पण्येन कलाभिश्च प्रतिग्रहैः ।
यया कया चापि वृत्त्या धनवान्स्यात्तथा चरेत्‍ ॥१२७॥

तिष्ठन्ति सधनद्वारे गुणिनः किंकरा इव ।
दोषा अपि गुणायन्ते दोषायन्ते गुणा अपि ॥१२८॥

धनवतो निर्धनस्य निन्द्यते निर्धनोऽखिलैः ।
उन्मादमेके पुण्यन्ति यान्त्यन्ये द्विषतां वशम्‍ ॥१२९॥

दास्यमेके च गच्छन्ति परेषामर्थहेतुना ।
नैवास्ति लिखितादन्यत्‍ स्मारकं व्यवहारिणाम्‍ ॥१३०॥

न लेख्येन बिना कुर्याद्‍ व्यवहारं सदा बुधः ।
निर्लोभे धनिके राज्ञि विश्वस्ते क्षमिणां वरे ॥१३१॥

सुसंचितं धनं धार्य गृहीतालिखितं तु वा ।
मैत्र्यर्थे याचितं दद्यादकुसीदं धनं सदा ॥१३२॥

तस्मिन्‍ स्थितं चेन्न बहु हानिकच्च तथाविधम्‍ ।
दृष्ट्वाऽधमर्णं वृद्धयापि व्यवहारक्षमं सदा ॥१३३॥

सबन्धं सप्रतिभुवं धनं दद्याच्च साक्षिमत्‍ ।
गृहीतलेखितं योग्यमानं प्रत्यागमे सुखम्‍ ॥१३४॥

न दद्याद्‍ वृद्धिलोभेन नष्टं मूलधनं भवेत्‍ ।
कृत्वा स्वान्ते तथौदार्य कार्पण्यं बहिरेव च ॥१३५॥

उचितं तु व्ययं काले नरः कुर्यान्न चान्यथा ।
सुभार्यापुत्रमित्राणि शक्त्या संरक्षयेद्धनैः ॥१३६॥

नात्मा पुत्ररतो त्मानं सर्वैः सर्वं पुनर्भवेत्‍ ।
पश्यति स्म स जीवश्चेन्नरो भद्रशतानि च ॥१३७॥

सदाप्रौढपुत्रान्‍ द्राक्‍ श्रेयोऽर्थी विभजेत्‍ पिता ।
सदारभ्रातरः प्रौढा विभजेयुः परस्परम्‍ ॥१३८॥

एकोदश आणि प्रायोविनाशायान्यथा खलु ॥१३९॥

नैकत्र संवसेच्चापि स्त्रीद्वयं मनुजस्य तु ।
सकुसीदमकुसीदं धनं यश्च्यौत्तमर्णिकम्‍ ॥१४०॥

दद्यादगृहीतमिव नोभयोः क्लेशकृद्यथा ।
नासाक्षिमच्चालिखित मृणपत्रस्य पृष्ठतः ॥१४१॥

आत्मपितृमातृगुणैः प्रख्यातश्चोत्तमोत्तमः ।
गुणैरात्मभवैः ख्यातः पैतृकैर्मातृकैः पृथक्‍ ॥१४२॥

उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः ।
कन्यास्त्रिभगिनीभाग्यो नरोऽधमतमो मतः ॥१४३॥

भूत्वा महाधनः सम्यक्‍ पोष्यवर्गं तुं पोषयेत ।
अदत्तवा यक्तिश्चिदपि न नयेद्दिवसं बुधः ॥१४४॥

भवन्ति मित्रा दानेन द्विषनोपि च किं पुनः ॥१४५॥

देवतार्थं च यज्ञार्थ ब्राह्मणार्थं गवार्थकम्‍ ॥१४६॥

यद्दत्तं तत्पारलौक्यं संविद्दत्तं तदुच्चते ।
वन्दिमागधमल्लादिनरनार्थं च दीयते ॥१४७॥

पारितोष्यं यथोर्थं तु श्रिया दत्तं तदुच्चते ।
उपायनीकृतं यत्तु सुह्रत्संबंधिबन्धुषु ॥१४८॥

विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत्‍ ।
राज्ञे च बलिने दत्तं कार्यार्थं कार्यघातिने ॥१४९॥

पापभीत्याऽथवा यश्च तत्तु भीदत्तमुच्यते ।
यद्दत्तं हिंस्त्रवृद्धयर्थ नष्टं द्यूतविनाशितम्‍ ॥१५०॥

चौरेर्ह्रतं पापदत्तं परस्त्रीसंगमार्थकम्‍ ।
आराधयति यं देवं तमुष्कृष्टतरं वदेत्‍ ॥१५१॥

तन्नयूनतां नैव कुर्याज्जोषयेत्तस्य सेवनम्‍ ।
विना दानार्जवाभ्यां न भुव्यस्त्रि च वशीकरम्‍ ॥१५२॥

दानक्षीणो विवर्धिष्णुः शशी वक्रोऽप्यतः शुभः ।
विचार्य स्नेहं द्वेषं वा कुर्यात्‍ कृत्वा न चान्यथा ॥१५३॥

नापकुर्यान्नोपकुर्याद्‍ भवतोऽनर्थकारिणौ ।
नातिक्रौर्य नातिशाठ्यं धारयेन्नातिमार्दवम्‍ ॥१५४॥

नातिवादं नातिकार्यासक्तिमत्याग्रहं न च ।
सति सर्वं नाशहेतुर्ह्यतोऽत्यन्तं विवर्जयेत्‍ ॥१५५॥

उद्वेजते जनः क्रोर्यात्‍ कार्पण्यादतिनिन्दति ।
मार्दवान्नैव गणयेदपमानोऽतिवादतः ॥१५६॥

अतिदानेन दारिद्र्यं तिरस्कारोऽतिलोभतः ।
अत्याग्रहान्नरस्यैव मौर्ख्यं संजायते खलु ॥१५७॥

मनाचाराद्धर्महानिरत्याचारस्तु मूर्खता ।
पराधीनं नैव कुर्यात्तरुणीधन पुस्तकम्‍ ॥१५८॥

कृतं चेल्लभ्यति दैवाद्‍ भ्रष्टं नष्टं विमर्दितम्‍ ।
लज्जते च सुह्रद्येन भिद्यते दुमना भवेत्‍ ॥१५९॥

वक्तव्यं न तथा किंचिद्विनोदेऽपि च धीमता ।
यस्मिन्‍ सूक्तं दुरुक्तं च समं स्याद्वा निरर्थकम्‍ ॥१६०॥

न तत्र प्रलयेत्‍ प्राज्ञो वधिरोष्विव गायनः ।
वहेदमित्रं स्कन्धेन यावत्स्यात्‍ स्वबलाधिकः ।
ज्ञात्वा नष्टबलम्‍ तं तु भिन्द्याद्‍ घरमिवाश्मनि ॥१६१॥

न भूषयत्यलंकारो न राज्यं न च पौरुषम्‍ ॥१६२॥

न विद्या न धनं ताद्दग्‍ याद्दक्सौजन्यभूषणम्‍ ।
पैशुन्यं चण्डता चौर्यं मात्सर्यमतिलोभता ॥१६३॥

असत्यं कार्यघातित्वं तथाऽलसकताऽप्यलम्‍ ।
गुणिनामपि दोषाय गुणानाच्छाद्य जायते ॥१६४॥

श्रीमता मनपत्यत्वमघनानां च मूर्खता ।
स्त्रीणां षण्ठपतित्वं च न सौख्यायेष्टनिर्गमः ॥१६५॥

मूर्खः पुत्रोऽथवा कन्या चण्डी भाया दरिद्रता ।
नीचसेवा ऋणं नित्यं नैतत्षट्‍ कं सुखाय च ॥१६६॥

पित्रोराज्ञां पालयति सेवने च निरालसः ।
छायेव वर्तते नित्यं यतते चागमाय वै ॥१६७॥

कुशलः सर्व विद्यासु स पुत्रः प्रीतिकारकः ।
दुःखदो विपरीतो यो दुर्गुणो धननाशकः ॥१६८॥

पत्यौ नित्यं चातुरक्ता कुशला गृहकर्मणि ॥१६९॥

पुत्रप्रसूः सुशीला या प्रिया पत्युः सुयौवना ।
पुत्रापराधान्‍ क्षमते या पुत्रपरिपोषिणी ॥१७०॥

सा माता प्रीतिदा नित्यं कुलटाऽन्याऽति दुःखदा ।
विद्यागमार्थं पुत्रस्य वृत्यर्थं यतते च यः ॥१७१॥

पुत्रं सदा साधु शास्ति प्रीतिकृत्स पितऽनृणो ।
यः साहाय्यं सदा कुर्यात्‍ प्रतीपन्न वदेन कचित ॥१७२॥

सत्यं हितं वक्ति याति दत्ते गृण्हाति मित्रताम्‍ ।
नीचस्यातिपरिचयो ह्यन्यगेहे सदा गतिः ॥१७३॥

जातौ संघे प्रातिकूल्यं मानहान्यै दरिद्रता ।
तमोगुणाधिकं क्षात्रं बाह्मं सत्वगुणाधिकम्‍ ॥१७४॥

अन्यद्रजोधिकं तेजस्तुषु सत्वाधिकं वरम्‍ ।
न स्यात्‍ स्वधर्महानिस्तु यथा वृत्या च सा वरा ॥१७५॥

स देशः प्रवरो यत्र कुटुम्बपरिपोषणम्‍ ।
सुभार्या सुष्ठु चापल्यं सुविद्या सुधनं सुह्रत्‍ ॥१७६॥

सुदासदास्यौ सुद्‍ देह सद्वेश्म सुनृपः सदा ।
गृहिणां हि सुखायालं दशैतानि च चान्यथा ॥१७७॥

दुर्गुणं तु गुणीकृत्य कीर्तयेत्‍ स प्रियो भवेत्‍ ।
गुणाधिक्यं कीर्तयति यः किं स्यान्न पुनः सखा ॥१७८॥

दुर्गुणं वक्ति सत्येन प्रियोऽपि सोऽप्रियो भवेत्‍ ।
गुणं हि दुर्गुणोकृत्य वक्ति यः स्यात्कथं प्रियः ॥१७९॥

मूकोऽन्धो बधिरः खंजः स्वापत्‍ काले भवेन्नरः ।
अन्यथा दुःखमाप्नोति हीयते व्यवहारतः ॥१८०॥

पारतंत्र्यात्परन्दुःखं न स्वातंत्र्यात्परं सुखम्‍ ।
अप्रवासी गृही नित्यं स्वतन्त्र सुखमेधते ॥१८१॥

नूतन प्राक्तनानां चव व्यवहारविदां धिया ।
प्रतिक्षणं चाभिनवो व्यवहारो भवेदतः ॥१८२॥

वक्तुंन शक्यते प्रायः प्रत्यक्षादनुपदेशतः ।
उपमानेन तंज्ञानं भवेदाप्तोपदेशतः ॥१८३॥

कथितं तु समासेन सामान्यं नृपराष्ट्र्यौः ॥१८४॥

नीतिशास्त्रं हितायालं यद्विशिष्टं नृपे स्मृतम्‍ ।

चतुर्थो अध्यायः[सम्पाद्यताम्]

अथ मिश्रप्रकरणं प्रवक्ष्यामि समासतः ।
लक्षणं सुह्रदादीनां समासाच्छणुताधुना ॥१॥

यस्य सुद्रवते चित्तं परदुःखेन सर्वदा ।
इष्टार्थे यततेऽन्यस्य प्रेरितः सत्करोति यः ॥२॥

आत्मस्त्रीधनगुह्यानां शरणं समये सुह्रत्‍ ।
प्रोक्तोत्तमोऽयमन्यश्च द्वित्र्येकपदमित्रकः ॥३॥

अनन्यस्वत्व कामत्वमेकस्मिन्‍ विषये द्वयोः ।
वैरिलक्षजमेतद्वाऽन्येष्टा नाशनकारिता ॥४॥

भ्रात्रभावेऽपि तु द्रव्यमाखिलं मम वै भवेत्‍ ।
न स्यादेतस्य वश्योयं ममैव स्यात्‍ परस्परम्‍ ॥५॥

भोक्ष्येऽखिलमहं चैतद्विनाऽन्यं स्तः सुवैरिणौ ।
द्वेष्टि द्विष्ट उभौ शत्रु स्तश्चैकतरसंज्ञाकौ ॥६॥

शूरस्योत्थानशीलस्य बलनीतिमतः सदा ।
सर्व मित्र गूढवैरा नृपा कालप्रतीक्षकाः ॥७॥

भवन्तीति किमाश्चर्य राज्यलुब्धा न ते हि किम्‍ ।
न राज्ञो विद्यते मित्रं राजा मित्रं न कस्य वै ॥८॥

प्रायः कृत्रिममित्रे ते भवतश्च परस्परम्‍ ।
केचित्‍ स्वभावतो मित्राः शत्रवः सन्ति सर्वदा ॥९॥

माता मातृकुलं चैव पिता तत्पितरौ तथा ।
पितृपितृव्यात्मकन्या पत्नी तत्कुलमेव च ॥१०॥

पितृमात्रात्मभगिनीकन्यका सन्ततिश्च या ।
प्रजापालो गुरुश्चैव मित्राणि सहजानि हि ॥११॥

विद्या शौर्य च दाक्ष्यं च बलं धैर्य च पंचमम्‍ ।
मित्राणि सहजान्याहुवर्तयन्ति हि तैर्बुयाः ॥१२॥

पुत्रो निर्देशर्क्ती यः स पुत्रोऽन्वर्थनामवान्‍ ।
श्रेष्ठ एकस्तु गुणवान किं शतैरपि निर्गुणैः ॥१३॥

स्वभावतो भवन्त्येते हिंस्त्रो दुर्वृत्त एव च ।
ऋणकारी पिता शत्रुर्माता स्त्री व्यभिचारिणी ॥१४॥

आत्मपितृभ्रातरश्च तत्स्मीपुत्राश्च शत्रवः ।
स्नुषा श्वश्रूः सपत्नी च ननान्दा यातरस्तया ॥१५॥

मूर्खः पुत्रः कुवैद्यश्चारक्षकस्तु पतिः प्रभुः ।
चंडश्चंडा प्रजा शत्रुरदाता धनिकश्च धनिकश्च थः ॥१६॥

दुष्टानां नृपतिः शत्रुः कुलटानां पतिव्रता ।
साधुः खलानां शत्रुः स्थान्मूर्खाणां वोधकोरिपुः ॥१७॥

उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
पयः पानं भुजंगानां विषयैवामृताय न ॥१८॥

मित्रं शत्रुं यथायोग्यौ कुर्यात्‍ स्ववशवर्तिनम्‍ ।
उपायेन यथा व्यालो गजः सिंहोऽपि साध्यते ॥१९॥

भूमिष्ठाः स्वर्गमायान्ति वज्रं भिन्दन्त्युपापतः ॥२०॥

एकशीलवयोविद्या जातिव्यसनवृत्तयः ।
साहचर्ये भवेन्मित्रमेभिर्यदि तु साजवैः ॥२१॥

मित्रांसंबंधी वाक्ये कोणती आहेत
त्वत्समस्तु सखा नास्ति मित्रे साम इदं स्मृतम्‍ ।
मम सर्व तवैवास्ति दानं मित्रे सजीवितम्‍ ॥२२॥

मित्रेऽन्यमित्रसुगुणान्‍ कीर्तयेद्‍ भेदनं हितत्‍ ।
मित्रे दण्डो न करिष्ये मैत्रीमेवंविधोऽसि चेत्‍ ॥२३॥

यो न संयोजयेदिष्टमन्यानिष्ट मुपेक्षते ।
उदासीनः स न कथं भवेच्छयुः सुसन्धिकः ॥२४॥

दस्युभिः पीऽनं शत्रोः कर्षणं धनधान्यतः ।
तच्छिद्रदर्शनादुग्रबलैर्नीत्या प्रभीषणम्‍ ॥२५॥

प्राप्तयुद्धानिवृत्तित्वस्नासनं दण्ड उच्यते ।
सर्वोपायेस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
यथा स्वाभ्यधिका न स्युमित्रोदासीनशत्रवः ॥२६॥

निवृत्तिरसदाचाराद्दमनं दण्डतश्च तत ।
येन संदम्यते जन्तुरुपायो दण्ड एव सः ॥२७॥

स उपायो नृपाधीनः स सर्वस्य प्रभुर्यतः ।
निर्भर्त्सनं चापमानोऽनशनं बन्धनं तथा ॥२८॥

ताऽनं द्रव्यहरणं पुरान्निर्वासनांकने ।
व्यस्तक्षौरमसद्यानमंच्छेदो वधस्तथा ॥२९॥

युद्धयेते ह्युपायाश्च दण्डसैव प्रभेदकाः ।
जायते धर्मनिरताः प्रजा दण्डभयेन च ॥३०॥

करोदयाधर्षणं नैव तथा चासत्यभाषणम्‍ ।
क्रुराश्च मार्दवं यान्ति दुष्टा दौष्ट्यं त्यजन्ति च ॥३१॥

पशवोऽपि वशं यान्ति विद्रवन्ति च दस्यवः ।
पिशुना मूकतां यान्ति भयं यान्त्याततायिनः ॥३२॥

करदाश्च भवन्त्यन्ये वित्रासं यान्ति चापरे ।
अतो दण्डधरो नित्यं स्यान्नृपो धर्मरक्षणे ॥३३॥

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथ प्रतिपन्नस्य कार्यं भवति शासनम्‍ ॥३४॥

राज्ञां सदण्डनीत्या हि सर्वे सिध्यन्त्युपक्रमाः ।
दण्ड एव हि धर्माणां शरणं परमं स्मृतम्‍ ॥३५॥

दण्ड्यस्यादण्डनान्नित्यमदण्ड्यस्य च दण्डनात्‍ ॥३६॥

अतिदण्डाच्च गुणिभिस्त्यज्जते पातकी भवेत ।
प्रसन्नो येन नृपतिस्तदाचरति वै जनः ॥३७॥

लोभाद्‍ भयाच्च कि तेन शिक्षितं नाचरेत्‍ कथम्‍ ।
सुपण्यो यत्र नृपतिधर्मर्मिष्टास्तत्र हि प्रजाः ॥३८॥

महापापी यत्र राजा तत्राधर्मपरो जनः ।
मद्यप्येकश्च भ्रष्टः स्याद्‍ बुद्धाच व्यवहारतः ॥३९॥

कामक्रोधो मद्यतमौ सर्वमद्याधिकौ यतः ।
धनप्राणहरो राजा प्रजायाश्चातिलोभतः ॥४०॥

तस्मादेतत्‍ त्रयं त्यक्त्वा दण्डधारी भवेन्नृपः ।
राष्ट्रंकर्णेजपैनित्यं हन्यते च स्वभावतः ॥४१॥

अतो नृपः सूचितोऽपि विमृशेत्‍ कार्यमादरात्‍ ।
कायिको वाचिको मानसिकः सांसत्रिकस्तथा ॥४२॥

चतुविधोऽपराधः स बुद्धयबुद्धिकृतो द्विधा ।
पुनर्द्विंधा कारितश्च तथा ज्ञेयोऽनुमोदितः ॥४३॥

सकृदसकृदभ्यस्तस्वभावैः स चतुर्विधः ।
नेत्रवक्त्रविकाराद्यैर्मावैर्मानसिकंतथा ॥४४॥

क्रियया काचिकं वीक्ष्य वाचिकं क्रूरशब्दतः ।
सांसर्गिकं साहचयैंर्ज्ञात्वा गौरवलाघवम्‍ ॥४५॥

उत्पन्नोत्पत्स्यमानानां कार्याणां दण्डमावहेत्‍ ।
हरेत्‍ पादं धनात्तस्य यः कुर्याद्‍ धनगर्वतः ।
पूर्व ततोऽर्धमखिलं यावज्जीवं तु बन्धनम्‍ ॥४६॥

सहायगौरवाद्‍ विद्यामदाश्च बलदर्पतः ।
पापं करोति यस्तं बन्धयेत्‍ ताडयेत्सदा ॥४७॥

नापराधं तु क्षमते प्रचण्डो धनहारक ॥४८॥

नृपो यदा तदा, लोकः क्षुभ्यते इद्यते परैः ।
अतः सुभागदण्डी स्यात्‍ क्षमावान रंजको नृपः ॥४९॥

अधर्मशीलो नृपतिर्यदा तं भीषयेज्जनः ।
धर्मशीलातिबलवद्रिपोराश्रयतः सदा ॥५०॥

यावत्तु धर्मशीलः स्यात्‍ स नृपस्तावदेव हि ।
अन्यथा नश्यते लोको द्रांनृपोऽमि विनश्यति ॥५१॥

सोपायाः कथिता मिश्रे मित्रोदासीनशत्रवः ॥५२॥

एकार्थसमुदायो यः स कोशः स्यात्‍ पृथक्‍ पृथक्‍ ॥१॥

बलप्रजारक्षणार्थ यज्ञार्थं कोशसंग्रहः ।
परेत्रेह च सुखदो नृपस्यान्यश्च दुःखदः ॥२॥

स्त्रीपुत्रार्थं कृतो यश्च स्वोपभोगाय केवलम्‍ ।
नरकायैव स ज्ञेयो न परत्र सुखप्रदः ॥३॥

अन्यायेनाजितो यस्माद्‍ येन तत्पापभाक्‍ च सः ।
सुपात्रतो गृहीतं यद्दत्तं वा वर्धते च यत्‍ ॥४॥

स्वागमी सद्‍ व्ययी पात्रमपात्रं विपरीतकम्‍ ।
अपात्रस्य हरेत्‍ सर्वं धनं राजा न दोषभाक्‍ ॥५॥

अधर्मशीलनृपतेः सर्वतः संहरेद्धनम्‍ ।
छलाद्‍ बलाद्दस्ययुवृत्या पराराष्ट्राद्धरेत्तथा ॥६॥

त्यक्त्वा नीतिबलं स्वीयप्रजापीडनतो धनम्‍ ।
संचितं येन तत्तस्य सराज्यं शत्रुसादभवेत्‍ ॥७॥

दण्डभूभागशुल्कानामाधिक्यात्‍ कोशवर्धनम्‍ ।
अनापदि न कुर्वीत तीर्थदेवकरग्रहात्‍ ॥८॥

यदा शत्रुविनाशार्थं बलसंरक्षणोद्यतः ।
विशिष्ट दण्डशुल्कादि धनं लोकात्तदा हरेत्‍ ॥९॥

धनिकेभ्यो भृति दत्त्वा स्वापत्तौ तद्धनं हरेत्‍ ।
राजा स्वापत्समुत्तीर्णस्तत्‍ स्वं दद्यात्‍ सवृद्धिकम्‍ ॥१०॥

प्रजाऽन्यथा हीयते च राज्यं कोशो नृपस्तथा ।
हीनाः प्रबलदण्डेन सुरथाद्या नृपा यतः ॥११॥

बलमूलो भवेत कोशः कोशमूलं बलं स्मृतम्‍ ॥१२॥

बलसंरक्षणात्‍ कोशराष्ट्रवृद्धिररिक्षयः ।
जायते तत्त्रयं स्वर्गः प्रजासंरक्षणेन वै ॥१३॥

मूलैर्व्यवहरन्त्यर्धैर्न वृद्धा वणिजः कचित्‍ ॥१४॥

विक्रीणन्ति महार्धे तु हीनार्धे सञ्चयानी हि ।
संरक्षयेत्‍ प्रयत्नेन संगृहीतं धनादिकम्‍ ॥१५॥

अर्जने तु महद्‍ दुःखं रक्षणे तच्चतुर्गुणम्‍ ।
क्षणं चोपेक्षितं यत्तद्विनाशं द्राक्‍ समाप्नुयात्‍ ॥१६॥

आर्जकस्यैव दुःखं स्यात्तथाऽर्जित विनाशने ।
स्त्रीपुत्राणामपि तथा नान्येषां तु कथं भवेत्‍ ॥१७॥

स्वकार्ये शिथिलो यः स्यात्‍ किमन्ये न भवन्ति हि ।
जागरुकः स्वकार्ये यस्तत्सहायाश्च तत्समाः ॥१८॥

एकस्मिन्नधिकारे तु यो द्वावधिकरोति सः ।
मूर्खो जीवद्‍ - द्विभार्यच्च ह्यतिविस्त्रम्भवांस्तथा ॥१९॥

महाधनाशो रचलसः स्त्री भिर्निर्जित एव हि ।
तथा यः साक्षितां पृच्छेश्चौरजाराततायिषु ॥२०॥

संरक्षयेत्‍ कृपणवत्‍ काले दद्याद्विरक्तवत्‍ ।
मूर्खत्वमन्यथा याति स्वधनव्ययतोऽपि च ॥२१॥

विक्रेतृक्रेतृतो राजभागः शुल्कमुदाह्रनम्‍ ॥२२॥

शुल्कदेशा हट्टमार्गाः करसीमाः प्रकीर्तिताः ।
वस्तुजातस्यैकवारं शुल्कं ग्राह्यं प्रयत्नतः ॥२३॥

कचिन्नैवासकृच्छुल्कं राष्ट्रेग्राह्यं नृपैश्छत्मत्‍ ।
द्वात्रिंशांशं हरेदाजा विक्रेतुः क्रेतुरेव वा ॥२४॥

विंवांशं वा षोडशांशं शुल्कं मूल्याविरोधकम्‍ ।
न हीनसममूल्याद्धि शुल्कं विक्रेतृतो हरेत्‍ ॥२५॥

लाभं दृष्ट्वा हरेकच्छुल्कं क्रेतृतश्च सदा नृपः ।
व्यापारी, महाजन आणि जमिनदारांवर कर

वार्धुषिकाच्च कौसीदाद्‍ द्वात्रिंशांशं हरेन्नपः ।
गृहाद्याधारभूशुल्कं कृष्टभूमिरिवाहरेत्‍ ॥२६॥

तथा चापणिकेभ्यस्तु पण्यभूशुल्कमाहरेत्‍ ।
मार्गसंस्काररक्षार्थं मार्गगेभ्यो हरेत्‍ फलम्‍ ॥२७॥

सर्वतः फलभुग्‍ भुत्वा दासवत्‍ स्यात्तु रक्षणे ।
इति कोश प्रकरणं समासात्‍ कथितं किल ॥२८॥

राज्य आणि राज्याची सर्वश्रेष्ठता
यस्याधीनं भवेद्यावत्तद्राष्ट्रंतस्य वै भवेत्‍ ।
कुबेरता शतगुणाधिका सर्वगुणात्ततः ॥१॥

ईशता चाधिकतरा सा नाल्यतपसः फलम्‍ ।
स दीव्यति पृथिव्यां तु नान्यो देवो यतः स्मृतः ॥२॥

यस्याश्रितो भवेल्लोकस्तद्वदाचरति प्रजा ।
भुंक्ते राष्ट्रफलं सम्यगता राष्ट्रकृतं त्वघम्‍ ॥३॥

स्वस्वधर्मपरो लोको यस्य राष्ट्रेप्रवर्तते ।
धर्मनीतिपते राजा चिरं कीर्ति से चाश्नुते ॥४॥

भूमौ यावद्यस्य कीर्तिस्तावत्स्वर्गे स तिष्ठति ।
अकीर्तिरेव नरको नान्योऽस्ति नरको दिवि ॥५॥

नरदेहाद्विना त्वन्यो देही नरक एव सः ।
महत्पापफलं विद्यादाधिव्याधिस्वरुपकम्‍ ॥६॥

देशधर्मा जातिधर्माः कुलधर्माः सनातनाः ।
मुनिप्रोक्ताश्च ये धर्माः प्राचीना नूतनाश्च ये ॥७॥

ते राष्ट्रगुप्त्यै सन्धार्या ज्ञात्वा यत्नेन सन्नृपैः ।
धर्मसंस्थापनाद्राजा श्रियं कीर्ति प्रविन्दति ॥८॥

मन्यन्ने जाति भेदं ये मनुष्याणां तु जन्मता ॥९॥

त एव हि विजानति पार्थक्यं नामकर्मभिः ।
उत्तमो नीचसंसर्गाद्‍ भवेन्नीचस्तु जन्मना ।
नीचो भवेन्नौत्तमस्तु संसर्गाद्वाऽपि जन्मना ॥१०॥

कर्मणोत्तमनीचत्वं कालतस्तु भवेद्‍ गुणैः ।
विद्याकलाश्रयेणैव तन्नाम्ना जातिरुच्यते ॥११॥

इज्याध्ययनदानानि कर्माणि तु द्विजन्मनाम्‍ ।
प्रतिग्रहोऽध्यापन च याजनं ब्रह्मेऽधिकम्‍ ॥१२॥

सद्रक्षणं दुष्टनाशः स्वांशादानं तु क्षत्रिये ।
कृषिगोगुप्तिवाणिज्यमधिकं तु विशां स्मृतम्‍ ॥१३॥

दानं सेवैव शूद्रादेर्नीचकर्म प्रकीर्तितम्‍ ।
क्रियामेदैस्तु सर्वेषां भृतिवृत्तिरनिन्दिता ॥१४॥

योऽधीनविद्यः सकलः स सर्वेषां गुरुर्भवेत्‍ ।
न च जात्याऽनधीतो यो गुरुर्भवितुमर्हति ॥१५॥

यद्यत्स्याद्वाचिं सम्यक्कर्मविद्याभिसंज्ञकम्‍ ।
शक्तो मूकोऽपि यत्कर्तुं कलासंज्ञ तु तत्स्मृतम्‍ ॥१६॥

ऋग्यजुः साम चाथर्व वेदा आयुर्यनुः क्रमात्‍ ।
गार्न्धश्चैव तत्राणि उपवेदाः प्रकीर्तिताः ॥१७॥

शिक्षा व्याकरणं कल्पो निरुक्तं ज्योतिषं तथा ।
छन्दः षडंगानीमानि वेदानां कीर्तितानि हि ॥१८॥

मीमांसातर्कसांख्यानि वेदान्तो योग्य एवं च ।
इतिहासाः पुराणानि स्मृतयो नास्तिकं मतम्‍ ॥१९॥

अर्थशास्त्रं कामशास्त्रं तथा शिल्पमलंकृतिः ।
काव्यानि देशभाषाऽव - सरोक्तिर्यावनं मतम्‍ ॥२०॥

देशादिधर्मा द्वात्रिशदेता विद्याभिसंज्ञिताः ।
विन्दत्यायुर्वेत्ति सम्य - गाकृत्योषधिहेतुतः ।
यस्मिनऋग्वेदोपवेदः स चायुर्वेदसंज्ञकः ॥२१॥

युद्धशस्त्रास्त्रकुशलो रचनाकुशलो भवेत्‍ ।
यजुर्वेदोपवेदोऽयं धनुर्वेदस्तु येन सः ॥२२॥

विविधोनास्यमन्त्राणां प्रयोगाः सुविभेदतः ॥२३॥

कथिताः सोपसंहारस्तद्धर्मनियमैश्च षट्‍ ।
अथर्वणां चोपवेदस्तन्त्ररुपः स एव हि ।
स्वरतः कालतः स्थानात्प्रयत्नानु प्रदानतः ॥२४॥

स्वनाद्यैश्च सा शिक्षा वर्णानां पाठ शिक्षणात्‍ ।
प्रयोगो यत्र यज्ञानुमुक्तो ब्राह्मणशेषतः ॥२५॥

श्रोतकल्प स विज्ञेयः स्मार्तकल्पस्तथेतरः ।
व्याकृताः प्रत्ययाद्यैश्च धातुसन्धिसमासतः ॥२६॥

शब्दा यत्र व्याकरणमेतद्धि बहुलिंगतः ।
शब्दनिर्वचनं यत्र वाक्यार्थैकार्थसंग्रहः ॥२७॥

निरुक्तं तत्समाख्यानाद्वेदांग श्रोत्रसंज्ञकम्‍ ।
नक्षत्रग्रहमनैः कालो येन विधीयते ॥२८॥

संहिताभिश्च होराभिर्गणितं ज्यौतिषं हि तत्‍ ।
यत्र व्यवस्थिता चार्थकल्पना विधिभेदतः ॥२९॥

मीमांसा वेदवाक्यानां सैव न्यायश्च कीर्तितः ।
भावाभावपदार्थानां प्रत्यक्षादि प्रमाणतः ॥३०॥

सविवेकी यत्र तर्कः कणादादि मनं च यत्‍ ।
पुरुषोऽप्टौ प्रकृतयो विकाराः षोडशेति च ॥३१॥

तत्वादिसंख्यावैशिष्ट्या त्सांख्यमित्य भिधीयते ।
ब्रह्मैकमद्वितीयं स्यान्नाना नेहास्ति किंचन ॥३२॥

मायिकं सर्वमज्ञानाद्‍ भाति वेदान्तिनां मतम्‍ ।
चित्तवृत्तितिरोधस्तु प्राणसंयमनादिभि ॥३३॥

तद्योगशास्त्रं विज्ञेयं यस्मिन्ध्यानसमाधितः ।
प्राग्वृत्तकथनं चैक - राजकृत्यमिषादितः ॥३४॥

यस्मिन्स इतिहासः स्यात्पुरावृत्तः स एव हि ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥३५॥

वंशानुचरितं यस्मिन्‍ पुराणं तद्धि कीर्तितम्‍ ।
वर्णादिधर्मस्मरणं यत्र वेदाविरोधकम्‍ ॥३६॥

कीर्तनं चार्थशास्त्राणां स्मृतिः सा च प्रकीर्तिता ।
श्रृतिस्मृत्वाविरोधेन राजवृत्तादि - शासनम्‍ ॥३७॥

सुयुक्त्याऽर्थार्जनं यत्र ह्यर्थशास्त्रं तदुच्यते ।
शशादिभेदतः पुंसामनुकूलादिभेदतः ॥३८॥

पद्यिन्यादिप्रभेदेन स्त्रीणां स्वीयादिभेदतः ।
तत्कामशास्त्रं सत्वादेर्लज्य यत्रादि चोथयोः ॥३९॥

प्रासादप्रतिमाराम - गृहवाप्यादिसंत्कृतिः ।
कथिता यत्र ताच्छल्पशास्त्रमुक्तं महर्षिभिः ॥४०॥

हावभावादि संयुक्तं नर्तनं तु कला स्मृता ।
अनेकवाद्यविकृतौ ज्ञानं तद्वारनं कला ॥४१॥

वस्त्रालंकारसंधानं स्त्रीपुंसोश्च कला स्मृता ।
अनेकरुपाविर्भाव कृतिज्ञानं कला स्मृता ॥४२॥

शय्यास्तरणसंयोग - पुष्पादिग्रथनं कला ।
द्युताद्यनेकक्रीडाभी रञ्जानं तु कला स्मृता ॥४३॥

अनेकासनसन्धानै रतेर्ज्ञानं कला स्मृता ।
कलासप्तकमेतद्धि गान्धर्वे समुदाहतम्‍ ॥४४॥

मकरन्दासवादीनं मद्यादीनां कृतिः कला ।
शल्यगूढादृतौ ज्ञानं शिरव्रणव्यधे कला ॥४५॥

हीनादिरससंयोगन्नादिसंपाचनं कला ।
वृक्षादिप्रसवारोपपालनादिकृतिः कला ॥४६॥

पाषाणद्यात्वादिद्रुतिस्मडस्मकरणं कला ।
यावदिक्षुविकारणां कृतिज्ञानं कला स्मृता ॥४७॥

धात्वौषधीनां संयोग - क्रियाज्ञानं कला स्मृता ।
धातुसांकर्यपार्थक्य - करणं तु कला स्मृता ॥४८॥

संयोगापूर्वविज्ञानं धात्वादीनां कला स्मृता ।
क्षारनिष्कासनज्ञानं कलासंज्ञं तु तत्स्मृतम्‍ ॥४९॥

कलादशकमेतद्धि ह्यायुर्वेदागमेषु च ।
शस्त्रसंधानविक्षेपः पदादिन्यासतः कला ॥५०॥

संध्यादाताकृष्टिभेर्दर्मल्लयुद्धं कला स्मृता ।
बहुयुद्धन्तु मल्लाना - मशस्त्र मुष्टिमि स्मृतम्‍ ॥५१॥

मृतस्य तस्य न स्वर्गो यशो नेहापि विद्यते ।
वलदर्पविनाशान्तं नियुद्धं यशसे रिपोः ॥५२॥

न कस्यासीत कुर्याद्‍ वा प्रणान्तं बाहुयुद्धकम्‍ ।
कृतप्रतिकृतैश्चिचत्रैर्बाहुभिश्च सुसंकरैः ॥५३॥

सन्निपातावधातैश्च प्रमादोन्मथनैस्तथा ।
कृतं निपीडनं ज्ञेयं तन्मुक्तिस्तु प्रतिक्रिया ॥५४॥

कलाऽभिलक्षिते देशे यन्त्राद्यस्मनिपातनम्‍ ।
वाद्यसंकेततो व्यूहरचनादि कला स्मृता ॥५५॥

गजाश्वरथगत्या तु युद्धसंयोजनं कला ।
कलापश्चकमेताद्धि धनुर्वेदागमे स्थितम्‍ ॥५६॥

विविधासनमुद्राभिर्देवतातोषणं कला ।
सारथ्यं च गजाश्वादेर्गतिशिक्षा कला - स्मृता ॥५७॥

मृत्तिकाकाष्ठपाषाणधातुभाण्डादिसत्क्रिया ।
पृथक्कलाचतुष्कन्तु चित्राद्यालेखनं कला ॥५८॥

तडागवापीप्रासादसमभृमिक्रिया कला ।
घटयाद्यनेकयन्त्राणां वाद्यानां तु कृतिः कला ॥५९॥

हीनमध्यादिसंयोग - वर्णाद्यै रंजनं कला ।
जलवाय्वग्निसंयोगनिरोधैश्च क्रिया कला ॥६०॥

नौकरथादियानानां कृतिज्ञानं कला स्मृता ।
सूत्रादिरज्जुकरणं विज्ञानं तु कला स्मृता ॥६१॥

अनेकतन्तुसंयोगैः पटबन्धः कला स्मृता ।
वेधादिसरसज्ज्ञानं रत्नानां च कला स्मृता ॥६२॥

स्वर्णादीनां तु याथात्म्य - विज्ञानं च कला स्मृता ।
कृत्रिमस्वर्ण रत्नादि - क्रियाज्ञानं कला स्मृता ॥६३॥

स्वर्णाद्यलंकारकृतिः कला लेपादिसत्कृतिः ।
मार्दवादिक्रियाज्ञानं चर्तणां तु कला स्मृता ॥६४॥

पशुचर्मांगनिर्हार - क्रियाज्ञानं कला स्मृता ।
दुग्धदोहादिविज्ञानं घृतान्तन्तु कला स्मृता ॥६५॥

सीवने कुंचुकादीनां विज्ञानं तु कलात्मकम्‍ ।
बाहवादिभिश्च तरणं कलासंज्ञं जले स्मृतम्‍ ॥६६॥

मार्जने गृहभांडादेर्विज्ञानं तु कला स्मृता ।
वस्त्रंसंमार्जनं चैव क्षुरकर्म कले ह्युभे ॥६७॥

तिलमांसादिस्नेहानां कला निष्कासने कृतिः ।
सीराद्याकर्षणे ज्ञानं वृक्षाद्यारोहणे कला ॥६८॥

मनोऽनुकूलसेवायाः कृतिज्ञानं कला स्मृता ।
वेणुतृणादिपात्राणां कृतिज्ञानं कला स्मृता ॥६९॥

काचपात्रादिकरणविज्ञानं तु कला स्मृता ।
संसेचनं संहरणं जलान्तं तु कला स्मृता ॥७०॥

लोहाभिसारशस्त्रास्त्रकृतिज्ञानं कला स्मृता ।
गजाश्ववृषभोष्ट्राणां पल्याणादिक्रिया कला ॥७१॥

शिशोः संरक्षणे ज्ञानं धारणे क्रीडने कला ।
सुयुक्तताडनज्ञान - मपराधिजने कला ॥७२॥

नानादेशीयवर्णानां सुसम्यग्लेखनं कला ।
ताम्बूलक्षादिकृति - विज्ञानं तु कला स्मृता ॥७३॥

आदानमाशुकारित्वं प्रतिदानं चिरक्रिया ।
कलासु द्वौ गुणौ ज्ञयौ दे कले परिकीर्तिते ॥७४॥

चतुः षष्टिकला ह्येताः संक्षपेण निदर्शिताः ।
यां यां कलां समाधित्य तां तां कुर्यात्स एव हि ॥७५॥

ब्रह्मचारी गृहस्थश्च वानप्रस्थो यदिः क्रमात्‍ ।
चत्वार आश्रमाश्चैते ब्राह्मणस्य सदैव हि ॥१॥

अन्येषामन्त्यहीनाश्च क्षत्रविट्शूद्रकर्मणाम्‍ ।
विद्यार्थ ब्रह्मचारी स्यात्‍ सर्वेषां पालने गृही ॥२॥

वानप्रस्थ सन्दमने संन्यासी मोक्षसाधने ।
वर्तयन्त्यन्यथा दण्डया या वर्णाश्रमजातयः ॥३॥

संगीतैर्मधुराऽऽलापैः स्वायत्तस्तु पतिर्यथा ।
भवेत्तथाऽऽचरेयुर्वै मायाभिः कामकेलिभिः ॥४॥

कदाचिद्‍ बीजमाहात्म्यात्‍ क्षेत्रमहात्म्यतः कचित्‍ ॥५॥

नीचोत्तमत्वं भवति श्रेष्ठत्वं क्षेत्रबीजतः ।
विश्वामित्रश्च वशिष्ठो मतंगो नारदादयः ॥६॥

तपोविशेषैः सम्प्रताप्ता उत्तमत्वं न जातितः ।
स्वस्वजात्युक्तधर्मो यः पूर्वैराचरितः सदा ॥७॥

तमाचरेश्च सा जातिर्दण्ड्या स्यादन्यथा नृपैः ।
जातिवर्णाश्रमात्‍ सर्वान्‍ पृथक्‍ चिन्हैः सुलक्षयेत्‍ ॥८॥

अपि श्रेयस्करं नृणां देवबिम्बमलक्षणम्‍ ।
सलक्षणं मर्त्यबिम्बं न हि श्रेयस्करं सदा ॥९॥

सात्विकी राजसी देवप्रतिमा तामसी त्रिधा ।
विष्णवादीनां च या यत्र योग्या पूज्या तुतादृशी ॥१०॥

योगमुद्रान्विता स्वस्था वराभयकरान्विता ।
देवेन्द्रादिस्तुतनुता सात्विकी सा प्रकीर्तिता ॥११॥

तिष्ठन्ती वाहनस्था वा नानाभरणभूषिता ।
या शस्त्रास्त्राभयवर - करा सा राजसी स्मृता ॥१२॥

शस्त्रास्त्रैर्दैत्यहन्यी या ह्राग्ररुपधरा सदा ।
युद्धाभिनन्दिनी सा तु तामसी प्रतिमोच्यते ॥१३॥

पक्षपाताधिरोपस्य कारणानि च पञ्च वै ।
रागलोभभयद्वेषा वादिनोश्च रहः श्रुतिः ॥१॥

यस्त्वधर्मेण कार्याणि मोहात्‍ कुर्यान्नराधिपः ।
अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥२॥

अस्वर्ग्या लोकनाशाय परानीक भयावहा ॥३॥

आयुर्बीजहरी राज्ञामस्ति वाक्ये स्वयंकृति ।
व्यवहारविदः प्राज्ञा वृत्तशीलगुणान्विताः ।
रिपौ मित्रे समा ये च धर्मज्ञाः सत्यवादिनः ॥४॥

निरालसा जितक्रोध कामलोभाः प्रियंवदाः ।
राज्ञा नियोजितव्यास्ते सभ्याः सर्वासु जातिषु ॥५॥

कीनाशाः कारुकाः शिल्पिकुसीदिधजिनर्तकाः ।
लिंगिनस्तस्कराः कुर्युः स्वेन धर्मेण निर्णयम्‍ ॥६॥

अशक्यो निर्णयो ह्यन्यैस्तज्जैरेव तु कारयेत्‍ ।
तपस्विनां तु कार्याणि त्रैविद्यैरेव काययेत्‍ ॥७॥

मायायोगाबिदां चैव न स्वयं कोपकारणात्‍ ।
सम्यग्विज्ञानसम्पन्नो नोपदेशं प्रकल्पयेत्‍ ॥८॥

उत्कृष्टजातिशीलानां गुर्णाचार्यतपस्विनाम्‍ ।
अनियुक्तो नियुक्तो धर्मज्ञो वस्तुमर्हति ।
दैवी वाचं स वदति यः शास्त्रमुपजीवति ॥९॥

सभा वा न प्रवेष्टव्या वक्तव्यं सा समञ्जसम्‍ ।
अब्रुवन्‍ विब्रुवंश्चापि नरो भवति किल्बिषी ॥१०॥

निर्णय करण्यास समर्थ पुरुषांचे लक्षण
एकं शास्त्रधीयानो न विन्द्यात्‍ कार्यनिर्णयम्‍ ।
तस्माद्‍ ब्रह्मागमः कार्यो विवादेषूत्तमो नृपैः ॥११॥

सब्रूते यं स धर्मः स्यादेको वाऽध्यात्मचिन्तकः ।
धर्मशास्त्रानुसारेण ह्यार्थशास्त्रविवेचनम्‍ ।
यत्राधिक्रियते स्थाने धर्माधिकरणं हि तत्‍ ॥१२॥

स्मृत्याचारव्यपेतेन मार्गेणाघर्षितः परैः ॥१३॥

आवेदयति चंद्राज्ञे व्यवहारपद हि तत्‍ ।
नोत्पादयेत्‍ स्वयं कार्य राजा नाप्यस्य पुरुषः ॥१४॥

न रागेण न लोभेत न क्रोधेन ग्रसेन्नृपः ।
परैरप्रापितानर्थान्न चापि स्वमनीषया ॥१५॥

पथिभंगी पराक्षेपी प्राकारोपरिलंघकः ॥१६॥

निपामस्य विनाशी च तथा चायतनस्य च ।
परिखापूरकश्चैच राजच्छिद्र प्रकाशकः ॥१७॥

अन्तः पुरं वासगृहं भाण्डागारं महानसम्‍ ।
प्रविशत्यनियुक्तो यो भोजनं च निरीक्षते ॥१८॥

विण्मूत्रश्लेष्मवातानां श्रेप्ता कामान्‍ नृपाग्रतः ।
पर्यकांसनबन्धी चाप्यग्रस्थानविरोधकः ॥१९॥

नृपातिरिक्तवेषश्च विधृतः प्रतिशेत्तु यः ।
यश्चापद्वारेण विशेदवेलायां तथैव च ॥२०॥

शय्यासने पादुके च शयनास नरोहणे ।
राजन्यासन्नशयने यस्तिष्ठति समीपतः ॥२१॥

राज्ञो विद्विष्टसेवी चाप्यदत्तविहितासनः ।
अन्यवस्त्राभरणयोः स्वर्णस्य परिधायकः ॥२२॥

स्वयंग्राहेण ताम्बूलं गृहीत्वा भक्षयेत्तु यः ।
अनियुक्तप्रभाबी च नृपाक्रोशक एवं च ॥२३॥

एकवासास्तथाऽभ्यक्तो मुक्तकेशोऽवगुण्ठितः ।
विचित्रितांग स्त्रग्वी च परिधान विधूनकः ॥२४॥

शिरः प्रच्छादकश्चैव च्छिद्रान्वेषणतत्परः ।
आसंगी मुक्तकेशश्च घ्राणकर्णाक्षिदर्शकः ॥२५॥

दन्तोल्लेखनकश्चैव कर्णनासाविशोधकः ।
राज्ञः समीपे पश्चाशच्छलान्येतानि सन्ति हि ॥२६॥

आज्ञोल्लंघनकारित्वं स्त्रीवधो वर्णसंकरः ।
परस्त्रीगमनं चौर्यं गर्भश्चैव पति बिना ॥२७॥

वाक्यारुष्यमनाच्याद्यं दण्डपारुष्यमेव च ।
गर्भस्य पातनं चैवेत्यपराधा दशैव तु ॥२८॥

राजाला माहित असणारे बावीस विवादांचे वर्णन
उत्कृती सस्यधाती चाप्यग्निदश्च तथैव च ।
राज्ञो द्रोहप्रकर्ता च तन्मुद्राभेदकस्तथा ॥२९॥

तन्मन्त्रस्य प्रभेत्ता च बद्धस्य च विमोचकः ।
अस्वामिविक्रयं दानं भागं दण्ड विचिन्वति ॥३०॥

परहाघोषणाच्छावी द्रव्यमस्वामिकं च यत्‍ ।
राजावलीठद्रव्यं च यच्चैवांगविनाशकम्‍ ॥३१॥

द्वाविंशति पदान्याहुर्नृपज्ञेयानि पण्डिताः ।
उद्धतः क्रूरवारवेषो गवितश्चण्ड एवं हि ॥३२॥

सहासनश्चातिमानीवादी दण्डमवाप्नुयात्‍ ।
अर्थिना कथितं राज्ञे तदावेदनसंज्ञकम्‍ ॥३३॥

कथितं प्राडिवाकादौ सा भाषाऽखिलबोधिनी ।
स पूर्वपक्षः सभ्यादिस्तं विमृश्य यथार्थतः ॥३४॥

अर्थितः पूरयेद्धीनं तत्साक्ष्यमधिकं त्यजेत्‍ ।
वादिनश्चिन्हितं साक्ष्यं कृत्वा राजा विमुद्रयेत्‍ ॥३५॥

अशोधयित्वा पक्षं ये ह्युत्तरं दापयन्ति तान्‍ ।
रागाल्लोभाभ्दयाद्वापि स्मृत्यर्थे वाधिकारिणः ॥३६॥

सभ्यादीन्‍ दण्डयित्वा तु ह्यधिकारान्निवर्तयेत्‍ ।
ग्राह्याग्राह्यं विवादं तु सुविमृश्य समाश्रयेत्‍ ॥३७॥

सञ्जातपवपक्षं तु वादिनं सन्निरोधयेत्‍ ।
राजाज्ञया सत्पुरुषैः सत्यवाग्भिर्मनौरैहरैः ॥३८॥

निरालसेंगितज्ञैश्च दृढशस्त्रास्त्रधारिभिः ।
शंकाऽसतां तु संसर्गादनुभूतकृतेस्तथा ।
होढाभिदर्शनात्तत्त्वं विजानाति विचक्षणः ॥३९॥

व्यवहारानभिज्ञेन ह्यन्यकार्याकुलेन च ॥४०॥

प्रत्यर्थिनाऽथिना तज्ज्ञः कार्यः प्रतिनिधीस्तदा ।
यः कश्चित्कारयेत्‍ किश्चिन्नियोगाद्‍ येन केनचित्‍ ॥४१॥

तत्तेनैव कृतं ज्ञयमनिवर्त्य हि तत्स्मृतम्‍ ।
तदधीनकुटुंबिन्यः स्वैरिण्यो गणिकाश्च याः ॥४२॥

निष्कुला याश्च पतितास्तासामाव्हानमिस्यते ।
स्वपुष्टौ राजपुष्टौ वा स्वभृत्या पुष्टरक्षकौ ।
ससाधनौ तत्वमिच्छुः कूटसाधनशंकया ॥४३॥

मोहाद्वा यदि वा शाठ्याद्‍ यन्तोक्तं पूर्ववादिना ।
उत्तरान्तर्गतं वा तत्प्रश्नैर्ग्राह्यं द्वयोरपि ॥४४॥

सत्यं मिश्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश्चेवमुत्तरं स्याच्चतुविधम्‍ ॥४५॥

अंगीकृतं यथार्थ यद्‍ वाद्युक्तं प्रतिवादिना ।
सत्योत्तरं तु तञ्ज्ञेयं प्रतिपत्तिश्च सा स्मृता ॥४६॥

श्रुत्वा भाषार्थमन्यस्तु यदि तं प्रतिषेधति ।
अर्थतः शब्दतो कपि मिथ्या तज्ज्ञेयमुत्तरम्‍ ॥४७॥

मिथ्यैतन्नाभिजानामि तदा तत्र नसन्निधिः ।
अजातश्चास्मि तत्काले इति मिथ्या चतुविधम्‍ ॥४८॥

अथिना लिखितो हार्थः प्रत्यर्थी यदिर्द्धतं तथा ।
प्रपद्य कारणं ब्रुयात्‍ प्रत्यवस्कन्दनं हि तत्‍ ॥४९॥

अस्मिन्नर्थे ममानेन वादः पूर्वमभूत्तदा ।
जितोऽहमिति चेद्‍ ब्रुयात्‍ प्राड्न्यायः स उदाह्यतः ॥५०॥

जयपत्रेण सम्यैर्वा साक्षिभिर्भावयाम्यहम्‍ ।
मयाजितः पूर्वमिति प्राड्न्यायस्त्रिविधिः स्मृतः ॥५१॥

अन्योऽन्ययोः समक्षं तु वादिनोः पक्षयुत्तरम्‍ ।
न हि गृह्यन्ति ये सभ्या दण्डयास्ते चौरवत सदा ॥५२॥

स्वेतरः कायविज्ञानी यः स साक्षी त्वनेकधा ॥५३॥

द्वष्टार्थश्च श्रुतार्थश्च कृतश्चैवाऽकृती द्विधा ।
अथिप्रत्यर्थिसान्निध्यादनुभूतं तु प्राज्‍ यथा ॥५४॥

दशनैः श्रवणैर्येन स साक्षी तुल्यबाग्‍ यदि ।
यस्य नोपहता बुद्धिः स्मृतिः श्रोत्रं च नित्यशः ॥५५॥

सुदीर्घेणामि कालेन स वे साक्षित्वमर्हति ।
अनुभूतः सत्यवाग्‍ यः सैकः साक्षित्वमर्हति ॥५६॥

उभयानुमतः साक्षी भवत्येकोऽपि धमावत्‍ ।
द्वेधे बहुनां वचनं समेषु गुणिनां वचः ॥५७॥

तत्राधिकगुणानां च गृण्हीयाद्वचनं सदा ।
यत्रानियुक्तोऽपीक्षेत श्रृणुयाद्वपि किञ्चन ।
पृष्ठस्तत्रापि स ब्रूयाद्‍ यथादृष्टं यथाश्रुतम्‍ ॥५८॥

सत्यं साक्ष्यं ब्रूवन्‍ साक्षी लोकानाप्नोति पुष्कलान्‍ ।
इह चानुत्तमां कीर्ति वागेषा ब्रह्मपूजिता ॥५९॥

सत्येन पूजते साक्षी धर्मः सत्येन वर्धते ।
तस्मात सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥६०॥

आत्मव ह्यात्मनः साक्षी गतिरात्मैव ह्यात्मनः ।
मावमंस्थास्त्वमात्मानं नृणां साक्षित्वमुत्तमम्‍ ॥६१॥

मन्यते यै पापकारी न कश्चित्‍ पश्यतीति माम्‍ ।
तांश्च देवाः प्रपश्यन्ति तथा ह्यन्तरपुरुषः ॥६२॥

यद्येके मानुषीं ब्रुयादन्यो ब्रूयात्तु दैविकीम्‍ ।
मानुषीं तत्र गृण्हीयान्न तु दैवी क्रिया नृपाः ॥६३॥

यद्येकदेशप्राप्ताऽपि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णादि दैविकी वदतां नृणाम्‍ ॥६४॥

वर्तते यस्य यद्धस्ते तस्य स्वामी स एव न ।
अन्यस्वमन्यहस्तेषु चौयाद्यैः किन्न दृश्यते ॥६५॥

समर्थः सन्त ददाति गृहीतं धनिकाद्धनम्‍ ।
राजा सन्दापयेत्तस्मात्‍ सामदण्डविकर्षणैः ॥६६॥

अदत्तं यश्च गृण्हाति सुदत्तं पुनरिच्छति ।
दण्डनीयावुभावेतौ धर्मज्ञेन महीक्षिता ॥६७॥

खोटी वस्तू विकणार्‍याला शिक्षा देण्याचा निर्देश
कूटपण्यस्त विक्रेता स दण्ड्यश्चौरवत्‍ सदा ॥६८॥

लोकप्रचारैरुत्पन्नौ मुनिभिर्विधृतः पुरा ।
व्यवहारोऽनन्तपथः स वस्तु नैव शक्यते ॥६९॥

उक्तं राष्ट्रप्रकरणं समासात्‍ पञ्चम तथा ।
अत्रानुक्ता गुणा दोषास्ते लोकशास्त्रतः ॥७०॥

षठं दुर्गप्रकरणं प्रवक्ष्यामि समासतः ।
स्वातकष्टकपाषार्णेर्दुष्पथं दुर्गमैरिणम्‍ ॥१॥

शूरस्य सैन्यदुर्गस्य सर्वं दुर्गमिव स्थलम्‍ ॥२॥

युद्धसम्भारपुष्टानि राजा दुर्गाणि धारयेत्‍ ।
धन्यवीरास्त्रापुष्टानि कोषपुष्टानि वै तथा ॥३॥

सहायपुष्टं यद दुर्गं तत्तु श्रेष्टतरं मतम्‍ ।
सहायपुष्टदुर्गेष विजयो निश्चयात्मकः ॥४॥

यद्यत्सहायपुष्टं तु तत्सर्वं सफल भवेत्‍ ।
परस्परानुकूलं तु दुर्गाणां विजयप्रदम्‍ ॥५॥

सैन्याद्विना नैव राज्यं न धनं पराक्रमः ।
बलिनो वशगाः सर्वे दुर्बलस्य च शत्रवः ॥१॥

भवन्त्यल्पजनस्यापि नृपस्य तु न किं पुनः ।
शारीरं हि बलं शौर्यबलं सैन्यबलं तथा ॥२॥

चतुर्थमास्त्रिकबलं पञ्चम धीबलं स्मृतम्‍ ।
षष्ठमादुर्बलं त्वेतैरुपेतो विष्णुरेव सः ॥३॥

न बलेन विनाप्यल्पं रिपुं जेतुं क्षमः सदा ।
देवासुरनरास्त्वन्योपायैर्नित्यं भवन्ति हि ॥४॥

बलमेव रिपोर्नित्यं पराजयकरं परम्‍ ।
तस्माद्बलमभेद्यं तु धरयेद्यत्नतो नृपः ॥५॥

सेनाबलन्तु द्विविधं स्वीयं मैत्रं च तद्‍ द्विधा ।
मौलसाद्यस्कभेदाभ्यां सारासारं पुनर्द्विधा ॥६॥

सेनेचे शारीरिक बल वाढविण्याचे उपाय
समैनियुद्धकुशलैर्व्यायामैर्नति भिस्तथा ॥७॥

वर्धयेद्वाहुयुद्धार्थ भोज्यैः शारीरकं बलम्‍ ।
मृगयाभिस्तु व्याघ्राणां शस्त्रास्त्राभ्यासतः सदा ॥८॥

वर्धयेच्छुर संयोगात्‍ सम्यक्‍ शौर्यबलं नृपः ।
सेनाबलं सुभृत्या तु तपोभ्यासैस्तथा स्त्रिकम्‍ ॥९॥

वर्धयेच्छास्त्रचतुर - संयोगाद्‍ धीबलं सदा ।
सत्क्रियाभिश्चिरस्थायि नित्यं राज्यं भवेद्‍ यथा ॥१०॥

स्वगोत्रे तु तथा कुर्यात्तदायुर्बलमुच्यते ।
यावद्‍ गोत्रे राज्यमस्ति तावदेव स जीवति ॥११॥

यस्मिन देशे यथाकालं सैन्यव्यायामभूमयः ॥१२॥

परस्य विपरीताश्च स्मृतो देशः स उत्तमः ।
आत्मनश्च परेषां च तुल्यव्यायामभूमयः ॥१३॥

यत्र मध्यम उद्दिष्टो देशः शास्त्रविचिन्तकैः ।
अरातिसैन्य व्यायामसुपर्याप्तमहीतलः ॥१४॥

आत्मना विपरीतश्च स वै देशोऽधमः स्मृतः ।
संधिं च विग्रहं यातमासनं च समाश्रयम्‍ ॥१५॥

द्वैधीभावं च संविद्यान्मन्मस्यैतांस्तु षड्गुणान्‍ ।
याभिः क्रियाभिर्बलपान्‍ मित्रतां याति वैरिषु ॥१६॥

सा क्रिया सन्धिरित्युक्ता विमृशेत तां तु यत्नतः ।
विकर्षितः सन्‍ वाऽधीनो भवेच्छत्रुस्तु येन वै ॥१७॥

कर्मणा विग्रहस्तं तु चिन्तयेन्मंत्रिभिर्नृपः ।
शत्रुनाशार्थगमनं यानं स्वाभीष्टसिद्धये ॥१८॥

स्वरक्षणं शत्रुनाशो भवेत्‍ स्थानात्तदासनम्‍ ।
यैर्गुप्तो बलवान्‍ भूयाद्‍ दुर्बलोऽपि स आश्रयः ॥१९॥

द्वैधीभावः स्वसैनानां स्थापनं गुलमगुल्मयोः ।
एक एवोपहारस्तु सन्धिरेष मतो हितः ॥२०॥

उपहारस्य भेदास्तु सर्वे ये मैत्रवर्जिताः ।
अभियोक्ता बलीयस्त्वादलब्ध्वा न निवर्तते ॥२१॥

उपहारदृते यस्मान्‍ सन्धिरन्यो न विद्यते ।
संघामवान्‍ यथा वेणुनिविडैः कण्टकैर्वृतः ॥२२॥

न शक्यते समुच्छेत्तु वेणुः संघातवांस्तथा ।
आपन्नोऽभ्युदयाकांक्षी पीड्यमानः परेण वा ॥२३॥

देशकालबलोपेतः प्रारभेत च विग्रहम्‍ ।
प्रहनिबलमित्रं तु दुर्गस्थं शत्रुमागतम्‍ ॥२४॥

अत्यन्तविषयासक्तं प्रजाद्रव्यापहारकम्‍ ।
भिन्नमंत्रिबलं राजा पीडयेत्‍ परिवेष्ट्यन्‍ ॥२५॥

विग्रहः स च विज्ञेयो ह्यन्यश्च कलहः स्मृतः ।
बलीयसाऽत्यल्पबलः शूरेण न च विग्रहम्‍ ॥२६॥

कुर्याद्धि विग्रहे पुंसां सर्वनाशः प्रजायते ।
अनिश्चितोपायकार्यः समयानुचरो नृपः ।
द्वैधीभावेन वर्तेत काकाक्षिबदलक्षितम्‍ ॥२७॥

प्रदर्शयेदन्यकार्यमन्यमालम्बयेच्च वा ।
सदुपायैश्च सन्मंत्रैः कार्यसिद्धिरथोद्यमैः ॥२८॥

भवेदल्पजनस्यापि किं पुनर्नृपतेर्नहि ।
अयोऽभेदद्यमुपायेन द्रवतामुपनीयते ॥२९॥

लोकप्रसिद्धमेवैतद्‍ वारि वन्हेनियामकम्‍ ।
उपायोपगृहीतेन तेनैतत्‍ परिशोष्यते ॥३०॥

उपायेन पदं मूर्ध्नि न्यस्यते मत्तहस्तिनाम्‍ ।
राजानं चावियोद्धारं ब्राह्मणं चाप्रवासिनम्‍ ॥३१॥

भूमिरेतो निर्गिलति सर्पो बिलशयानिव ।
ब्राह्मणस्यापि चापत्तौ क्षत्र्यधर्मेण वर्ततः ॥३२॥

प्रशस्तं जीवितं लोके क्षत्र हि ब्रह्मसंभवम्‍ ।
भर्तुरर्थे च यः शूरो विक्रमेद्वाहिनीमुखे ॥३३॥

भयान्न विनिवर्तेत तस्य स्वर्गो ह्यनन्तकः ।
आहवे निहतं शूरं न शोचेत कदाचन ॥३४॥

निर्मुक्तं सर्वपापेभ्यः पूतो याति सलोकताम्‍ ।
वराप्सरः सहस्त्राणि शूरमायोधने हतम्‍ ॥३५॥

त्वरमाणाः प्रधावन्ति मम भर्ता भवेदिति ।
एतत्तपश्च पुण्यं च धर्मश्चैव सनातनः ॥३६॥

चत्वार आश्रमास्तस्य यो युद्धे न पलायते ।
न हि शौर्यात्‍ परं किंचित्‍ त्रिषु लोकेषु विद्यते ॥३७॥

शूरः सर्वं पालयति शूरे सर्वं प्रतिष्ठितम्‍ ।
अवमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः ॥३८॥

स्वकार्यं साधयेत्‍ प्राज्ञः कार्यध्वंसो हि मूर्खता ।
कूटस्वर्णमहादानैर्भेदयित्वा द्विषाद्वलम्‍ ॥३९॥

नित्यविस्त्रंभसंसुप्तं प्रजागरकृतश्रमम्‍ ।
विलोभ्यापि परानीकमप्रमत्तो विनाशयेत्‍ ॥४०॥

तत्सहायबलं नैव व्यसनाप्तमपि कचित ।
स्वसमीपतरं राज्यं नान्यस्माद्‍ ग्रह्येत्‍ क्कचित ॥४१॥

विजिता च रिपूनेवं समादद्यात्‍ करं तथा ।
राज्यांशं वा सर्वराजं नन्दयति तत्‍ प्रजाः ॥४२॥

सत्कृतान्नियमान्‍ सर्वान्‍ यदा सम्पालयेन्नृपः ॥४३॥

तदैव नृपतिः पूज्यो भवेत्‍ सर्वेषु नान्यथा ।
यस्यास्ति नियतं कर्म नियतः सदग्रहो यदि ॥४४॥

नियतोऽसद ग्रहोत्यागो नृपत्वं सोऽश्नुते चिरम्‍ ।
शुक्रोक्तनीतिसारं यश्चिन्तयेरनिशं सदा ।
व्यवहारधुरे वोढूंस शक्तो नृपतिर्भवेत्‍ ॥४५॥

न कवेः सदृशी नीतिस्त्रिषु लोकेषु विद्यते ।
काव्यैव नीतिरन्या तु कुनीतिर्व्यवहारिणाम्‍ ॥४६॥

नाश्रयन्ति च ये नीति मन्दभाग्यास्तु ते नृपाः ।
कातर्याद्धनलोभाद्वा स्युर्वै नरकभाजनाः ॥४७॥

पञ्चमो अध्यायः[सम्पाद्यताम्]

नीतिशेषं खिले वक्ष्ये ह्यखिलं शास्त्रसंमतम् ।
सप्तांगानां तु राज्यस्य हितं सर्वजनेषु वै ॥१॥

शतसंवस्तरान्तेऽपि करिष्याम्यात्मसाद्रिपुम् ।
इति संचिन्त्य मनसा रिपोश्छिव्राणि लक्षयेत्‍ ॥२॥

राष्ट्रभृत्यविशंकी स्याद्धीनमंत्रबलो रिपुः ।
युक्त्या तथा प्रकुर्वीत सुमंत्रबलयुक्‍ स्वयम् ॥३॥

सेवया वा वणिग्वृत्त्या रिपुराष्ट्रं विमृश्य च ।
दत्ताभयं सावधानो व्यसनासक्तचेतसम्‍ ॥४॥

मार्जारलुब्धबकवत सन्तिष्ठन्नाशयेद रिम् ।
सेनां युद्धे नियुञ्जीत प्रत्यनीकविनाशिनीम् ॥५॥

न युञ्जाद्रिपुराष्ट्रस्थां मिथः स्वदेषिणीं न च ।
दानमानैर्वियुक्तोऽपि न भृत्यो भूपतिं त्यजेच ।
समये शत्रुसान्नैव गच्छेज्जीवधनाशया ॥६॥

दर्शयन्‍ मार्दवं नित्यं महावीर्यबलो पि च ।
रिपुराष्ट्रे प्रविश्यादौ तत्कार्ये साधको भवेत ॥७॥

सञ्जातबद्धमूलस्तु तद्राज्यमखिलं हरेत ।
अथ तदद्विष्टयादान्‍ सेनपानंशदानतः ॥८॥

तद्राज्ज्यस्य वशीकुर्यान्मूलमुन्मूलयन्‍ बलात् ।
तरो संक्षीणमूलस्य शाखाः शुष्यन्ति वै यथा ॥९॥

सद्यः केचिञ्च कालेन सेनपाद्याः पतिं विना ।
राज्यवृक्षस्य नृपतिर्मूलं स्कन्धाश्च मंत्रिणः ॥१०॥

शाखाः सेनाधियाः सेना पल्लवाः कुसुमानि च ।
प्रजाः फलानि भूभागा बीजं भूमिः प्रकल्पिता ॥११॥

विश्वस्तान्यनृपस्यापि न विश्वासं समाप्नुयात् ।
नैकान्ने न गृहे तस्य गच्छेदल्पसहायवान ॥१२॥

क्षणं नासावधानः स्याद्‍ भृत्यस्त्रीपुत्रशत्रुषु ॥१३॥

जीवन्‍ सत्‍ स्वामिता पुत्रे न देयाप्यखिलं कचित् ।
स्वभावसदगुणे यस्मान्महानर्थमदावहा ॥१४॥

विष्ण्वाद्यैरपि नो दत्ता स्वपुत्रे स्वाधिकारता ।
स्वायुषः स्वल्पशेषे तु सत्पुत्रे स्वान्यमादिशेत् ॥१५॥

नाराजकं क्षणमपि राष्ट्रं धर्तुं क्षमाः किल ।
युवराजादयः स्वाम्यलोभचापलगौरवात् ॥१६॥

प्राप्योत्तमं पदं पुत्रः सुमीत्या पालयन्‍ प्रजाः ।
पूर्वामात्येषु पितृवद्‍ गौरवम्‍ सम्प्रधारयेत् ॥१७॥

तस्यापि शासनं तैस्तु प्रधार्यं पूर्वतोऽधिकम्‍ ।
युक्तं चेदन्यथा कार्यं निषेध्यं काललम्बनैः ॥१८॥

तदनीत्या न वर्तेयुस्तेन साकं धनाशया ।
वर्तन्ति यदनीत्या ते तेन साकं पतन्त्यरात्‍ ॥१९॥

कुलभक्तांश्च यो द्वेष्टि नवीनं भजने जनम् ।
स गच्छेच्छत्रुसाद्राजा धनप्राणैर्विज्युज्यते ॥२०॥

गुणी सुनीतिर्नव्योऽपि परिपाल्यस्तु पूर्ववत् ।
प्राचीनैः सह तं कार्ये ह्यनुभूय नियोजयेत् ॥२१॥

अतिमृदुस्तुतिनातिसेवादानप्रियोक्तिभिः ।
मायिकैः सेव्यते यादत्‍ कार्य नित्यं तु साधुभिः ॥२२॥

प्रत्यक्षं वा परोक्षं वा सत्यवाग्भिर्नृनोऽपि च ।
याथार्थ्यतस्तयोरीद्दगनारं खभुवोर्यथा ॥२३॥

परस्वहरणं लोके जारचोरौं तु निन्दितौ ।
तावप्रत्यक्षं हरतः प्रत्यक्षं धूर्त एव हि ॥२४॥

हितं त्वहितवच्चान्ते अहितं हितवत् सदा ।
धूर्ताः सन्दर्शयित्वाऽज्ञं स्वकार्य साधयन्ति ते ॥२५॥

विस्त्रंभयित्वा चात्यर्थ मापया घाययन्ति ते ।
यस्य चाप्रियमन्विच्छेत्तस्य कुर्यात्‍ सदा प्रियम्‍ ॥२६॥

व्याधो मृगवंध कर्तुं गीतं गायति सुस्वरम् ।
मायां बिना महाद्रव्यं द्राड्न सम्पाद्यते जनैः ॥२७॥

विना परस्वहरणान्त कश्चित्‍ स्यान्महाधनः ।
मापया तु बिना तद्धि न साध्यं स्याद्यभेक्षितम्‍ ॥२८॥

बहुभिर्यः स्तुतो धर्मो निन्दितोऽधर्म एव सः ।
धर्मतत्वं हि गहनं ज्ञातुं केनापि नोचितम्‍ ॥२९॥

अतिदानतपः सत्ययोगो दारिद्र्यकृत्विह ।
धर्मार्थो यत्र न स्यातां तद्वाक्‍ कामं निरर्थकम् ॥३०॥

अर्थे वा यदि वा धर्मे समर्थो देशकालवित् ।
निःसंशयो नरः पूज्यो नष्टः संशयिता सदा ॥३१॥

अर्थस्य पुरुषो दासो दासंस्त्वर्थो न कस्यचित् ।
अतोऽर्थाय यतेनैव सर्वदा यत्नमास्थितः ॥३२॥

अर्थाद्धमैश्च कामश्च मोक्षश्चापि भवेन्नृणाम् ।
शस्त्रास्त्राभ्यां बिना शौर्य गार्हस्थ्यं तु स्त्रियं बिना ॥३३॥

एकमत्यं बिना युद्धं कौशल्यं ग्राहकं बिना ।
दुःखाय जायते नित्यं सुसहायं बिना विदत् ॥३४॥

न विद्यते तु विषदि सुसहायं सुह्रत्‍ - समम ।
नृपसम्बन्धिस्त्रीपुत्र - सुह्रद्‍ भृत्यादिदस्यृभिः ॥३५॥

अतो विभागं दत्त्वैषां भुड्क्तेयस्तृ स्वकं धनम् ।
दर्पस्तु परहासेच्छा मानोऽहं सर्वतोऽधिकः ।
कार्पण्यं तु व्यथे दैन्यं भयं स्वोच्छेदांकनम् ॥३६॥

मानसस्यानवस्थान मुद्वेगः परिकीर्तितः ।
लघोरप्यपमानस्तु महावैराय जायते ॥३७॥

दानमानसत्यशौर्यमार्दवं सुसुह्रत्करम्‍ ।
सर्वानापदि सदसि समाहूय बुधान्‍ गुरुन् ॥३८॥

भ्रातृन्‍ बन्धूँश्च भृत्यांश्च ज्ञातीन्‍ सभ्यान्‍ पृथक्‍ पृथक् ।
यथार्हं पूज्य विनतः स्वाभीष्टंयाचनेन्नृपः ॥३९॥

आपदं प्रतरिष्यामो यूयं युक्त्या वदिष्यथ ।
भवन्नो मम मित्राणि भवत्सु नास्ति भृत्यता ॥४०॥

न भवत्सदृशास्त्वन्ये सहायाः सन्ति में हयतः ।
तृतीयांशं भूतेर्ग्राह्यामर्धं वा भोजनार्थकम्‍ ॥४१॥

दास्याम्यापत्समुत्तीर्ण शेषं प्रत्युपकारवित् ।
भृति बिना स्वामिकार्यं भृत्यः कुर्यात्‍ समाष्टकम्‍ ॥४२॥

षोडशाब्दां धनी यः स्यादितरोऽर्थानुरुपतः ।
सकृत्‍ सुभुक्तं यस्यापि तदर्थं जीवितं त्यजेत् ।
भृत्यं स एव सुश्लोको नापत्तौ स्वामिनं त्यजेत्‍ ॥४३॥

स्वामी स एव विज्ञेयो भृत्यार्थं जीवितं त्यजेत् ।
न रामसद्दशो राजा पृथिव्यां नीतिमानभूत् ॥४४॥

सुभृत्यता तु यन्नीत्या वानरैरपि स्वीकृता ।
न कूटनीतिरभवच्छोकृष्णसदृशो नृपः ॥४५॥

अर्जुनाद्‍ ग्राहिता स्वस्थ सुभद्रा भगिनी छलान् ।
नीतिमतान्तु सा युक्तिर्था हि स्वश्रेयसेऽखिला ॥४६॥

नात्मसगोपने युक्ति चिन्तयेत्‍ स पशोर्जडः ।
जारसंगोपने छदम संश्रयन्ति स्त्रियोऽपि च ॥४७॥

युक्तिश्छलात्मिका प्रायस्तथान्या याजनात्मिका ।
यच्छदमचारी भवति तेन च्छदम समाचरेत् ॥४८॥

अन्यथा शीलनाशाय महतामपि जायते ।
अस्ति बुद्धिमतां श्रेणिर्न त्वेको बुद्धिमानतः ॥४९॥

देशे काले च पुरुषे नीति युक्तिमनेकधाम्‍ ।
कल्पयन्ति च तद्विद्या दृष्ट्वा रुद्धां तु प्राकृतनीम् ॥५०॥

मन्त्रौषधिपृथग्‍ वेष - कालवागर्थ संश्रयात् ।
छदम संजनयन्तीह तद्विद्याकुशला जनाः ॥५१॥

स्वामिन्येवानुरक्तो यो भृतकस्तूत्तमः स्मृतः ।
सेवते पुष्टभृतिदं प्रकटं स च मध्यमः ॥५२॥

पुष्टोऽपि स्वामिनाऽव्यक्तं भजनेऽन्यं स चाधमः ।
उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाऽधमः ॥५३॥

मध्यम; साम्यमन्विच्छेदपरः स्वार्थतत्परः ।
नोपदेशं बिना सम्यक्‍ प्रमाणैज्ञार्यतेऽखिलम् ॥५४॥

बाल्यं वाऽप्यथ तारुण्यं प्रारम्भितसमाप्तिदम् ।
प्रायो बुद्धिमतो ज्ञेयं न वार्धक्यं कदाचन ॥५५॥

आरम्भं तस्य कूर्याद्धि यत्समाप्तिं सुखं व्रजेत् ।
नारम्भो बहुकार्याणामेव दैव सुखावहः ॥५६॥

नारम्भित समाप्तिं तु बिना चान्यं समाचरेत् ।
सम्पाद्यते न पूर्व हि नापरं लभ्यते यतः ॥५७॥

कृती तत्‍ कुरुते निल्यं यत्‍ समाप्तिं व्रजेत्‍ सुखम् ।
यदि सिद्धयति येनार्थः कलहेन वरस्तु सः ॥५८॥

अन्यथाऽऽयुर्धनसुह्रद्‍ - यशोधर्महरः सदा ।
ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश्च साहसम्‍ ॥५९॥

प्रवृतिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ।
यथाच्छिद्रं भवेत्‍ कार्यं तथैव हि समाचरेत् ॥६०॥

अविसंवादि विद्वद्‍ भिः कालेऽतीतेऽपि चापदि ।
श्रेष्ठो न मानहीनः स्यान्नयूनो मानाधिकोऽपि नः ॥६१॥

राष्ट्रेनित्यं प्रकुर्वीत श्रेयोऽर्थी नृपतिस्तथा ।
ग्रामाद्‍ बहिर्वसेयुस्ते ये ते त्वधिकृता नृपैः ॥६२॥

नृपकार्य बिना कश्चिन्न ग्रामं सैनिको विक्षेत् ।
तथा न पीडयेत्‍ कुत्र कदापि ग्रामवासिनः ॥६३॥

सैनिकैर्न व्यवहरेन्नित्यं ग्राम्यजनोऽपि च ।
श्रावयेत्‍ सैनिकान्नित्यं धर्मं शौर्यविवधनम् ॥६४॥

सुवाद्यनृत्यगीतानि शौर्यवृद्धिकराण्यपि ।
यदा चतुर्गुणा वृद्धिर्गृहीता धनिकेन च ॥६५॥

अधमर्णान्न दातव्यं धनिने तु धनं तदा ।

शुक्रनीतिसारः समाप्तः

अपि पश्यतु[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=शुक्रनीतिसारः&oldid=402414" इत्यस्माद् प्रतिप्राप्तम्