सामग्री पर जाएँ

शब्दकौस्तुभः/अध्यायः २-पादः १/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।।अथ द्वितीयाध्याय आरभ्यते।।
(अष्टाoसूo2-1-1)
समर्थः पदविधिः(अष्टाoसूo2-1-1)। पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः। परिभाषेयम्। समर्थशब्दस्य तदाश्रिते लक्षणा। सामर्थ्ये चेहैकार्थीभावः। प्रकियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्ठैकार्थत्वमिति यावत्। राजपुरुषः। पुत्रीयति। कुम्भकारः। औपगवः। इह "गुणः कृतात्मसंस्कार"इति न्यायेन महाविभाषायाः सामर्थ्यविशेषणता। विकल्पेनैकार्थीभूतं षष्ठ्यन्तं समस्यते इत्याद्यर्थात्। विशेषणबलादेव च व्यपेक्षापक्षोऽपि सम्मतः। वृत्तिस्तु समासादिनियता। अत एव `ऋद्धस्य' इति विशेषणं तत्र नान्वेति, शक्यैकदेशत्वात्। न हि श्वशुरशब्दजन्यप्रतीतौ पितृविशेषणत्वेनोपस्थितायां भार्यायां सुशीलाय इत्यादिविशेषणमन्वेति। न चैवं `देवदत्तस्य गुरुकुलम्' इत्यादावनन्वयापत्तिः, तत्रापि कुलेनैव देवदत्तशब्दोत्तरषष्ठ्यर्थस्यान्वयात्। सम्बन्धस्तु उपस्थितगुरुद्वारक एव षष्ठ्यर्थो न तु तदितरः। उक्तञ्च-
समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह।। इति ।
यद्वा, ससम्बन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः `चैत्रस्य नप्ता' इत्यादौ तथा दर्शनात्, श्वशुरशब्दोपस्थितायां भार्यायायं तत्पतेर्विसेषणत्वाच्च। तदंशे उत्थिताकाङ्क्षत्वात्। उक्तञ्च-
सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते।
स्वार्थवत्सा व्यपेक्षाऽस्य वृत्तावपि न हीयते।। इति ।
तस्मात्समाससुब्धातुकृत्तद्धितविशेषणे।
न विशेषणसम्बन्धः सापेक्षे तु भवेदयम्।।
स्यादेतत् वाक्ये क्लृप्तयाऽवयवसक्त्योपपत्तौ माऽस्तु शक्त्यन्तरम्। न चैवं विशेषणसम्बन्धापत्तिः `सविशेषणानां वृत्तिर्न, वृत्तस्य वा विशेषणयोगो न' इति नि,ेधस्य सम्भवादिति चेत्? सत्यम्।
बहूनां वृत्तिधर्माणां वचनैरेव साधने।
स्यान्महद्रौरवं तस्मादेकार्थीभाव आस्थितः।।
चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्।
कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः।।
तथाहि, `धवखदिरौ' इति वृत्त्यैव क्रोडीकृतार्थत्वाच्चकारो न प्रयुज्यते। तथा चित्रग्वादौ यत्पदम्। त्वया तु वचनं कर्त्तव्यम्। निरूढलक्षणा तु शक्तितो नातीव भिद्यते, नैयायिकैश्चकारार्थे तदनभ्युपगमाच्च। अकथितसूत्रे व्युत्पादितरीत्या नामार्थयोरभेदः "प्रत्ययार्थः प्रधआनम्" इत्यादिव्युत्पत्तित्यागश्च, `प्राप्तोदकः' इत्यादौ उदककर्तृकप्राप्तिकर्मेत्याद्यर्थाभ्युपगमात्। एकार्थीभावे तु लाघवमिति। यद्यपि सिद्धान्ते पदं वाक्यं वा शक्तं तथापि प्रक्रियादशायां लाघवादेकार्थीभाव इत्याशयः। यैव ह्यस्माकं प्रक्रिया सा परैः पारमार्थिकतया गृह्यते इति युक्तस्तान् प्रति गौरवोपन्यास इति दिक्।
क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद् वृत्तिः। तद्यथा-किमोदनः शालीनाम्। केषां शालीनामोदन इत्यर्थः। सक्त्वाढकमापणीयानाम्। आपणीयानां सक्तूनामाढकमित्यर्थः। कुतो भवान्पाटलिपुत्रकः। द्वे पाटलिपुत्रे, तत्र तस्मात्पाटलिपुत्राद्भवानागत इत्वर्थः। "रोपधेतोः प्राचाम्"(अष्टाoसूo4-2-123)इति वुञ्। तथा नञ्समासा अपि केचित्साधवः-अश्राद्धभोजी ब्राह्मण इति यथा। केचित्तु न साधवः-अकिञ्चित्कुर्वाणमिति यथा। किञ्चिदप्यकुर्वाणमित्यर्थः।
अत्रेदमवधेयम्। वाक्ये त्रेधा सामर्थ्यम्-भेदः संसर्गो भेदसंसर्गौ चेति। आद्येऽतद्व्यावृत्तिमात्रस्य शाब्दत्वम्। संसर्गस्त्वार्थः। द्वितीये विपरीतम्। तृतीये तूभयं शाब्दम्। अलौकके प्रक्रियावाक्ये तु प्रथममुक्तत्रितयान्यतमावगमेऽपि वृत्तिः कल्प्यते। परिनिष्ठिते विशेषणसम्बन्धाद्यभावदर्शनात्। यथा शत्रादौ द्वितीयान्तादिसामानाधिकरण्यं दृष्ट्वा लकारे तत्कल्पनेति। अत एव चित्रत्वादेरन्यपदार्थपरतादर्शनादलौकिके प्रक्रियावाक्येऽपि तत्कल्पना, "अन्यपदार्थे" इत्यादिसौत्रानुवादनैव देवताविग्रहवत्तत्सिद्धेश्चेति दिक्।
।। इति शब्दकौस्तुभे द्वितीयाध्यायस्य प्रथमे पादे प्रथममान्हिकम् ।।