शब्दकौस्तुभः/अध्यायः १-पादः ४/आह्निकम् ४

विकिस्रोतः तः
← आह्निकम् ३ शब्दकौस्तुभः
आह्निकम् ४
[[लेखकः :|]]


।।चतुर्थे पादे चतुर्थमान्हिकम्।।
(अष्टाoसूo1-4-56)
प्राग्रीश्वरान्निपाताः(अष्टाoसूo1-4-56)। "अधिरीश्वरे"(अष्टाoसूo1-4-97)इत्यतः प्राक् प्राङ् निपाता इत्यधिक्रियते, तन्त्राद्याश्रयणात्। तेन पूर्वं निपातसञ्ज्ञाः सन्तः पश्चाद्रत्यादिसञ्ज्ञा इत्यर्थात्संज्ञासमावेशः सिध्यति। अन्यथा गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञानां निपातसञ्ज्ञायाश्च पर्यायः स्यात्। तन्त्रादौ प्रमाणं तु प्राग्ग्रहणसामर्थ्यमेव। अन्यथा रीश्वरादिति पञ्चम्यैव दिक्‌शब्दाक्षेपात्किं तेन? न च परशब्दक्षेपप्रसङ्ग। "चादयोऽसत्त्वे"(अष्टाoसूo1-4-57)। "प्रादयः"(अष्टाoसूo1-4-58)इत्येतयोर्विधेययोर्लाभेनानन्वयापत्तेः। रेफविशष्टग्रहणं किम्? "ईश्वरे तोसुन्कसुनौ"(अष्टाoसूo3-4-13)इत्यस्य व्याप्तिन्यायेनावधित्वं मा भूत्। वस्तुतस्तु मास्तु रेफः प्रत्यासत्त्याऽभिमतसिद्धेः अव्ययीभावस्याव्ययसञ्ज्ञारम्भाच्च। न चासौ समासेऽप्यव्ययीभाव एवेति नियमार्थं स्यादिति वाच्यम्, गौरवग्रस्तं व्याप्तिन्यायमाश्रित्य नियमार्थत्ववर्मनापेक्षया प्रत्यासत्तेर्विध्यर्थतायाश्च न्याय्यत्वात्। अत एव "नलोक"(अष्टाoसूo2-3-69)इति सूत्रे अव्ययात्पृथक् लोकादीनां ग्रहणमप्युपपद्यते इति दिक्।
(अष्टाoसूo1-4-57)
चादयोऽसत्त्वे(अष्टाoसूo1-4-57)। चादयो निपातसञ्ज्ञाः स्युः न तु द्रव्ये। निपातत्वादतव्ययत्वम्। च वा इत्यादि।
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते।
द्रव्यमित्युच्यते सोऽर्थो भेद्यत्वेन विवक्षितः।।
लिङ्गसंख्यान्वयि द्रव्यमिति वा। असत्त्वे किम्? पशुना यजेत, पशुशब्दश्चादिः। `चः समुच्चये' इत्यपि प्रत्युदाहरणम्। न चात्र "प्रकृतिवदनुकरणम्"(पoभाo36)इत्यपि प्रत्युदाहरणम्। न चात्र "प्रकृतिवदनुकरणम्"(पाoभाo36)इत्यतिदेशात् निपातत्वं दुर्वारमिति वाच्यम्, अतिदेशस्यानित्यतायाः ऋलृक्‌सूत्रे एवोपपादितत्वात्। प्रसज्यप्रतिषेधः किम्? वातीति वाः, विप्रातीति विप्रः। इह क्रियाविशिष्टद्रव्यवाचकतया क्रियायाश्चासत्त्वरूपत्वान्निपाततास्यात्। ततश्च वेप्रशब्दस्याप्यव्ययसञ्ज्ञा स्यात्। "प्रयोजनं सर्वनामाव्ययसञ्ज्ञायाम्"(मoभाo)इत्युक्तत्वात्।
अथ चादयः-व वा ह अह एव एवं नूनं शश्वत् युगपत् भूयस् कूपत् प्रश्नवितर्कप्रशंसास्वयम्। एवं सूपदपि। कुविदिति भूयोऽर्थे योगप्रशंसास्तिभावेषु च। नेदिति शङ्कायाम्। "नेज्जिह्यायन्तो नरकं पताम"। "नेदेवसापुनजन्नदेवाः" इत्यादौ तु न इदिति पदद्वयं पठ्यते। तस्मान्निपातसमुदायोऽयं बोध्यः "निपातैर्यद्यदि"(अष्टाoसूo8-1-30)इति निघातनिषेधः। प्रतिषेधविचारसमुच्चयेष्वयमिति तु शाकटायनः। चेत्। चण्। अयं चेदर्थे णित्, समुच्चयादौ त्वननुबन्धः। इदं च "निपातैर्यद्यदि"(अष्टाoसूo8-1-30)इत्यत्र स्फुटीभविष्यति। कच्चित्। यत्र। नह निश्चितनिषेधे। हन्त हर्षेऽनुकम्पाय च। माकिः माकीम् एतौ निषेधे। माकिर्नेशन्माकीं रिषन्माकीं संशारिके वटेत् किस्सम्भावितनिषेधेन किरिन्द्रत्वदुत्तरः। नकिरेवायथात्वंहिकंनुकम्। सुकंआकी नकी नकिः। माकीं माकिः। आकृतमिति वेदनिघण्टुः। आमिश्राणि नवोत्तराणीति तद्व्याख्यायां यास्कः। माङ्। "माङि लुङ्"(अष्टाoसूo3-3-175)इतिविशेषणार्थो ङकारः। मा भवतु मा भविष्यतीत्यत्र निरनुबन्धो माशब्दः। नञ्। ञकारो "नलोपो नञः"(अष्टाoसूo3-6-73)इति विशेषणार्थः। नस्येत्युक्ते तु वा `पामनपुत्र'इत्यत्रापि स्यात्। न च सिद्धान्तेऽपि स्त्रैणपुत्रेऽतिप्रसङ्गं वारयितुम् "अलुगुत्तरपदे"(अष्टाoसूo6-3-1)इत्युत्तरपदाक्षिप्तेन पूर्वपदेन नञोऽवश्यं वशेषणीयत्वात्तेनैव पामनपुत्रस्यापि सिद्धेः किं ञकारेणेति वाच्यम्, "नैकधागमिकर्मीकृतनैकनीवृत्त"इत्यादौ निषेधार्थेन नशब्देन "सहसुपा"(अष्टाoसूo2-1-4)इति समासेऽतिव्याप्तिं वारयितुं ञित्वस्याप्यावश्यकत्वात्। नञ। पूर्वपदस्य विशेषणेऽपि अनन्यार्थञित्त्वस्य निपातस्यैव प्रहणं न तु वृद्ध्या चरितार्थञकारस्य तद्धितस्यापीति तु प्राचां ग्रन्थस्योक्तिसम्भवो बोध्यः। यावत्। तावत्। त्वै न्वै एतौ वितर्के। श्रौष्ट्। वौषट्। स्वाहा। वषट्। स्वधा ॐ। तथा। हिरुक्। खलु। किल। अथ। सुष्ठु। आदहेति हि सोपक्रमकुत्सनेषु। `आदहस्व धामन्' इत्यत्र तु पदकारा आदिति पृथक् पठन्ति। उपसर्गविभक्तिस्वरप्रतिरूपकाश्च।
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते।।
"अच उपसर्गात्तः"(अष्टाoसूo7-4-47)इति घोरतत्वं न भवति, उपसर्गप्रतिरूपकत्वेप्यनुपसर्गत्वात्। विभक्तिप्रतिरूपको यथा-अहम्। शुभम्। अहंयुः शुभंयुः-"अहंशुभमोर्युस्"(अष्टाoसूo5-2-40)चिरेण। अन्तरेण। चिराय। अचिरात्। अकस्मात्। चिरस्य मम। ममत्वं गतराज्यस्य। वेलायां मात्रायामित्यादि। एतेन "गेये केन विनीतौ वाम्" इति व्याख्यातम्। वामित्यस्याव्ययस्य युवामित्यर्थात्। आह आसेत्यादीनि तु तिङन्तप्रतिरूपकाणि। स्वरास्तु सम्बोधनभर्त्सनानुकम्पापादपूरणप्रतिषेधेषु यथासम्भवं बोध्याः। अ अपेहि। आ एवं मन्यसे। इ इन्द्रं पश्य। ई ईशः। ऊ ऊपरे बीजं वपति। ए इतो भव। ओश्रावय। ऋ ऋ लृ ऐ औ एते मन्त्रस्तोमाः। पश्विति सम्यगर्थे। लोधं नयतन्ति पशु मन्यमानाः। शुकमिति शीघ्रत्वे। यथा कथाचेत्यनादरे। पाट् प्याट् अङ्ग है हे भो अये इत्यादयः सम्बोधने। घेति हंसाप्रातिलोम्यपादपूरणेषु। विषु इति नानार्थे। एकपदे इत्यकस्मादर्थे। निहन्त्यरीनेकपदे। पुत इति कुत्सायाम्। कुत्सितसवयवञ्छादयति इति पुञ्छः। ङः। पुलिति लान्तमिति शाकटायनः। कुत्सितं कसति गच्छतीति पुल्कसः। अस्मीत्यहमर्थे। त्वामस्ति वच्मि विदुषां समवायोत्र तिष्ठति। आत इति इतोऽपीत्यर्थे। इत्यादि। आकृतिगणश्चायम्।
(अष्टाoसूo1-4-58)
प्रादयः(अष्टाoसूद1-4-58)। प्रादयो गतिसंज्ञाः स्युः क्रियायोगे। पुल्लिङ्गोऽयं गतिशब्दः, "गतिरनन्तरः"(अष्टाoसूo6-2-49)इति लिङ्गात्। अव्युत्पन्नश्चायं क्तिजन्तो वा। "न क्तिचि दीर्घश्च"(अष्टाoसूo6-4-39)इति तु न प्रवर्तते, अत एव निर्द्देशात्। उपसर्गसंज्ञया सह समावेशार्थश्चकारः। अन्यथा पर्यायः स्यात्। तेन `प्रणेयम्' इत्यादौ णत्वं कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति। निपातसंज्ञायास्तु समावेशः प्राग्ग्रहणेन साधित एव। इह यत्क्रियायुक्ताः। प्रादयस्तं प्रत्येव गत्युपसर्ससंज्ञाः, योगग्रहणसामर्थ्यात्। तेन प्रवृद्धं कृतं प्रकृतमित्यत्र "गतिरनन्तरः"(अष्टाoसूo6-2-49)इति स्वरो न, कर्मणि क्तान्तं प्रत्यगतित्वात्। कृञर्थविशेषकत्वे तु स्यादेव। तथा `प्रवृद्धो भावः प्रभावः' इत्यत्र "श्रिणीभुवोनुपसर्गे"(अष्टाoसूद3-3-24)इति घञ् सिद्धः। एवं `प्रणाययति' `अभिपाचयति'इत्यादौ प्रकृत्यर्थगतप्रकर्षभिमुख्यद्योतकतायां णत्वषत्वे स्तः। ण्यर्थविशेषकत्वे तु नेति बोध्यम्। निपातसंज्ञा तु क्रियायोगं विनाऽप्यस्ति। एतदर्थमेव हि प्रादय इति योगो विभक्तः। तेन `प्रगत आचार्यः प्राचार्यः' इत्यत्राव्ययपूर्वपदप्रकृतिस्वरः सिध्यति।
उपसर्गसंज्ञायां मरुच्छब्दस्योपसङ्ख्यानम्। मरुत्तः। उपसर्गसंज्ञाविधानसामर्थ्यादजन्तत्वाभावेपि "अच उपसर्गात्तः"(अष्टाoसूo7-4-47)इति तत्वं प्रवर्तते इत्याहुः। एवञ्च मरुन्नयतीत्यत्र णत्वमपि प्राप्नोति। तस्मात्तत्व एव संज्ञा वक्तव्या। अत एव किविधिरङ् च न भवति। निपातसंज्ञा तु नास्येष्टा। तेन "तृतीयाकर्मणि"(अष्टाoसूo6-2-48)इति पूर्वपदप्रकृतिस्वरे कृते मरुत्तशब्दो मध्योदात्तः। निपातत्त्वे त्वाद्युदात्तः स्यात्। न च "उपसर्गाश्चाभिवर्जम्"(फिoसूo81)इति फिट्सूत्राद्दोषतादवस्थ्यं शङ्क्यम्। "निपाता आद्युदात्ताः"(फिoसूo80)इत्येव सिद्धेऽभेः प्रतिषेधमात्रार्थं तत्सूत्रारम्भादिति हरदत्तादयः। अत एव नाभिरित्येव सूत्र्यताम्। मास्तु वा तदपि, एवादिषु अभेः सुपठत्वादित्यवोचाम्। एवञ्च "तप्पर्वमरुद्भ्याम्" इति मरुतशब्दव्युत्पादने उपायान्तरं बोध्यम्। तत्र च तपः पित्त्वमेव सम्यक्। तन्निति नित्त्वपाठस्तु क्वाचित्कः प्रामादिकः। अन्यथा मरुत्तशब्दस्याद्युदात्ततापत्तौ प्रकृतसूत्रस्थकैयटादिविरोधापत्तेः। मत्वर्थीयप्रकरणे तनो नित्त्वं मरुत्तशब्दस्याद्युदात्तनां चावलम्ब्य प्रवृत्तो हरदत्तग्रन्थस्तु चिन्त्यः। "पर्वतश्चिन्महि वृद्धो विभाषा" इत्यादौ पठ्यमानं पर्वतशब्दस्याद्युदात्तत्वं तु द्वेधापि सिध्यति। "नब्विषयस्यानिसन्तस्य"(फिoसूo26)इति पर्वतशब्दस्याद्युदात्तत्वात्।
श्रच्छब्दस्याङ्‌विधावुपसङ्ख्यानम्।। श्रद्धा। भिदादिपाठात्प्रज्ञाश्रद्धेतिनिपातनाद्वा सिद्धम्।
अन्तःशब्दस्याङ्किविधिणत्वेषूपसङ्ख्यानम्।। एतच्च "अन्तरपरिग्रहे"(अष्टाoसूद1-4-65)इत्यत्र भाष्ये स्थितम्। अन्तर्धा। अन्तर्द्धिः। ञ्च "अन्तरदेशे"(अष्टाoसूo8-4-24)इति न कर्तव्यम्। देशे तु क्षुभ्नादित्वाण्णत्वाभावः। अयनं चेत्यपि न कर्तव्यं "कृत्यचः"(अष्टाoसूo8-4-29)इति सिद्धेः। देशे तु क्षुभ्नादिना बोध्येति कैयटः। देशे निषेधार्थं सूत्रद्वयमिति तु हरदत्तः। पक्षद्वयेऽपि `अन्तर्णयति' `अन्तर्भवाणि' इत्यादौ यथायथं णत्वं बोध्यम्।
सुदुरोः प्रतिषेधो नुम्विधितत्वषत्वणत्वेषु।। सुलभं। दुर्लभम्। "उपसर्गात्खल्घञोः"(अष्टाoसूo7-1-60)इति नुम्। न एतच्च प्रयोजनमापाततः "नसुदुर्भ्या केवलाभ्याम्"(अष्टाoसूo7-1-68)इति सूत्रस्यावश्यारभ्यत्वात्। अन्यथा `अतिसुलभम्' इत्यत्र नुम् न स्यात्। तत्त्वं-सुदत्तम्। "अच उपसर्गात्"(अष्टाoसूo7-4-47)इति तत्वं मा भूत्। षत्वं-दुःस्थितिः। प्रक्रियाजालदुःस्थम्। सुसिक्तम्। सुस्तुतम्। "सुःपूजायाम्"(अष्टाoसूo1-4-94)इति तु कर्तव्यमेव पूजायामिति विशेषणार्थम्। तेन`सुषिक्तं किं तवात्र' इत्यादौ षत्वं भवत्येव। कथं तर्हि-
फलवद्भावनोद्‌भूतकथम्भावतिरोहिताः।
नैवाङ्गानां कथं भावाः प्रादुष्यन्ति कथं च न।। इति?
सत्यम्, नेदमुपसर्गत्वप्रयुक्तं किन्तु "उपसर्गप्रादुर्भ्याम्"(अष्टाoसूo8-3-87)इत्यत्र पृथग्ग्रहणप्रयुक्तम्। एतेन `प्रादुष्यन्ति' इति पठित्वा प्र आङ् दुस् इत्युपसर्गत्रिकपूर्वस्य स्यतेः "उपसर्गात्सुनोति"(अष्टाoसूo8-3-65)इत्यादिना षत्वमिति व्याचक्षाणाः परास्ताः, दुर उपसर्गतायाः षत्वविधौ निषेधात्, स्यतेर्थस्य प्रकृतासम्बन्धाच्च। णत्वम्। दुर्नीतम्। दुर्नयः। एतेन "दुरः परस्य णत्वं न" इति केचिदिति पठित्वा सिद्धान्ते णत्वमिति भ्राम्यन्तः परास्ताः।
गतिसंज्ञायां कारिकाशब्दस्योपसङ्ख्यानम्।। कारिकाकृत्य। कारिकाकृतम्। यत्कारिकाकरोति। "तिङि चोदात्तवति(अष्टाoसूo8-1-71)इति गतेर्निघातः। निपातत्वादव्ययत्वे सति विभक्तेर्लुक्। कारिका क्रिया। मर्यादास्थितिरित्यर्थः। यत्न इत्यपरे। "धात्वर्थनिर्द्देशे" इति ण्वुल्। यस्तु कर्तरि ण्वुलन्तः कारिका दासीति, यश्च श्लोकवाची, तयोर्नेह ग्रहणम्, क्रियायोगइति कारिकाशब्दस्य विशेषणात्। क्रिया वृत्तेरेव ग्रहणात्।
पुनश्चनसौ छन्दसि गतिसंज्ञाविति वक्तव्यम्।। पुनराधेयम्। गतित्वात्समासः। कृदुत्तरपदप्रकृतिस्वरेम "यतोऽनावः"(अष्टाoसूo6-1-213)इति धेशब्द उदात्तः। पुनरुत्स्ूतं वासः। इहापि गतित्वात्समासः। स्वरस्तु प्रवृद्धादेराकृतिगणत्वादन्तोदात्तत्वम्। काठकेह्यन्तोदात्तः पठ्यते। शेषनिघातेन पुनःशब्दोऽनुदात्तः। "गतिर्गतौ"(अष्टाoसूo8-1-70)इति निघातं वदन् वृत्तिकारस्तु परत्वात्तस्य न्याय्यतां मन्यते। चनीहितः।। "चायरन्ने ह्रस्वश्च"(उoसूo639)इत्यसुन्नन्तत्वान्निपातत्वाद्वाऽऽद्युदात्तस्य चनःशब्दस्य "गतिरनन्तरः"(अष्टाoसूo6-1-49)इति प्रकृतिस्वरः।
ऊर्यादिच्विडाचश्च(अष्टाoसूo1-4-49)। एते गतिसंज्ञाः स्युः क्रियायोगे। कृभ्वस्तियोगे च्विडाचौ विहितौ। तत्साहचर्याद्रूपादयोऽपि तद्योगे एव प्रयुज्यन्ते नान्यत्र, अनभिदानाच्च। तत्राप्याविःप्रादुःशब्दौ मुक्त्वाऽन्येषां करोतिनैव योग इति माधवादयः। यद्यपि संज्ञाविधौप्रत्ययग्रहणे तदन्तविधिर्नास्ति तथापीह सामर्थ्यात् च्विडाजन्तग्रहणम्। न हि प्रत्ययमात्रस्य क्रियायोगः संभवति, स्वार्थिकत्वेनानर्थकत्वात् च्वेरश्रावित्वाच्च। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य।
इहेमवदेयम्। श्रौषडादीनां स्वाहान्तानां चादिष्वपि पाठादक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात्कृञो योगे विकल्पः। भ्वस्तियोगे त्वनेन नित्यमिति। कथं तर्हि-
वारुणीमदविशंकमताविश्वविश्वक्ष्युषोभवदसाविव।
इति माघः?
अभवद्युगमद्विलोलोजिव्हायुगलीटोभयस्टक्वभागमाविः।
इति च? निरङ्कुशाः कवय इति हरदत्तः। वस्तुतस्तु नेह दोषलेशमपि पश्यामः। तथाहि, गतित्वाद्धातोः प्राक् प्रयोगः प्राप्नोतीति त्वदीयपूर्वपक्षसर्वस्वम्। तच्च भाष्यवार्तिकयेरेव निराकृतप्रायम्। "तेप्राग्धातोः"(अष्टाoसूo1-4-80)इति सूत्रं हि द्वेधा व्याख्यातं-प्रयोगनियमार्थं संज्ञानियमार्थं चेति। तत्रान्त्यपक्षे प्राक् चाक्राक् च प्रयोक्तव्याः, प्राक्तु प्रयुज्यमानाः संज्ञां लभन्ते इति स्थितम्। इममेव च पक्षमाश्रित्य "अनुकरणं च"(अष्टाoसूo1-4-62)इति सुत्रेऽनितिपरमिति प्रत्याख्यातम्। एवमेव "छन्दसि परेऽपि"(अष्टाoसूo3-3-127)इति सूत्रे `स्वायम्भवम्' इति भाष्यवृत्तिग्रन्थौ, च्व्यर्थयोः किम्? स्वाढ्येन भूयत इति वृत्तिग्रन्थश्च सङ्गच्छते। एतेन वृत्तेः प्रामादिकतां वदन् `आढ्येन सुभूयते' इति पाठः कर्तव्य इति शिक्षयन् हरदत्तोऽप्यपास्तः "पक्षान्तरैरपि परिहारा भवन्ति" इति न्यायेन संज्ञानियमपक्षे सर्वस्य सामञ्जस्यात्। एतेन-
पुरोरामस्य जुहवाञ्चकार ज्वलने वपुः।
इति भट्टिः। "तस्य स्थित्वा कथमपि पुरः" इति कालिदासश्च समर्थितः। न च "पुरोऽव्ययम्"(अष्टाoसूo1-4-67)इत्यस्य कृञ्मात्रविषयत्वमिति भ्रमितव्यम्, कृञोऽनधिकारात् `तुरासाहं पुरोधाय' इत्यादिप्रयोगाच्चेति दिक्।
जरी ऊरी उररी एते त्रयोङ्गीकारे विस्तारे च। विताली भूसी एतौ विस्तारे। शकला स्रंसकला ध्वंसकला भ्रंसकला एते चत्वारो हिंसा याम्। शकला कृतेत्यादि। हिंसित्वेत्यर्थः। गुलुगुधा पीडार्थे। गुलुगुधाकृत्य। पीडयित्वेत्यर्थः। सजूः सहार्थे। फलफलो चिक्ली आक्ली एते विकारे। अलोष्टी केवली सेवाली शेवाली वर्षाली मसमसा भस्मसा एते हिंसायाम्। वषट् वौषट् स्वाहा स्वधा पांपी करुणाविलापे। पापीकृत्य। करुणं विलप्येत्यर्थः। प्रादुः प्राकट्ये। श्रत् शीघ्रार्थे। श्रत्कृत्य। आविः प्राकट्ये। आविष्कृत्य। गणरत्ने त्वन्येऽपि सङ्गृहीताः। तथाहि, पापाली सङ्कला केवासी एते हिंसायाम्। वार्दाली यार्दाली आलम्बी एते प्राकाश्ये हिंसायां च। इत्यूर्यादयः।
(अष्टाoसूo1-4-62)
अनुकरणञ्चानितिपरम्(अष्टाoसूo1-4-62)। गतिः स्यात्क्रियायोगे। खाट्कृत्य। अनितिपरं किम्? खाडिति कृत्वा निरष्ठीवत्। सति हि गतित्वे प्रयोगनियमपक्षे धातोः प्राक् प्रयोगः स्यात्। अनुकरणत्वजात्याक्रान्तस्येतिशब्दे परेऽयं निषेधः। तेन `श्रौषड्वोषडितिकृत्वा निरष्ठीवत्' इत्यत्र श्रौषट्शब्दस्यापि निषेधः। संज्ञानियमपक्षे तु अनितिपरग्रहणं न कर्तव्यमिति, परस्परसंज्ञाप्राप्तेरेवाभावात्।
(अष्टाoसूo1-4-63)
आदरानादरयोः सदसती(अष्टाoसूo1-4-63)। क्रमाद् गतिसंज्ञे स्तः। सत्कृत्य। असत्कृत्य। प्रीतिपूर्विका प्रत्युत्थानादिविषया त्वराऽऽदर-। अवज्ञया प्रत्युत्थानादावुपेक्षा त्वनादरः। एतयोः किम्? स त्कृत्वा। असत्कृत्वा। शोभनमशोभनं च कृत्वेत्यर्थः।
(अष्टाoसूo1-4-64)
भूषणेऽलम्(अष्टाoसूo1-4-64)। गतिसंज्ञं स्यात्। अलंकृत्य। भूषणे किम्? अलंकृत्वौदनं गतः। पर्याप्तमित्यर्थः। "अनुकरणम्"(अष्टाoसूo1-4-62)इत्यादयस्त्रयो योगाः स्वभावात्कृञ्‌विषया इति माधवः।
(अष्टाoसूo1-4-65)
अन्तरपरिग्रहे(अष्टाoसूo1-4-65)। स्पष्टम्। अन्तर्हत्य। मध्ये हत्वेत्यर्थः। अपरिग्रहे किम्? अन्तर्हत्वा मूषिकां श्येनो गतः। परिगृह्य गत इत्यर्थः।
अत्रेदमवधेयम्। हत्वागमनं द्विधा। हतं त्यक्त्वा परिगृह्य चेति। आद्यमुदाहरणम्। द्वितीयं प्रत्युदाहरणम्। अपरिग्रहे इति च प्रयोगोपाधिर्न तु वाच्यकोटिनिविष्टमिति।
(अष्टाoसूo1-4-66)
कणेमनसी श्रद्धाप्रतीधाते(अष्टाoसूo1-4-66)। गती स्तः। कणेहत्य पयः पिबति। मनोहत्य। कणेशब्दः सप्तमीप्रतिरूपको निपातोऽभिलाषातिशये वर्तते। मनःशब्दोऽप्येवम्। अतिशयेनाभिलष्या तन्निवृत्तिपर्यन्तं पिबतीत्यर्थः। ततश्च श्रद्धाया अपगमात्तत्प्रतीघातो धातुग तिसमुदायगम्यः। श्रद्धाप्रतीघाते किम्? कणेहत्वा गतः। णनोहत्वा। सूक्ष्मतण्डुलावयवः कणस्तस्मिन् हत्वेत्यर्थः। मनःशब्दस्तु चेतसि।
(अष्टाoसूo1-4-67)
पुरोऽव्ययम्(अष्टाoसूo1-4-67)। "पूर्वाधरावराणाम्"इति व्युत्पादितोऽसिप्रत्ययान्तोऽव्ययं तथाभूतः पुरःशब्दो गतिसंज्ञः स्यात्। पुरस्कृत्य। "नमस्पुरसोः"(अष्टाoसूo8-3-40)इति सत्वम्। अव्ययं किम्? पूः पुरौ पुरः कृत्वा।
(अष्टाoसूo1-4-68)
अस्तञ्च(अष्टाoसूo1-4-68)। अस्तमिति मान्तमव्ययं गतिसंज्ञं स्यात्। अस्तङ्गत्य। अव्ययमित्येव। अव्ययमित्येव। अस्तं काण्डम्। क्षिप्तमित्यर्थः।
(अष्टाoसूo1-4-69)
अच्छगत्यर्थवदेषु(अष्टाoसूo1-4-69)। अव्ययमित्येव। अच्छगत्य। अच्छोद्य। अभिगत्य। अभिमुखमुक्त्वा चेत्यर्थः। अव्ययं किम्? जलमच्छं गच्छति।
(अष्टाoसूo1-4-70)
अदोऽनुपदेशे(अष्टाoसूo1-4-70)। अदःशब्दस्त्यदादिः सोऽनुपदेशे गतिः स्यात्। अदःकृत्य। अदःकृतम्। यदा स्वयमेवेत्थं पर्यालोचयति तदेदमुदाहरणम्। अनुपदेशे किम्? परं प्रति कथने माभूत्। अदः कृत्वा गतः।
(अष्टाoसूo1-4-71)
तिरोन्तर्धौ(अष्टाoसूo1-4-71)। तिरोभूय। अन्तर्धौ किम्? तिरोभूत्वा स्थितः। पार्श्वतो भूत्वेत्यर्थः।
(अष्टाoसूo1-4-72)
विभाषा कृञि(अष्टाoसूo1-4-72)। प्राप्तविभाषेयम् "तिरोन्तर्धौ"(अष्टाoसूo1-4-71)इत्यनुवृत्तेः। तिरःकृत्तेः। तिरःकृत्य। तिरस्कृत्य। "तिरसोऽन्यतरस्याम्"(अष्टाoसूo8-3-42)इति वा सत्वम्। प्रत्युदाहरणे तु न सत्वम्, तद्विधौ गतिग्रहणानुवृत्तेः। तिरः कृत्वा काष्ठम्। केचित्त्विहापि सत्वमिच्छन्तः पराभवे तिरस्कारशब्दप्रयोगं चानुरुन्धानाः सत्वविधौ गतिग्रहणं निवर्तयनतीति माधवः।
(अष्टाoसूo1-4-73)
उपाजेऽन्वाजे(अष्टाoसूo1-4-73)। एतौ कृञि वा गतिसंज्ञौ स्तः। विभक्तिप्रतिरूपकौ निपाताविमौ दुर्बलस्य सामर्थ्याधाने वर्तेते। उपाजेकृत्य। उपाजेकृत्वा। अन्वाजेकृत्य। अन्वाजेकृत्वा। उपष्टभ्येत्यर्थः।
(अष्टाoसूo1-4-74)
साक्षात्प्रभृतीनि च(अष्टाoसूo1-4-74)। एतानि कृञि वा गातिसंज्ञानि स्युः। च्व्यर्थ इति वक्तव्यम्।। साक्षात्कृत्य। साक्षात्कृत्वा। असाक्षाद्‌भूतं साक्षात्क्रियते चेत्तदाऽयं प्रयोगः, न तु साक्षाद्‌भूतस्यैव रूपान्तरापादाने। च्व्यन्तेषु तु पूर्वविप्रतिषेधाद् "ऊर्यादिच्वि"(अष्टाoसूo1-4-61)इति नित्यैव संज्ञा। तेन `लवणीकृत्य' इत्यत्र मान्तत्वं न भवति। तद्विकल्पसन्नियोगेनेह गणे निपात्यते। यद्वा, लवणशब्दस्य लवणमिति मान्त् आदेशः। तथाच मास्तु पूर्वविप्रतिषेधः। त्रैशब्द्यं हि नः साध्यम्-लवणंकृत्य लवणंकृत्वा लवणीकृत्येति। तत्र च्व्यन्ताचव्यन्तयोः पाक्षिके लवणमादेशे समं रूपम्। परेणापि विकल्पेन मुक्ते तु च्व्यन्तस्य नित्या संज्ञेति न कश्चिद्दोषः। इहाग्नौ वशेप्रभृतयो विभक्तिप्रतिरूपका निपाताः। प्रादुराविःशब्दयोरूर्यादित्वात्प्राप्ते विभाषा। साक्षात् मिथ्या चिन्तेति मनोव्यापारे। चिन्ताकृत्य। भद्रा आलोचनाप्रशंसामङ्गलेष्वयम्। रोचनेतीतिश्रद्धोत्पादे प्रशंसायां च। अमेति रहःसाहित्ययोः। आस्था श्रद्धा। प्राजर्यावी जर्या जरणक्रियायाम्। प्राजरुहा बीजरुहेति रुहिक्रियायाम्। लवणम्। उष्णम्। शीतम्। उदकम्। आर्द्रम्। लवणादीनां पञ्चानां गतिसंज्ञासन्नियोगेन मान्तत्वं निपात्यते मान्तादेशो वेत्युक्तम्। अग्नौ वशे विकम्पने विकसने प्रहसते सन्तपने। प्रादुस् नमस् आविस्। आकृतिगणोऽयम्।
(अष्टाoसूo1-4-75)
अनत्याधान उरसिमनसी(अष्टाoसूo1-4-75)। एतौ निपातौ कृञि वा गतिसञ्ज्ञौ स्त-। उरसिकृत्य। उरसिकृत्वा। अभ्युपगम्येत्यर्थः। मनसिकृत्य। मनसिकृत्वा। निश्चित्येत्यर्थः। अत्याधानमुपश्लेषः। चत्र न। उपसिकृत्वा पाणिं शेते।
(अष्टाoसूo1-4-76)
मध्येपदेनिवचने च(अष्टाoसूo1-4-76)। एते त्रयः कृञि गतिसञ्ज्ञा वा स्युरनत्याधाने। मध्येकृत्य। मध्येकृत्वा। पदेकृत्य। पदेकृत्वा। एदन्तावेतौ निपातौ। निवचनं वचनाभावः। अस्याविशेषेण एदन्तता निपात्यते न तु सञ्ज्ञासन्नियोगेन, व्याख्यानात्। निवचनेकृत्य। निवचनेकृत्वा वाचं नियम्येत्यर्थः। अनत्याधाने किम्? हस्तिनः पदे कृत्वा शिरः शेते।
(अष्टाoसूo1-4-77)
नित्यं हस्ते पाणावुपयमने(अष्टाoसूo1-4-77)। एतौ निपातौ कृञि नित्यं गतिसञ्ज्ञौ स्त उपयमने। दारकर्मणीत्येके। स्वीकारमात्र इत्यन्ते। हस्तेकृत्य पाणौकृत्य कन्यां महास्त्रीणि वा। उपयमने किम्? हस्तेकृत्वा सुवर्मं गतो भृत्यः।
(अष्टाoसूo1-4-78)
प्राध्वम्बन्धने(अष्टाoसूo1-4-78)। प्राध्वमिति चादिषु पाठान्मान्तमव्ययमानुकूल्ये वर्तते। तत्कृञि नित्यं गतिसञ्ज्ञं स्याद्बन्धनहेतुकं चेदानुकूल्यम्। प्राध्वंकृत्य। बन्धने किम्? बन्धने किम्? प्राध्वंकृत्वा। प्रार्थनादिनानुकूलं कृत्वेत्यर्थः।
(अष्टाoसूo1-4-79)
जीविकोपनिषदावोपम्ये(अष्टाoसूo1-4-79)। कृञि नित्यं गतिसञ्ज्ञौ स्तः। जीवयतीति जीविका जीवनोपायः। जीविकामिव कृत्वा जीविकाकृत्य। उपनिषदमिव कृत्वा उपनिषत्कृत्य। गतिसमासस्य नित्यत्वेऽपि स्वार्थमात्रनिष्ठत्वादगतिना विग्रहः। अत एव तत्र इवशब्दप्रयोगः। औपम्ये किम्? जीविकां कृत्वा।
(अष्टाoसूo1-4-80)
ते प्राग्धातोः(अष्टाoसूo1-4-80)। ते गतिसञ्ज्ञा धातोः प्रागेव प्रयोज्याः।
(अष्टाoसूo1-4-81)
छन्दसि परेपि(अष्टाoसूo1-4-81)।
(अष्टाoसूo1-4-82)
व्यवहिताश्च(अष्टाoसूo1-4-82)।स्पष्टम्। हरिभ्यां याह्योक आ। आमन्द्रैरिन्द्र हरिभिर्याहि। इह सञ्ज्ञानियमपक्षोऽपि भाष्ये स्थितः, ते इत्यनेन प्रादीनुपनिषत्पर्यन्तात् स्वरूपेण परामृश्य धातोः प्राक् प्रयुक्तानामेषां पूर्वसूत्रैकवाक्यतया सञ्ज्ञाविधानात्। अस्मिंश्च पक्षे 'छन्दसि परेऽपि" इति सूत्रद्वयम् अनितिपरग्रहणं च न कर्त्तव्यमिति स्थितम्। सुकटङ्कराणीति भाष्यं च सङ्गच्छते। प्रयोगनियमपक्षे तु 'कृत्यल्युटः"(अष्टाoसूo3-3-113)इति बहुलग्रहणेन समर्थनीयं स्यात्। यत्तु खलः खित्करणसामर्थ्यादनव्ययस्य प्राक् प्रयोगे निर्णिते सोः परिशेषाद्व्यवधानं सिध्यतीति। तच्चिन्त्यम्, सामर्थ्याद्व्यवहिते मुमः सम्भवात् कृद्ग्रहणे गतिपूर्वस्यापि ग्रहणाच्च ईषच्छब्दस्यागतिसञ्ज्ञकतया `ईषदाढ्यम्भवः' इत्यत्र खलः खित्त्वस्योपक्षीणत्वाच्चेति दिक्। धातोः किम्? प्रकर्तुमैच्छत् प्राचिकीर्षदित्यत्र सनः प्राक् प्रयोगो मा भूत्।
(अष्टाoसूo1-4-83)
कर्मप्रवचनीयाः(अष्टाoसूo1-4-83)। रीश्वरात्प्रागिदमधिक्रियते। कर्म क्रियां प्रोक्तवन्तः कर्मप्रवचनीयाः बाहुलकात्कर्तर्यनीयर्, स च भूते। तेन सम्प्रति क्रियां न द्योतयन्तीति लभ्यते। आह च-
क्रियाया द्योतको नायं सम्बन्धस्य न वाचकः।
नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः।। इति ।
तथाहि, शाकल्यस्य संहितामनुप्रवर्षदित्यत्रानुना न क्रियाविशेषो द्योत्यते। अनुभूयते सुखमित्यादौ यथा। नापि षष्ठ्येव सम्बन्ध उच्यते, द्वितीययैव तस्योक्तत्वात्। नापि प्रादेशं विपरिलिखति विमाय परिलिखतीत्यत्र विशब्देन मानक्रियेव क्रियान्तरमाक्षिप्यते, काकरविभक्तिप्रसङ्गात्। किन्तु संहितासम्बन्धिवर्षणमिति द्वितीयावगतः सम्बन्धो लक्ष्यलक्षणभावरूप एवेत्यवगमात्सम्बन्ध एवानुना विशेषऽवस्थाप्यते। क्वचित्तु क्रियागतविशेषद्योतकेऽपीयं सञ्ज्ञा वचनात्प्रवर्तते। "सुः पूजायाम्"(अष्टाoसूo1-4-94)"अतिरतिक्रमेण च"(अष्टाoसूo1-4-95)इति यथा।
(अष्टाoसूo1-4-84)
अनुर्लक्षणे(अष्टाoसूo1-4-84)। लक्षणे द्योत्येऽनुः कर्मप्रवचनयिसञ्ज्ञः स्यात्। "लक्षणेत्थम्भूत"(अष्टाoसूo1-4-90)इत्यादिना सिद्धे हेतौ तृतीयां बाधितुमिदं सूत्रम्। तथाहि, लक्षणे कर्मप्रवचनीयसञ्ज्ञाया अवकाशः-यो न हेतुः, `वृक्षमनुविद्योतते विद्युत्' इति। हेतुतृतीयाया अवकाशः-`धनेन कुलम्' इति। `संहितामनुप्रावर्षत्' इत्यत्र तु हेतूभूतसंहितोपलक्षितं वर्षणमित्यर्थाद्धेतुभूते लक्षणे परत्वात्तृतीया स्यात्। पुनः सञ्ज्ञाविधानसामर्थ्यात्तुं द्वितीयैव भवति। आह च-
हेतुहेतुमतोर्योगपरिच्छेदेऽनुना कृते।
आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा।। इति।
न च 'तृतीयार्थे'(अष्टाoसूo1-4-85)इति सूत्रेण गतार्थता शङ्क्या। तस्य पुरस्तादपवादन्यायेन "सहयुक्तेऽप्रधाने"(अष्टाoसूo2-3-19)इत्येतन्मात्रबाधकत्वात्।
(अष्टाoसूo1-4-85)
तृतीयार्थे(अष्टाoसूo1-4-85)। अस्मिन् द्योत्येऽनुरुक्तसंज्ञः स्यात्। नदीमन्ववसिता सेना। नद्या सह सम्बद्धेत्यर्थः। 'षिञ् बन्धने"(स्वाoउo1248)अस्मात्कर्तरि क्तः।
(अष्टाoसूo1-4-86)
हीने(अष्टाoसूo1-4-86)। हीने द्योत्येऽनुः प्राग्वत्। अनु हरिं सुराः। हरिप्रतियोगिकापकर्षरूपसम्बन्धवन्त इत्यर्थः। उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावात्।
(अष्टाoसूo1-4-87)
उपोऽधिके च(अष्टाoसूo1-4-87)। अधिके हीने च द्योत्ये उपः प्रक्संज्ञः। उपखार्थां द्रोणः। खारीतोऽधिको द्रोणोऽस्ति। उभयमस्तीति फलितोऽर्थः। "यस्मादधिकम्"(अष्टाoसूo2-3-9)इति सप्तमी। हीने-उपहरिं सुराः।
(अष्टाoसूo1-4-88)
अपपरी वर्जने(अष्टाoसूo1-4-88)। एतौ वर्जने द्योत्ये प्राग्वत्। अपविष्णोः परिविष्णोः संसारः। "पञ्चम्यपाङ्परिभिः"(अष्टाoसूo2-3-10)इति पञ्चमी। 'परेर्वर्जने"(अष्टाoसूo8-1-5)इति द्विर्वचनम्। तद्धि पञ्चमीसहितेन कर्मप्रवचनीयेन द्योतितेऽपि वर्जने भवत्येव, उभयोरपि विधानसामर्थ्यात्। वर्जने किम्? परिषिञ्चति। सर्वत इत्यर्थः। अत्रोपसर्गत्वात्षत्वम्।
(अष्टाoसूo1-4-89)
आङ् मर्यादावचने(अष्टाoसूo1-4-89)। आङ् प्राग्वत् मर्यादाशब्दो यस्मिन्सूत्रे उच्यते तत्रत्यश्चेत्। "आङ्मर्यादाभिविध्योः"(अष्टाoसूo2-1-13)इत्यत्रोपात्तो द्व्यर्थ इत्यर्थः। आमुक्तेः संसारः। आबालेभ्यो हरिभक्तिः।
(अष्टाoसूo1-4-90)
लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः(अष्टाoसूo1-4-90)एषवर्थेषु विषयभूतेषु प्रत्यादय उक्तसंज्ञाः स्युः। लक्षणे-व़क्षं प्रति परि अनु वा विद्योतते विद्युत्। कञ्चित्प्रकारं प्राप्त इत्थंभूतस्तदाख्याने यथा-साधुर्देवदत्तो मातरं प्रति पर्यनु वा। भागे-यदत्र माम्प्रति स्यात्, परिस्यात्, अनुस्यात्। योऽत्र मम भागः स दीयतामित्यर्थः। स्वस्वामिभावो द्वितीयाऽर्थः। वीप्सा प्याप्तुमिच्छा साकल्यप्रतिपिपादयिषेति यावत्। भूतंभूतं प्रति पर्यनु वा प्रभुः। सकलभूतानामित्यर्थः। न च "इत्थंभूताख्याने'(अष्टाoसूo1-4-9)इत्येव सिद्धम्। इदं तर्ह्युदाहरणं-वृक्षंवृक्षं प्रतिसिञ्चति, परिसिञ्चति, अनिसिञ्चति। इह वीप्सा द्विर्वचनेनैव द्योत्यते। परिशब्दस्तु क्रिययैव सम्बध्यते। न चैवन्तस्य कर्मप्रवचनीयत्वं न स्यादिति वाच्यं वीप्साया विषयत्वानपायात्। अत एव वीप्सायां विषयभूतायामिति वृत्तिग्रन्थमवतारयन्हरदत्त आह-एते च लक्षणादयो यथा विभक्तिसमीपादयोऽव्ययार्थाः, नैवं प्रत्यादीनामर्थाः किन्तर्हि संज्ञायां प्रत्यादीनां विषयत्वेन निर्द्दिष्टा इत्याहेति। द्वितीया तु कर्मणि। कर्मप्रवचनीयसंज्ञा तूपसर्गत्वनिवृत्त्यर्थः। तेन "उपसर्गात्सुनोति'(अष्टाoसूo8-3-65)इति षत्वं न। परिशब्दयोगे पञ्चमी तु न भवति "पञ्चम्यपाङ्"(अष्टाoसूo2-3-10)इत्यत्र वर्जनार्थेनापेत्यनेन साहचर्यात्।
(अष्टाoसूo1-4-91)
अभिरभागे(अष्टाoसूo1-4-91)। भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात्। वृक्षमभिविद्योतते। साधुर्मातरमभि। वृक्षमभिसिञ्चति। अभागे किम्? यदत्र ममाभिष्यात्तद्दीयताम्।
(अष्टाoसूo1-4-92)
प्रतिः प्रतिनिधिप्रतिदानयोः(अष्टाoसूo1-4-92)। उक्तसंज्ञः स्यात्। अभिमन्युरर्जुनात् प्रति। तस्य प्रतिनिधिरित्यर्थ-। तिलेभ्यः प्रतियच्छति माषान्। "प्रतिनिधिप्रतिदाने च यस्मात्"(अष्टाoसूo2-3-11)इति पञ्चमी।
(अष्टाoसूo1-4-93)
अधिपरी अनर्थकौ(अष्टाoसूo1-4-93)। उक्तसंज्ञौ स्तः। कुतोऽध्यागच्छति। कुतः पर्यागच्छति। इहाधिकार्थविरहादनर्थकत्वमधिपर्योः, धात्वर्थमात्रानुवर्तित्त्वात्तु प्राप्ता गतिसंज्ञा। तद्वाधः संज्ञाफलम्। तेन "गतिर्गतौ"(अष्टाoसूo8-1-70)इति निघातो न भवति।
(अष्टाoसूo1-4-94)
सुः पूजायाम्(अष्टाoसूo1-4-94)। सुसिक्तम्। सुस्तुतम्। अनुपसर्गत्वान्न षः। पूजायां किम्? सुषिक्तं किन्तवात्र। क्षेपोऽयं, न पूजा। कथं तर्हि सुष्टुतिरिति? अतिशयमात्रं विवक्षितं न तु पूजेत्याहुः। पठन्ति च-
प्रशंसानुमते पूजा भूशकृछ्रसुखेषु सुः। इति।
(अष्टाoसूo1-4-95)
अतिरतिक्रमणे च(अष्टाoसूo1-4-95)। अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात्। अतिक्रमणमुचितादधिकस्यानुष्ठानम्। अतिसिक्तम्। अतिस्तुतम्। बहुतरं समीचीनं वा सिक्तं स्तुतञ्चेत्यर्थः।
(अष्टाoसूo1-4-96)
अपिः पदार्थस्मभावनान्ववसर्गगर्हासमुच्चयेषु(अष्टाoसूo1-4-96)। एषु द्योत्येष्वपिरुक्तसंज्ञः। सर्पिषोऽपि स्यात्। प्रार्थनायां लिङ्। तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते। अनुपसर्गत्वान्न षः। सर्पिष इति षष्ठी तु अपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे। इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम। कर्मप्रवचनीययुक्ते द्वितीया तु नेह प्रवर्तते, सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात्। सम्भावनं नाम शक्त्युत्कर्षमाविष्कर्त्तुमत्युक्तिः। अपिसिञ्चेन्मूलसहस्रम्। अपिस्तुयाद्विष्णुम्। अन्ववसर्गः कामचारानुज्ञा। अपिसिञ्च। अपिस्तुहि। गर्हायाम्-धिग्देवदत्तमपिस्तुयाद्वृषलम्। समुच्चयेःअपिसिञ्च। अपिस्तुहि। सिञ्च च स्तुहि चेत्यर्थः। यथायथम् "उपसर्गप्रादुर्भ्याम्'(अष्टाoसूo8-3-87)इति "उपसर्गात्सुनोति"(अष्टाoसूo8-3-65)इति च प्राप्तं षत्वं कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधितत्वान्न भवति।
(अष्टाoसूo1-4-97)
अधिरीश्वरे(अष्टाoसूo1-4-97)। स्वस्वामिभावे द्योत्येऽधिः कर्मप्रवचनीयः स्यात्। इह स्वात्स्वामिनो वा पर्यायेण कर्भप्रवचनीय विभक्तिर्न तु "हीने"(अष्टाoसूo1-4-86)"उपोऽधिके च'(अष्टाoसूo1-4-87)इत्यत्रेवान्यतरस्मादेव। अधिभूवि रामः। अधिरामे भूः। एतच्च संज्ञासूत्रं नारम्भणीयम्। उत्तरार्थत्वे तु योगो न विभजनीय इति "यस्मादधिकम्"(अष्टाoसूo2-3-9)इत्यत्र वक्ष्यामः।
(अष्टाoसूo1-4-98)
विभाषा कृञि(अष्टाoसूo1-4-98)। अधिः करोतौ प्राक्संज्ञो वा स्यात्। ईश्वर इत्यनुंवर्तते। प्राप्तविभाषेयम्। यदत्र मामधिकरिष्यति। विनियोक्ष्यते इत्यर्थः। इह विनियोक्तुरीश्वरत्वं गम्यते। कर्मत्वाद् द्वितीया। इह "तिङि चोदात्तवति"(अष्टाoसूo8-1-71)इति निघातो न, गतिसंज्ञाया बाधितत्वात्। किञ्च `मामधिकृत्वा' इत्यत्र प्रादिसमासो न, कर्मप्रवचनीयानां प्रतिषेध उत्युक्ते-। पक्षे `अधिकृत्य' इति बोध्यम्।
(अष्टाoसूo1-4-99)
लः परस्मैपदम्(अष्टाoसूo1-4-99)। लकारस्यादेशाः परस्मैपदसंज्ञाः स्युः। पचन्तं पश्य।
(अष्टाoसूo1-4-100)
तङानावात्मनेपदम्(अष्टाoसूo1-4-100)। तङ्प्रत्याहारो लादेसावानौ च तत्संज्ञाः स्युः। पूर्वसंज्ञापवादः। आस्ते। आसीनः। चक्राणः। शानच्‌कानचोरेवेह ग्रहणं लादेशत्वातः, न तु शानन्‌चानशोः। तेन पूङ्‌यजोः शानन् यजेरकर्तृगेपि फले भवति `रसमानसारसेन' इत्यादौ परस्मैपदिभ्योऽपि चानश्‌ भवति।
(अष्टाoसूo1-4-101)
तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः(अष्टाoसूo1-4-101)। कृतद्वन्द्वानामेकशेषात् प्रथमेत्यादयः षट् संज्ञाः तिङः षट् त्रिकाः क्रमात्प्रथमादिसंज्ञाः स्युः। शतृक्वस्वोः सावकाशाऽपि परस्मैपदसंज्ञा प्रथमादिसंज्ञाभिर्न बाध्यते "सिचिवृद्धिःपरस्मैपदेषु"(अष्टाoसूo7-2-1)इति लिङ्गात्। तथा परस्मैपदे लब्धावकाशाऽपि प्रथमादिसंज्ञा तङ्क्ष्वात्मनेपदसंज्ञया न बाध्यते कृतद्वन्द्वानामेकशेषेण तङ्क्षु प्रतिपदविधेरुक्तत्वात्। न चैवमपि परस्मैपदात्मनेपदसंज्ञाभ्यां पुरुषसंज्ञायाः पर्यायः स्यादिति वाच्यम्, "णलुत्तमोवा"(अष्टाoसूo7-1-21)इत्यस्य सामान्यापेक्षज्ञापकत्वात्। इह सूत्रत्रयेऽपि महासंज्ञाकरणं पूर्वाचार्यानुरोघात्। इह त्रीणित्रीणीत्येकं पदम्। द्वे वेति हरदत्तः। तत्र सत्यामप्यवान्तरपदसंज्ञायां महापदसंज्ञामाश्रित्य "संहितैकपदे नित्या" इत्यस्य प्रवृत्तेः। अन्यथा समासादावपि पृथक् छेदापत्तेः द्विरुक्तमध्ये पदान्तरप्रयोगापत्तेश्च। अत एव `ताता पिण्डानाम्' इत्यादौ वेदेऽवग्रहः क्रियते। यथा च द्विरुक्ते महापदसंज्ञाऽवान्तरसंज्ञा च तथा "नित्यवीप्सयोः"(अष्टाoसूo8-1-4)इत्यत्र वक्ष्यामः।
(अष्टाoसूo1-4-102)
तान्येकवचनद्विवचनबहुवचनान्येकशः(अष्टाoसूo1-4-102)। तानि लब्धपुरुषसंज्ञानि त्रीणित्रीणि एकशः क्रमेण एकवचनादिसंज्ञानि स्युः। तानीत्युक्तिः समावेशार्था। अन्यथा पुरुषवचनसंज्ञयोः पर्यायः स्यात्। ततश्च "आडुत्तमस्य"(अष्टाoसूo3-4-92)इत्यादिकार्यं पक्षे न प्रवर्तेत। एकश इति प्रथमान्ताद्वीप्सायां शस्।
(अष्टाoसूo1-4-103)
सुपः(अष्टाoसूo1-4-103)। सुपस्त्रीणित्रीणि क्रमादेकश उक्त संज्ञानि स्युः। इहान्वर्थतामाश्रित्य "द्व्येकयोर्द्विवचनैकवचने"(अष्टाoसूo1-4-22) "बहुषु बहुवचनम्'(अष्टाoसूo1-4-23)इति शक्यं त्यक्तुम्, एकवचनस्यौत्सर्गिकत्वेऽपि उपसर्जनकर्मप्रवचनीयादिसंज्ञावद्यथासम्भवमन्वर्थतायाः सुवचत्वात्।
(अष्टाoसूo1-4-104)
विभक्तिश्च(अष्टाoसूo1-4-104)। सुपिङौ विभक्तिसंज्ञौ स्तः। चकारः पुरुषवचनसंज्ञाभ्यां समावेशार्थ-। तिङां विभक्तिसंज्ञायाः प्रयोजनं "न विभक्तौ तुस्माः'(अष्टाoसूo1-3-4)इति, सुपां तु त्यदाद्यत्वादिकमपि।
(अष्टाoसूo1-4-105)
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः(अष्टाoसूo1-4-105)। लकारेण समानाधिकरणे युष्मदि प्रयुक्तेऽप्रयुक्तेऽपि मध्यमः स्यात्। त्वं पचसि दृश्यसे च। समानाधिकरणे किम्? त्वां पश्यति। त्वया दृश्यते। इह युष्मदि मध्यमोऽस्मद्युत्तम इत्येवास्तु युष्मद्यम्मदि च यो लकार इत्यर्थे सर्वसामञ्जम्यात्। यथा तु न कृतमित्येव। अत्वं त्वं भवति त्वद्भवतीत्यत्र तु न, मध्यमविकृतेरकर्तृत्वात्। प्रकृतिरेव हि विकाररुपापत्तौ कर्त्री। तथा च मन्त्रः "यदग्नेस्यामहं त्वं त्वंबाधास्याअहम्" इति। अहं त्वं स्याम्, त्वं वा अहं स्या इति प्रकृत्याश्रय एवेह पुरुषः।
स्यादेतत्। `भवान् करोति' इत्यत्रापि स्थानिन्यपीति मध्यमः स्यात्। अत्राहुः। अलिङ्गः सम्बोधनैकाविषयश्च युष्मदर्थः। सलिङ्गः सम्बोध्यासम्बोध्यसाधारणश्च भवदर्थ इति। न च युष्मदः सम्बोधनैकविषयत्वे ततः सम्बोधन एव प्रथमा स्यात्। ततश्च आमन्त्रिताद्युदात्तत्वं पदात्परत्वेन निघातश्च स्यादिति वाच्यम्, सम्बोधनस्य प्रातिपदिकार्थ एवान्तर्भावात्। "सम्बोधने च"(अष्टाoसूo2-3-47)इति सूत्रं हि सम्बोधनाधिक्यार्थमिति वक्ष्यते। यत्तु केचिदिष्टापर्त्तिं कुर्वाणाः पठन्तिसम्बोधनाधिक्यार्थमिति वक्ष्यते। यत्तु केचिदिष्टापत्तिं कुर्वाणाः पठन्ति-
सम्बोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते।
तथा सम्बोधने सर्वां प्रथमां युष्मदो विदुः।।
युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता।
युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ।। इति ।।
तन्न, उक्तन्यायविरोधात् लक्ष्यविरोधाच्च। दृश्यते हि पादादावप्यन्तोदात्तत्वं पदात्परत्वेऽप्यनिगातश्च। तद्यथा-युवं ह गर्भञ्जगतीषु धत्थः। यूयं यातस्वस्तिभिः। ह ये देवा यूयमिदापयः स्थ इति।
(अष्टाoसूo1-4-106)
प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च(अष्टाoसूo1-4-106)। मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात् परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात्। द्वयोर्बहुषु च मन्तुषु एकवचनमेव स्यादिति फलितोऽर्थः। एकवच्चेत्यन्वाचये चकारः। तेनैकवद्भावाभावेऽपि प्रधानशिष्टो मद्यमोत्तमौ स्त एव। सत्यप्योदने परिहासशीलः शालकादिः प्रतारयन्प्रयुङ्क्ते--एहि मन्ये ओदनं भोक्ष्यध्वे। ओदनं भोक्ष्ये भोक्ष्यावहे इत्यादि, मन्यसे मन्येथे इत्यादिरर्थः। युष्मद्युपपदे इत्याद्यनुवर्तते। तेनेह न-एतु भवान्मन्यते ओदनं भोक्ष्ये इति। श्यना निर्द्देशान्नेह-एहि मनुषे रथेन यास्यामिति। प्रहासे किम्? यथार्थकथने मा भूत्-मन्यसे ओदनं भोक्ष्य इति भुक्तः सोऽतिथिभिः।
(अष्टाoसूo1-4-107)
अस्मद्युत्तमः(अष्टाoसूo1-4-107)। लकारसमानाधिकरणेऽस्मदि स्थिते स्थानिन्यप्युत्तमः स्यात्। अहं पश्यामि दृश्ये वा। युष्मदस्मद्‌भ्यां सामानाधिकरण्ये तु परत्वादुत्तम एव। अहं च त्वं च वृत्रहत्स्वयुज्यावसनिभ्यआ।
(अष्टाoसूo1-4-108)
शषे प्रथमः(अष्टाoसूo1-4-108)। मध्यमोत्तमविषयादन्यत्र प्रथमपुरुषः स्यात्। पचति, पचतः, पचन्ति।
(अष्टाoसूo1-4-109)
परः सन्निकर्षः संहिता(अष्टाoसूo1-4-109)। अतिशयितः सन्निधर्वर्णानां यः स संहितासंज्ञः स्यात्। संज्ञाप्रदेशाः "संहितायाम्"(अष्टाoसूo6-1-72)इत्यादयः।
(अष्टाoसूo1-4-110)
विरामोऽवसानम्(अष्टाoसूo1-4-110)। वर्णानामभावोऽवसानसंज्ञः स्यात्। संज्ञाप्रदेशा "वावसाने"(अष्टाoसूo8-4-56)इत्यादयः। अभावस्यापि बुद्धिकृतं पौर्वापर्यमस्त्येव। यथोच्चरितप्रध्वंसिनां नित्यविभूनां वा वर्णानाम्। यद्वा, विरम्यतेऽनेनेति करणे घञ्, चरमवर्णश्च संज्ञी। अस्मिन्मपक्षे "खरवसानयोः" इत्येकापि सप्तमी विषयभेदाद्भिद्यते। खरि परे रेफस्य विसर्गः, अवसाने च रेफे स्थानिनीति। अत्र वार्त्तिकम्-संहितावसानयोर्लोकविदितत्वादत्सिद्धमिति। तथा च सूत्रदूयं माऽस्त्वित्यर्थः।
।। इति श्रीपदवाक्यप्रमाणपारावारपरिणिस्य लक्ष्मीधरसूरेः सूनुना भट्टोजीभट्टेन कृते शब्दकौस्तुभे प्रथमस्याध्यायस्य चतुर्थे पादे चतुर्थमान्हिकम् ।।