शब्दकौस्तुभः/अध्यायः १-पादः ३/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

।। तृतीयपादे प्रथमान्हिकम् ।।
(अष्टाoसूo1-3-1)
भूवादयो धातवः(अष्टाoसूo1-3-1)। क्रियावाचिनो गणपठिता धातुसंज्ञाः स्युः। धातुत्वाल्लडादयः। भवति, एधते। क्रियावाचिनः किम्? `या पश्य' इत्यादौ धातुत्वं मा भूत। सति हि तस्मिन् "आतोधातोः"(अष्टाoसूo6-4-140)इत्यालोपः स्यात्। न च "या प्रापणे"(धाoसूo1049)इत्याद्यर्थनिर्द्देशो नियामकः। तस्यापाणिनीयत्वात्। भीमसेनादयो ह्यर्थं निर्दिदिशुरिति स्मर्यते। पाणिनिस्तु "भ्वेध" इत्याद्यपाठीदिति भाष्यवार्त्तिकयोः स्पष्टम्। किञ्च अभियुक्तैरपि कृतोर्थनिर्देशो नार्थान्तरनिवृत्तिपरः सुखमनुभवतीत्यादावधातुत्पप्रसङ्गात्। उक्तञ्च--
"क्रियावाचित्वमाख्यातुमेकैकोर्थः प्रदर्शितः।
प्रयोगतोऽनुसर्त्तव्या अनेकार्था हि धातवः"।। इति ।
अत एव "कुर्द खुर्द गुर्द गुद क्रीडायामेव"(धाoसूo21-22-23-24)इत्येवकारः पठ्यते "श्लिष आलिङ्गने"(अष्टाoसूo3-1-46)इत्यादिसूत्राण्यपीह ज्ञापकानि। तस्मात् `याः पश्य'इत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम्। गणपठिता इति किम्? हिरुक्‌, पृथक्, ऋते, इत्याद्यव्ययानां `शिश्ये' इति भावार्थतिङन्तस्य चा मा भूत्। न चैवं सौत्रेष्वव्याप्तिः। स्तम्भवादीनामुदित्करणेन धात्वधिकारीयकार्यविधानेन च धातुत्वानुमानात्। न चैवमपि लौकिकानां चुलुम्पादीनामसङ्ग्रहापत्तिः। भ्वाद्यन्ते यजादिसमाप्त्यर्थं वृत्करणेऽपि भ्वादीनामसमाप्तेः। धातुवृत्तिषु तथैव व्याख्यातत्वात्। "कास्यनेकाज्‌ग्रहणं चुलुम्पाद्यर्थम्"(काoवाo)इति कात्यायनवचनेनाप्येतल्लभ्यते। एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्त्यर्थतया दिवादीनामपरिसमाप्तेः `मृग्यति'इत्यादिसिद्धिः। वस्तुतस्तु चुरादीनामन्ते "बहुलमेतन्निदर्शनम्" इति गणसूत्रेण सकलेष्टसिद्धिः। तद्धि धातुवृत्तिषु द्वेधा व्याखायातम्। भ्वादिगणपठितेभ्योऽपि णिच् प्रयोगानुसाराज्जप इति। दशगणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येऽपि शिष्टप्रयुक्ता धातवः सङ्ग्राह्या इति च। स्यादेतम्-भूरादिर्येषामिति विग्रहे यणि सति भ्वादय इति स्यात्। क्रियावाचित्वञ्च सूत्रानारूढमेवेति। उच्यते-"भवनं भूः क्रियासामान्यम्। वदन्तीति वादयः वदेरौणादिक इञ्" इति भाष्यम्। यद्यपि "वसि वपि यजि राजि व्रजि सहि हनि वासि वादि वारिभ्य इञ्"(उoसूo574)इत्यौणादिकसूत्रेण वदेर्ण्यन्तादिञ् विहितस्तथापि बहुलग्रहणात् केवलादपि भविष्यतीति न्यासकारादयः। वस्तुतस्तु "वदन्तीति वादयः" इति भाष्यमर्थकथनपरम्। ण्यन्तादेव त्विञ्। न चेह ण्यर्थानन्वयः। पचतिपाचयत्योस्तुल्यार्थत्वात्। भुवो वादय इति विग्रहः। तथाच क्रियावाचित्वं तावत्सूत्रारूढम्। निरनुबन्धानां शब्विकरणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संज्ञेत्यनुमीयते। "सनाद्यन्ता धातवः"(अष्टाoसूo3-1-32)इति सूत्रारम्भाच्च। अथ वा भूरादिर्येषामिति विग्रहः। निपातनाद् वुगागमः महासंज्ञाकरणं तु "दधति क्रियाम्" इति धातवः इत्यन्वर्थसंज्ञाविज्ञानार्थम्। यद्वा-भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोस्तु व्यवस्थाप्रकारवाचिनोरेकशेषः। ततो भूवौ आदी येषामिति बहुव्रीहिः। भूप्रभृतयो वासदृशाः क्रियावाचिन इति यावत्। अथ वा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः। तयोरेकशेषे स्वरभिन्नानामिति बहव्रीहिशेषः। भुवो वादय इति षष्ठीतत्पुरुषः। वाच्यवाचकभावश्च षष्ठ्यर्थः। "द्विर्वचनेचि"(अष्टाoसूo1-1-59)इति वत्तन्त्रावृत्त्यादिना वा उभयलाभः। सर्वथापि क्रियावाचिनो भ्वादय एव धातव इति स्थितम्। का पुनः क्रिया? उच्यते, करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापाररूण भावनैव क्रिया। तथाहि-अभवतो गगनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्त्तुः करोतिकर्मत्वम्। तथा च करोत्यर्थकर्त्तुर्भवितृप्रयोजकतया। भवतेरुत्पत्त्यर्थाप्रयोजकव्यापारे णिजुत्पद्यमानः करोत्यर्थमवलम्बते। उक्तञ्च-
"करोतिक्रियमाणेन न कश्चित्कर्मणा विना।
भवत्यर्थस्य कर्त्ता च करोतेः कर्म जायते।।
करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः।
भविता तमपेक्ष्याथ प्रयोज्यत्त्वं प्रपद्यते।।
प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः।
ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु।।
तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः।
प्रयोजकक्रियामाहुर्भाविनां भावनाविदः।।" इति ।।
सा च सकलधातूनां वात्त्या। अत एव `किं करोति'? इति प्रश्ने `पचति' `पठति' इत्याद्युत्तरं सङ्गच्छते। न चासौ मीमांसकोक्तरीत्या प्रत्ययवाच्यै2वास्तामिति वाच्यम्। भोक्तव्यमित्यादावाख्यातं विनापि तत्प्रतीतेः। तथा च तत्रापि कारकापेक्षा दृश्यते। अस्ति च तत्रापि पकोतिसामानाधिकरण्यं, किं कर्त्तव्यं, भोक्तव्यम्, किं कृतवान्भुक्तवानिति। किञ्च, `भावयति घटम्' इति वत् त्वन्मते `भवति घटम्' इत्यपि स्यात् `तुल्यार्थत्त्वात्। दृष्टान्ते कर्त्तुः कुम्भकारस्य व्यापारं णिजाचष्टे, दार्ष्टान्तिके त्त्वाख्यातप्रत्ययः। ननु प्रयोजकव्यापारो णिजर्थः, कर्तृव्यापारस्त्वाख्यातार्थः। इति वैषम्यमिति चेत्, कारकचक्रप्रयोक्तुः कर्तृत्वे घटस्यातथात्त्वात्। यदि तु-
"धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते"
इति भर्तृहरिप्रतिपादितरीत्या प्राधान्येन धातूपात्तव्यापारत्त्वरूपं कर्तृत्वं तवापि सम्मतं कस्तर्हीदानीमाख्यातार्थः। व्यापारस्य धातुनैवाभिहितत्वात्। अपि च, धातोः सकर्मकाकर्मकत्वविभाग उच्छिद्येत। `अकर्मकाच्च'(अष्टाoसूo1-3-26)इत्यादिसूत्राणि च विरुध्येरन्। ननू सिद्धान्तेऽपि क्रियायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत्, न, फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य वक्ष्यमाणत्वात्। किञ्च, `ज्योतिष्टोमयाजी' इत्यादौ "करणे यजः"(अष्टाoसूo3-2-85)इति णिनिरस्मत्पक्षे सङ्गच्छते। धातुत्वेन धातुपात्तां भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वात्। पच्यादयो हि धातुत्वेन भावनामाहुः। विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपेणाहुः। तच्चांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते। `ज्योतिष्टोमयाजी' इत्यादौ तु करणतया `ज्योतिष्ठोमाख्येन यागेन स्वर्गं भावितवान्" इत्यर्थप्रतीतेः। स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे। एतेन "द्व्यर्थः पचिः" इति भाष्यं व्याख्यातम्। भट्टिश्चाह-
विभज्यसेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ।
नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्" इति।
ननु क्रियाया धात्वर्थत्वे `पचति' इत्यादौ एककर्तृका वर्तृमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात्। प्रत्ययार्थं प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लृप्तत्वादिति चेन्न, "प्रत्ययार्थः प्रधानम्' इति ह्युत्सर्गः स चेह त्यज्यते। "क्रियाप्रधानमाख्यातम्" इति स्मरणात्। "पाचिका" इत्यादौ स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च। प्रत्युत तवैव `पचति' इत्यादावनुपपत्तिः। `पचन्तं तं पश्य' इत्यादौ शतृशानचोः कर्तृप्रधान्यस्य सर्वसम्मततया तिङ्क्ष्वपि तथात्वापत्तेः, शत्रादीनां तिङाश्च लादेशत्वस्याविशिष्टत्वात्, आदेशानाञ्च स्थानिस्मारकत्वे स्थान्यर्थाभिधायित्वे वार्थैक्यध्रौष्टत्वात्। अत एव हि युष्मदि समानाधिकरणे मध्यभः, अस्मद्युत्तमः, इत्यादिपुरुषव्यवस्था सङ्गच्छते। अभिहिते कर्तरि प्रथमा, इत्यादि च। न `समानाधिकरणे' इत्यनेन स्वाभिधेयसंख्यान्वयित्वम्, अभिहितशब्देन चाभिहितसङ्ख्याकत्वं विवक्षितमिति वाच्यम्। सूत्राननुगुणत्त्वात्। कृत्ताद्धितसमासैः संख्याया अनभिधानात्तदभिहितेऽपि तृतीयाप्रसङ्गाच्च। न च कृत्यनभिधानमेव कर्त्तुरनभिधानमिति वाच्यम्। भावार्थलकारेऽपि कर्त्तरि प्रथमापत्तेरिति दिक्। स्यादेतत्--अस्तिभवतिविद्यतिषु क्रियावाचित्वमव्याप्तम्। न हि तत्रोत्पादः प्रतीयते। एवन्तिष्ठतावपि तथा जायत उत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः। तदनुकूलव्यापारश्चोत्पादना। तदनुभवश्चास्त्यादिभ्यो नास्त्येवः। अत एव `किं करोति' इति प्रश्ने `पचति' इत्यादिवत् `अस्ति' इति न प्रतिब्रुवते इति चेत्, उच्यते, `अस्ति' इत्यादेः स्वरूपधारणं `करोति' इत्यर्थः। धारणञ्चोत्तरकालसम्बन्धः। तथा सत्यपि करोत्यर्थे धात्त्वर्थान्तर्गतेन धारणेनैव भाव्याकाङ्क्षायाः पूरणात् `जीवति' `नृत्यति' आदिवदकर्मकता क्रिया हि व्यापारव्यधिकरणैवोत्पत्तिरुच्यते। अत एव तत्र घटादीनां कर्मता। परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात्। जनिप्रभृतिभिस्तु व्यापारसमानाधिकरणैवोच्यते। अत एवाकर्मकता तेषाम्। सोत्पत्त्यनुकूलव्यापारभाजमपि सूक्ष्मरूपापन्नघटादीनां परसमवेतत्त्वघटितकर्मताविरहात्। उक्तञ्च हरिणा-
"आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते।" इति।
अन्येप्याहुः-
"अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावना।
अन्यत्राशेषभावात्तु सा तथा न प्रकाशते" इति।।
तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथाऽपि पचौ व्यापारव्यधिकरणा विक्लिदौ तु तत्समानाधिकरणा सेति सकर्मकाकर्मकविभागः। न हि धात्वर्थभूतफलशालित्त्वमात्रं कर्मत्वं किन्तु व्यापारवैयधिकरण्यमपि फलेऽपेक्ष्यते। यत्तूक्तं `किं करोति' इति प्रश्ने इत्यादि। तदसिद्धम्। आसन्नविनाशं कञ्चिदुद्दिश्य `किं करोति' इति प्रश्ने `अस्ति' इत्युत्तरस्य सर्वसम्मतत्वात्। इतरत्र तु सुस्थतया निश्चिते `किं करोति' इति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणात् `अस्ति' इति नोत्तरम्। एतेन-
"यावत्सिद्धमसिद्धे वा साध्यत्वेनाभिधीयते।
आश्रितक्रमरूपत्त्वात्सा क्रियेत्यभिधीयते"।।
इत्यपि व्याख्यातम्। पूर्वापरीभावापन्नानेकक्षणविशिष्टस्योत्पत्तिः "आत्मास्ति" इत्यादावपि सुलभैवेति भावः। पचत्यादावपि हि अधिश्रयणादिरधःश्रयणान्तो व्यापारकलापः क्रिया। अत एव तस्य युगपदसन्निकर्षान्न प्रत्यक्षता। किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते। तदुक्तं भाष्ये-"क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुम्" इति। ऐक्यमपि पारिभाषिकम्। एकफलावच्छिन्नत्वात्। उक्तं च--
"गुणभूतैरवयवैः समूहः क्रमजन्मनाम्।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते।।" इति ।।
तदेव भवत्यादौ क्रियावाचकत्त्वं सुवचम्। अत एव `अभूत्' `अस्ति' `भविष्यति' इति कालयोगः। न हि क्रियात्वं विनाऽसौ सम्भवति। तदुक्तम्-
"क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका"। इति।
"कालानुपाति यद्रूपन्तदस्तीति प्रतीयते।" इति च।
आष्ये तूक्तार्थसाधनाय निरुक्तकारवचनमुदाहृतम्-"षड्‌भावविकारा इति ह स्माह भगवान्वार्थापणिरिति। भावस्य क्रियायाः षट् प्रकारा इत्यर्थः। तेषु च जायतेऽस्तीति पाठात्सर्वक्रियान्वयः सिद्ध इत्वर्थः। कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ। भावस्य सत्ताया एते प्रकाराः सप्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतथावभासते" इति। तथा च-"जातिसमुद्देशेऽपि सम्बन्धिभेदात्सत्तैवेत्युपक्रम्योक्तम्--
"प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते।
क्रमरूपस्य संहारे तत्सत्वमिति कथ्यते"।। इति ।।
व्यापारविशेषाणां साध्यत्वात् क्रमिकत्त्वाच्च तदुपहितायास्ते भवत इत्यर्थः। `पाकः' इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः। घञा तु सिद्धरूपायाः। उक्तञ्च--
"क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता।
सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्‌विधिम्।।
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता।
प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः।।
साध्यत्त्वेन क्रिया तत्र धातुरूपनिबन्धना।
सत्वभावस्तु यस्तस्याः स घञादि निबन्धने"।। इति ।
लिङ्गसङ्ख्याकारकाद्यन्वययोग्येनावस्थाविशेषेण घञादिभ्य उपस्थितिरित्यर्थः। एतेन "कृदभिहितो भावो द्रव्यवत्प्रकाशते" इति तृतीयाध्याये भाष्यमपि ध्याख्यातम्। प्रकल्पितेत्यनेन पदस्फोटस्यैव वास्तवतां ध्यनयति-साध्येत्त्वेनेति। अत एव तम्प्रतिकारकतया ओदनादेरन्वय इति भावः। अत एव `भोक्तुं पाकः' `भुक्त्वा गमनम्' इत्यादौ तुमुनादयः सिद्धाः। कृत्त्वोर्थास्त्वनभिधानान्नेत्येव शरणम्। अत एव क्वचिदृश्यतेपि द्विर्वचनम्। `द्विरणविधिः' इति सूत्रवार्त्तिकयोः प्रयोगात्। सत्त्वभावस्त्विति। अत एव `पाकं करोति' इत्यादौ कारकत्वेन साऽन्वेतीत्यर्थः। नन्वेवं "पश्य मृगो धावति" इत्यादौ मृगकर्तृकशीघ्रगतेर्दशनम्प्रतिकर्मता न स्यात्। न च संसर्गमर्यादयेह कर्मताभानेऽपि प्रकारत्वेनाभानान्नोक्तदोष इति वाच्यम्। एवमपि `पचति' भवति' इत्यादावसङ्गतेः। एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तगाना भवनक्रियतेति हि तत्र वाक्यार्थः। तत्र च `भवति' इति लकारार्थत्य कर्तुर्देधदत्तकर्तृकपचिक्रियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्यावात्यकत्वात्। तथा च देवदत्तवत्पचिक्रियायः सत्वधर्मो दुर्वारः। अत्राहुः-"कर्तृत्वकर्मत्वयोरनुभवबलाद्भानं स्वीक्रियते। कारकान्तराभावमात्रे तु तात्पर्यम्" इति। "आख्यातशब्दे भागाभ्याम्" इत्युदाहृतश्लोकोप्येतदभिप्रायक एव। तत्र "यं प्रति" इत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटीकरिष्यामः। एतेन `अपाक्षीत्' `अपाक्षीः' `अपाक्षीः' `पचतः' पचन्ति' `पक्ष्यति' `पक्ष्यतः' इत्यादावपि `भवति' इत्यनेन कर्तृत्वेनान्वयो व्याख्यातः। `भावी वर्त्तते' `ध्वस्तोस्ति' इत्यादाविव सूक्ष्मावस्थस्य वर्त्तमानसत्तासम्भवात्।
उपदेशेऽजनुनासिक इत्(अष्टाoसूo1-3-2)उपदेशेऽनुनासिकोजित्त्संज्ञः स्यात्। उपदिश्ष्यतेनेनेत्युपदेशः। "कृत्यल्युटो बहुलम्"(अष्टाoसूo3-3-113)इति बाहुलकात्करणे घञ्। अन्यथा ल्युट स्यात्। स च धातुपाठप्रातिपदिकपाठौ सूत्रवार्त्तिके च। एतैर्हि शब्दा उपदिश्यन्ते। तत्र शास्त्रकृता पठितस्याप्यनुनासिकस्य पाठ इदानीमपभ्रष्टः। अत एवाहुर्वत्तिकाराः-"प्रतिज्ञानुनासिक्याः पाणिनीयाः" इति। तत्र एध, स्पर्ध, इत्यादावनुदात्तेत्वादात्मनेपदम्। एधते, स्पर्धते। `भवति' इत्यत्रोगित्त्वान्नुम्। भवान्। "लण्"(माoसूo6)सूत्रे अकारस्येत्त्वादद्गप्रत्याहारसिद्धिः। " आचारेऽवगल्भक्लीबहोढेभ्यः"(काoवाo)इतिवार्त्तिकेऽवगल्भादेरनुनासिकत्त्वेनानुदात्तेत्त्वात्तङ्ग। अवगल्भते इत्यादि। उपदेशे इति किम्? अभ्र आँ अपः। "आङोनुनासिकश्छन्दसि"(अष्टाoसूo6-1-126)इत्यनुनासिकः। नाऽसौ शास्त्रे पठितः। नन्वेवं "उञः"(अष्टाoसूo1-1-17) "ऊँ"(अष्टाoसूo1-1-18)इत्यत्रातिप्रसङ्गः। विधानसामर्थ्यान्नेति तु प्रकृतेपि तुल्यम्। अथ "अनुबन्धा अनेकान्ताः" इति पक्षे `अभ्र आँ अटितः' इत्यादौ "आदितश्च"(अष्टाoसूo7-2-16)इतीणिनषेधार्थमित्संज्ञाकिन्न स्यादिति चेन्न। एवमपि "आङ इत्" इति वक्तव्ये अनुनासिकविधानस्य वैयर्थ्यापत्तेः। एतेन दधि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः क्विप्यल्लोपयलोपयोर्ह्रस्वत्वे च "अणोऽप्रगृह्यस्य"(अष्टाoसूo8-4-57)इति नुम् स्यात्। `दधि' `मधु' इत्यादिषु प्रातिपदिकेषु `भवति' `पचति'इत्यादिषु च इत्कार्यं लोप एव स्यात्। तस्मादुपदेशग्रहणं कर्त्तव्यमिति परास्तम्। "अणोऽप्रगृह्य इत्" इति वक्तव्येऽनुनासिकविधानसामर्थ्यादित्संज्ञाविरहोपपत्तेः। सत्यम्। उत्तरार्थमुपदेशग्रहणम्। अजिति किम्? मनिन्‌प्रत्यये मकारस्य मा भूत्। सत्यां हि तस्यां "अन्येभ्योपि दृश्यन्ते'(अष्टाoसूo3-2-75)इति हलन्तेष्वन्त्यादचः परः स्यात्। अनुनासिकः किम्? चिरिणोति, जिरिणोति।
(अष्टाoसूo1-3-3)
हलस्त्यम्(अष्टाoसूo1-3-3)। उपदेशेऽन्त्यं हलित्स्यात्। यद्यपि सर्वो हल् तन्तमवधिं प्रत्यन्त्यो भवति तथाऽपि धातुप्रातिपदिकत्वाद्युपाधिपरिच्छिन्नसमुदायं प्रत्यन्त्य इह गृह्यते, अन्त्यग्रहणसामर्थ्यात्। "शीङ् स्वप्ने"(अदाoआo)ङित्त्वात्तङ्। शेते। उपदेशे किम्? अग्निचित्। "श्रोत्रियश्छन्दोऽधीते"(अष्टाoसूo5-2-84)"क्षेत्रयच् परक्षेत्रे चिकित्स्यः"(अष्टाoसूद5-2-92)इत्यादौ तु वाक्यार्थे पदवचनमिति पक्षेऽविद्यमानप्रकृतिप्रत्ययविभागेप्युपदेशेन्त्यत्त्वाद्भवत्येवेत्संज्ञा। `सनुतः' इत्यस्य स्वरादिपाठादित्संज्ञा प्राप्ता उच्चारणसामर्थ्यान्न भवति। न च रित्स्वरः प्रयोजनम्ष अन्तोदात्तनिपातनवैय्यर्थ्यापत्तेः। स्यादेतत्-हल्प्रत्याहारसिद्धेरेतत्सूत्रसापेक्षत्वादन्योन्याश्रयः। पदार्थबोधं विना वाक्यार्थज्ञानासम्भवात्। अत्राहुः-हल् च ल् चेति समाहारद्वन्द्वे संयोगान्तलोपेन लकारोऽप्यत्र निर्दिश्यते। तेन लस्येत्संज्ञायां सत्यां "आदिरन्त्येन"(अष्टाoसूo1-1-71)इति हलसंज्ञा। ततोऽन्त्यं हलिदिति वाक्यार्थबोधः। यद्वा-हल् इति तन्त्रावृत्त्येकसेषाणामन्यतमाश्रयणाद्धस्य समीपवर्त्ती लकारो हल् स इदिति। सम्पूर्णसूत्रावृत्त्या हल्सूत्रस्यान्त्यं हलन्त्यमिति वा। इह पक्षत्रये "पूर्वः पूर्वः प्रबलः, लाघवात्" इति तत्त्वम्। यद्वा-हल्सुत्रे लृकारस्यैव `तवल्कारः' इतिवद् गुणभूतस्य निर्देशः। तस्य च "पुषादिद्युताद्य्‌लृदितः(अष्टाoसूo3-1-55)इति ज्ञापकादित्संज्ञा। न तु "उपदशेऽजनुनासिकः"(अष्टाoसू 1-3-2)इति, अच्संज्ञाया अद्याप्यनिष्पादात्। यत्तु णलो लित्करणं ज्ञापकमिति, तच्चिन्त्यम्, लित्वस्याद्याप्यसिद्धेः। न च `बिभेद' इत्यत्र लोपाभावार्थं हल्ङ्यादिसूत्रेऽप-क्तं हलिति द्वितीयहल्ग्रहणं तत्र ज्ञापकमिति वाच्यम्। `भविता' इत्यादौ डानिवृत्त्यर्थं हल्ग्रहणोपपत्तेः। न च सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपान्नैवमिति वाच्यम्, `या' `सा' इत्यादौ सुलोपानापत्तेः। न चैकदेशविकृतस्यानन्यत्त्वादेकादेशस्य च पूर्वान्ततया ग्रहणाद्धलन्तायाः प्रकृते परत्वेनेष्टसिद्धिः। `यः' सः' इत्यत्रातिप्रसङ्गात्। तस्माल्लोपप्रवृत्तिकाले हलन्तत्वं वाच्यम्। तच्च `या' `सा' इत्यत्रापि नास्ति किं त्त्वाबन्तात्परत्वमाश्रित्य लोपः कार्यः। न च तत्राबन्ता प्रकृतिः। उभयत आश्रयणेन्तादिवद्भावायोगात्। अथ "तदस्यां प्रहलणम्"(अष्टाoसूo4-2-62)इति निर्देशादाबन्तस्थेले उभयत आश्रयेप्यन्तादिवद्भावं ब्रूषे तथापि हल्शब्दस्यैवाद्यापि शक्त्यग्रहे कथं हल्ग्रहणसामर्थ्याण्णलोलित्त्वं निश्चेयम्। न च "लिति'(अष्टाoसूo6-1-193)इति ज्ञापकम्, ल्युडादौ चरितार्थत्वात्। तस्मादुक्तप्रकारचतुष्टयमेव शरणम्। स्यादेतत्-आद्ये हल्‌संज्ञातः पूर्वं कथं संयोगान्तलोपः, संयोगसंज्ञाया अनिष्पत्तेः। द्वितीये हस्त ल् इति कथं समासः, सुप्‌संज्ञाया श्चानिष्पादात्। एवं तृतीये हलोऽन्त्यमिति तत्पुरुषः कथम्। चतुर्थे च लृदित इति बहुव्रीहिः कथम्? उच्यते। साधुत्वज्ञानोपयोगिनः शास्त्रस्याप्यर्थबोधो यदि तद्बोध्यसाधुत्वानां पदानां स्वार्थानुभावकतायामुपयुज्येत तदैष दोषः स्यात्। स च नोपयुज्यते प्रमाणाभावात्, शतशो व्यभिचाराच्च। यथा चैतत्तथा "अइउण्"(माoसूo1)इत्यत्रैव प्रतिपादितम्।
(अष्टाoसूo1-3-4)
न लिभक्तौ तुस्माः(अष्टाoसूo1-3-4)। विभक्तिस्थास्तवर्गसकारमकारा इतो न स्युः। रामान्, पचेरन्, ब्राह्मणाः, पचतः, रामम्, अद्राक्षम्, विभक्तौ किम्? "अचो यत्"(अष्टाoसूo3-1-97)"ऊर्णाया युस्"(अष्टाoसूo5-2-123)"रुधादिभ्यः श्नम्"(अष्टाoसूo3-1-78)"प्राग्दिशोविभक्तिः"(अष्टाoसूo5-3-1)इति यत्र विभक्तिसंज्ञा तत्रायं निषेधो न भवति। "इदमस्थमुः"(अष्टाoसूo5-3-24)इति मकारपरित्राणार्थमुकारानुबन्धासञ्जनाज्ज्ञापकात्। तेन "किमोत्"(अष्टाoसूo5-3-12)`क्व' इति सिद्धम्। स्यादेतत्-`तदानीम्' इत्यादौदानीमोऽपि तर्हि मित्त्वं स्यादिति चेन्न, यान्तत्त्वात्तस्य। यकारो ह्यन्त्यत्वमनुभवन्मकारस्येत्संज्ञां प्रतिबध्नाति। "संयोगान्तस्य लोपः"(अष्टाoसूo8-2-23)इति यलोपस्येत्संज्ञां प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावात्। यद्वा "इदमस्थमुः"(अष्टाoसूo5-3-24)इत्यनेनानित्यत्वमात्रं ज्ञाप्यते, न तु प्राग्दिशीयेष्वप्रवृत्तिः। "औत्"(अष्टाoसूo7-3-128)"इटोऽत्"(अष्टाoसूo3-4-106)इत्यत्र तु मुखसुकार्थस्तकारः न त्वित्संज्ञकः, तित्स्वरापत्तेः। न चेष्टापत्तिः, `उरौ वाये' `भक्षीय तवराधारा' इत्यादौ `उरौ भक्षीय' इत्यनयोरन्तोदात्ततादर्शनात्। "आद्युदात्तश्च"(अष्टाoसूo3-1-3)इति सूत्रे `भविषीय' इत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्य सिद्धान्तितत्वाच्च। यत्त्विहवृत्तिकृतोक्तम्, "किमोत्,(अष्टाoसूo5-3-12)"इटोऽत्"(अष्टाoसूo3-4-106)इत्यत्रेऽयं निषेधो न भवति अनित्यत्वादस्य विधेरिति, तत्स्वोक्तिविरुद्धम्। "इटोत्"(अष्टाoसूo3-4-106)इति तेनैवोक्तत्वात्। तस्मादभ्युपेत्यवादमात्रम्। यद्वा-"इटोत्"(अष्टाoसूo4-3-106)इत्यत्रास्य अकारमात्रस्य विधेः। अनित्यत्वादिति तु "किमोत्"(अष्टाoसूo5-3-12)इत्येतत्परमिति व्याख्येयम्।
(अष्टाoसूo1-3-5)
आदिर्ञिटुडवः(अष्टाoसूo1-3-5)। उपदेशे आदिभूताः ञि टु हु एते इतः स्युः। "ञिइन्धी"(रुधाoआo1449)इद्धः। "टुवेपृ"(भ्वाoआo367)वेपथुः। "डुवप्"(भ्वाoउo1003)उप्त्रिमम्। उपदेश इति किम्? ञिकारीयति। आदिः किम्? पटूयति। अस्ति हि पृथ्वादिषु पटुशब्दस्योपदेशः। अत्रेत्संज्ञायां सत्यामथुच् स्यात्। अवयवे ह्यचरितार्थं द्वित्वं समुदायस्य विशेषकं स्यात्।
(अष्टाoसूo1-3-6)
षः प्रत्ययस्य(अष्टाoसूo1-3-6)। प्रत्ययस्यादिः ष इत्स्यात्। "शिल्पिनि ष्वुन्"(अष्टाoसूo3-1-145)नर्त्तकी। प्रत्ययस्येति किम्? षोडश। "षषउत्वम्'(काoवाo)इत्यत्रोपदेशस्थोऽयं षकारः। आदिः किम्? अविषः, महिषः। "अविमहिभ्यां टिषच्"(उoसूo48)। न्वत्र प्रयोजनाभावादेव षकारस्येत्संज्ञा न भविष्यति ईकारस्य टित्वादेव सिद्धेः। नच पक्षे ङीषर्थः षकारः। ङीषोऽपि चितः परस्योदात्तनिवृत्तिस्वरेणोदात्तत्त्वात्, सत्यम्, विनिगमकाभावेन पक्षे टकारस्यापि श्रवणं स्यात्।
(अष्टाoसूo1-3-7)
चुटू(अष्टाoसूo1-3-7)। प्रत्ययाद्यौ चुटू इतौ स्तः। "गोत्रे कुञ्जादिभ्यशच्फञ्"(अष्टाoसूo4-1-98)कौञ्जायन्यः। छस्य ईयादेशं वक्ष्यति। जस् ब्राह्मणाः। झस्यान्तादेशो वक्ष्यति। सो-1--1."सोऽस्य निवासः"(अष्टाoसूo4-3-89)इत्यतः सोऽस्य इत्यनुवर्त्तमाने "अभिजनश्च"(अष्टाoसूo4-3-90)इत्यधिकारे इत्यर्थः।-स्याभिजनः इत्यधिकारे "शण्डिकादिभ्यो ञ्य-"(अष्टाoसूo4-3-12)शण्डिक्यः। 'चरेष्टः"(अष्टाoसूo3-2-16)कुरुचरी। ठस्येकादेशं वक्ष्यति। "सप्तम्यां जनेर्डः"(अष्टाoसूo3-2-17)उपसरजः। ढस्यैकादेशं वक्ष्यति। "धनगणं लब्धा"(अष्टाoसूo4-4-84)इत्यतो `लब्धा' इत्यनुवर्तमाने "अन्नाण्णः"(अष्टाoसूo4-4-85)अन्नं लब्धा आन्नः। "चुटुषाः प्रत्ययस्य" इति कर्त्तव्ये योगविभागादनित्यमिदम्। तेन `केशचुञ्चुः' `केशचणः' इत्यत्र चकारस्येत्संज्ञा न। सत्यां हि तस्यां "चितः"(अष्टाoसूo6-1-163)इत्यन्तोदात्तः स्यात्। चित्करणं तु प्रर्यायार्थं स्यात्। "अवात्कुटारच्च"(अष्टाoसूo5-2-30)इत्यतोऽवादित्यनुवर्त्तमाने "नते नासिकायाः"(अष्टाoसूo5-2-31)इति टीटट्-अवटीटः। यद्वा चुञ्चुप्चणप्‌टीटचो यादयः, "लोपोव्यो-"(अष्टाoसूo6-1-66)इति यलोपे इति व्याख्येयम्।
(अष्टाoसूo1-3-8)
लशक्वतद्धिते(अष्टाoसूo1-3-8)। तद्धितभिन्ने प्रत्यये आदिभूता लशकवर्गां इतः स्युः। "ल्युट् च"(अष्टाoसूo3-3-115)भवनम्। "कर्त्तरि शप्" (अष्टाoसूo3-1-68)भवति। "क्तक्तवतू निष्ठा"(अष्टाoसूo3-2-38)प्रियंवदः, वशंवदः। "ग्लाजिस्थश्चग्स्नुः"(अष्टाoसूo3-2-139)जिष्णुः। "भञ्जभासमिदोघुरच्"(अष्टाoसूo3-2-161)भङ्गुरम्। ङेहरये। अतद्धिते किम्? चूडालः। "प्राणिस्थादातो लजन्यतरस्याम्"(अष्टाoसूo5-2-96)लोभशः। अत्र प्रयोजनाभावान्नेत्संज्ञेत्यपि सुवचम्। `कर्णिका' "कर्णललाटात्कनलङ्कारे"(अष्टाoसूo4-3-65)इति भवार्थे कन्। अत्र "किति च"(अष्टाoसूo7-2-118)इति वृद्धिः स्यात् रूपञ्च न सिद्ध्येत्। "इर उपसङ्ख्यानम्"(काoवाo)रुणद्धि। अयं वा रेफो "हलन्त्यम्"(अष्टाoसूo1-3-3)इतीत्संज्ञः। इकारस्तु "उपदेशेऽजनुनासिक-"(अष्टाoसूo1-3-2)इति। स्यादेतत्-एवं सतीदित्त्वान्नुम् स्यात्। न च तक्रकुम्भीदान्यन्याय आश्रयितुं शक्यः, `नन्दति'इत्याद्यव्याप्तेः, सत्यम्, स्कन्दिर्‌प्रभृतीनां नकारपाठो ज्ञापकः अन्तेदितामेव नुमिति। यद्वा-"गोः पदान्ते"(अष्टाoसूo7-1-57)इति सूत्रादन्तग्रहणमनुवर्त्तयिष्यते। तच्चावश्यमनुवर्त्यम्। चक्षिङो नुम् मा भूदिति सति हि नुमि इगुणधत्वाभावादेव क्सस्याप्राप्तेः किं तन्निषेधेन। यद्वा-"इरितो वा"(अष्टाoसूo3-1-57)इति ज्ञापकात्सकत्वात्स्वरितेत्वप्रयुक्तमात्मनेपदम्। तेन `रुन्धे' इत्यादि सिद्धम्।
(अष्टाoसूo1-3-9)
तस्य लोपः(अष्टाoसूo1-3-9)। तस्येतो लोपः स्यात्। तस्यग्रहणं सर्वलोपार्थम्। ञिटुडूनामलोन्त्यस्य मा भूत्। "नानर्थकेऽलोन्त्यविधि-"(पoभाo)इति तु नास्ति। "अलोन्त्यात्पूर्व उपधा"(अष्टाoसूo1-1-65)इति सूत्रे तस्य प्रत्याख्यानात्।
(अष्टाoसूo1-3-10)
यथासङ्ख्यमनुदेशः समानाम्(अष्टाoसूo1-3-10)। समसङ्ख्यानां सम्बन्धो यथाक्रमं स्यात्। "नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः"(अष्टाoसूo3-1-134)नन्दनः, ग्राही, पचः। "समूलाकृतजीवेषु हन्कृञ्‌ग्रहः"(अष्टाoसूo3-4-36)`समूलघातं हन्ति' इत्यादि। अत्रानुवाद्ययोरपि धातूपपदयोर्यथाक्रमं बोध्यम्। स्यादेतत्-`विदिभिदिछिदेः कुरच्"(अष्टाoसूo3-2-162)इत्यादौ तच्छीलाद्यर्थत्रयेण यथासङ्ख्यं प्राप्तोति। एवं "ख्यत्यात्"(अष्टाoसूo6-1-112)ङसिङसोः इत्यादावपीति चेत्। अत्रभाष्यम्-"स्वरितेनेत्यपकृष्यते। तेन स्वरितत्वाभावान्नेह यथासङ्ख्यम्"इति। प्रतिज्ञास्वरिताः पाणिनीयाः। स्वरितत्वा भावादेव "कर्तृकमंणोश्च भूकृञोः"(अष्टाoसूo3-3-127)इति सूत्रे न यथासंख्यं "नाडीमुष्ट्योश्च"(अष्टाoसूo3-2-30)इति सूत्रे यथासंख्यं च भवत्येवेति भाष्यम्। वृत्तिकारस्तु "कर्तृकर्मणोश्च"(अष्टाoसूo3-3-127)"नाडीमुष्ट्योश्च"(अष्टाoसूo3-2-30)इति सूत्रद्वय।पि भाष्य विपरीतं वदन्नुपेक्ष्यः। "नाडीमुष्ट्योश्च"(अष्टाoसूo3-3-30)इति सूत्रे यथा सङ्ख्याभावपरं भाष्यमपि पूर्वापरविरोधाच्चिन्त्यम्। एतदेव वा मतान्तरपरं सत्तत्रत्यवृत्तेरालम्बनमस्तु। "कर्त्तृकर्मणो-"(अष्टाoसूo3-3-127)इत्यत्र तु वृत्तिश्चिन्त्यैव। "वैशोयशआदेर्भगाद्यल्‌खौ"(अष्टाoसूo4-4-131)इत्यत्राप्यस्वरितात्वादेव न यथासङ्ख्यम्। इह भाष्ये वृत्तौ चेत्थं स्थितम्। चतुर्थे तु वृत्तिकारोयोगे व्यभजत्। "भगाद्यल्" इति "खच" इति च।
(अष्टाoसूo1-3-11)
स्वरितोनाधिकारः(अष्टाoसूo1-3-11)। "इत्थंभूतलक्षणे"(अष्टाoसूo2-3-21)तृतीया। अधिकारविनियोगः स्वरितत्वयुक्तशब्दस्वरूपमधिकृतं बोध्यम्। "प्रत्ययः"(अष्टाoसूo3-1-1)"परश्च"(अष्टाoसूo3-1-2)इत्यादि। यथा प्रायेणोत्तरत्रोपस्थितिः। क्व चित्तु पूर्वत्रापि। तदुक्तम्-"अतिङित्युभयोर्योगायोः शेषः" इति। कियद्‌दूरमधिकार इत्यत्र व्याख्यानं शरणम्। यथा आतृतीयाध्यायान्तं धात्वधिकारो न तु प्राग्लादेशेभ्य एव। तथा आसप्तमाध्यायपरिसमाप्तेरङ्गाधिकारो न तु प्रागभ्यासविकारेभ्य एवेत्यादि। यद्वा-`स्वरिते' इति सप्तम्यन्तम्। तेन तस्मिन्दृष्टे अधिकारो निवर्त्तय इत्यर्थः। कः स्वरिताधिकारार्थः कश्च तन्निवृत्त्यर्थ इत्यत्र तु व्याख्यानमेव शरणम्। नन्वेवं व्याख्यानादेवानुवृत्त्यननुवृत्ती स्तां किमनेन सूत्रेण, सत्यम्, अर्थान्तराणि सङ्ग-हीतुं सूत्रं कृतम्। तथाहि-स्वरितेनाधिकाररूपोर्थो ग्राह्यः। "गोस्त्रियोः"(अष्टाoसूo1-2-48)इत्यत्र च स्त्रीशब्दः स्वर्यते। तेन गोटाङ्ग्रहणं कृन्निवृत्त्यर्थमिति न वक्तव्यम्। किञ्च अधिकं कार्यमधिकारः। गौणेऽपि शास्त्राप्रवृत्तिरित्यर्थः। तथा च गौणमुख्यन्यायो यत्र नेष्यते(अपादानाधिकरणादौ)तत्र स्वरितः पाठ्यः। अपि च अधिकः कारः कृतिरियम्। यत्पूर्वः सन् परं बाधते। तथा च पूर्वविप्रतिषेधा संगृहीता भवन्ति। तत्र तत्र स्वरितापाठेनैव गतार्थत्वादिति दिक्।
।। इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य तृतीये पादे प्रथमान्हिकम् ।।