शब्दकौस्तुभः/अध्यायः १-पादः २/आह्निकम् १

विकिस्रोतः तः
शब्दकौस्तुभः
आह्निकम् १
[[लेखकः :|]]
आह्निकम् २ →

श्रीः
शब्दकौस्तुभे-
प्रथमाध्याये द्वितीयपादे प्रथममान्हिकम्।
(अष्टाoसूo1-2-1)
गाङ्कुटादिभ्योऽञ्णिन्ङित्(अष्टाoसूo1-2-1) गाङ्गोशात्कुटादेश् परेऽञ्णितः प्रत्यया ङिद्वत्स्युः। अध्यगीष्ट। "विभाषा लुङ्लृङोः"(अष्टाoसूo2-4-50) इतीङो गाङ्ग। इह विशेषणार्थ एव हि गाङादेशे ङकाराः इति "गाङ् लिटि" (अष्टाoसूo2-4-49) इति सूत्रे वक्ष्यते। कुटिता, कुटितुम्। अञ्णित्किम्? कोटः। घञ्ञ्। चुकोट11.अत्र "परस्मैपदानां"(अष्टाoसूo3-4-82) इत्यनेन णल्। `व्यचेः कुटादित्वमनसीति वक्तव्यम्"(काo वाo)। एतञ्च षष्ठे "लिट्यभ्यासस्य" (अष्टाoसूo 6-1-17)इति सूत्रे भाष्ये पठितमपि सन्दर्भशुद्ध्यर्थं वृत्तिकृतेह पठितम्। तुदादिगणे कुटादिभ्यः प्राक् पठितस्य व्यचेः कुटादित्वं वार्तिकेनादिश्यते। विचितुम्, विचिता। अनसि किम्? `उरुव्यचाः'। अत्र हरदत्तः-अनसीति पर्युदासात्कृत्येवेदम्। तेनेह न-विव्यचिथ, अव्याचीत्, अव्यनीत्। केचित्तु प्रसज्यप्रतिषेधमाश्रित्य थालादिष्वपि ङित्वमाहुः। तत्तु वाक्यभेदादसमर्थसमासाच्चायुक्तमिति माधवादयः। अथ कथं लिखितुं, स्वयमेव लिखिष्यते इति? अत्र दुर्घटादयः-कण्वादिभ्य इत्यत्रेव षष्ठीतत्पुरुषबहुव्रीह्योः सहविवक्षया बहुव्रीहिशेषोऽयं कुटादिभ्य इति। तेन लिखेरपि कुटस्यादितयाऽत्र सङ्ग्रह इति। तन्न, "शकुनिष्वालेखने"(अष्टाoसूo6-1-142) इति सौत्रप्रयोगविरोदापत्तेः, "रलो व्युपधात्"(अष्टाoसूo1-2-26) "ईश्वरे तोसुन्"(अष्टाoसूo3-4-13) इत्यत्र वृत्तिग्रन्थविरोधाच्च। तत्र हि लिखित्वा, लेखित्वा, लिलिखिषति, लिलेखिषति, विलेखितुम्, इति प्रदर्शितम्। तस्मात्संज्ञापूर्वकतया समाधेयमिति हर दत्तः। कथं `चुकुट
िषति' इति, सनो ङित्त्वाद्यङन्तादिव तङ्प्रसङ्गात्? मैवम्, उपदेशग्रहणानुवृत्त्योपदेशे यो ङित्तदन्तादात्मनेपदमिति व्याख्यानात्।
(अष्टाoसूo1-2-2)
विज इट्(अष्टाoसूo1-2-2) विजोः पर इडादिः प्रत्ययो ङित्स्यात्। उद्विजितुम्। इट् किम्? उद्वेजनम्। इह "वृद्धिर्यस्य"(अष्टाoसूo1-1-73)इतिसूत्रान्मण्डूकप्लुत्या यस्यादिरित्यनुवर्तते। तेनेडादिः प्रत्ययो लभ्यते, न तूत्तमैकवचनमिट्। तथाहि सति `विजिषीय'इत्यत्रैव स्यात्। "ओविजीभयचलनयोः"'(तुoआo129oरुoपo1461)इति विजिरिह गृह्यते न तु पृथग्भावार्थ इरित्, तस्यानिट्कत्वादिति हरदत्तः। न च क्रादिनियमाल्लिटीट् संभवत्येवेति वाच्यम्, तत्र कित्त्वेन गतार्थत्वादिति तस्य भावः। वस्तुतस्तु नेदं युक्तम् `विवेजिथ' इति थलीट्सम्भवात्। पित्त्वेन कित्त्वाभावात्। तस्मात्कुटादिसाहचर्यात्तुदादेरेव ग्रहणं न तु जुहोत्यादेरिति बोध्यम्। नन्वेवं रुधादेरपि ङित्त्वात्`उद्विजिता' इत्याद्युदाहरता माधवेन सा विरोध इति चेत्तर्हि व्याख्यानादेव जुहोत्यादेरग्रहणमित्यस्तु। हरदत्तोक्तिस्तु दुष्टैवेति दिक्।
(अष्टाoसूo1-2-3)
विभाषोर्णोः(अष्टाoसूo1-2-3)। अस्मादिडादिप्रत्ययो ङिद्वा स्यात्। ऊर्णुविता, ऊर्णविता। इडिति किम्? ऊर्णवनीयम्।
(अष्टाoसूo1-2-4)
सार्वधातुकमपित्(अष्टाoसूo1-2-4)। अपित्सार्वधातुकं ङिद्वत्स्यात्। विनुतः। इह परत्र परशब्दप्रयोगात्कल्प्यमानो वतिः सप्तमयन्तान्न कल्प्यो ङितीव ङिद्वदिति। तथा सति प्रतियोगिनि सप्तमीप्रसङ्गात् सार्वधातुकेऽपितीति। पूर्वत्राप्येवमेव अञ्णितीति, इटीति च सप्तमी स्यात्। श्रूयते तु सर्वत्र प्रथमा। तस्मात्तृतीयान्तादेव वतिर्ङितः"(अष्टाoसूo7-2-81)इतीय् सोऽपि भवति। नन्वेवं `यादम्पती समनसा सुनुत-' इत्यत्र "तास्यनुदत्तेन्ङित्"(अष्टाoसूo6-1-181)इति लसार्वधातुकानुदात्तत्वं स्यादिति चेत्?न उपदेशग्रहणस्योभयसम्बन्धेन ङिदुपदेशाददुपदेशाच्चेति षाष्ठभाष्ये व्याख्यातत्वात्, अन्ह्विङोरिति पर्युदासेनोपदेशे ङकारवतो ग्रहणाद्वा। सप्तम्यन्ताद्वतिरित्येवंपरः षाष्ठवृत्तिग्रन्थस्त्वापातत इत्येष निष्कर्षः। अत्र `पिच्च ङिन्न, ङिच्च पिन्न भवति' इति वाक्यार्थद्वयं "क्‌ङितिच"(अष्टाoसूo1-1-5)इति सूत्रे वर्णितमस्माभिः। भाष्ये तु "हलश्न) शानच्"(अष्टाoसूo3-1-83)इति सूत्रे स्थितमेतत्।
(अष्टाoसूo1-2-5)
असंयोगाल्लिट् कित्(अष्टाoसूo1-2-5)। असंयोगात्परोऽपिल्लिट् कित् स्यात्। निन्यतुः, बिभिदतुः। अपित्किम्? विभेद। असंयोगात्किम्? सस्रंसे। ङित्त्वे प्रकृते कित्करणं "यजादीनां किति"(अष्टाoसूo6-1-15)इति सम्प्रसारणार्थम्। ईजतुः, ईजुः। पूर्वत्रापि कित्वं कुतो न कृतिमिति चेत्?`वक्तः'`वक्यः'इत्यत्र सम्प्रसारणापत्तेः, `जागृतः`जाग्रति'इत्यत्र गुणापत्तेश्च। ङित्वे तु `वच्यादीनां किति' इत्युक्तेर्न सम्प्रसारणम्। "जागोऽविचिण्णल्‌ङित्सु"(अष्टाoसूo7-3-85)इति पर्युदासान्न गुणः। `ॠदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन"(काoवाo)। कित्त्वस्यावकाशःईजतुः, ईजुः। गुणस्यावकाशः-चेतति। ववृते, ववृधे इत्यत्र पूर्वविप्रतिषेधात्कित्त्वम्।
(अष्टाoसूo1-2-6)
इन्धिभवतिभ्यां च(अष्टाoसूo1-2-6)। आभ्यां लिट् कित्स्यात्। समीधे दस्युहन्तमम्। पुत्र ईधे अथर्वणः। बभूव, बभूविथ। इन्धेः संयोगार्थं ग्रहणं भवतेस्तु पिदर्थम्। इन्धीत्युच्चारणार्थेनेकारेण निर्देशः "सुट्तिथोः"(आoसo3-4-107)इतिवत्, नतु "इक्‌श्तिपौ"(काoवाo)इतीका, नलोपापत्तेः। अत्र वार्तिकम्-"इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति"। अयमर्थः-इन्धेर्भाषायां "इजादेश्च"(अष्टाoसूo3-1-36)इत्यामा भाव्यम्। छन्दसितु "अमन्त्रे"(3-4-117)इति लिटः सार्वधातुकत्वे ङित्त्वात् `समीधे' इति नलोपः। श्नमभावस्त्वार्धदातुकत्वात् व्यत्ययाद्वा। भुवोऽपि वुङ् नित्यत्वादेव गुणवृद्धी बाधिप्यते। न च शब्दान्तरप्राप्त्या वुगनित्य इति वाच्यम्, कृताकृतप्रसङ्गित्वमात्रेणापि लक्ष्यानुरोधान्नित्यत्वस्याश्रयणात्। शब्दान्तरप्राप्त्या स्वरभिन्नस्य प्राप्त्या चानित्यतायाः सिद्धान्ते बहुधा त्यक्तत्वात्। एषैव सूत्रकृतोऽपि गतिः, `बभूव' इत्यत्र वृद्धेरनिग्लक्षणतया "क्‌ङितिच" इति निषेधासम्भवेन वुकोनित्यताया एव शरणीकरणीयत्वात्। न च कित्त्वसामर्थ्यादनिग्लक्षणाया अपि वृद्धेर्निषेधः। `अहं बभूव' इत्यत्र णित्त्वाभावपक्षे तथा थलि चरितार्थत्वात्। अत एव यङ्लुकि णल्‌थलोः `बोभूव'`बोभूविथ' इति नित्यत्वाद् वुकि सिद्धम्। न हि तत्र कित्त्वं प्राप्नोति, श्तिपा निर्देशात्। तस्मादेतत्सूत्रं न कर्तव्यमिति भाष्ये स्थितम्। अत्र काशिका, `श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वक्तव्यमिति"। यद्यप्येतदिह सूत्रे भाष्ये नास्ति तथापि "मणीवादेन" इतिवन्नाप्रामाणिकम्। तथाच "अत एकहल्मध्ये"(अष्टाoसू6-4-120)इत्येवाभ्यासलोपौ प्रति नलोपस्याभीयत्वेनासिद्धौ सत्यां "दम्भेश्च"(काoवाo)इति वार्तिकमारब्धम्। "श्नसोरल्लोपः"(अष्टाoसूo6-4-111)इति तपरकरणोनानित्यत्वाद्वा नेदं वार्तिकमावश्यकमिति तु षष्ठे वक्ष्यते। तथा "सदेः परस्य लिटि"(अष्टाoसाo8-3-118)इति सूत्रे "स्वञ्जेरुपसंख्यानम्"(काoवाo)इति वार्तिकस्य भाष्यकृता `परिपम्वजे' इत्युदाहरणं दत्तम्। प्रयुज्यते च "तमिन्दुः परिषस्वजे" इति। एतच्च कित्वं पिदर्थमपिदर्थं चेति सुधाकरः। अपिदर्थमेवेति न्यासकारात्रेयादयः। हरदत्तस्तु सन्दिदेह। वस्तुतस्तुन्यासाद्युक्तमेवज्यायः, इह वैत्तौ षाष्ठभाष्ये चापित एवोदा हृतत्वात्। "श्रन्थग्रन्थ सन्दर्भे"(क्य्रा.प.1513,14)श्रेथतुः श्रेथुः। ग्रेथतुः, ग्रेथुः। देभतुः, देभुः। सस्वजे, सस्वजाते। केचित्तु "श्रन्थिग्रन्थिदम्भिस्वञ्जीनां वा" इति पठन्तः कित्त्वं विकल्पयन्तीति हरदत्तमाधवौ। तन्मते ददम्भतुः, शश्रन्थतुरित्याद्यपि। सुधाकरमते तु णल्यपि श्रेथ-ग्रेथ-देभ इति। स्यादेतत्। सर्वमतेषु श्रेथतुः, ग्रेथतुः इत्यादि दुर्लभम्। `सस्वजे' इतिवत्संयुक्तहल्प्रध्यस्थत्वादिति चेत्? सत्यम्। अत एव एत्वाभ्यासलोपावप्यत्र वक्तव्यविति हरदत्तः। अत्रमूलं मृग्यम्। तथा सुधाकरमेत श्रोथिथ, न्यासादिमते `शश्रन्थिथ' इति वदतो माधवस्याप्युक्तौ मूलं मृग्यम्। कित्त्वे विप्रतिपत्तावपि "थलि च सेटि"(अष्टाoसूo6-4-121) इत्यस्याप्राप्तेरविशेषात्। तथा नलोपस्यासिद्धत्वादेत्वाप्राप्तौ वचनमिति माधवोक्तिरपि शिथिलमूला। श्रन्थेतिप्राग्भागो संयोगसत्वाद् ग्रन्थेरादेशादित्वाच्चैत्वाप्राप्तेरुद्भटतया नलोपसिद्धत्वासिद्धत्वविचारस्य काकदन्तपरीक्षाप्रायत्वादिति दिक्। कौमाराणां तु सर्वमिदं सूत्रारूढम्। तथा च शर्ववर्मणा सूत्रिंतम्-"आनिदनुबन्धानामगुणेनुषङ्गलोपः परोक्षायामिन्धिश्रन्थिग्रन्थिदम्भीनामिति। अस्यैकव्यञ्जनमध्येनादेशादेः परोक्षायाम् थलि च सेटि तॄफलभजत्रप्‌श्रन्थिग्रन्थिदम्भीनां चेति। अत्र निरनुषङ्गैः साहचर्यात् `शश्रन्थिथ' इत्यादीति दुर्गसिंहः। एवं स्थिते "दम्भेश्च" (काoवाo)इति वार्तिकभाष्ययोः सामान्यापेक्षज्ञापकतामाश्रित्य दम्भिप्रभृतीनामन्वत्रोक्तं पाणिनीयेऽपीष्टमिति कथञ्चित्समर्थनीयम्।
(अष्टाoसूo1-2-7)
मृडमृदगुधकुषक्लिंशवदवसः क्त्वा(अष्टाoसूo1-2-7)। गुधकुषक्लिशिभ्यः क्त्वो "रलोव्युपधात्" (अष्टाo1-2-26) इति विकल्पे प्राप्ते इतरेभ्यो "न क्त्वा सेट्"(अष्टाoसूo1-2-18) इति निषेधे प्राप्ते कित्त्वं विधीयते। मृडित्वा, मृदित्वा, गुधित्वा, कुषित्वा, क्लिशित्वा, उदित्वा, उषित्वा, "वसतिक्षुधोः"(अष्टाoसूo7-2-52) इतीट्। यजादित्वात्संप्रसारणम्।
(अष्टाoसूo1-2-8)
रुदविदमुषग्रहिस्वपिप्रच्छस्संश्च(अष्टाoसूo1-2-8)। एभ्यस्संश्चक्त्वा च कितौ स्तः। रुदविदमुषाणां "रलो व्युपधात्"(अष्टाoसूo1-2-26) इति विकल्पे, प्राप्ते ग्रहेस्तु विध्यर्थमेव। स्वपिप्रच्छ्योस्तु सन्नर्थम्। तावतैव चरितार्थत्वादनिटः क्त्व कित्त्वविधानं नियामकं स्यादिति न शङ्कनीयम्। रुदित्वा, रुरुदिषति, विदित्वा, विविदिषति, मुषित्वा, मुमुषिषति, गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति, पृष्ट्वा, पिपृच्छिषति, कित्त्वाद् ग्रहादीनां सम्प्रसारणं "किरश्च पञ्चभ्यः"(अष्टाoसूo2-7-5) इति प्रच्छेः सन इट्।
(अष्टाoसूo1-2-9)
इको झल् (अष्टाoसूo1-2-9)। इकः परो झलादिः सन् कित्स्यात्। चिचीषति, तुष्टूषति, चिकीर्षति। ननु विस्तुकृञ्भ्यः सनि कृते गुणं बाधित्वा "अज्झन"(अष्टाoसूo6-4-16)इतिदीर्घोऽस्तु किं कित्त्वेन?न च `पिपविषति'इत्यादावपि तथा स्यादिति वाच्यम् "अनुनासिकस्य क्वि" (अष्टाoसूo6-4-15) इति सूत्राज्झलनुवृत्त्या ढलादौ सनि दीर्घविधानात्। नचेहगुणमिव `ज्ञीप्सति' इत्यत्र णिलोपमप्यविशेषाद् दीर्घो बाधेत। कित्त्वे तु सति `चिचीषति' इत्यादौ कृतार्थो दीर्घो `ज्ञीप्सति' इत्यत्र परत्वात् णिलोपेन बाध्यत इति वाच्यम्, येननाप्राप्तिन्यायेन दीर्घस्य गुणापवादत्वात्। न च पुरस्तादपवादन्यायेन णिलोप एव बाध्य इति भ्रमितव्यम्, उभयापवादतासंभावनायामेव तदवतारात्। इह तु णिलोपेन सह येननाप्राप्तिविरहात्। न च बीध्यसामान्यचिन्तायां णिलोपबाधो दुर्वार इति वाच्यम्, "स्थाशपां ज्ञीप्स्यमानः"(अष्टाoसूo1-4-34)इति निर्देशात्‌लक्ष्यानुरोदाच्चेह बाध्यविशेषचिन्ताया एव युक्तत्वात्। न च कुटादौ "गु पुरीषोत्सर्गे"(तुoपाo14000), `ध्रुगतिस्थैर्ययोः"(तुoपo1401)इति पाठात् `जुगूषति'`दूधूषिति'इत्यत्र कृतार्थो दीर्घः परेण गुणेन बाध्यंतेति वाच्यम्, उहनेति वक्तव्ये "अज्झन" इति प्रत्याहारग्रहणस्य निरवकाशत्वात्। नच `गमेरिङादेशस्य'(काoवाo)इति वार्तिकं प्रत्याख्यातुं तन्त्रादिना सम्भवव्यभिचाराभ्यां गमेरचा विशेषयिष्यमाणत्वादज्ग्रहणसार्थक्यं शङ्क्यम्। एवं हि `उतो दीर्घः इत्युत्त्वा `इङ्हनोः' इति सूत्रयेत्। इणिको देशस्यापि ग्रहणमिति पक्षेऽपि `इहनोः' इति ब्रूयात्। हना साहवर्याच्च `इ'धातुरेव ग्रहीप्यते न त्विवर्णान्तः। यथान्यासपाठेपि हनिसाहचर्याल्लुग्विकरणस्यादेशगमेर्ग्रहणसम्भवाच्च। तस्माद्दीर्घविधिना गुणवाधात्किं कित्त्वेनेति? उच्यते, उत्तरार्थमवश्यम् "इको इल्"(अष्टाoसूo1-2-9)इति कर्तव्यम्। योगविभागः किमर्थ इति परमवशिष्यते। तत्राज्प्रहणसामर्थ्यस्य "ज्ञीप्स्यमानः"(अष्टाoसूo1-4-34)इत्यादेर्ज्ञापकस्य च पर्यालोचनाक्लेशपरिहारार्थं लक्षणैकचक्षुषो बाध्यसामान्यचिन्ताभ्रमं वारयितुं योगविभाग इति निष्कर्षः। वार्त्तिकं तु यथाश्रुताभिप्रायकम्। तद्यथा-
इक कित्त्वं गुणो मा भूहीर्घारम्भात्कृते भवेत्।
अनर्थकं तु ह्रस्ववार्थं दीर्घाणां तु प्रसज्यते।।
सामर्थ्याद्धि पुनर्भाव्यमृदित्त्वं दीर्घसंश्रयम्।
दीर्घाणां नकृते दीर्घे णिलोपस्तु प्रयोजनम्।।
अस्यार्थः-इक उत्तरस्य सनः कित्त्वं विधीयते गुणो मा भूदित्येवमर्थम्। दूषयति-दीर्घारम्भादिति। गुणो न भविष्यतीति शेषः। आरम्भवाद्याह-कृते भवेदिति। अयं भावः-"सनिमीमा"(अष्टाoसूo7-4-54)इत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति `चिचीषति' इत्यादौ कृतेपि दीर्घे गुणः स्यात्। दूषयति-अनर्थकं त्विति "मीनातिमिनोति"(अष्टाoसूo6-1-50)इत्यात्वे कृते गामादग्रहणेष्विशेषान्माग्रहणेनैव मिनोतिमीनात्योरपि सिद्धे मीग्रहणं तत्र मास्तु। तथा च दीर्घविधानं न कृतार्थमिति भावः। ह्रस्वार्थमिति। ह्रस्वेषु दीर्घः प्रवर्त्तताम्, न तु दीर्घेषु; अप्राप्ते शास्त्रमर्थवदिति न्यायात्। ततश्च `बभूषति' इत्यादौगुणः प्रसज्यत एवेत्यर्थः। दूषयाते-सामर्थ्यादिति। गुणनिवृत्तिरूपप्रयोजनसद्भावाद्दीर्घाणां दीर्घैर्भाव्यमेव। "मोराजि"(अष्टाoसूo8-3-25)इतिवदिति भावः। न चैवं दीर्घेण गुणस्येव ऋदित्वस्यापि बाधः स्यात्तथा च चिकीर्षति' इति न सिध्येदन आह-ऋदित्त्वमिति। "यं विधिं प्रति" इति न्यायाद् गुण एव बाध्येदत आह-ऋदित्त्वमिति। ननु `तितीर्यति' इत्यादौ तर्हि इत्वं बाध्यताम्, तत्राह-दीर्घाणामिति। इत्वोत्वयोर्हि गुण वृद्धी परत्वाद् बाधिके। ततश्च "अज्झन"(अष्टाoसूo6-4-16)इति दीर्घेण गुणबाधे सत्येवेत्यं लभ्यं न तु ततः प्राक्। एवं च यस्य तु विधेरित्यंशो ह्रस्व इव दीर्घेष्वविशिष्ट इति भावः। एवं प्राप्ते सिद्धान्तमाह-णिलोपस्त्विति।
(अष्टाoसूo1-2-10)
हलन्ताच्च(अष्टाoसूo1-2-10)। कर्मधारयोऽयम्। अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमपि निपातनान्न पूर्वं निपतितः। इक इति पञ्चम्यन्तमपीह षष्ठ्य विपरिणम्यते तत्सापेक्षोऽप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते। इक्समीपाद्धलः परो झलादिः सन कित्स्यात्। बिभित्सति। इकः किं? यियक्षते। झल् किम्? विवर्धिषते। कथं `धिप्सति' इति? हल्‌ग्रहणस्य जातिपरत्वात्सिद्धमित्युपपादितं "निपात एकाज्"(अष्टाoसूo1-1-14)इति सूत्र।
(अष्टाoसूo1-2-12)
लिङ्सिचावात्मनेपदेषु(अष्टाoसूo1-2-12)। इक्‌समीपीद्धलः परौ झलादी लिङ् तङ्परःसिच्चेत्येतौ कितौ स्तः। भित्सीष्ट, अभित्त। इकः किम्? यक्षीष्ट, अयष्ट। सम्प्रसारणं मा भूत्। आत्मनेपदेष्विति किम्? अस्त्राक्षीत्, अद्राक्षीत्। अकितीत्युक्तेर्म्, न स्यात्। सि व एवेदं विशेषणं नतु लिङ्गोऽसम्भवात्, झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्त्तितत्वाच्च। हलः किम्? चेषीष्ट, अचेष्ट। झल् किम्? वर्त्तिषीष्ट, अवर्त्तिष्ट।
(अष्टाoसूo1-2-12)
उश्च(अष्टाoसूo1-2-12)। ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। कृषीष्ट, अकृत। झलादौ किम्? वरिषीष्ट, अवरिष्ट। "लिङसिचोः"(अष्टाoसूo7-2-42)इतीट्। तङि किम्? अकार्षीत्। ऋ इति वर्णग्रहणं व्याप्तिन्यायात्।
(अष्टाoसूo1-2-13)
वा गमः(अष्टाoसूo1-2-13)। गमः परौ झलादी लिङ्‌सिचौ वा कितौस्तः। सङ्गसीष्ट, सङ्गं सीष्ट। समगत, समगंस्त। कित्त्वपक्षे "अनुदात्तोपदेशवनति"(अष्टाoसूo6-4-37)इत्यादिनाऽनुनासिकलोपः।
अष्टाoसूo1-2-13)

हनः सिच्(अष्टाoसूo6-4-14)। हन्तेः परः सिच् कित्स्यात्। आहत, आहसाताम्, आहसत। सिचः कित्त्वादनुनासिकलोपः। यद्यपि सिजन्तस्याङ्गस्यात्मनेपदं ङित्वरमस्तीति "अनिदिताम्"(अष्टाoसूo6-4-24)इत्येव सिद्धं तथाऽपि सिजन्तस्योपधालोपो नेति ज्ञापनार्थमिदम्। तेन `अमंस्त' इत्यादि सिद्धम्। न च "अनिदिताम्"(अष्टाoसूo6-4-24) इति पर्युदासः शङ्क्यः, सिच इकारस्योच्चारणार्थत्वात्। अन्यथा नुमापत्तेः। न च धातुग्रहणेन तद्‌व्युदासः। "धातुग्रहणमुपदेशे नुम्प्रवृत्त्यर्थम्" इति कुण्डा, हुण्डा इत्यादिसिद्धये भाष्य एव वक्ष्यमाणत्वात्। न च तासेर्व्यावृत्तये तत्, तत्रापीकारस्योच्चारणार्थत्वात्। न चैवं `मन्ता' `हन्ता' इत्यादावात्मनेपदे उपधालोपापत्तिः। आभीयस्य तांसष्टिलोपस्यासिद्धत्वात्। "आभात्"(अष्टाoसूo6-4-22)सतप्रत्याख्यानपक्षे तु विकरणप्रयुक्तमुपधात्वमाश्रित्य लोपो नेति सामान्यांपक्षं ज्ञापकमस्तु। अङ्गवृत्तपरिभाषया वा `मन्ता' `हन्ता' इति साध्यताम्। ननु `आहत' इत्यत्रातो लो11"अतो लोपः"(अष्टाoसूo6-4-48)इत्येतमित्यर्थः।पं व्यावर्तयितुं समानाश्रयत्वप्रयुक्ताऽसिद्धताऽपेक्ष्यते, सा च सिचः कित्त्वं विना न निर्वहतीति कथं ज्ञापकतेति चेत्? न, आर्धधातुकोपदेशे यदकारान्तमिति व्याख्यानादेव लोपाप्रवृत्तेः। जयादित्यस्तु सिच्तास्योरिदित्करणमनुनासिकलोपप्रतिपेधार्थमित्याह। तन्मते धातुग्रहणस्य तद्व्यावृत्त्या कृतार्थत्वात् "नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्ध्यर्थम्" इति वचनमेव शरणीकरणीयमिति दिक्। यद्यपीह "लङ्सिचौ"(अष्टाoसूo1-2-11)इत्यनुवृत्त्या सिद्धं तथाप्युत्तरार्थमवश्यं कर्तव्यं सिज्ग्रहणं स्पष्टत्वार्थमिहैव कृतम्। अन्यथा हि लिङि वधादेशो नित्यः, `घानिपीष्ट' इति चिण्‌वदिटि "स्थानिवत्"(अष्टाoसूo1-1-56)सूत्रोक्तरीत्या वधादेशाभावेऽपि अझलादित्वान्न कित्त्वमित्यादि व्युत्पादनीयं स्यात्।

(अष्टाoसूo1-2-15)
यमो गन्धने(अष्टाoसूo1-2-15)। सूचनार्थाद्यमेः सिच् किरपात्। उदायत, उदायसाताम्, उदायसत। धातूनामनेकार्थत्वात्सूचनेऽत्रयमि र्वर्त्तते। तच्च परदोषाविष्करणम्। "आङो यमहनः"(अष्टाoसूo1-3-28)इत्यात्मनेपदं, धात्वर्थेनोपसङ्ग्रहादकर्मकत्वात्। सिचः कित्त्वादनुनासिकलोपः। गन्धने किम्? उदायंस्त पादम्। आकृष्टवानित्यर्थः। स्वाङ्गकर्मकत्वात्तङ्। उदायंस्त कृपाद्रज्जुम्। उद्‌धृतवानित्यर्थः। सकर्मकत्वेऽपि "समुदाङ्भ्यो यमोऽग्रन्थे"(अष्टाoसूo1-3-75) इत्यात्मनेपदम्।
(अष्टाoसूo1-2-16)
विभाषोपयमने(अष्टाoसूo1-2-16)। यमेः सिच् किद्वा स्याद्विवाहे। रामः सीतामुपायत, उपायंस्त वा। उदवोढ़ोत्यर्थः। "उपाद्यमः स्वकरणे"(अष्टाoसूo1-3-56)इति तङ्। "गन्धनाङ्गे तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्त्वम्" इति "नवोतिविभाषा"(अष्टाoसूo1-1-44)इति सूत्रे भाष्ये स्थितम्।
(अष्टाoसूo1-2-17)
स्थाघ्वोरिच्च(अष्टाoसूo1-2-17)। अनयौरिदादेशः स्यात्सिच्च कित्स्यात्। उपास्थित, उपास्थिषाताम्, उपास्थिषत। "उपान्मन्त्रकरणे"(अष्टाoसूo1-3-25)"अकर्मकाच्च"(अष्टाoसूo1-2-26)इति तङ्। घोः-अदित, अधितः घुस्थोरितीह वक्तुं युक्तम्। यद्यपि जयादित्येन "वा गमः"(अष्टाoसूo13)इत्यारभ्य पञ्चसूत्र्यामा त्मनेपदेष्वित्यनुवर्त्तितं तथापि निष्फलत्वादुरेक्ष्यम्। तथाहि-गमेः परस्मैपदे सिज्नास्ति, अङा बाधात्। लिङ् तु न झलादिः। न चात्मनेपदमेवानुवर्त्य झल्ग्रहणं त्याज्यमिति वाञ्यम्, उत्तसूत्रस्य `अघानिपाताम्' इति चिण्वदिटि अतिव्याप्त्यापत्तेः। हन्तेस्तु परस्मैपदे वधादेशो नित्यः। यमेस्तु "यमरम"(अष्टाoसूo7-2-73-) इती ट्सकोः सतोर्झलादिः सिच् परस्मैपदे नास्ति। उपयमे तु नित्यमात्मनेपदम्। स्थाघ्वोः परस्मैपदे सिचो लुक्। एवं स्थिते "हनः सिच्"(अष्टाoसूo1-2-14)इति सूत्रे यदुक्तं वृत्तिकृता आत्मनेपदग्रहणमुत्तरार्थमनुवर्त्ततं इति। तदप्यापातरमणीयमेव। तस्माद्यथाव्याख्यानमेव साधु। स्यादेतत्-भाव्यमानस्य सवर्णाग्राहकत्वादिति तपरकणं व्यर्थम सत्यम्। इश्चेत्युक्तेपि लाघवे विशेषाभावादिच्चेत्युक्तमिति तत्त्वम् भाव्यमानोऽपि क्वचित्सवर्णान् गृह्‌णातीति कृशकाशावलम्वेन वार्त्तिकम्।
इच्च कस्य तकारेत्वं दीर्घौ भूदृतेऽपि सः।
अनन्तरे प्लुतो भूत् प्लुतश्च विपये स्मृतः।। इति ।।
अस्यार्थः-इच्चेति नकारेत्वं कस्य चित् सिद्धये इति प्रश्नः। हेतोरपि समान्यतः सम्बन्धित्वेनैव विवक्षायां षष्ठी, अन्यथा "हेता"(अष्टाoसूo2-3-23)इति तृतीयो स्यात्। अत्र तकारस्येत्वोक्तिरापातत इत्युक्तम् "एओङ्"(माoसूo3)सूत्रे। यद्वा तकारमेतीति तकारेत्। तपर इति व्याख्येयम्। तथा च भाष्यम्-"कस्य हेतीरिकारस्तपरः क्रियते" इति। `अमूभ्याम्' इत्यादाविव भाव्यमानोप्यान्तरतम्याद्दीर्घो मा भूदित्युत्तरम्। कृतेऽपीति। इच्चेत्यंशादृतेपि "स्थाघ्वोः"(अष्टाoसूo1-2-17)इति कित्त्वे सति "घुमास्था"(अष्टाoसूo6-4-66)इतीत्वेन सिद्धे विधानसामर्थ्यादनन्तरमोऽपि ह्रस्वः सिद्धस्तत्किं तपरेणोति पुनः प्रश्नः। अनन्तरे इति। असदृशे आदेशे क्रियमाणे ह्रस्व इव प्लुतोपि स्यात्स मा भूदित्यर्थः। प्लुतश्चेति। विषयविशेषे वाक्यस्य टेरित्यधिकृत्य हि प्लुतो वक्ष्यते। अत एव "कुरूनगमन्न" इत्यादौ स्मृतः, न तु "अस्थितम्" इत्यादौ, अटित्वात्। तथा चेष्टापत्तिर्न कार्येति तत्परत्वं समर्थितम्। प्राञ्चस्तु अनन्तरेऽविद्यमानेपि विशेषे "घुमास्था"(अष्टाoसूo6-4-66)इतीत्वेन सिद्धेपीति यावत्। प्लुतो मा भूदित्येतदर्थं दीर्घः स्यात् "मोराजि"(अष्टाoसूo8-3-25)इतिवत्। अस्तेववमिति चेत्, न, प्रश्नाख्यानादिरूपे विषये प्लुतस्येष्यमाणत्वात्। तदेवं स्थलान्तरे भिन्नकालनिवृत्त्यर्थमपि तपरत्वमिह दीर्घनिवृत्तिद्वारा प्लुतसिद्ध्यर्थं पर्यवस्यतीति व्याचख्युः। अपरे तु यद्यनेन प्लुतो विधीयते तर्हि यत्राष्ठमिकस्य विषयस्तत्राप्यनेनैव स्यात् तस्यासिद्धत्वात्। ततश्च पक्षेऽनुवाददोषः स्यात्। अतौ ह्रस्व एव भविष्यतीति तपरकरणप्रत्याख्यानपरश्चतुर्थवरण इति व्याचख्युः। एतच्च मतद्वयमत्ययुक्तम्। अनन्त्यस्यापीत्यादीनां टिसंज्ञा विरहादिहाप्रबृत्तेः। कैयटोऽपि मतद्वयखण्डनपरतयैव नेयः। न्यासहरदत्तादयस्तु आष्टमिकग्रन्थैर्वत्त्यादिभिश्च विरोधादुपेक्ष्यः। भाष्यं त्वस्मदुक्तव्याख्यानुगुणमेव। यदा विषयस्तदैव प्लुतेन भवितव्यमिति योजनया नेह प्लुतस्य विषयोऽस्तीति ध्वनितत्वादिति दिक्।।
(अष्टाoसूo1-2-18)
न क्त्वा सेट्(अष्टाoसूo1-2-18)सेट् क्त्वा किन्न स्यात्। देवित्वा। सेट् किम्? कृत्वा। क्त्वा किम्? निगृहीतिः। अत्र वार्तिकम्-
नसेडिति कृतेऽकित्त्वं निष्ठायामवधारणात्।
ज्ञापकान्न परीक्षायां सनि झल्ग्रहणं विदुः।
इत्वं कित्सन्नियोगेन रेण तुल्यं सुधीवति।
वस्वर्थ किदतीदेशाद् गृहीतिः क्त्वा च विग्रहात्।।
अस्यार्थः-पूर्वार्द्धमेको गन्थः। तत्रोत्तरार्धान्नेत्यपकृप्यते। क्त्वाग्रहणं त्यक्त्वा नसेडित्येतावतापि योगेनाकित्त्वे कृते `गुधितः' इत्यादौ निष्ठायां नाकित्वम्। कुतः?। अवधारणात्। "निष्ठाशींङ्"(अष्टाoसूo1-2-19)इत्यनेन, शीङादिभ्य एव निष्ठा न किदिति नियमादित्यर्थः। विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते। न चैवं लिटि प्रतिषेधात् `जाग्मिव' इत्यादावुपधालोपो न स्यादत आह-ज्ञापकादिति। किं तत्? तत्राह-सनीति। `शिशयिषते' इत्यत्र कित्वं वारयितुं क्रियमाणम् "इको झल्"(अष्टाoसूo1-2-9)इति झल्ग्रहणं ज्ञापयति--"आतिदेशिकस्य र्कित्वस्य नायं निषेधः" इति। ननूत्तरार्थं झल्ग्रहणं स्यात् नेत्याह-इत्वमिति। `उपस्थायिषतां हरिहरौ भक्तेन' इत्यत्र अस्था स आताम् इति स्थिते इत्वम्प्राप्तञ्चिण्वद्भावश्च। परत्वाच्चिण्वद्भावे कृते युक् च प्राप्त इद्विधिश्च। अपवादत्वाद्युकि कृते यकारस्येत्प्रसङ्गः। तं वारयितुं झल्ग्रहणमिति ज्ञापकभङ्गवादिनो मत्म्, तन्न, न सेडिति सिचोपि कित्त्वे निषिद्धे तत्सन्नियोगशिष्टतया इत्त्वस्याप्रवृत्तेः। अत्र दृष्टान्तमाह-रेणेति। शोभना धीवानोस्यां `सुधीव' इत्यत्र "अनो बहुव्रीहेः"(अष्टाoसूo4-1-12)इति ङीपो निषेधे "वनोरच"(अष्टाoसूo4-1-7)इति रेफोपि न भवति तथेत्यर्थः। भाष्ये त्वभ्युपेत्यापि समाहितम् "इत्त्वे कृतेऽपि वृद्धिर्भविष्यात" इति। युका हि आकारस्य वृद्धिर्बाध्यते न त्विकोरस्यापीति भावः। `जग्मिवान्' इत्यत्र क्वसोः कित्त्वनिषेधं वारयितुं त्क्वाग्रह इति शङ्कते-वस्वर्थमिति। दूषयतिकिदतिदेशादिति। औषदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धम्। तदनिषेधस्य ज्ञापितत्त्वादिति भावः। स्यादेतत्-संयोगान्तेष्वातिदेशिककित्त्वाभावादौपदेशिकमेव शरणम्। अञ्जेः `आजिवान्'इति यथा। अत्राहुः-आनुपूर्व्यात्सिद्धम्। नलोपे कृते द्विर्वचने एकादेशे च "वस्वेकाज्"(अष्टाoसूo7-2-67)इतीट्। कृतद्विर्वचनानामेकाचामिति सिद्धान्तात्। न चेदानीं कित्त्वप्रतिषेधः, उपजीव्यविरोधात्। कित्त्वे हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहल्‌त्वान्नुटि एकाच्‌त्वाभावादिडेव नावतिष्ठेत। किञ्च क्वसोश्छान्दसत्वात्सार्वधातुकत्वे "सार्वधातुकमपित्"(अष्टाoसूo1-2-4)इति ङित्वात्सिद्धम्। एवं स्थिते सिद्धान्तमाह-गृहीतिरिति। किन्निवृत्त्यर्थं क्त्वाग्रहणमित्यर्थः। तितुत्रेष्वग्रहादीनामितीट्। कित्त्वासंप्रसारणम्। एवं "क्रुञ्च कौटिल्याल्पीभावयो-"(भ्वाoपo186)निकुचितिः, कित्त्वन्नलोपः। उपस्निहितिः, कित्त्वान्न गुणः। इदानीं क्त्वाग्रहणं प्रत्याचष्टे-क्त्वाचेति। विग्रहादिति। योगविभागादित्यर्थः। अयं भावः-न सेण्निष्ठाशीङित्यादित्रिसत्रीं पठित्वा "पूडः क्त्वाच"(अष्टाoसूo1-2-22)इत्यत्र योगो विभज्यते। पूडः परा सेण्निष्ठा किन्न स्यात्। ततः त्क्वा च सेट् किन्नेत्यनुवर्तते पूङ इति निवृत्तम्। एवं चैकं क्त्वाग्रहणं प्रत्याख्यातम्। योगविभागस्तु पूर्वमेकसूत्रेण सह निर्मातव्यः।
(अष्टाoसूo1-2-19)
निष्ठासीङ्स्विदिमिदिक्ष्विदिधृषः(अष्टाoसूo1-2-19)। एभ्यः परा सेण्निष्ठाकिन्न स्यात्। शयितः, शयितवान्। अनुबन्धनिर्देशो यङ्लुङ्‌निवृत्त्यर्थः। शेश्यितः, शेश्यितवान्। "एरनेकाचः"(अष्टाoसूo6-4-22)इति यण्। ञिष्विदा स्नेहनमोचनयोः(भ्वाoआo744)। भ्वादिः। प्रस्वेदितः, प्रस्वेदितवान्। यस्तु "ष्विदा गात्रप्रक्षरणे"(दिoपo1188)इति दिवादिरञित् स नेह गृह्यते। ञिद्भिः साहचर्यात्। "ञिमिदास्नेहने"(भ्वाoआo743)। प्रमेदितः, प्रमेदितवान्। "ञिक्ष्विदा स्रेहनमोचनयोः"(दिoपo1245)इति दिवादिर्गृह्यते न तु "ञिक्ष्विदा अव्यक्ते शब्दे"(भ्वाoपo178)इति भ्वादिरपि, मिदिना साहचर्यादिति हरदत्तस्तच्चिन्त्यम्। भ्वादिष्वपि मिदेः पठ्यमानत्वात्। तस्मादविशेषादुभयोग्रहणं न्याय्यम्। प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रधर्षितः प्रधर्षितवान्। सेट् किम्? स्विन्नः, स्विन्नवान्। "आदितश्व"(अष्टाoसूo7-2-16)इतीण्‌निषेधः। "विभाषा भावादिकर्मणोः" इति पक्षेऽभ्यनुज्ञायते। स कित्त्वप्रतिषेधस्य विषयः।
(अष्टाoसूo1-2-20)
मृषस्तितिक्षायाम्(अष्टाoसूo1-2-20)। सेण्निष्ठा किन्न स्यात्। मर्षितः, मर्षितवान्। क्षमायां किम्? अपमृषितं बाक्यम्। अविस्पष्टमित्यर्थः। तितिक्षाग्रहणं ज्ञापकं भीमसेनादिकृतोर्थनिद्‌र्देश उदाहरणमात्रं न तु परिसंख्येति।
(अष्टाoसूo1-2-21)
उदुपधाद्भावादिकर्मणोरन्यतरस्याम्(अष्टाoसूo1-2-21)। उकारोपधाद्धातोः परा भावादिकर्मणोर्विहिता सेण् निष्ठा वा किन्न स्यात्। द्युतितम्, द्योतितम्। मुदितं, मोदितं साधुना। प्रद्युतितः, प्रद्योतितः। प्रमुदितः, प्रमोदितस्साधुः। उदुपधात्किम्? किटितम्, खिटितम्। भावेत्यादि किम्? रुचितङ्कार्षापणम्। सेट् किम्? क्रुष्टम्। "उदुपच्छिपः" इति भाष्यम्। शब्विकरणेभ्य एवेष्यत इत्यर्थः। नेह-"गुधपरिवेष्ठने"(दिoपo1120)दिवादिः। गुधितम्।
अष्टाoसूo1-2-22)
पूडः क्त्वा च(अष्टाoसूo1-2-22)। पूङः परे सेट्‌क्त्वानिष्ठे कितौ न स्तः। नित्योयं योगः विभाषयोर्मध्ये पाठात्। पवितः, पवितवान्, पवित्वा। "क्लिशः क्त्वानिष्ठयो-"(अष्टाoसूo7-2-50)"पूङश्च"(अष्टाoसूo7-2-51)इतीट्। "नक्त्वासेट्"(अष्टाoसूo1-2-18)इति सिद्धे क्त्वाग्रहणं प्रागुक्तरीत्यायोगविभागेन तत्‌प्रत्याख्यानार्थम्। सत्ररीत्यातूत्तरार्थम्। तथा च भारद्वाजीयाः पठन्ति "नित्यमकित्त्वमिडाद्योः क्त्वाग्रहणमुत्तरार्थम्" इति। कात्यायनस्तु, इह सेडिति निवर्त्य विकल्पं चानुवर्त्य अनिट एव कित्त्वं विकल्प्य कित्त्वाभावे `पवितः' पवित्वा' इत्या दिसिद्धौ कित्त्वपक्षे श्र्युकः किति"(अष्टाoसूo7-4-11)इतीण्‌निषेधात् `पूतः' `पूतवान्' इत्यादिसिद्धौ सत्याँ "पूङश्च"(अष्टाoसूo6-2-51)इति सूत्रं प्रत्याचख्यौ उत्तरसत्रे वाग्रहणं च। किन्त्वस्मिन्पक्षे उत्तरत्र सेड्‌ग्रहणं मण्डूकप्लुत्याऽनुवर्तनीयमिति क्लेशः। पूर्वकृतं क्त्वाप्रत्याख्यानं त्विदानीं न सङ्गच्छते "मृडमृद"(अष्टाoसूo1-2-7)इति ज्ञापकाद्वान क्त्वासेडित्यर्थः साधनीयः। न च स्वपिप्रच्छिग्रहणादनिट्‌कस्याप्यकित्त्वं स्यादिति वाच्यम्। तस्य सनर्थत्वात्। अन्यथा क्त्वः कित्त्वस्या वैयर्थ्यापत्तेश्चेति दिक्। इदं त्ववधेयम्। `पूडः क्त्वाच"(अष्टाoसूo1-2-22)इत्यत्र सानुबन्धनिर्द्देशः स्पष्टार्थो न तु पूञो निवृत्त्यर्थः। तत्रेटो दुर्लभत्वात्। इड्‌विधौ पूङ एव निर्द्दिष्टत्वात्। नापियङ्‌लुङ्‌निवृत्त्यर्थः। इड्‌विधावनुबन्धनिद्‌र्देशेनयङ्‌लुकि पूङोऽपोडभावात् यत्तुं यङ्‌लुक्याधेधा तुकस्येडितीडस्त्येवा न च "श्युकः किति"(अष्टाoसूo7-4-11)इतीण्‌निषेधः। तत्रैकाच इत्यनुवर्तनात्। उक्तं हि यङ्‌विधौ वार्त्तिककृता, एकाचश्चेदुपग्रहादिति। एवं यङ्‌लुङ्‌निवृत्त्यर्थमनुबन्धोच्चारणम् इति मतम्। अस्मिन् पक्षे पोपुवितः, पोपुवितवान् इति निष्ठायां भवति क्त्वायां तु गुणे `पोपवित्वा' इत्येव। "न क्त्वासेट्"(अष्टाoसूo1-2-18)इति कित्त्वप्रतिषेधः। न च क्त्वाग्रहणसामर्थ्यात्तस्यापि यङ्‌लुकि प्रतिषेधः। तस्योत्तरार्थत्वात्। अनुबन्धनिद्‌ शस्य च निष्ठायां चरितार्थत्वात्। अत एव "क्त्वा च विग्रहात्'(काoवाo)इति वार्तिकं सङ्गच्छते। इह किञ्चित् त्रपो इतीति न्यायेन प्रकृतेप्युपयोगे हि तद्विरुध्येत। अत एव "क्त्वाग्रहणमुत्तरार्थम्" इति भारद्वाजीयोक्तिरपि सङ्गच्छते इति दिक्।
(अष्टाoसूo1-2-23)
नोपधात्थफान्ताद्वा(अष्टाoसूo1-2-23)। निष्ठेति निवृत्तं चानुकृष्टावात्। न कारोपधात् थान्तात् फान्ताच्च परः सेट् क्त्वा किन्न स्याद्वा। ग्रथित्वा, ग्रन्थित्वा। गुफित्वा, गुम्फित्वा। नोपधात् किम्? "रिफ कत्थनादौ"(तुoपo1307)रेफित्वा। इह "रलो व्युपधात्"(अष्टाoसूo1-2-26)इति विकल्पोपि न प्रवर्तते। नोपधग्रहणसामर्थ्यात्। ननु "तृफ तुम्फ हिं11.हिंसायामिति चिन्त्यम्, तृप्तावित्यस्य धातुपाठदर्शनात्। हिंसा यामिति तु तुफ धात्वोर्वर्ततेऽर्थ इति तावेवात्र वा बोध्यौ।सायाम्"।(तुoपo1308-9)अत्राद्य ऋकारापधत्वात् नोपधग्रहणस्य व्यावर्त्योस्त्विति चेत्, मेवम्, अर्पित्वा, तृफित्वा, तृम्फित्वा, इति त्रैशब्द्यस्य नोपधग्रहणसत्वासत्वयोरविशिष्टत्वात्। सति हि तस्मिन् "न क्त्वा सेट्"(अष्टाoसूo1-2-18)इति प्रवृत्ते ऋदुपधस्य `अर्फित्वा' इति भवति। नोपधस्य त्वस्मिन् विकल्पे तृफित्वा, तृम्फित्वा, इति। असत्यपि नोपधग्रहणे सर्वत्र प्रकृतविकल्पप्रवृत्तौ सत्यां तदेव रूपत्रयम्।
(अष्टाoसूo1-2-24)
वञ्चिलुच्यृतश्च(अष्टाoसूo1-2-24)। एभ्यः सेट् क्त्वा न कित् स्याद्वा। "वञ्चु गतौ"(भ्वाoपo189)भ्वादिः। `वञ्चुप्रलम्भने'(चुoआo1704)चुरादिः सोऽपि गृह्यते चुरादीनामनित्यण्यन्तत्वात्। वचित्वा, वञ्चित्वा। "उदितोवा"(अष्टाoसूo7-3-56)इति वेट्। इडभावे तु कित्त्वमस्त्येव। वक्त्वा। "लुञ्च अपनयने"(भ्वाoपo187)। लुचित्वा, लुञ्चित्वा। "ऋतेरीयङ्"(अष्टाoसूo1-1-29)आर्धधातुके विकल्पितः। तदभावे ऋतित्वा, अर्तित्वा। सूत्रे उच्चारणार्थ इकारो वञ्चिलुञ्चीति न त्विक् नलोपप्रसङ्गात् ऋदिति धातुरेव गृह्यते। न तु ऋदन्ताः पूर्वसूत्रेन्तग्रहणेनेह प्रकरणे यत्नं विना तदन्तविधिर्नेति ज्ञापितत्वात्।
(अष्टाoसूo1-2-25)
तृषमृषिकृषेः काश्यमम्य।(अष्टाoसूo1-2-25)एभ्यः सेट् क्त्वा किद्वा स्यात्। काश्यपग्रहणं पूजार्थं, वेतिपक्रमात्। "न क्त्वा सेट्"(अष्टाoसूo1-2-18)इति निषेधे प्राप्ते विकल्पोयम्। "नृष पिपासायाम्"(दिoपo1229)तृषित्वा, तर्षित्वा। "मृष तितिक्षायाम्"(दिoउo1164)मृषित्वा मर्षित्वा। "कृश तनूकरणे"(दिoपo1228)कृशित्वा, कर्शित्वा। न्यासग्रन्थे तु "कृष विलेखने"(भ्वाoपo990)इति क्वाचित्कः प्रमादपाठः। अनिट्‌त्वात्।
(अष्टाoसूo1-2-26)
रलो व्युपधाद्धलादेः सञ्श्च(अष्टाoसूo1-2-26)उश्च इश्च वी ते उपधे यस्य तस्माद्धलादेरलन्तात् परा क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा, दिद्युतिषते, दिद्योतिषते। "द्युतिस्वाप्योः'(अष्टाoसूo7-4-67)इति सम्प्रसारणम्। रलः किम्? देवित्वा, दिदेविषति। व्युपधात् किम्? वर्तित्वा, विवर्त्तिषते। हलादेः किम्? एषित्वा, एषिषिषति। इह नित्यमपि द्वित्वं गुणेन बाध्यते ओणेर्ऋदित्करणेन सामान्यत उपधाकार्यस्य द्वित्वात्प्रबल्यज्ञापनात्। सेट् किम्? भुक्त्वा, बुभुक्षते। आदिग्रहणं स्पष्टार्थम्। व्युपधस्य हलन्तत्वाव्यभिचारात्।
(अष्टाoसूo1-2-27)
ऊकालोज्झ्रस्वदीर्घप्लुतः। (अष्टाoसूo1-2-27)ह्रस्वदीर्घप्लुत इति समाहारद्वन्द्वः। सौत्रं पुंस्त्वम्। ऊ इति त्रयाणां प्रश्लेषेण निर्द्देशः। तत्र न तावदन्ते मात्रिकः। "विभाषा पृष्टप्रतिवचनेहेः"(अष्टाoसूo8-2-93)इति हेः प्लुतविधानात्। नापि मध्ये "सुपि च"(अष्टाoसूo7-3-102)इति दीर्घविधानात्। द्विमाविकस्तु नान्ते। "ओमभ्यादाने"(अष्टाoसूo8-2-87)इति प्लुतविधानात् परिशेषादेकमात्रद्विमात्रत्रिमात्राणां क्रमः सिद्धः। यत्तु-
"घित्त्वात्पूर्वम्भवेद् ह्रस्वः प्लुतोन्ते सन्धितो मतः"।
इति मैत्रेयः। तद्भाप्यादर्शनप्रयुक्तम्। यतः व्यत्यासे एकमात्रस्य ह्रस्वत्वं त्रिमात्रस्य प्लुतत्वमित्येव दुर्लभमिति भगवतैव दृषितम्। "ईचाक्रवर्मणस्य"(अष्टाoसूo6-1-131)इत्यत्रेवेहापि सूत्रे केचिद् ई इति प्लुतद्योतिकां लिपिं लिखन्ति। तत्प्रामादिकं, दीर्घस्यैवौनित्यात्। तदयमर्थः-उश्च ऊश्च ऊ उ श्च वः कालः परिच्छेदको यस्य सोच्क्रमाद्ध्रस्वादिसंज्ञः स्यात्। संज्ञाप्रदेशः-"ह्रस्वस्य गुण-'(अष्टाoसूo7-3-108)हे हरे "दीर्घोऽकितः"(अष्टाoसूo7-4-83)पापच्यते। "वाक्यस्य टेः प्लुतः"(अष्टाoसूo8-2-82)एहि कृष्ण 3। स्यादेतत्-उकालोच्ह्रस्य इति वाक्यार्थे ह्रस्वेनोकारेणाण्त्वात्सवर्णग्रहः स्यात्, मैवम्, एवं सति ह्रस्वसंज्ञां न विदध्यात्, अच्संज्ञयैव सिद्धेः। तस्मात्संज्ञारम्भसामर्त्यान्नेह सवर्मग्रहः। महासंज्ञाया अन्वर्थत्वाच्च कालशब्दसामर्थ्याच्च। "उरन्" इत्युक्तेऽपि यथा-श्रुतेऽज्ग्रहणं व्यर्थम्, उकारस्याच्त्वाव्यभिचारात्। न यत्नतः, अव्यभिवाचारात्। परिशेषात्कालत एवेति सिद्धे कालग्रहणं गृह्यमाणेनैव परिञ्छेदलाभार्थम्। "ह्रस्वनद्यापः"(अष्टाoसूo7-1-54))इत्यादिलिङ्गाच्च। यदि हि लुमत्संज्ञानां लोपसंज्ञेव दीर्घप्लुतसंज्ञ्योर्ह्रस्वसंज्ञा व्यापिका तर्हि किं नद्याब्‌ग्रहणेन। न च नियमार्थः सः। विध्यर्थत्वे लाघवादिति दिक्। यद्वा `अशब्दसंज्ञा' इत्यनुवर्त्य सप्तम्या विपरीणमय्य शब्दसंज्ञायां सवर्णग्रहणं नेति व्याख्येयम्। न चैवमुदात्तादिसंज्ञाविधावच्शब्दो न सवर्णं गृह्णीयादिति वाच्यम्। "वाक्यस्य टेः प्लुत उदात्तः"(अष्टाoसूo8-2-82)इति लिङ्गेनाशब्दसंज्ञायामित्थस्यानित्यत्वात्।
(अष्टाoसूo1-2-28)
अचश्च(अष्टाoसूo1-2-28)। यत्र ह्रस्वो दीर्घः प्लुत इति शब्दैरज्विधीयते तत्राच इति पदं पूरणीयम्। "इको गुणवृद्धी"(अष्टाoसूo1-1-3)इत्यनेन तुल्यमेतत्। न त्वलोन्त्यस्य शेषोपवादो वा। तेन "शमामष्टानां दीर्घः"(अष्टाoसूo7-3-74)इत्यत्र शमादिभिरचो विशेषणात् `शाम्यति' इत्यादि सिद्धम्। "ह्रस्वो नपुंशके"(अष्टाoसूo1-2-47)इत्यत्र त्वजन्तस्य प्रातिपदिकस्येति व्याख्यानात्, अलोन्त्यस्य ह्रस्वः। अतिरि, अतिनु। नेह-सुवाक् ब्राह्मणकुलम्। "वाक्यस्य टेः प्लुत उदात्तः"(अष्टाoसूo8-2-82)अत्र टेरच इति व्याख्यानात्। अग्निचित्, सोमसुत्। अजित्यनुवृत्तिसामर्थ्यात्स्वसंज्ञया विधाने इति लभ्यते। नेहद्यौः, पन्थाः, सः।
(अष्टाoसूo1-2-29)
उच्चैरुदात्तः(अष्टाoसूo1-2-29)ताल्वादिषु भागवत्सु स्थानेषु वर्णा निष्पद्यन्ते तत्र ऊर्ध्वभागे निष्पन्नोऽजुदातसंज्ञः स्यात्। प्रदेशाः "आद्युदात्तश्च"(अष्टाoसूo3-1-3)इत्येवमादयः।
(अष्टाoसूo1-2-30)
नीचैरनुदात्तः(अष्टाoसूo1-2-30)। स्पष्टम्। प्रदेशा "अनुदात्तौ सुप्पितौ"(अष्टाoसूo3-1-4)इत्यादयः।
समाहारः स्वरितः(ऋष्टाoसूo1-2-31)। समाहृतिः समाहारः। उदात्तत्वानुदात्तत्वयोरज्धर्मयोर्मेलनम्, तद्वान् स्वरितसंज्ञः स्यात्। सूत्रे अर्शआद्यच्।
तस्यादित उदात्तमर्धह्रस्वम्(अष्टाoसूo1-2-32)। अर्द्धहृस्वशब्देनार्द्धमात्रालभ्यते। प्रकृतत्त्वादेव सिद्धे तस्येति वचनेन दीर्घस्यापि स्वरितस्य ग्रहणात्। यद्वा-ह्रस्वग्रहणमविवक्षितम्। तेन स्वरितस्यादौ अर्द्धमात्रा अर्द्धं वा उदात्तं बोध्यम्। शिष्टं तु अनुदात्तं परिशेषात्। क्वचित्तु तस्य वाचनिकी एकश्रुतिः। तथा च बह्‌वृचप्रातिशाख्यम्।
एकाक्षरसमावेशे पूर्वयोः स्वरितः स्वरः।
तस्योदात्ततरोदात्तादर्धमात्रार्द्धमेव वा।।
अनुदात्तः परः शेषः स उदात्तश्रुतिर्न चेत्।
उदात्तं वोयच्यते किञ्चित् स्वरितं वाक्षरं परम्।। इति ।।
पूर्वयोः उदात्तानुदात्तयोः। तस्य स्वरितस्य। अर्द्धमात्रा, उदात्तादुदात्ततरा स्वतन्त्रोदात्तादुच्चतरेत्यर्थः। अर्द्धमेव वेति द्वितीयव्याख्याभिप्रायम्। दीर्घप्लुतयोरनुरोधेनेदम्। सः शेषः। उदात्तश्रुतिः स्यात्। किमविशेषेण? नेत्याह-नचेदिति। उदात्तस्वरितपरं विहायेत्यर्थः। अत्रायं निष्कर्षः-स्वरितो द्विधा-प्राकृतोऽप्राकृतश्च। तत्राद्यः "उदात्तादनुदात्तस्य"(अष्टाoसूo8-4-66)इति विहितः। तच्छेषस्यैकश्रुतिर्नियता। अग्निमीळे, प्रत्यग्ने, इत्यादि। गार्ग्यादिमते तु अत्राप्यनुदात्तः शेषः। द्वितीयस्तु सूत्रान्तरैर्विहितः। तस्याप्युत्सर्गत एकश्रुतिः शेषः। व्यचक्षयत्स्वः ते वर्धन्ते, इति यथा। उदात्तस्वरितपरत्वे तु शेषोनुदात्तः-क्व वोश्वाः 3न्यघ्न्यस्य। उदात्तपूर्वस्याप्राकृतस्य पूर्वरूपनिष्पन्नस्य दीर्घस्याप्येवम्। न ये राः। उदात्तपूर्वस्य किम्? पुनस्तेमैषाम्। अत्र विशेषमनुपदं वक्ष्यामः। पूर्वरूपनिष्पन्नस्य किम्? अस्मिन्त्स्वे एतत्। अप्राकृतदीर्घान्तरे तु, "मध्ये तु कम्पयेत्कम्पम्"(पाoशिo30)इत्यादिवचनात् पूर्वोत्तरभागौ नीचौ मध्ये तूदात्तः। रथी2चेति। पुनस्ते2मास्वे ए2तत्। सर्वत्र च "समाहारः स्वरितः"(अष्टाoसूo1-2-31)इति पाणिनीयं लक्षणं निर्बाधम्। "तस्यादितः"(अष्टाoसूo1-2-32)इति विषयविवेकस्तु प्रायो वादो विशेषे शिक्षादिभिर्बाध्यत इति दिक्। एवं स्थिते अर्धह्रस्वभित्यर्द्धमात्रोपलक्ष्यते। ह्रस्वग्रहणमतन्त्रमिति वृत्तिग्रन्थः पूर्वापरितोषेणोत्तरवाक्यमवतार्य व्याख्येयः। अर्द्धमात्रादित उदीत्ता अर्द्धमात्रा तु अनुदात्ता एकश्रुतिर्वेति वृत्तिग्रन्थोऽपि विषयभेदेन व्यवस्थया बोध्यः। उभयत्रापि हरदत्तग्रन्थो मूलापर्यालोचननिबन्धन इति सुधीभिराकलनीयम्। इत आरभ्य नवसूत्री इत उत्कृष्य "उदात्तादनुदात्तस्य स्वरितः"(अष्टाoसूo8-4-66)इत्यस्मादुतरत्र पाठ्येति प्राञ्चः। तत्राव्यवधानपर्यन्तं नार्थ किं तूत्तरत्वमात्रम्। "नोदात्तस्वरितोदयम्"(अष्टाoसूo8-4-67)इत्यत्र निषेध्यलाभानुरोधेन तदुत्तरत्र "अ अ"(अष्टाoसूo8-4-68)इत्यतः प्रागियं नवसूत्रीति फलितोर्थः। तेनाष्टमिकस्यापि स्वरितस्येदं विभागकथनम्। न्य2ग्निं, ये2राः। उत्तरत्राप्युत्कर्षस्य प्रयोजनं तत्तत्सूत्रे वक्ष्यामः। उत्कर्षे लिङ्गं तु "देवब्रह्मणोः"(अष्टाoसूo1-2-38)इति सूत्रम्। नह्युत्कर्षं विना देवब्रह्मणोः स्वरितो लभ्यते त्रिपादीस्थत्वेनासिद्धत्वात्। ततः स्वरितात्परमिदङ्काण्डमिति स्थितम्।
(अष्टाoसूo1-2-33)
एकश्रुतिदूरात्संबुद्धौ(अष्टाoसूo1-2-33)। सम्बुद्धिःसम्बोधनम् अन्तर्भावितण्यर्थाद् बुधेः। क्तिन्। दूरत्वं च प्राकृतप्रयत्नाधिकयत्नसापेक्षोच्चारणवत्त्वम्। दूरादनुष्ठेयतया बोधनायां करणीभूतं वाक्यमेकश्रुतिः स्यात् आगच्छ भो मामवक देवदत्ता 3 । स्वराणामविभागेनावस्थानमेकश्रुतिः। अन्त्यस्य तु "वाक्यस्य टेः"(अष्टाoसूo8-2-82)इति प्लुतेनापवादत्वादेकश्रुतिर्बाध्यते। एकश्रुतिप्लुताभ्यामवयवभेदेन वाक्ये समुच्चिताभ्यां दूरात्सम्बोधना द्योत्यते। दूरात्किम्?। त्रैस्वर्यमेव। तत्र आङ्‌उदात्तः "उपसर्गाश्चाभिवर्जम्"(फिoसूo81)इति फिट्‌सूत्रात्। गच्छेति तिङ्निघातः। भोश्ब्दो निपातत्वादाद्युदात्तः शेषयोरामन्त्रितनिघात-। "एकवचनं सम्बुद्धिः"(अष्टाoसूo2-3-49)इति कृत्रिमा सम्बुद्धिर्नेह गृह्यते। दूरादित्यपादानकारकान्वयायक्रियाया एवाकाङ्क्षितत्वात्। तेन `आगच्छ ब्राह्णाः' इत्यादावपि भवति।
यज्ञकर्मण्य जपन्यूङ्खसामसु। (अष्टाoसूo1-2-34)यज्ञक्रियायां मंत्र एकश्रुतिः स्यात् जपादीन्वर्जयित्वा।
अग्निर्मूर्द्धादिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतोम्।
यज्ञकर्मणीत्युक्तेः स्वाध्यायकाले त्रैस्वर्यमेव। अजपेत्यादि किम्? ममाग्नेवर्चोविहवेष्वस्तु। जपो नाम उपांशुप्रयोगो यथाजले निमग्नस्येत्वाहुः। युक्तं चैतत्। "जप मानसे च"(भ्वाoपo397)इति धातोः "व्यजपोरनुपसर्गे"(अष्टाoसूo3-3-61)इत्यपि जपशब्दनिष्पत्तेः। रूढश्चायमकरणमन्त्रेषु यत्र जपतीति कल्पसूत्रकृतां व्यवहारः। अत एव याजुषत्वादुपांशुप्रयुज्यमानानामपि "इषेत्वा" इत्यादीनां जपत्वाभावादेकश्रुतिर्भवत्येव। शाखाछेदनादिकं प्रति तेषां करणत्वात्। अकरणीभूतो मन्त्र इत्यन्ये। न्यङ्खानाम षोडश ओकाराः तेषु प्रथमसप्तमत्रयोदशास्त्रय उदात्ताः त्रिमात्राश्च। इतरे त्रयोदशानुदात्ता अर्धोकाराः। एतच्चाश्वलायनेन "चतुर्थेऽहनि"(ऋoब्राo)इति खण्डे स्फुटीकृतम्। वृत्तौ तु षडोङ्कारा इति प्रायिकः पाठः तत्र षट्‌त्वे मान्तत्त्वे च मूलान्तरं मृग्यम्। गीतिषु सामाख्येति जैमिनिः। एविश्वं समत्रिणं दह। विश्वमत्रिणं पाप्मानं सन्दहेति सम्बन्धः। एशब्दो गीतिपूरणः। निपात इत्यन्ये।
(अष्टाoसूo1-2-35)
उच्चैस्तरां वा वषट्कारः(अष्टाoसूo1-2-35)। यज्ञकर्मणि वषट्कार उच्चैस्तरां वा स्यादेकश्रुतिर्वा। वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते। तुल्यार्थत्वात्। द्वावपि हि देवतासम्प्रदानस्य दानस्य द्योतकौ। वौषडित्येव तु नोक्तम्। प्रतिपत्तिलाघवेऽपि मात्रागौरवात्। कारग्रहणं ज्ञापकं समुदायादपि कारप्रत्ययो भवतीति तेन एवकार इत्यादि सिद्धम्। उच्चैःशब्दोऽधिकरणप्रधानोऽपि तद्विशिष्टभवनक्रियायां वर्त्तते। तेन क्रियाप्रकर्षादामुप्रत्ययः। उदात्ततरो भवतीति फलितोर्थः। ब्रूहिप्रेष्यश्रौषड्‌वौषडावहानामादेः"(अष्टाoसूo8-2-91)इति सूत्रेण वौषट्‌शब्दस्यादेः प्लुत उदात्तो विहितस्तदपेक्षया अयमुदात्ततरोन्त्यस्य विधीयते। द्वयोरप्ययमुदात्ततर इत्येके। तदा याज्यान्तापेक्षः प्रकर्षः। अन्ये तु स्वार्थिकस्तरबित्याहुः। तत्रोदात्तमात्रं प्रथमस्य सिद्धिं द्वितीयस्यानेन विधीयते। अत्र प्रकर्षाविवक्षापक्ष एव प्रबलः। वषट्‌कारोन्त्यः। "सर्वत्रोच्चैस्तराम्बलीयान् याज्यायाः" इति सूत्रितत्त्वात्। सोमस्याग्ने विही वौषट्।
(अष्टाoसूo1-2-36)

विभाषा छन्दसि(अष्टाoसूo1-2-36)। छन्दसि एकश्रुतिर्वा स्यात्। पक्षे त्रैस्वर्यम्। सम्प्रदायाव्यवस्थितो विकल्पस्तेन बहृचानां स्वाध्यायकाले संहितायान्त्रैस्वर्यमेव। ब्राह्णे त्वेकश्रुतिः। शाखान्तरेष्वपि यथासम्प्रदायं व्यवस्था। अत्र तन्त्रावृत्त्यादिना अछन्दसीति नञ्‌प्रश्लेषाद्भाषायामपि ऐच्छिको विकल्पो बोध्यः। तथा च "दाण्डिनायन"(अष्टाo सूo6-4-174)आदिसूत्रे भाष्यम्-"एकश्रुतिर्हि स्वरसर्वनामेत्यादि"। अत एवाभियुक्तानां च विरुद्धस्वरकतत्पुरुषबहुव्रीह्याद्याश्रयणेन श्लिष्टकाव्यादिनिर्माणं सङ्गच्छते। "अलं बुसानां यात" इति "श्वेतो धावति" इति च द्व्यर्थवाक्यम् इति पस्पशान्ते भाष्यमपि। काव्यप्रकाशेऽपि वेद इव लोके स्वरो न विशेषाध्यवसायहेतुरिति। किंमर्थं तर्हि "झल्युपोत्तमम्"(अष्टाoसूo 6-1-180)"विभाषा भाषायाम्"(अष्टाoसूo6-1-181)इति सूत्रमिति चेत्, त्रैस्वर्येण प्रक्रमे पाक्षिकानुदात्तलाभायेति गृहाण। वेति प्रकृते विभाषाग्रहणं कुर्वन् सूत्रकारोऽपि तन्त्रादिकमभिप्रैति। यत्तु वृत्तिकृन्मतं विभाषाग्रहणं"यज्ञकर्मणि"(अष्टाoसूo1-2-34)इत्यस्य निवृत्त्यर्थमिति, तच्चिन्त्यम्। "छन्दसि" इत्युक्तेऽपि तन्निवृत्तिसिद्धेः। अन्यथा पूर्वसूत्रस्य निर्विषयत्वापत्तेः। न च जपादिषु सावकाशस्य परस्य पूर्वोऽपवाद इति वाच्यम्। एवं हि सति परत्रैव जपादिग्रहणं कुर्यात् किं नञा किञ्च छन्दोग्रहणेन। एतेन ऊहितानामच्छन्दस्त्वात्तत्र सावकाशस्य मन्त्रेषु परेण बाधः स्यादिति हरदत्तोक्तं प्रत्युक्तम्। सिद्धान्तेऽपि अनूहितेषु परत्वादस्य प्राप्तिमाशङ्क्य यज्ञकर्मणीति कर्मग्रहणसामर्थ्यात्पूर्वस्यैव प्रवृत्तिरिति स्वोक्तिविरोधात्। यदपि हरदत्तेनोक्तम्, जपादिपर्युदासेन मन्त्राणामेव ग्रहणमिति पक्षे विभाषाग्रहणं व्यर्थं स्यादिति। तदपि इन्द्रशत्रुप्रस्तावे दूषितमस्माभिः। यदपीह वृत्तिकृता `अग्निमीळे' इत्याद्यप्येकश्रुतावुदाहृतं तत्सकलाध्यापकसम्प्रदायविरुद्धम्। छन्दोग्रहणवैयर्थ्यापादकञ्च। छन्दसि व्यवस्थितोऽन्यत्रैच्छिक इति विकल्पयोर्वैषम्यं सूचयितुं हि तत्। न च लोके विकल्पस्य वृत्तिकृतानुक्तत्वादसाम्प्रदायिकत्वं वाच्यम्। भाष्यादिसम्मतेरुक्तत्वात् "श्वेतः" इत्यादेर्वृत्तिकृतापि तत्र तत्रोदाहृतत्वाच्च। इत इत्यस्य हि "उडिदम्"(अष्टाo सूo6-1-171)इत्यन्तोदात्तता `श्वेतः' इति तु एकोदात्तमिति कथं स्वरानुसरणे तन्त्रं स्यादिति दिक्।
(अष्टाoसूo1-2-37)
न सुब्रह्मण्यायां स्वरितस्य तूदात्तः(अष्टाoसू01-2-37)। सुब्रह्मण्याख्ये निगदे "यज्ञकर्मणि"(अष्टाoसूo1-2-34)इति "विभाषा छन्दसि"(अष्टाoसूo1-2-36)इति च प्राप्ता एतश्रुतिर्न स्यात्स्वरितस्यो दात्तश्च स्यात्। नितराङ्गद्यत इति निगदः। परप्रत्यायनार्थमुच्चैः पठ्यमानः पादबन्धरहितो यजुर्मन्त्नविशेषः। अपादबन्धे हि गदिर्वर्त्तते यथा गद्यमिति "नौगदनद"(अष्टाoसूo3-3-64)इति कर्मण्यप्। सुब्रह्मण्याशब्दो परित्यक्तस्वलिङ्ग एव तद्वति निगदे निरूढः। सुब्रह्मण्योम् 3इन्द्रागच्छ हरिव आगच्छ मेधातिथेमेर्ष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन् सुब्रह्यणि साधुरिति यत्। तित्त्वात् स्वरितः तस्य टापा सहैकादेशः स्वरितानुदात्तयोरान्तर्यात्स्वरितः। ततो निपातेन ओंशब्देन "ओमाङोश्च"(अष्टाoसूo6-1-95)इत्युदात्तम्वरितयोरेकादेशः स्वरिति एव। "एकादेश उदात्तेनोदात्तः"(अष्टाoसूo8-2-5)इत्युदात्तविधिस्तु नेह प्रवर्त्तते अनुदात्तस्येत्यनुवृत्तेः। ततः "स्वरितस्य तूदात्तः"(अष्टाoसूo1-2-37)इति प्रकृतसूत्रेणैवोदात्तः इति वृत्तिकारकैयटहरदत्तादयः। वस्तुतस्तु नेदं युक्तम्। "एकादेश उदात्तेन"(अष्टाoसूo8-2-5)इत्यत्रानुदात्तानुवृत्तौ प्रमाणाभावात्। `क्वावरम्मरुतः" इत्यत्रोदात्तपाठाच्च। अत एव प्रातिशाख्ये "उदात्तवत्येकीभावे उदात्तं सन्ध्यमक्षरमनुदात्तोदये पुनः स्वरितं स्वरितोपधे" इत्युक्तम्। इह हि पूर्वार्द्धे अनुदात्तग्रहणमकुर्वत उत्तरत्र च कुर्वतः पुनःशब्देन पूर्वान्वयभ्रमं वारयतः स्पष्ट एवोक्त आशयः। यत्तु "तस्यादित"(अष्टाoसूo1-2-32)इति सूत्रे "स्वरितोदात्तार्थञ्च"(काoवाo)इति वार्त्तिके "यः सिद्धः स्वरितः सुब्रह्मण्योम्"इति भाष्यम्, तत्प्रौढिवादमात्रं निष्कर्षे तु "देवब्रह्मणोः"(अष्टाoसूo1-2-38)इतिवत् "स्वरितस्य तूदात्त"(अष्टाoसूo1-2-37)इत्यपि नवसूत्र्युत्कर्षज्ञापकमेवेत्यवधेयम्। `इन्द्र' इत्यामन्त्रितमाद्युदात्तम्। आष्टमिको निघातस्तु भिन्नवाक्यत्वान्न भवति। द्वितीयो वर्णोऽनुदात्तः। "उदात्तादनुदात्तस्य स्वरितः"(अष्टाoसूo8-4-66)तस्यानेनोदात्तः। न चास्मिन् कर्त्तव्ये स्वरितस्यासिद्धत्वम्, "एतत्काण्डमुत्कृष्यते" इत्युक्त्वात्। अत एवास्मिन्नुदात्ते कृते शेषनेघातोपि न। यथोद्‌देशपक्षेप्यनुदात्तपरिभाषायां कर्तव्यायामसिद्धत्वेन वर्ज्यमानाभावात्। तेन द्वावप्युदात्तौ। आङुदात्तः ततः परस्य "उदात्तादनुदात्तस्य स्वरितः"(अष्टाoसूo8-4-66)इति स्वरितस्यानेनोदात्तः। छकाराकारोऽनुदात्तः। न च तस्य "उदात्तादनुदात्तस्य"(अष्टाoसूo8-4-66)इति स्वरितः शङ्क्यः। प्रकरणोत्कर्षेणास्यासिद्धत्वात्। `हरिव आगच्छ' इत्यत्रोक्तप्रक्रियया चत्वार उदात्तः। वकारच्छकारावनुदात्तौ। मेधातिथेरिति पष्ठ्यन्तस्य पराङ्गवद्भावः। आमन्त्रिताद्युदात्तः। धाशब्दस्य "उदात्तात्"(अष्टाoसूo8-4-66)इति स्वरितत्वेऽनेनोदात्तः। ततश्चत्वारोऽनुदात्ताः। वृषेति पूर्ववद्‌ द्वावुदात्तौ पञ्चानुदात्ताः। "इत्याधीवतम्"(ऋoवेo)इति "अददा अर्भाम्"(ऋoवेo)इति च ऋङ्मन्त्रावत्रानुसन्धेयौ। तेन पराङ्गवद्भावे उजीव्यं सामर्थ्यं स्फुटीभवति। `गौरा' इत्यत्र गौरवदवस्कन्दतीति विग्रहः। "सरो गौरो यथा पिब" इति मन्त्रवर्णात्। पूर्ववद द्वावुदात्तौ ततस्त्रयोनुदात्ताः। अहेत्युदात्तौ। चत्वारोऽनुदात्ताः। कौशीत्युदात्तौ। चत्वारोऽनुदात्ताः। गौतेत्युदात्तौ। चत्वारोऽनुदात्ताः। श्व इत्युदात्तम्। सुत्यामित्यन्तोदात्तम्। "संज्ञायां समज"(अष्टाoसूo3-3-99)इति क्यपो विधाने उदात्त इत्यनुवृत्तेः। आगेति द्वावुदात्तौ चत्वारोऽनुदात्ताः।
असावित्यन्तः(काoवाo)। तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात्। गार्ग्यो यजते। ञित्स्वरेण प्राप्त आद्युदात्तोऽनेन बाध्यते।
अमुष्येत्यन्तः(काoवाo)। षष्ठ्यन्तस्यापि प्राग्वत्। दाक्षेः पिता यजते।
स्यान्तस्योपोत्तमं च(काoवाo)। चादन्तः। तेन द्वाबुदात्तौ। गार्भ्यस्य पिता यजते।
वा नामधेयस्य(काoवाo)। स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात्। देवत्तस्य पिता यजते।
(अष्टाoसूo1-2-38)
देवब्रह्मणोरनुदात्तः(अष्टाoसूo1-2-38)। "स्वरितस्य तूदात्तः"(अष्टाoसूo1-2-37)इति पूर्वसूत्रशेषस्यायमपवादः। देवब्रह्मणोः स्वरितस्यानुदात्तः स्यात् सुब्रह्मण्यायाम्। देवा ब्रह्माण आगच्छत। द्वयोरप्यामन्त्रिताद्युदात्तत्वे शेषनिघाते च "उदात्तादनुदात्तस्य स्वरितः"(अष्टाoसूo8-4-66)तस्यानेनानुदात्तः। द्वितीयस्य आष्टमिको निघातस्तु न भवति "आमन्त्रितं पूर्वमविद्यमानवत्"(अष्टाoसूo8-1-72)इति पदात्परत्वाभावात्। ततः प्राचीनपदस्य तु भिन्नवाक्यस्थत्वात्। ये तु देवा ब्रह्माण इति सामानाधिकरण्येन व्याचक्षते। तन्मते "विभाषितं विशेषवचने"(अष्टाoसूo8-1-74)बहुवचनमिति पक्षे विद्यमानतया द्वितीयस्य निघातः। प्रकृतसूत्रेण स्वरितनिघातस्तु वकारस्यैव। तथा च भाष्यम्-"देवब्रह्मणोरनुदात्तत्वमेके इच्छन्ति। देवा ब्रह्माणः इति द्विः पाठः। उदात्तौ द्वावेको वेति विकल्पाभिब्रायेण। तत्र द्वितीयपक्षे प्रकृतसूत्रे ब्रह्मग्रहणं न कर्तव्यम्"।
(अष्टाoसूo1-2-39)
स्वरितात्संहितायामनुदात्तानाम्(अष्टाoसूo1-2-39)। स्वरितात्परेषामनुदात्तानामेकश्रुतिः स्यात्संहितायाम्। इमं मे गङ्गे यमुने सरस्वति। अनुदात्तानामिति जातौ बहुवचनम्। तेनैकस्य द्वयोश्च भवत्येव। संहिताग्रहणं ज्ञापककम्-"अन्यत्र पञ्चमीनिर्द्दशे कालो न व्यवधायकः" इति तेन "तिङ्ङतिङः"(अष्टाoसूo8-1-28)इति निघातः पदपाठेऽपि भषति। अग्निमीळे, पुरोहितमित्यादौ त्ववग्रहेऽपि भवत्येकश्रुतिः। यथा सन्धीयमानानामित्यतिदेशात्। इति शब्दात्परस्य तु "पुरुहूत इति पुरुहूतः" इत्यादौ न भवति परिग्रहे त्वनार्षान्तादिति प्रतिशाख्ये विशेषवचनात्। एवमन्वेतवा इत्यादावपि। "पद्यादींस्तु द्‌व्युदात्तानाम्"(ऋoमाo)इतिनिषेधादिति दिक्।
(अष्टाoसूo1-2-40)
उदात्तस्वरितपरस्य सन्नतरः(अष्टाoसूo1-2-40)। उदात्तस्वरितौ परौ यस्मात्तथाभूतस्यानुदात्तस्य अनुदात्ततरः स्यात्। अग्निम्। कन्या। स्यादेतत्। "इमं मे' इति मन्त्रे शुतुद्रिशब्दस्य पादादित्वेन निघाताभावादाद्युत्ततया तस्मिन्परे सरस्वतीतीकारस्य सन्नतर इष्यते एकश्रुतिरेव तु प्राप्नोति। नवसूत्र्या उत्कर्षेणासिद्धतया सन्नतरायोगात्। उक्तं हि-"पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य" इति। सत्यम्। "नमुने"(अष्टoसूo8-2-3)इत्यत्र नेति योगविभागान्न दोषः। `देवदत्तन्यङ्' इत्यत्र तु "न्यधिच"(अष्टाoसूo8-2-53)इति पूर्वपदप्रकृतिस्वरे "उदात्तस्वरितयोर्यणः"(अष्टाoसूo8-2-4)इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रति नासिद्धः। प्रकरणे उत्कर्षात्।
स्वारसूत्रप्रसङ्गात्फिट्‌सूत्राणि व्याख्यायन्ते-
फिषोन्त उदात्तः(फिoसूo1)। फिष् इति प्रातिपदिकस्य प्राचां संज्ञा। फिषोन्त उदात्त स्यात्। उच्चैः।
पाटलापालङ्काम्बासागरार्थानाम्(फिoसूo2)। एतदर्थानामन्तउदात्तः स्यात्। पाटला। "लघावन्ते"(फिoसूo42)इति प्राप्ते। अपालङ्कः वृक्षविशेषः। इहापि प्राग्वत्। अम्बार्थः-माता। "उनर्वन्नन्तानाम्"(फिoसूo32)इत्याद्युदात्ते प्राप्ते। सागरः-समुद्रः, "लघावन्ते"(फिoसूo42)इति प्राप्ते।
गेहार्थानामस्त्रियाम्(फिoसूo3)। गेहं-गृहम्। "नब्विषयस्य"(फिoसूo26)इति प्राप्ते। अस्त्रियां किम्? शाला। अत एव पर्युदासाज्ज्ञापकाच्छालाशब्द आद्युदात्तः।
गुदस्य च (फिoसूo4)। अन्त उदात्तः स्यान्न तु स्त्रियाम्। गुदम्। अस्त्रियां किम्? आन्त्रेभ्यस्ते गुदाभ्यः। "स्वाङ्गशिटामदन्तानाम्"(फिoसूo29)इत्यन्तरङ्गमाद्युदात्तत्वम्। ततष्टाप्।
ध्यपूर्वस्य स्त्रीविषयस्य(फिoसूo5)। नित्यस्त्रीलिङ्गस्य धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः। अन्तर्धा। "स्त्रीविषयवर्णनाम्नाम्" इति प्राप्ते। छाया, माया, जाया। "यान्तस्यान्त्यात्पूर्वम्"(फिoसूo62)इत्याद्युदात्तत्वे प्राप्ते। स्त्रीति किम्? बाह्यम्। "बहिषष्टिलोपो यञ्च"(काoवाo)इति यञन्तत्वादाद्युदात्तत्वम्। विषयग्रहणं किम्? इभ्या क्षत्रिया। "यतोऽनावः"(अष्टाoसूo6-1-213)इत्याद्युदात्त इभ्यशब्दः। क्षत्रियशब्दस्तु "यान्तस्यान्त्यात्पूर्वम्(फिoसूo62)इति मध्योदात्तः।
खान्तस्याश्मादेः(फिoसूo6)। नखम्, उखा, सुखम्, दुःखम्। नखस्य "स्वाङ्गशिटाम्"(फिoसूo29)इत्याद्युदात्ते प्राप्ते। उखानाम यवाग्वादि पाकार्थं याज्ञिकैर्निर्मितो भाण्डविशेषः। तस्य कृत्रिमत्वात् "खय्युवर्मं कृत्रिमाख्याचेत्"(फिoसूo31)इत्युवर्णस्योदात्तत्वे प्राप्ते। सुखदुःखयोः "नब्विषयस्य"(फिoसूद26)इति प्राप्ते। अश्मादेः किम्? शिखा, मुखम्। मुखस्य "स्वाङ्गशिटाम्"(फिoसूo29)इति "नब्विषयस्य"(फिoसूo26)इति वा आद्युदात्तत्वं शिखायास्तु दीर्घान्ततया "स्वाङ्गशिटाम्"(फिoसूo29)इत्यस्याप्राप्तावपि अश्मादेरिति पर्युदासेनाद्युत्तत्वं ज्ञाप्यते। तथा च11.ननु बहुषूणादिपुस्तकेषु "शीङोह्रस्वश्च"(उoसूo712)इत्येव पाठः "शीङखोनिंद्‌ध्रस्वश्च" इति नास्तिं इत्यरुचेराह-वस्तुतस्त्विति।"शीडः खो निद्‌ध्रस्वश्च" इति उणादिषु नित्त्वमुक्तम्। वस्तु तस्तु तदेव शरणम्। "शङ्खो निधौ ललाटास्थिन"(अoकोo3-3-18)इति कोशादस्थिवाचकस्य "स्वाङ्गशिटाम्"(फिoसूo29)इत्याद्युदात्तस्याव्यावृत्त्या चरितार्थस्याश्मादेरित्यस्य ज्ञापकत्वायोगात्।
हिष्ठवत्सरतिशत्थान्तानाम्(फिoसूo7)। एषामन्त उदात्तः स्यात्। अतिशयेन बहुलो बंहिष्ठः। नित्त्वा22."ञ्नित्यादिर्नित्यम्" (अष्टाoसूo6-1-197)इत्यनेनेत्यर्थः।दाद्युदात्ते प्राप्ते। बंहिष्ठैरश्वैः सुवृता रथेन यद्‌बंहिष्ठं नातिविदे इत्यादौ व्यत्ययादाद्युदात्तः। संवत्सरः। अव्ययपूर्वपदप्रकृतिस्वरो बाध्यते। सप्ततिः। अशीतिः। "लघावन्ते"(फिoसूo42)इति प्राप्ते। चत्वारिंशत्। इहापि प्राग्वत्। अभ्यूर्ण्वानाप्रभृथस्यायोः। अव्ययपूर्वपदप्रकृतिस्वरोत्र बाध्यते।
दक्षिणस्य साधौ(फिoसूo08)। अन्त उदात्तः स्यात्। साधौ किम्? व्यवस्थायां सर्वनामतया "स्वाङ्गशिटाम्"(फिoसूo29)इत्याद्युदात्तो यथा स्यात्। अर्थान्तरे तु "लघावन्ते"(फिoसूद42)इति गुरुरुदात्तः। "दक्षिमः सरलोदारपरच्छन्दानुवर्त्तिषु" इति कोशः।
स्वाङ्गाख्यायामादिर्वा(फिoसूo09)। इति दक्षिमस्याद्यन्तौ पर्यायेणोदात्तौ स्तः। दक्षिमो बाहुः। आख्याग्रहणं किम्? प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति।
छन्दसि च(फिoसूo10)। अस्वाङ्गार्थमिदम्। दक्षिणः। इह पर्यायेणाद्यन्तायुदात्तौ।
कृष्णस्यामृगाख्या चेत्(फिoसूo11)। "वर्णानान्तण"(फिoसूo33)इत्याद्युदात्ते प्राप्तेऽन्तोदात्तो विधीयते। कृष्णानां व्रीहीणाम्। कृष्णो नोनाव वृषभः। मृगाख्यायान्तु। कृष्णो रात्र्यै।
वा नामधेयस्य(फिoसूo13)। कृष्णस्येत्येव। अयं वा कृष्णो अश्विना। कृष्ण ऋषिः।
शुक्लगौरयोरादिः(फिoसूo13)। नित्यमुदात्तः स्यादित्येके। वेत्यनुवर्त्तत इति तु युक्तम्। "सरो गौरो यता पिब" इत्यत्रान्तोदात्तदर्शनात्।
अङ्गुष्ठोदकबकवशानां छन्दस्यन्तः(फिoसूo14)। अङ्गुष्ठस्य "स्वाङ्गानामकुर्वादीनाम्"(फिसूo52)इति द्वितीयस्योदःत्तत्वे प्राप्ते।न्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमार्थम्। छन्दस्येवेति। तेन लोके आद्युदात्ततेत्याहुः।
पृष्ठस्य च(फिoसूo15)। छन्दस्यन्त उदात्तः स्यात् वा भाषायाम्। भाषामात्रविषयं सूत्रमिदं "प्रागेकादशभ्योऽछन्दसि"(अष्टाoसूo5-3-49)"झल्युपोत्तमम्"(अष्टासूo6-1-180)"विभाषा भाषायाम्"(अष्टाoसूo6-1-181)इत्यादिवत्। पृष्टम्।
अर्जुनस्य तृणाख्या चेत्(फिoसूo16)। "उनर्वन्नन्तानाम्"(फिoसूo32)इत्याद्युदात्तस्यापवादः।
अर्यस्य स्वाम्याख्या चेत्(फिoसूo17)। "यान्तस्यान्त्यात्पूर्वम्"(फिoसूo62)इति "यतोऽनावः"(अष्टाoसूo6-1-213)इति वाद्युदात्ते प्राप्ते वचनम्।
आशाया अदिगाख्या चेत्(फिoसूo18)। दिगाख्याव्यावृत्त्यर्थमिदम्। अत एव ज्ञापकाद्दिक्‌पर्यायस्याद्युदात्तता। इन्द्र आशाभ्यस्परि।
नक्षत्राणामाब्विषयाणाम्(फिoसूo19)। अन्त उदात्तः स्यात्। आश्लेषानुराधादीनां "लघावन्ते"(फिoसूo42)इति प्राप्ते ज्येष्ठाश्रविष्ठाधनिष्ठानां इष्ठन्नन्तत्वेनाद्युदात्ते प्राप्ते वचनम्।
न कुपूर्वस्य कृत्तिकाख्या चेत्(फिoसूo20)। अन्त उदात्तो न। कृत्तिका नक्षत्रम्। केचित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय "आर्यिका" `बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः।
घृतादीनाञ्च(फिoसूo21)। अन्त उदात्तः। घृतं मिमिक्षे। आकृतिगणोयम्।
ज्येष्ठकनिष्ठयोर्वयसि(फिoसूo22)। अन्त उदात्तः स्यात्। ज्येष्ठ आह चमसां। कनिष्ठ अहि चतुरः। वयसि किम्? ज्येष्ठः, श्रेष्ठः। कनिष्ठोऽल्पिष्ठः। इह नित्त्वादाद्युदात्त एव।
बिल्वतिष्ययोः स्वरितो वा(फिoसूo23)। अनयोरन्तः स्वरितो वा स्यात्। पक्षे उदात्तः।
।। इति फिट्‌सूत्रेषु प्रथमः पादः।।

अथादिः प्राक् शकटेः(फिoसूo24)। अधिकारोऽयम्। "शकटिशकट्याः"(फिoसूo60)इति यावत्।
ह्रस्वान्तस्य स्त्रीविषयस्य(फिoसूo25)। आदिरुदात्तः स्यात्। वलिः, तनुः।
नब्विषयस्यानिसन्तस्य(फिoसूo26)। वनेन वा यः। इसन्तस्य तु सापः। नप् नपुंसकम्।
तृणधान्यानाञ्च द्व्यषाम्(फिoसूo27)। द्व्यचामित्यर्थः। कुशाः, काशाः, माषाः, तिलाः। बह्‌वृचान्तु गोधूमाः।
व्रः सङ्ख्यायाः(फिoसूo28)। पञ्च, चतस्रः।
स्वाङ्गशिटामदन्तानाम्(फिoसूo29)। शिट् सर्वनाम। कर्णः, ओष्ठः, विश्वः।
प्राणिनां कुपूर्वम्(फिoसूo30)। कवर्गात् पूर्वमादिरुदात्तः। काकः, वृकः। शुकेषु मे। प्राणिनां किम्? उदकम्।
खय्युवर्णं कृत्रिमाख्या चेत्(फिoसूo31)। खयि परे पूर्वमादि उवर्णमुदात्तं स्यात्। कन्दुकः।
उनर्वन्नन्तानाम(फिoसूo32)। उन-वरुणं वोरिशादसम्। स्वसारं त्वा कृणवै। वन्-पीवानं मेषम्।
वर्णानान्तणतिनितान्तानाम्(फिoसूo33)। आदिरुदात्तः। एतः, हरिणः, शितिः, पृश्निः, हरित्।
ह्रस्वान्तस्य ह्रस्वमनृत्ताच्छील्ये(फिoसूo34)। ऋद्वर्जं ह्रस्वान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात्। मुनिः।
अक्षस्यादेवनस्य(फिoसूo35)। आदिरुदात्तः। तस्य नाक्षः। देवने तु अक्षैर्मा दीव्यः।
अर्धस्यासमद्योतने(फिoसूo36)। अर्द्धो ग्रामस्य। समेंऽशके तु अर्द्धं पिप्पल्याः।
पीतद्रवर्थानाम्(फिoसूo37)। आदिरुदात्तः। पीतद्रुः सरलः।
ग्रामादीनाञ्च(फिoसूo38)। ग्रामः, सोमः, यामः।
लुबन्तस्योपमेयनामधेयस्य(फिoसूo39)। स्फिगन्तस्येति पाठान्तरम्। स्फिगिति लुपः। प्राचां संज्ञा। चञ्चेव वञ्चा।
न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम्(फिoसूo40)। एषामुपमेयनाम्नां नादिरुदात्तः। ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः।
राजविशेषस्य यमन्वा चेत्(फिoसूo41)। यमन्वा वृद्धः। `आङ्गः' उदाहरणम्। `अङ्गाः" प्रत्युदाहरणम्।
लघावन्ते द्वयोश्च बव्हषो गुरुः(फिoसूo42)। अन्ते लघौ द्वयोश्च लघ्वोः सतोः बव्हष्कस्य गुरुरुदात्तः। कल्याणः, कोलाहलः। इह गुरूणां मध्ये य आदिरित्यर्थोभिप्रेतः। तेन `वृषाकपिः' इत्यत्र व्यपदेशिद्भावेनादिभूते सिद्धम्। तेन "वृषाकप्यग्नि"(अष्टाoसूo4-1-37)इत्यादिसूत्रस्था वृत्यादिग्रन्था न विरुध्यन्ते। "क्रीतवत्परिमाणात्"(अष्टाoसूo4-3-146)इत्यादिसूत्रस्थभाष्यादिग्रन्थाश्च सङ्गच्छन्ते। नन्वेवमपि "अन्यतो ङीष्"(अष्टाoसूo4-2-40)इति सूत्रे सारङ्गकल्माषशब्दौ "लघावन्ते"(फिoसूo43)इत्यादिना मध्योदात्ताविति हरदत्तग्रन्थो विरुध्यत इति चेत्, सत्यम्। आदिशब्द इह नान्वेतीत्येव सारम्।
स्त्रीविषयवर्णाक्षुपूर्वाणाम्(फिoसूo43)। एषां त्रयाणामादिरुदात्तः। स्त्रीविषयः-मल्लिका। वर्णः-श्येनी, हरिणी। अक्षुशब्दात् पूर्वोऽस्त्येषान्तेक्षुपूर्वाः। तरक्षुः।
शकुनीनाञ्च लघुपूर्वम्(फिoसूo44)। पूर्वं लघूदात्तंस्यात्। कुक्कुटः तित्तिरिः।
नर्तुप्राण्याख्यायाम्(फिoसूo45)। यथालक्षणं प्राप्तमुदात्तत्वं न। वसन्तः, कृकलासः।
धान्यानां च वृद्धक्षान्तानाम्(फिoसूo46)। आदिरुदात्तः। कान्तः-श्यामाकाः। षान्तः-माषाः।
जनपदशब्दानामषान्ताम्(फिoसूo47)। केकयः।
हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा(फिoसूo48)। हयिति हलः संज्ञा। पललम्, शललम्। हयादीनां किम्? एकलः। असंयुक्तेति किम्? मल्लः।
इगन्तनाञ्च द्व्यषाम्(फिoसूo49)। आदिरुदात्तः। कृषिः।
।। इति द्वितीयः पादः ।।
अथ द्वितीयं प्रागीषात्(फिoसूo50)। "ईषान्तस्य हयादेः"(फिoसूo66) इत्यतः प्राक् द्वितीयाधिकारः।
त्र्यचां प्राङ् मकरात्(फिoसूo51)। "मकरवरूढ"(फिoसू.57) इत्यतः प्राक् त्र्यचामित्याधिव
स्वाङ्गानामकुर्वादीनाम्(---------)। कवर्गरेफवकारादीन्वर्जयित्वा त्र्यचां स्वाङ्गानां द्वितीयमु--------। ललाटम्। कुर्वादीनान्तु-कपोलः, रसना, वदनम्।
मादीनाञ्च(फिoसूo53)। त्र्यचां द्वितीयमुदात्तम्। मलयः, मकरः।
शादीनां शाकानाम्(फिoसूo54)। शीतन्या, शतपुष्पा।
पान्तानां गुर्वादीनाम्(फिoसूo55)। पादपः, आतपः। लघ्वादीनान्तु-अनूपम्। द्व्यचान्तु-नीपम्।
युतान्यण्यन्तानाम्(फिoसूo56)। युतादित्रितयान्तानां द्वितीयमुदात्तम्। युत-अयुतम्। अनि-धमनिः। अणि-विपणिः।
मकरवरूढपारेवतवितस्तेक्ष्वार्जिद्राक्षाकलोमाकाष्ठापेष्ठापेष्ठाकाशीनामादिर्वा(फिoसूo57)। एषामादिर्द्वितीयो वोदात्तः। मकरः, वरूढ इत्यादि।
छन्दसि च(फिoसूo58)। अमकराद्यर्थ आरम्भः। लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम्।
कर्दमादिनाञ्च(फिoसूo59)। आदिर्द्वितीयं वोदात्तम्। कर्हमः।
--------न्धितेजनस्य ते वा(फिoसूo60)। आदिर्द्वितीयन्तेशब्दश्चेति------। सुगन्धितेजनाः।
------फलान्तानाम्(फिoसूo61)। आदिर्द्वितीयं वोदात्तम्। राजादन-----।
यान्तस्यान्त्यात् पूर्वम्(फिoसूo62)। कुलायः।
थान्तस्य च नालघुनी(फिoसूo63)। नाशब्दो लघु च उदात्ते स्तः। सनाथा सभा।
शिशुमारोदुंबरबलीवर्दोष्ट्रारपुरूरवसाञ्च(फिoसूo64)। अन्त्यात् पूर्वमुदात्तं द्वितीयं वा।
साङ्काश्यकापिल्यनासिक्यदार्वाघाटानाम्(फिoसूo65)। द्वितीयमुदात्तंवा। साङ्काश्यमित्यादि।
ईषान्तस्य हयादेरादिर्वा(फिoसूo66)। हयादेः-हलादेः। हलीषा। लाङ्गलीषा।
उशीरदाशेरकपालपलालशैवालश्यामाकशारीरशरावहृदयहिरण्यारण्यापत्यदेवराणाम्(फिoसूo67)। एषामादिरुदात्तः स्यात्।
महिष्यषाढयोर्जायेष्टकाख्या चेत्(फिoसूo68)। आदिरुदात्तः। महिषी जाया। अषाढा उपदधाति।
।। इति तृतीयः पादः ।।

शकटिशकट्योरक्षरमक्षरं पर्यायेण(फिoसूo69)। उदात्तम्। शकटिः। शकटी।
गोष्ठजस्य ब्राह्मणनामधेयस्य(फिoसूo70)। अक्षरमक्षरं क्रमेणोदात्तम्। गोष्ठजो ब्राह्मणः। अन्यत्र गोष्ठजः पशुः। कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः।
पारावतस्योपोत्तमवर्जम्(फिoसूo71)। शेषं क्रमेणोदात्तम्। पारावतः।
धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम्(फिoसूo72)। एषाञ्चतुर्णां धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि। धूम्रजानुः, मुञ्जकेशः, कालवालः, स्थालीपाकः।
कपिकेशहरिकेशयोश्छन्दसि(फिoसूo73)। कपिकेशः, हरिकेशः।
न्यङ्स्वरौ स्वरितौ(फिoसूo74)। स्पष्टम्। न्यङ्ङुत्तानः। व्यचक्षयत्स्वः।
न्यर्बुदव्यल्कशयोरादिः(फिoसूo75)। स्वरितः स्यात्।
तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः(फिoसूo76) स्वरितः स्यात्। तिलानां भवनं क्षेत्रं तिल्यम्। "यतोऽनावः"(अष्टाoसूo6-1-213) इति प्राप्ते।
बिल्वभक्ष्यवीर्याणि च्छन्दसि(फिoसूo77)। अन्तस्वरितानि।
त्वत्त्वसमसिमेत्यनुच्चानि(फिoसूo78)। स्तरीरुत्वत्। उत त्वः पश्यन्। नभन्तामन्यके समे। सिमस्मै।
सिमस्याथर्वणेन्त उदात्तः(फिoसूo79)। अथर्वण इति प्रायिकम्। तत्र दृष्टस्येत्येवंपरं वा। तेन "वासस्तनुते सिमस्मै" इत्युग्वेदेऽपि भवत्येव।
निपाता आद्युदात्ताः(फिoसूo80)। स्वाहा।
उपसर्गाश्चाभिवर्जम्(फिoसूo81)।
एवादीनामन्तः(फिoसूo82)। एवमादीनामिति पाठान्तरम्। एव, एवम्, नूनम्। सह ते पुत्र सूरिभिः सह। षष्ठस्य तृतीये "सहस्य सः"(अष्टाoसूo6-3-78)इति प्रकरणे सहशब्द आद्युदात्त इति तु प्राञ्चः। तच्चिन्त्यम्।
वाचादीनामुभावुदात्तौ(फिoसूo83)। उभौग्रहणं "अनुदात्तं पदमेकवर्जम्"(अष्टाoसूo6-1-158) इत्यस्य बाधाया।
चादयोऽनुदात्ताः(फिoसूo-84)। स्पष्टंम्।
यथेति पादान्ते(फिoसूo85)। तन्नेमिमृभवो यथा। पादान्ते किम्? यथा नो अदितिः करत्।
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः(फिoसूo86)। पटुपटुः।
शेषं सर्वमनुदात्तम्(फिoसूo87)। शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः। प्रप्रायम्। दिवे दिवे।
।। इति शान्तनवाचार्यप्रणीतेषु फिट्सूत्रेषु तुरीयः पादः ।।
प्रसङ्गिकं समाप्य प्रकृतमनुसरामः-
(अष्टाoसूo1-2-42)
अपृष्ट एकाल् प्रत्ययः(अष्टाoसूo1-2-41)। एकाल्‌ प्रत्ययोयः सोऽपृक्तसंज्ञः स्यात्। संज्ञाप्रदेशा "वेरपृक्तस्य"(अष्टाoसूo6-1-14) इत्येकग्रहणेन "वर्णग्रहणे जातिग्रहणम्" इति ज्ञापनेऽपि अल्ग्रहणसामर्थ्यादेवेह व्यक्तिपरत्वात्। किञ्च सूत्रमेवेदं व्यर्थम्। अपृक्तप्रदेशेष्वल्ग्रहणेनैव सिद्धेः। न च सुरां सुनोतीति सुरासुत् तमाचक्षाण सुरा इत्यत्र धात्ववयवस्य सस्य लोपः स्यादिति वाच्यम्। प्रत्ययाप्रत्ययपरिभाषया गतार्थत्वात्, विभक्तिसाहचर्याच्च। यथासूत्रारम्भेऽपि तिसाहचर्यात्सेरपि तिङ एव ग्रहणात् `अभैत्सीत्' इति सिचो न भवति। "वेरपृक्तस्य"(अष्टाoसूo6-1-67)इत्यत्र तु वकारेकारयोरन्यतरमनुनासिकमाश्रित्यापृक्तग्रहणं प्रत्याख्यास्यत एव।
(आष्टाoसूo1-2-42)
तत्पुरुषः समानाधिकरणः कर्मधारयः(आष्टाoसूo1-2-42)। समानाधिकरणावयवस्तत्पुरुषः कर्मधारयसंज्ञः स्यात्। संज्ञाप्रदेशाः "पुंवत्कर्मधारय"(अष्टाoसूo6-3-42) इत्यादयः। समानाधिकरणे पदे आश्रयत्वेन स्तोऽस्येति अर्शआद्यच्। यदि तु "पूर्वकालैक"(अषअटाoसूo2-1-49)इति प्रकरणस्यान्ते कर्मधारयश्चेति कृत्वा तत्पुरुषानुवृत्त्या पर्याये लब्धे चकारात् "गतिश्च"(अष्टाoसूo1-4-60)इत्यादाविव समुच्चयः साध्ये तदेदं सूत्रं शक्यमकर्तुम्।
(अष्टाo सूo1-2-43)
प्रथमानिर्द्दिष्टं समास उपसर्जनम्।(अष्टाoसूo1-2-43)। समासविधायकं शास्त्रं समासः, तादर्थ्यात्। समस्यतेऽनेनेति व्युत्पत्त्या वा। तत्र प्रथमया यन्निर्द्दिश्यते तदुपसर्जनं स्यात्। द्वितीया श्रितादिभिः-कृष्णश्रितः। महासंज्ञाकरणन्वर्थसंज्ञार्थम्। लोके ह्यप्रधानमुपसर्जनमाहुः। तेन राज्ञः कुमार्या राजकुमार्या इत्यत्रोभयोः "षष्ठी"(अष्टाoसूo2-2-8)इति सूत्रे प्रथमानिर्द्दिष्टत्वाविशेषेऽपि राजैवोपसर्जनं न तु कुमारी। तेन कुमारीशब्दस्य न पूर्वनिपातो न वा "गोस्त्रियोः"(अष्टाoसूo1-2-48)इति हस्वः। न च राज्ञः कुमारीति प्रथमान्तेनैव विग्रह इति भ्रमितव्यम्। मूलाभावात् तथा च "तत्पुरुषे तुल्यार्थतृतीयासप्तमी"(अष्टाoसूo6-2-2)इति सूत्रे परमे कारके परमेण कारकेणेत्यादावतिप्रसङ्गमाशङ्क्य लक्षणप्रतिपदोक्तपरिभाषाबलेन समाहितं भाष्ये। "अनेकमन्यपदार्थे"(अष्टाoसूo 2-2-24)इति सूत्रेऽपि भाष्यकैयटयोः स्पष्टमेतत्। प्रथभान्तेनैव विग्रह इति नियमो नास्तीति परिनिष्ठितविभक्त्येव विग्रहस्योचितत्त्वाच्च। अत एव "पूरणगुम"(अष्टाoसूo2-2-11)इति समानाधिकरणेन षष्ठीसमासनिषेधोऽपि सङ्गच्छते। अत एव च "एकविभक्तिचापूर्वनिपाते"(अष्टाoसूo1-2-44)इत्यस्य विषयलाभः। स्यादेतत्-उक्तरीत्या सूत्रभाष्यदिस्वरसान्न्यायाच्च द्वितीयाद्यन्ततया परिनिष्ठितस्य प्रथमान्तेन विग्रहो नास्तीत्येवोच्यताम्, तत्किमुच्यते नियमो नास्तीति? सत्यम्। अस्ति तत्राप्यालम्बनम्, तत्किमुच्यते नियमो नास्तीति? सत्यम्। अस्ति तत्राप्यालम्बनम्, तथाहि-राजकुमार्या इत्यादेः परिनिष्ठितस्यार्थप्रदर्शनपरे लौकिके विगऐहवाक्ये प्रकृतिबागमात्रं व्याख्येयं न तु समासोत्तरविभक्तिरपि। नह षष्ठी षष्ठ्या व्याख्येया किन्त्वनुवादमात्रं तत्। तत्र प्रातिपदिकार्थमात्रव्याचिख्यासायां प्रथमया विग्रहः केन वार्यते। अत एव-
"हरीतकीं भुङ्क्ष्व राजन् मातेव हितकारिणीम्"।
इत्यादिप्रयोगाः सङ्गच्छन्ते। मातेति प्रथमान्तेन समासे बाधकाभावात्। अत एव पचतीति पाकचकस्तं पाचकमित्याद्यपि सम्यगेवेति दिक्। तस्माद् द्वितीयाद्यन्तस्य परिनिष्ठितस्य प्रथमया परिनिष्ठितया वा विग्रहो न तु तदुभयभिन्नयेति निष्कर्षः। स्यादेतत्-यद्यन्वर्थसंज्ञेयं `याचकवृन्तारकः' `गोगर्भिणी'इत्यादिषु विशेष्यस्य पूर्वनिपातो न स्यादिति चेत्। "वृन्दारकनागकुञ्जरैः पूज्ममानम्" (अष्टाoसूo2-1-62) "चतुष्पादो गर्भिण्या"(अष्टाoसूo2-1-71)इत्यादौ विधिवाक्ये प्रथमानिर्द्देशस्यानन्यार्थत्वाददोषः। तस्मात्सति सम्भवे व्यवस्थापकमन्वर्थत्वमिति स्थितम्।
(अष्टाoसूo1-2-44)
एकविभक्ति चापूर्वनिपाते(अष्टाoसूo1-2-44)। अर्थाधिकारादिहसमासार्थमलौकिकं विग्रहवाक्यं समासः। तत्र विशेष्यसमर्पके पदे प्रयोगभेदादनेकविभक्तियुक्तेऽपि यन्नियतविभक्तिकं तदुपसर्जन्संज्ञं स्यात्पूर्वनिपातेतरस्मिन्कार्ये। अतिक्रान्तो मालामतिमालः। इहातिक्रान्तमतिक्रान्तेनेत्यादिक्रमेण सकलविभक्तियोगेपि मालाशब्दस्य द्वितीयानियमात् संज्ञायां सत्यां "गोस्त्रियोः"(अष्टाoसूo1-2-48)इति ह्रस्वः। एवं निष्कौशाम्बिरित्यादि। एकविभक्तावषष्ठ्यन्तवचनम्(काoवाo)नेह-अर्द्धं पिप्पल्याः अर्द्धपिप्पली। नन्वेवं `पञ्चखट्वी' न सिध्येत्। सत्यम्। अत एव संज्ञापूर्वकतया व्यवस्थितविभाषाश्रयणेन वार्द्धपिप्पलीं साधयित्वा "षष्ठ्यन्त'(काoवाo)इति वार्त्तिकं नारब्धव्यमिति प्रामाणिकाः। वस्तुतस्यतु एकदेशिसमासविषयकोऽयं निषेधः। न चात्र प्रमाणाभावः। `पञ्चखट्वी' इति द्वितीयभाष्यस्य प्रमाणत्वात्।
।। इति शब्दकौस्तुभे प्रथमस्याध्यास्य द्वितीये पादे प्रथममान्हिकम्।।