वर्त्तः । अहो ! महद्वैमनस्यमायातं जनार्द्दनस्य । कथितं हि मे तदासन्नपरिजनेन ----
किं कथ्यते श्रवण्गमात्रपरिग्रहेऽपि |
तदहं तमेव देवमुपसर्पामि सन्धुक्षयामि रोपानलमस्य चेदीन्द्रदारुणदुर्णयोदन्तदारुणा । ( परिक्रम्य पुरोऽवलोक्य ) अये ! प्रास एवाहं सभासीधम् । (निरूप्य सहर्पम् ) कथं द्वावपीह रामकृप्णौ । अहो ! जगद्विख्याता वन्धुप्रीतिरनयोः | तथाहि-
एके रामं मरकतमया विभ्रते विम्विताङ्गं |
कथं प्रतीहारमान्नपरिजनावेतौ ! । किमेतत् ! । ( कतिचित्पदानि दत्वा )
किं पुनरिमौ क्रोधाविप्टाविव दृश्येते । तथाहि--
कपोलौ स्वेदाम्भःकणकवचितो दृष्टिरम्णा |
तदुपसर्पामि । ( इत्युपसर्पति )
प्रती०-( सप्रश्रयम्) अयेि देवौ रामकृप्णौ ! प्रणमति युवामक्रूरः ।
( अक्रूर प्रणमति )
कृष्णः--( सालरयमिव ) आसनम् ।
( प्रतीहारः आसनमुपनयतेि )
अक्रूरः--(सप्रश्रयं ससम्भ्रमम्) किं पुनरत्र भवतोर्वैमनस्पमिव पश्यामि ? ।
कृष्णः--( सावज्ञम् ) न किञ्चित् ।
रामः-(सरोपविशम् ) अपि अक्रूर ! घीरकृप्ण एव कृप्णः । आकर्णयतु भवान् ।