मुटूरकः-( सहसोत्थाय ) आणेमि कुसुमाइं[१] ।
शिष्यः-भद्द ! सुवण्णेहिं रञ्अणेहिं वा केवलीपुत्थअपूआ भोदि[२] ।
( कपटकेलि: ज्ञानराशेर्मुखमीक्षते )
ज्ञान०--( स्वगतं सपरितोपम्) अर्हति केवलीरहस्यशिष्यत्यं कौण्डिन्यः । ( प्रकाशम् ) भद्रे ! एवमेवैतत् ।
क्ष्रद्धालुरात्मनः कुर्याल्लाभाल्लाभाल्लाभनिरुपणम् । |
अभावे कुसुमानि भवन्तु ।
कपट०--अय्य! मुक्ख्रपक्खो य्येव कीरदु[३] । (इत्यङ्गुलीयकेन पुस्तकं पूज्ञयति)
ज्ञानः-कौण्डिन्य ! गृहाण। दास्यसि विभज्य भिक्षुभ्यः ।
शिष्यः-(स्वगतम्) हआस ! जाणेमितुमं । अहरेहिं भणसि, ण हिअएण [४] । (प्रफाशम् ) जं उअज्झाओ आणवेदि । ( इत्यङ्गुलीयकं गृह्वाति )
ज्ञान०-(पुस्तकमुद्धाट्य)अये!ग्रहकुण्डलींतावदालिखामि । ( लिखनाभिनयं कृत्वा )
यदि पश्यति रविसृनुर्विशस्थानस्थितं व्यतीपातम् । |
न चायमिह योगः । तदस्ति तावल्लाभो नष्टस्य वस्तुमः ।
कपट०-( सहर्पम् ) अय्यस्स पसाएण[५] ।
शिष्यः-( सचमत्कारम् ) अहो । उअज्झाअंस्स विज्ज्ञामाहप्पं । सअलाओ वि सालिहोत्तगाहाओ कैठे किदाओ[६] ।