१६० श्रीमद्वाल्मीकिरामायणे अयोध्याकाण्डे
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते। यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ ५
द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्। सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ ६
न त्वहं मनसाप्यन्यं दृष्टास्मि त्वदृतेऽनघ। त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ ७
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्। शैलूष इव मां राम परेभ्यो दातुमिच्छमि॥ ८
यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे। त्वं तस्य भव वश्यश्च विधेयश्च सदानघ॥ ९
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि। तपो वा यदि वारण्यं स्वर्गो वा स्यात्त्वया सह॥ १०
न च मे भविता तत्र कश्चित् पथि परिश्रमः। पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव॥ ११
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ १२
महावातसमुद्धूतं यन्मामपकरिष्यति। रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्॥ १३
शाद्वलेषु यथा शिश्ये वनान्ते वनगोचर। कुथास्तरणतल्पेषु कि स्यात् सुखतरं ततः॥ १४
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु। दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ १५
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः। आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च॥ १६
न च नत्र गतं किचिद्द्रष्टुमर्हसि विप्रियम्। मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ १७
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना। इति जानन् परां प्रीतिं गच्छ राम मया सह॥ १८
अथ मामेवमव्यग्रां वनं नैव नयिष्यसि। विषमद्यैव पास्यामि मा विंशं द्विषतां वशम्॥ १९
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्। उज्झितायास्त्वया नाथ तदैव भरणं वरम्॥ २०
इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे। किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःग्विता॥ २१
इति सा शोकसंतप्ता विलप्य करुणं बहु। चुक्रोश पतिमायस्ता भृशमालिङ्गय सत्वरम्॥ २२
1. त्वां विना अन्यं नैवाहं द्रक्ष्यामि। अतस्त्वया सह गच्छेयम्। न चायं ममवैकस्याः कश्चिदतिशयः, यावदन्या या काचित् कुलवधूः अकुलपासनीया कुलदूषणी न भवति साप्येवंविधमेवाचरेत्। यदि मां वनगमनाय नानुमन्यसे वधवाहकलुपांसनावविहितान्यामितिभावः।
व्याख्यातरस्तु यथान्या कुलपांसनी करोति तथान्यमहं द्रष्टास्मि अतस्त्वयागच्छेयमिति योजयन्ति। तत्र यथेत्युपमानायस्य त्वयेत्यव्यवहितेन स्वरसप्रतीतस्य संबन्धस्य त्यागो व्यतिरेकविधया च तस्य व्यवहितेन मनसेत्यनेनैव संबन्धकरणमितीदं क्लेशेनोपपादनीयम्।
2. यस्य धर्मस्य पथ्यं अनुकूलाचरण सर्वदा कथयसि, धर्ममतिबद्धेन च राज्ञा यस्य भरतस्य कृते त्वमेवं निगृह्यते तस्य धर्मस्याधीनः, तत एव तस्य च भरतस्य प्रेष्यः त्वं तावत् भव। न खलु धर्मस्येदृशं पथ्यमस्ति, तं च मे तथा कश्चिन्निरोधः, यदिह स्थित्वा भरतानुवातन्या मया भवितव्यमिति तात्पर्यम्।
व्याख्यानेषु तु यस्य भ्रातृजनस्य, भद्रजनस्य, भरतस्य वा पथ्यमात्येत्यर्थभेदा दर्शइताः पत्यवराम् आत्य इति पदं छित्त्वा यस्य भरतस्य मा पश्यचरामिष्टानुवर्तिनी संप्रत्येव कथितवानसि। पथ्यचरामित्यत्र सुभार्थ इत्युक्तं तिलके।
3. चतुर्दशानां वर्षणां दश त्रीणि एक चेति विभजनेनेदं ध्वन्यते। दश तावदाद्यानि वर्षाणि विप्रलब्धैर्मदृता दुःखभरेण यापनीयानि, तत ऊर्ध्वं त्रीणि तु दशभ्यो महीवांसि भासमानानि महत्तरेण, अन्तिमं त्वकेमप्यनवधिकमेव तान् प्रतीति तदतिवाहनमसंभाव्यमेवेति।
पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/२११
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D.pdf/page211-941px-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80%E0%A4%AE%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%B2%E0%A5%8D%E0%A4%AE%E0%A5%80%E0%A4%95%E0%A4%BF%E0%A4%B0%E0%A4%BE%E0%A4%AE%E0%A4%BE%E0%A4%AF%E0%A4%A3%E0%A4%AE%E0%A5%8D.pdf.jpg)