सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता


न्यायलीलावतीकण्ठाभरणम्

ति । चतुष्कोटिकमनेनोक्तम् । भावाभावसन्देहेऽपि भावत्वमभावत्वं स्वभावाभावत्वं भावाभावत्वं च कोटिचतुष्टयं यथाकथञ्चिदुपपाद्यम् ।

न्यायलीलावतीप्रकाशः

पनान्नैतद्योग्यतायाश्च तदवच्छेदकधर्माज्ञानादप्रतीतेः । ज्ञाने वा तस्यैव लक्षणत्वापत्तेः । अनध्यवसायेति व्याप्तेश्च संस्काराजनकं ज्ञा नं संशयः । यद्यपि निश्चयोऽपि क्वचित्तथा तथापि तत्र तज्जनकतावच्छेदकरूपवत्त्वमस्ति संशये तु न तथात्वं स्थाणुर्वा पुरुषो वेति स्मरणाभावात् । संशयस्य हि नेन्द्रियार्थसन्निकर्षमन्तर्भाव्य सामग्री तद्विच्छदेऽपि मनसैव तज्जननादिति चेन्न, तस्याप्यनुगतरूपानुपस्थितौ तत्राग्रहात् । अथ संशयत्वं जातिः । न च चाक्षुषत्वादिना परापरभावानुपपत्तिः, सर्वत्र हि मानस एव संशयः सौदामिनीसम्पातादौ कञ्चित्समानधर्मवन्तं धर्मिणमालोक्यान्धकारेऽपि सन्देहात चक्षुराद्यनुविधानस्य चानुमिताविव धर्मिंग्रहांपक्षीणत्वात् वहिरि न्द्रियजन्यत्वेऽपि गत्वतारत्वत्रच्चाक्षुषत्वादिव्या व्यतन्नानात्वेनाप्युपपत्तेः । मैवम् । तथासति धर्म्यशेऽपि संशयत्वापत्तेः जातेर्व्याप्यवृत्तित्वनियमात् ।

 अत्राहुः । संशयविषयबोधकशब्दस्यायोग्यतया ज्ञानाजनकत्वान्न

न्याय लीलावतीप्रकाशविवृतिः

तथापि तज्जनकेति । निश्चय त्वमेवाच्छेद कमिति योग्यता तत्राप्यस्त्येव । तद्भाव एव च लक्षणमिति भावः । नन्विन्द्रियार्थसन्निकर्षजत्वेन संशये निश्चयत्वमस्त्येवेति तदपि संस्कारजननयोग्यमेवेत्यत आह---- संशयस्य होति । तथा च तदध्यसिद्ध मेवेति भावः । यद्वा संशयात्मकस्मरणाभावादित्येवासिद्धम् इन्द्रियव्यापारविग मेऽप्यनुभूयमानस्य संशयस्य स्मरणत्वावक्ष्यकत्वादत आह - संशयस्य हीति । न च वहिरिन्द्रिय सन्निकर्षमन्तर्भाव्यैव तत्सामग्रीति मनसैव ज्ञानात्मकसन्निकर्षसहितेन तत्रानुभवात्मकसंशयजननम् अननुभूतवाहिरिन्द्रियगोचरार्थनिश्चये मनसो ज्ञानसन्निधिकल्पनादिति भावः । तस्येति । संस्कारजनकत्वाभावस्याप्यनुगताधिकरणनिष्ठ रूपा प्रत्ययेऽप्रत्यय एव । तत्प्रत्यये तु तदेव लक्षणमिति भावः । तन्नानात्वेति । इदं चापाततो वस्तुतः पूर्वोक्तमेव सम्यक् । एवं सत्यननुगमेन लक्षणत्वाभावादित्यवधेयम् । संशयविषयेति । तथा चैकस्मिन् धर्म्मिणि विरोधि-