एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
नवम स्तबक ।
,
पतिते युधि वाहिनीसुते पत्तदक्षुर्दिविधापि वाहिनी ।
प्र[१]थम परितापमुच्छूित पटधेश्मानि ययौ तत [२]परम् ॥ ४४ ॥
,
इत्यनन्तभट्ट्विकृतौ चम्पूभारते नवम स्तबक् ।
भर्तृपितु मरणेन यत् तङ ख बभूव । अश्वाप्सरसा तादृशदु खासबन्धेऽपि सब न्बोक्त्तेरतिशयोक्ति । मालिनीवृत्तम् ॥ ४३ ॥
पतित इति । वाहिन्या गङ्गाया सेनायाश्च सुते भीष्मे युधि युद्धभुवि। पतिते सति । द्विविवा कौरवीया पाण्डवीयापि वाहिनी सेना पतन्ति गलन्ति अश्रूणि बाष्पाणि यस्यास्तथोक्ता सती प्रथम आदौ उच्छूित महान्त परिताप ययौ प्राप । तत पर पटवेश्मानि दूष्याणि ययों । वैतालीयम् ॥ ४४ ॥
इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पूभारतव्याख्याने लास्याख्याने नवमस्तबकविवरण समाप्तमासीत् ।