एतत् पृष्ठम् परिष्कृतम् अस्ति
६५ प्रक.
181
दासकल्पः
स एनं बन्धनागारगतो याचेत । दाने शुचिरन्यथा निक्षेपं
स्तेयदण्डं च दद्यात् ॥
अभिज्ञानेन चास्य गृहे जनमुभयं याचेत। अन्यतरादाने
यथोक्तं पुरस्तात् ।।
द्रव्यभोगानामागमं चास्यानुयुञ्जीत । तस्य चार्थस्य व्य
वहारोपलिङ्गनमभियोक्तुश्वार्थसामर्थ्यम् ।।
एतेन मिथस्समवायो व्याख्यातः ॥
तस्मान्साक्षिमदछन्नं कुर्यात्सम्यग्विभाषितम् ।
स्वे परे वा जने कार्यं देशकालाग्रवर्णतः ।।
इति धर्मस्थीये औपन्निधिक द्वादशोध्यायः
आदित एकोनसप्तति ॥
६५ प्रक, दासकल्पः,
उदरदासवर्जमार्यप्राणममाप्तव्यवहारं शूद्रं विक्रयाधानं नय-
त[१]स्वजनस्य द्वादशपणो दण्डः । वैश्यं द्विगुणः । क्षत्रिय
त्रिगुणः । ब्राह्मणं चतुर्गुणः। परजनस्य पूर्वमध्यमोत्तमवधा
दण्डाः केतृश्रोतृणां च ।।
म्लेच्छानामदोष प्रजा विक्रेतुमाधातुं वा ॥
न त्वेवार्यस्य दासभावः ।।
१तरयत
- ↑ तरवत.