इदं तूदाहरणम्--
निवहेन सुररिपूणां भवप्रतापोष्णिमानमनुभवताम् । मधुमथन चित्रभानुद्वितयं दृष्टं विनोष्णतया ॥ ७२९ ॥
चित्रभान्वोस्सूर्यवह्न्योः द्वितयं 'सूर्यवह्नी चित्रभानू' इत्यमरः । अत्र सूर्यवह्न्योरौष्ण्यस्याविनाभावेऽपि विनाभावो दर्शितः ॥
यथावा--
निरतिशयविशदिमाढ्ये परितस्स्फुरतीह जगतेि तव यशसि । माधव विना धवलतां विधुविधिवनितादयो विलोक्यन्ते ॥ ७३०॥
विधिवनिता सरस्वनी । अत्र धावळ्याविनाभावेऽपि तद्विनाभावो दर्शितः । अलंकारान्तरपरिरम्भसंभूतमेवास्या रमणीयत्वम्, न तु स्वतः । तेनालंकारान्तरत्वमपि शिथिलमेवेति वद्न्ति । परे तु-किंचिद्व्यतिरेकप्रयुक्तरम्यत्वारम्यत्वज्ञानादेव चमत्कारोदयस्य निष्प्रत्यूहत्वेनालंकारान्तरानालिङ्गितस्यास्य रमणीयतायास्सहृदयहृदयैकसाक्षिकत्वात्स्वतोऽस्यालंकारान्तरत्वमक्षतमेवेत्याहुः ॥
अथास्या ध्वनिः--
किं तेन जन्मना स्यात्स्वान्ते यस्मिन्न चिन्तितोऽनन्तः । किं तेन कर्मणा वाऽनन्ते यन्नार्पितं भवत्यन्ते ॥ ७३१ ॥