उणादिकोशः/द्वितीयपादः-२

विकिस्रोतः तः
← प्रथमपादः-१ उणादिकोशः
द्वितीयपादः-२
[[लेखकः :|]]
तृतीयपादः-३ →

                  अथ द्वितीयपादारम्भः
                    -------------
                

1.कृहृभ्यामेणुः।।1।।
करेणुः। हरेणुः।।1।।
1.करोतीति करेणुः हस्ती हस्तिनी वा। हरति स हरेणुः गन्धद्रव्यं कलापो वा `मटर' इति प्रसिद्धः।।
2.हनिकुषिनीरमिकाशिभ्यः क्थन्।।2।।
हथः। कुष्ठः। नीथः। रथः। काष्ठम्।।2।।
2.यो हन्यते येन वा स हथः दुःखितः शस्त्रविशेषो वा। कुष्णाति निरन्तरं कर्षतीति कुष्ठम् व्याधिभेदः `कूट' इत्याख्यौषधिर्वा। नीयते स नीथः नयनं वा। शोभनो नीथोऽस्यास्तीति `सुनीथो' धर्मशीलः। रमते यस्मिन् येन वा स रथः यानं शरीरं पादो वेतसो वा। काशते दीप्यते तत् काष्ठम् इन्धनं स्थानं कालमानं वा। `काष्ठा' दिक् दारु हरिद्रा वा।।
3.अवे भृञः।।3।।
अवभृथः।।3।।
3.क्थन्। त्रच्प्रवभिर्त्तीति त्र्प्रवमृथः पक्षिभेदो यज्ञान्तस्नानं वा।।
4.उषिकुषिगार्त्तिभ्यस्थन्।।4।।
ओष्ठः। कोष्ठः। गाथा। अर्थः।।4।।
4.त्र्प्रोषति यो दहति येन वा स त्र्प्रोष्ठः मुखावयवो वा। कुष्णाति निरन्तरं कर्षति स कोष्ठः,कोष्ठं कुक्षिः कुशूलमन्तर्गृहं वा। गीयते या सा गाथा वाग्भेदः श्लोको वा। त्र्प्रर्यते प्राप्यतेऽसौ त्र्प्रर्थः शब्दानां वाच्यो धनं कारणं वस्तु प्रयोजनं निवृत्तिर्विषयो वा।
बाहुलकात्---श्यति तनूकरोतीति शोथः रोगविशेषो वा `शो तनूकरणे' इत्यस्यात्वनिषेधः।।
5.सर्तेर्णित्।।5।।
सार्थः।।5।।
5.सरति गच्छति स सार्थः समूहो वा। थन्प्रत्ययस्य णित्वाद् वृद्धिः।।
6.जॄवृञ्भ्यामूथन्।।6।।
जरूथम्। वरूथः।।6।।
6.जीर्यते वयोहीनो भवति स जरूथः मांसं वा। वृणोति येन स्वीकरोति स वरूयः लोहेन रथावरणं वा।।
7.पातॄतुदिवचिरिचिसिचिभ्यस्थक्।।7।।
पीथः। तीर्थम्। तुत्थः। उक्थम्। रिक्थम्। सिक्थम्।।7।।
7.यः पिबति यं वा स पीथः सूर्यो घृतं वा। तरन्ति येन यत्र वा तत् तीर्थम् गुरुर्यज्ञः पुरुषार्थो मन्त्री जलाशयो वा। यो येन वा तुदति व्यथां प्राप्नोति स तुत्थः त्र्प्रग्निरञ्जनं तुत्था नीलि त्र्प्रोषधिर्गौर्बडवा वा,सूक्ष्मैला वा `छोटी इला[य]ची'इति प्रसिद्धा। उच्यते परितो भाष्यते यत्तत् उक्थम् सामवेदो वा। य उक्थमधीते वेत्ति वा स `त्र्प्रौक्थिकः'। रिणक्ति पृथक् करोतीति यत्तद्,`रिक्यम्'दायादधनं सुवणे वा। बाहुलकात्---`ऋच स्तुतौ' इत्यस्मादपि थक्। ऋचति यदर्थ स्तौतीति ऋक्थम् धनं वा। सिञ्चति प्रसादयति तत् सिक्थम् मधूच्छिष्टम् `मोम' इति प्रसिद्धम्,त्र्प्रोदनान्निः सृतं मण्डं वा।।
8.अर्त्तेर्निरि।।8।।
निर्ऋथः।।8।।
8.निरन्तरमृच्छन्ति गच्छन्ति यस्मिन्नसौ निर्ऋथः सामवेदो वा।।
9.निशीथगोपीथावगथाः[गाथाः]।।9।।
9.नितरां शेतेऽस्मिन् स निशीथः त्र्प्रर्द्धरात्रः सर्वरात्रो वा। गां वाणीं पृथिवीं वा पातीति गोपीथः पण्डितो राजा वा. गावः पिबन्त्युदकमस्मिन् स जलाशयो वा। त्र्प्रवगातेऽवगच्छते जानीते ऽसौ त्र्प्रवगाथः प्राप्तः स्नानं वा।।
10.गश्चोदि।।10।।
उद्गीथः।।10।।
10.उदुपपदाद् गाधातोस्थक्। ये उद्गीयत उच्चैः शब्दायते स उद्गीथः सामध्वनिः प्रणवो वा।।
11.समीणः।।11।।
समिथः।।11।।
11.समेति सम्यक् प्राप्नोति पदार्थानिति समिथः त्र्प्रग्निर्वा।।
12.तिथपृष्ठगूथयूथप्रोथाः।।12।।
12.तिथादयस्थक् प्रत्ययान्ता निपाताः। तेजते सह्यतेऽसौ तिथः त्र्प्रग्निः कामो वा। पर्षति सिञ्चति यो येन वा तत् पृष्टम् शरीरस्य पश्चाद्भागः स्तोत्रं वा। यो येन वा गवतेऽव्यक्तशब्दं करोति तद् गूथम् त्र्प्रपानमार्गः पुरीषां वा। यौति मिश्रयत्यमिश्रयति वा स यूथः समुदायो वा। यः प्रवते गच्छति येन वा स प्रोथः तुरङ्गनासिका। प्रस्थितः पुरुषो वृक्षभेदः प्रियमुदकमन्नं स्त्रीगर्भश्च प्रोथ उच्यते।।
13.स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिछिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्।।13।।

स्फारम्। तक्रम्। वक्रः। शक्रः। क्षिप्रम्। क्षुद्रः। सृप्रः। तृप्रः। दृप्रः। वन्द्रः। उद्रः। श्वित्रम्। वृत्रः। वीरः। नीरम्। पद्रः। मद्रः। मुद्रा। खिद्रः। छिद्रम्। भिद्रम्। मन्द्रः। चन्द्रः दह्रः। दस्रः। दभ्रः। उस्रः। वाश्रः। शीरः। हस्रः। सिध्रः। शुभ्रम्।।13।।
13.यः स्फायते वर्ध्थतेऽसौ स्फारः सुवर्णादेर्विकारो बुद्बुदो वा। वलि रेफे यलोपः। तनक्ति संकोचयतीति तक्रम् मथितं दधि वा। वञ्चति प्रलम्भते स वक्रः कुटिलः क्रूरो वा। शक्नोति यः स शक्रः समर्थः कुटजो वृक्षविशेषो वा। क्षिप्यते प्रेर्यते तत्क्षिप्रम् शीघ्रं वा। क्षुनत्ति संपिनष्टि यः स क्षुद्रः त्र्प्रधमः क्रूरः कृपणो वा। त्र्प्रल्पे वाच्यलिङ्गः--क्षुद्रा वेश्या कण्टकारिका(भटकटाई) तथा मधुमक्षिका च। सर्पति गच्छतीति सृप्रः चन्द्रमा वा। यस्तृप्यति येन वा स तृप्रः पुरोडाशो वा । दृप्यति हृष्यति मुह्यति व,स दृप्रः वलवान् वा। वन्दतेऽभिवदति स्तौति वा स वन्द्रः सत्कर्त्ता वा। उनत्ति क्लिद्यति स उद्रः जलचरो वा। सम्यगुनत्तीति `समुद्रः'। त्र्प्रनिदिताम्o[6। 4. 24] इति नलोपः। श्वेतते वर्णविशिष्टो भवतीति श्वित्रम् कुष्ठभेदो वा। वर्त्तते सदैवाऽसौ वृत्रः मेघः शत्रुस्तमः पर्वतश्चक्रं वा। त्र्प्रजति गच्छति शत्रून् वा प्रक्षिपति स वीरः सुभटः श्रेष्ठश्चतुष्पथं वा। वीरा क्षीरकाकोली पतिपुत्रवती स्त्री मदिरा मधुपर्णिकौषधिर्वा। नयति शरीरमिति नीरम् जलं वा। पद्यते गच्छन्त्यस्मिन् वा स पद्रः ग्रामः संवेशः स्थानं वा। माद्यतीति मद्रः हर्षो देशभेदो वा। मोदन्ते हृष्यन्ति यया सा मुद्रायन्त्रिता सुवर्णादि धातुमया वा। यः खिद्यते येन वा दीनो भवतीति स खिद्रः रोगो दरिद्रो वा। छिद्यते यत्तत् छिद्रम् विवरं वा। भिनत्ति येन तद् भिद्रं वज्रो वा। मन्दते स्तौतिति मन्द्रः गम्भीरध्वनिर्वा। चन्दति हर्षयति वा स चन्द्रः कर्पूरश्चन्द्रमा वा। दहति भस्मीकरोतीति दह्रः दावाग्निर्वा। दस्यति रोगानुपक्षयतीति दस्रः वैद्यश्चोरो वा। यो दभ्नोति दम्भं करोति स दभ्रः क्षुद्रो जनः समुद्रो वा। वसतीति उस्रः रश्मिर्वा। उस्रा गौः। वाश्यते शब्दयतीति वाश्रम् पुरीषं दिवसो मन्दिरं चतुष्पथं वा। शेतेऽसौ शीरः महासर्पो वा। हसतीति हस्रः मूर्खो वा। सेधति गच्छति सिध्यति वा स सिघ्रः साधुर्वक्षजातिर्वा। कुत्सिताः सिद्धा वृक्षाः सिध्रकास्तासां वनं `सिध्रकावणम्'वनं पुरगामिश्रकासिध्रकाo[8।4।4]इति सूत्रेण णत्वम्। शोभते दीप्यते तत् शुभ्रम् रुचिरं शुक्लं पाण्डुरं वा।
बाहुलकात्-मेशति शब्दयतीति मिश्रः संयोगो वा। पुण्डति खण्डयतीति पुणड्रः दुष्टो वा। सिनोति बध्नाति मांसरुधिरादिकमिति सिरा नाडी वा। मुस्यति खण्डयतीति मुस्रम्नेत्रोदकं वा। त्र्प्रस्यतीति त्र्प्रस्रम् रुधिरं वा। त्र्प्रस्रम्. पिबतीति त्र्प्रस्रपो दंशः।।
14.चकिरम्योरुच्चोपधायाः।।14।।
चुक्रम्। रुम्रः।।14।।
14.चकते तृप्यति प्रतिहन्यते वा स चुक्रः त्र्प्रम्लमम्लवेतसमित्यादि। रमन्तेऽस्मिन् स रुम्रः त्र्प्ररुणः शोभनो वा।।
15.वौ कसेः।।15।।
विकुस्रः।।15।।
15.विकसति विशेषतया गच्छतीति विकुस्रः चन्द्रमा वा। `कस' धातोरुपधाया उत्वम्।।
16.अमितम्योदीर्घश्च।।16।।
आम्रम्। ताम्रम्।।16।।
16.त्र्प्रम्यते सम्भज्यते सेव्यते तत् त्र्प्राम्रम् चूतो वा। ताम्यति काङ्क्षतीति ताम्रम् धातुभेदो रक्तवर्णो वा।।
17.निन्देर्नलोपश्च।।17।।
निद्रा।।17।।
17.या निन्दति या वा सा निद्रा शयनं वा।।
18.अर्देर्दीर्घश्च।।18।।
त्र्प्रार्द्रम्।।18।।
18.आर्दति गच्छति याचते वा तत् त्र्प्रार्द्रम् सरसद्रव्यमार्द्रा नक्षत्रं वा।।
19.शुचेर्दश्च।।19।।
शूद्रः।।19।।
19.दीर्घश्चानुवर्त्तते। शोचतीति सूद्रः सेवको वा। पुंयोगे शूद्रस्य स्त्री `शूद्री'`शूद्रा' तज्जातिर्वा।।
20.दुरीणो लोपश्च।।20।।
दूरम्।।20।।
20.दुरुपपदात् `इण्'धोतो रक् धातोस्च लोपः दुःखेनेयते--प्राप्यते तद् दूरम् विप्रकृष्टं वा।।
21.कृतेश्छः क्रू च।।21।।
कृच्छ्म्। क्रूरः।।21।।
21.`कृत'धातोरन्त्यस्य छः सर्वस्य च क्रू इत्येतावादेशौ रक् च। कृन्तति छिनत्तीति कृच्छ्रः; क्रूरः च कठिनं दुःख खलो वा।।
22.रोदेर्णिलुक् च।।22।।
रुद्रः।।22।।
22.पापिनो रोदयतीति रुद्रः ईश्वरः प्राणादिदश रुद्रा जीवो वा।
बाहुलकात्---त्र्प्रन्यत्रापि धात्वन्तरे संज्ञाछन्दसोः सामान्यप्रत्ययादौ च णेर्लुक्। पाशं बन्धनं धारयतीति पाशधरः। शूलधरः। चक्रधरः। वज्रधरः। शक्तिधरः वा कुमारः। उदकधरः मेघः। दण्डधरः राजा। अत्र सर्वत्राचि प्रत्यये `धृ'धातोः परस्य णेर्लुक्। पर्णानि शोषयति मोचयति रोहयति वा स पर्णशुट्,पर्णमुट्,पर्णरुट्। इति ण्यन्तात् `शुष' धातोः क्विप् णेर्लुक्। जश्त्वकुत्वादि कार्यम्।
               "वान्ति पर्णशुषो वाता वान्ति पर्णमुचोऽपरे।
                ततः पर्णरुहा वान्ति ततो देवः प्रवर्षति"।।
23.जोरी च।।23।।
जीरः।।23।।
23.`जु'धातो रकि प्रत्यय ईकारादेशः। जवति सूक्ष्मो भवतीति जीरः`त्र्प्रणुः खड्गो वणिग्द्रव्यं वा। महाभाष्यकारसंमत्या 'रकि ज्यः सम्प्रसारणम्'। भाo 1।1।4। `ज्या वयोहानौ' इत्यस्य रकि प्रत्यये सम्प्रसारणम्। जिनात्यवस्थां जहातीति जीरः। तथा महाभाष्यकार सम्मत्या `जीव' धातोरदानुक्। जीवति प्राणान् धारयतीति जीरदानुः। वैदिकं रूपमेतत्। त्र्प्रत्र च `जीव' धातोर्कलि वलोपः ऊठ् निपेधश्च बाहुलकादेव,इत्यादि।।
24.सुसूधाञ्गृधिभ्यः क्रन्।।24।।
सुरः। सूरः। धीरः। गृध्रः।।24।।
24.सुनोचि सवति उत्पादयत्यैश्वर्यर्यवान् वा भवतीति सूरः देवसंज्ञो विद्वान्,स्त्रियां सुरा मद्यं वा। सूयते वा सुवति प्राणिनः समर्थयतीति सूरः सूर्यो वा। दधाति सर्वान् पोषयति वा स धीरः पण्डितो वा। गृध्यत्यभिकाङ्क्षतीति गृध्रः पक्षिविशेषो वा।।
25.शुसिचिमीनां दीर्घश्च।।25।।
शूरः। सोरः। चीरम्। मीरः।।25।।
25.`शु' इति सौत्रो धातुः। शवति गच्छतीति शूरः विक्रमण शीलः पुरुषो वा। सिनोति बध्नातीति सीर; हलं वा। चिनोतीति चीरम् वल्कर्लं वा। मिनोतिर प्रक्षिपतीति मीरः समुद्रो वा।।
26.वा विन्धेः।।26।।
वीध्रम्।।26।।
26.विशेषेणेन्धते प्रदीप्यते तद् वीध्रम् स्वभावशुद्धः।।
27.वृधिवपिभ्यः रन्।27।।
वर्ध्रम्। वप्रः।।27।।
27.वर्द्धते तत् वर्ध्रम् चर्म्म वा। वपति बीजं छिनत्ति वा स वप्रः पिता केदारः प्राकारो रोधो वा।।
28.ऋज्रेन्द्राग्रवज्रविप्रकुब्रचुब्रक्षुरखुरभद्रोग्रभेहभेलशुक्रशुक्लगौरवत्रेरामालाः।।28।।
।।28।।
28.ऋज्राद्येकोनविंशतिः शब्दा निपात्यन्ते। त्र्प्रर्जति गच्छति तिष्ठति वा स ऋज्रः नायको वा। गुणाभावः। इन्दति परमैश्वर्यवान् भवतीतिर इन्द्रः समर्थोऽन्तराऽऽत्मादित्यो योगो वा। त्र्प्राङ्गति गच्छतीति त्र्प्रग्रम् प्रधानुमुपरिभागो वा। वजति प्राप्नोति प्राप्यते वा स वज्रः हीरकं शस्त्रं वा। वपति धर्म्ममिति विप्रः मेधावी वा। कुम्बत्याच्छादयतीति कुब्रम् त्र्प्ररण्यं वा। चुम्बति यो येन वा तत् चुब्रम् मुखं वा त्र्प्रत्रोभयत्रेदितोऽपि न लोपः। यः क्षुरति विलिखति येन वा छिनत्तीति स क्षुरः छेदनद्रव्यं कोकिलाक्षं गोक्षुरो लोमच्छेदकं नापितशस्त्रं वा। खुरति छिनत्ति यो येन वा स खुरः शफं वा। त्र्प्रत्रोभयत्र रकि रेफलोपो गुणाऽभावश्च। भन्दते कल्याणां करोतीति भद्रम् कल्याणम्। नकारलोपः। उच्यति सवैतीति उग्रः महेश्वरः उत्कटः क्षत्रं वा। बिभेत्यस्मात्स भेरः,भेरी दुन्दुभछिर्वा। गौरादित्वान् ङीष्। पक्षे भेरशब्दस् लत्वम्---भेलो जलतरणद्रव्यं वृद्धकायः कातरो वा। शुच्यतेर पवित्रीभवतीति शुक्रम् ब्रह्माग्निराषाढः प्राणिबीजं नेत्ररोगो वा। अस्यैव व्यवस्थितविभाषया पक्षे लत्वम्---शुक्लः श्वेतं रजतं वा गवतेऽव्यक्तंशब्दयतीति गौरः श्वेतो रक्तवर्णो वा। `गौरी'स्त्री। ङीष्। वनति सम्भजतीति वन्नः विभागी। एति गच्छति यया सा इरा उदकं मद्यं वा। `इरावान्'समुद्रः,ऐरावती नदी। इरया मद्येन माद्यतीति `इरम्मदः'। माति मानहेतुर्भवतीति माला पुष्पादिस्रक्। मालं क्षेत्रम्। मालो जनः।
       बाहुलकात्---तितिक्षते येन तत् तीव्रम् तीक्ष्णं वा। जस्य वो दीर्घत्वं च धातोः।।
29.समि कस उकन्।।29।।
सङ्कसुकः।।29।।
29.सम्यक् कसति गच्छतीति सङ्कसुकः संशयमापन्नश्चलो दुर्जनो वा।।
30.पचिनशोर्णुकन्कनुमौ च।।30।।
पाकुकः। नंशुकः।।30।।
30.`पच नश'धातुभ्यां णुकन् प्रत्ययः पचधातोश्चस्य कः, नशधातोर्नुम् च। पचतीति पाकुकः सूपकारो वा। नश्यतीति नंशुकः अणुवाचको वा।।
31.भियः क्रुकन्।।31।।
भीरुकः।।31।।
31.यो विभेति यस्माद्वा स भीरुकः कातरो वा।।
32.क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि ।।32।।
रजकः। इक्षुकुट्टकः। तक्षकः। ध्रुवकः। अभ्रकम्। चरकः। चषकः। [भञ्जकः। शालभञ्जिका। काष्ठपुत्रिका। पुष्पप्रचायिका] शुनकः। भषकः।।32।।
32.शिल्पिनि संज्ञायां च गम्यमानायां सोपपदादनुपपदाद्वा सामान्याद्धातो क्वुन् भवति। रजतीति रजकः वस्त्रशोधको वा। इक्षून् कुट्टयतीति इक्षुकुट्टकः गौडिकस्येयं संज्ञाः। तक्षति तनूकरोतीति तक्षकः वर्धकिः शिल्पी। ध्रूवकः गर्भमोचको जनः संज्ञा वा। त्र्प्रभ्रति गच्छति येन तत् त्र्प्रभ्रकम् त्र्प्रौषधं संज्ञा वा। चरतीति चरकः वैद्यकशास्त्रंर गन्ता वा। चषति भक्षयत्यस्मिन्निति चषकं पानपात्रं शालं वा। भञ्जतीति भञ्जक मत्स्यभेदः प्राकारो वा। शालान् भञ्जन्ति यस्यां सा शालभञ्जिका क्रीडा। काष्ठं पुत्रयति यस्यां सा पुष्पप्रचायिका क्रीडा वा। शुनति गच्छतीति शुनकः श्वा। भषति भर्त्सयतीति भषकः श्वा वा।
त्र्प्रामलते समद्धारयतीति त्र्प्रामलकः वृक्षभेदः गौरादित्वान् ङीष् `त्र्प्रामलकी'। कलामंशं पाति रक्षतीति कलापकः चन्द्रमा। वा। मल्लते गन्धं सुवर्ण वा। कटत्यावृणोत्यङ्गमिति कटकम् त्र्प्राभूषणं वा `कड़ा' इति प्रसिद्धं शिखरं राजधानी नितम्बं वा। लटति बाल इव भवतीति लटकः दुर्जनो वा। इत्यादिषु शिल्पिसंज्ञयोः क्वुन् बोध्यः।।
33.रमेरश्च लो वा।।33।।
रमकः। लमकः।।33।।
33.रमतेऽसौ रमकः रमणशीलो वा। लमकः अपि स एव।।
34.जहातेर्द्वे च।।34।।
जहकः।।34।।
34.जहाति त्यजति हानिं करोतीति जहकः त्यागी कालो वा।।
35.ध्मो धम च।।35।।
धमकः।।35।।
35.धमति शब्दं करोतीति त्र्प्रग्निं वा संयुनक्ति स धमकः कर्मकारो वा।।
36.हनो बध च।।36।।
बधकः।।36।।
36.हन्तीति बधकः हिंसकः।।
37.भहुलमन्यत्रापि।।37।।
कुहकः। कृतकम्। भिदकः। छिदकम्। रुचकम्। लङ्गकः। उज्भकः।।37।।
37.बहुलवचनादन्यत्रापि क्वुन्। कोहयति विस्मयं कारयतीति कुहकः दाम्भिको नीहारो वा। कृन्तति छिनत्तीति कृतकं मिथ्या वा। भिनति येन स भिदकः खड्गो वा। छिनत्ति येन तत् छिदकं वज्रो वा। रोचतेऽनेन तत् रुचकम् मातुलुङ्गकं वा `विजौरा नींबू' इति प्रसिद्धं वा। लङ्गति गच्छतीति लङ्गकः प्रियो वा । उज्भत्युत्सृजतीति उज्भकः योगी मेघो वा।।
38.कृषेर्वृद्धिश्चोदीचाम्।।38।।
कार्षकः;कृषकः।।38।।
38.कृषतीति कार्षकः,कृषकः वा कृषीबलः।।
39.उदकञ्च।।39।।
[उदकम्]।।39।।
39.उनत्ति क्लेदयतीति उदकं जलं वा।।
40.वृश्चिकृषोः किकन्।।40।।
बृश्चिकः। कृषिकः।।40।।
40.वृश्चति छिनत्तीति वृश्चिकः विषी जीवविशेषः शूककीटो वा। `केंचुत्र्प्रा' इति प्रसिद्धः। कृषति येन स कृषिकः फालो वा।।
41.प्राङि पणिकशः।।41।।
प्रापणिका। प्राकषिकः।।41।।
41.प्रकर्षेण समन्तात्पणायत्यसौ प्रापणिकः पण्यविक्रयी वा प्राकषति हिनस्तीति प्राकषिकः पारदादिको वा।।
42.मुषेर्दीर्घश्च।।42।।
मूषिकः।।42।।
42.मुष्णाति पदार्थानिति मूषिकः त्र्प्राखुर्वा। स्त्रियां `मूषिका'। त्र्प्रजादित्वाट्टाप्।।
43.स्यमेः सम्प्रसारणं च।।43।।
सीमिकः।।43।।
43.स्यमति शब्दयतीति सीमिकः वृक्षभेदो वा।।
44.क्रिय इकन्।।44।।
क्रयिकः।।44।।
44.क्रीणाति द्रव्येण पदार्थान्तरं ददाति गृह्णाति वा स क्रयिकः क्रेता। विक्रयिको विक्रेता।।
45.आङि पणिपनिपतिखनिभ्यः।।45।।
आपणिकः। आपनिक। आपतिकः। आखनिकः।।45।।
45.समन्तात्पणायति व्यवहरति स त्र्प्रापणिकः वैश्यो वा। त्र्प्रापणेन व्यवहरतीति तद्धिते ठकि निद्धे नित्स्वरार्थं वचनम्। त्र्प्रापनायतीति त्र्प्रापनिकः म्लेच्छजातिर्वा। समन्तात् पततीति त्र्प्रापतिकः श्येनो वा। समन्तात् खनतीति त्र्प्राखनिकः मूषिको वराहो वा।।
46.श्यास्त्याहृञविभ्य इनच्।।46।।
श्येनः। स्त्येनः। हरिणः। अविनः।।46।।
46.श्यायति गच्छतीति श्येनः पक्षिभेदो वा। स्त्यायति शब्दयति संघातयतीति स स्त्येनः चौरो वा। हरतीति हरिणः मृगः पाण्डुवर्णो वा। स्त्रियां `हरिणी' सुन्दरी छन्दोभेदो हरितवर्णा वा। त्र्प्रवति रक्षणादिकं करोतीति त्र्प्रविनः त्र्प्रध्यर्युर्वा।।
47.वृजेः किच्च।।47।।
वृजिनम्।।47।।
47.इनच् कित्। वृक्ते वर्जयतीति वृजिनः केशः पापं वक्रो वा।।
48.अजेरज च।।48।।
अजिनम्।।48।।
48.त्र्प्रजति गच्छति क्षिपति वा तत् त्र्प्रजिनम् चर्म वा। त्र्प्रजादेशो वीभावनिवृत्त्यर्थः।।
49.बहुलमन्यत्रापि।।49।।
49.कठति कृच्छ्रेण जीवतीति कठिनम् कठोरं वा। कुण्डते दहतीति कुण्डिनः ऋषिर्वा यस्यापत्यं `कौण्डिन्यः'। वर्हते प्रधानो भवतीति वर्हिणः मयूरो वा। फलति विशीर्णो भवतीति फलिनः फलवान् वृक्षो वा। नलति गन्धयुक्तो भवतीति नलिनम् कमलं वा। मस्यति परिणमतीति मसिनम् सुपिष्टं वा। मलते धरतीति मलिनः मलयुक्तो वा। द्रुह्यति जिघांसतोति द्रुहिणः ब्रह्मा वा। त्र्प्रन्धकारं द्यत्यवखण्डयतीति दिनम् दिवसं वा। इनचः कित्वादाकारलोपः।।
50.द्रुदक्षिभ्यामिनन्।।50।।
द्रविणम्। दक्षिणः;दक्षिणा।।50।।
50.द्रवति गच्छति द्रयते प्राप्यते वा तद् द्रविणम् सुवर्णं पराक्रमो वा। दक्षते वर्धते शीघ्रकारी भवति वा स दक्षिणः सरलो वामभागः परतन्त्रोऽनुवर्त्तनं च। स्त्रियां दक्षिणा दानं प्रतिष्ठा वा।।
51.अर्तेः किदिच्च।।51।।
इरिणम्।।51।।
51.ऋच्छन्ति गच्छन्ति यत्र यस्माद्वा। जनास्तत् इरिणम् शून्यमूषरभूमिर्वा।।
52.वेपितुह्योर्ह्रस्वश्च।।52।।
विपिनम्। तुहिनम्।।52।।
52.यत् वेपते कम्पते यत्र वा तद् विपिनम् गहनं वा। तोहति गच्छति याचते वा तत् तुहिनम् हिमं वा। गुणे कृते ह्रस्वः।।
53.तलिपुलिभ्यां च।।53।।
तलिनम्। पुलिनम्।।53।।
53.तालयति प्रतितिष्ठतीति तलिनम् विरलं पृथग्भूतं स्वल्पं स्वच्छं वा। पोलयति महान् भवतीति पुलिनम् जलसामीप्यं वा।।
54.गर्वेरत उच्च।।54।।
गुर्विणी।।54।।
54.गर्वति प्राप्नोति गर्वयति मुञ्चति वा सा गुर्विणी गर्भिणी वा।।
55.रुहेश्च।।55।।
रोहिणः।।55।।
55.रोहति वीजेन जायते स रोहिणः चन्दनवृक्षो वा। जातिवाचकात् स्त्रियां ङीष् `रोहिणी' गौर्वा। प्रज्ञादित्वादण्`रोहीणः'।।
56.महेरिनण् च।।56।।
माहिनम्। महिनम्।।56।।
56.महति मह्यते पूज्यते वा तत् माहिनम्;महिनम् राज्यं वा। चादिनजनुवर्त्तते।।
57.क्विब् वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च।।57।।
वाक्। प्राट्। श्रीः। स्रूः। द्रूः। कटप्रूः। जूः।।57।।
57.वक्ति शब्दानुञ्चारयति यया सा वाक्। पृच्छतीति प्राट्। शब्दं पृच्छतीति `शब्दप्राट्' शिष्यो वा। शब्दप्राशो। शब्दप्राशः। छ्वोः शूडनुनासिके च।[6। 4। 19]इति छस्य शः। श्रयति श्रीयते वा सा श्रीः ईश्वररचना शोभा वा। या स्रवति यस्या वा सा स्रूः यज्ञसाधनं वा। द्रयते प्राण्यते दुःखमनया सा द्रूः हिरण्यं वा। कटेन कटिभागेन प्रवते गच्छतीति कटप्रूः कामुको जनः कीटो वा। जवति शीघ्रं गच्छतीति जूः शशोऽश्वो वृषभ त्र्प्राकाशं विद्या वा।
    बाहुलकात्---प्रवर्षन्ति मेघा यस्यां सा प्रावृट्ऋतुः। द्वारयति संवृणोति यया सा द्वाः। द्वारौ। उदकेन श्वयति वर्धते तत् उदश्वित् तक्रं वा। ऋचन्ति स्तुवन्ति यया सा ऋक्।।
58.आप्नोतेर्ह्रस्वश्च।।58।।
आपः।।58।।
58.आप्नुवन्ति शरीरमिति त्र्प्रापः। अस्य नित्यं बहुवचनत्वं स्त्रीत्वं च। त्र्प्रपः। त्र्प्रद्भिः। अद्भ्यः, इत्यादि।।
59.परौ व्रजेः षश्च पदान्ते।।59।।
परिव्राट्।।59।।
59.क्विप्। परितः सर्वतो व्रजति स परिव्राट्, परिव्राजौ, परिव्राजः, संन्यासी वा।।
60.हुवः श्लुवच्च।।60।।
जुहूः।।60।।
 60.जुहोति ददात्यत्ति वा यया सा जुहूः स्रुग्भेदो वा।।
61.स्रुवः कः।।61।।
स्रुवः।।61।।
61.स्रवति घृतमस्मात् स स्रु वः यज्ञसाधनं वा।।
62.चिक् च।।62।।
स्रुक्।।62।।
62.`स्रु'धातोश्चिक् प्रत्ययोऽपि भवति। धृतमस्याः स्रवति सा स्रुक् यज्ञोचितद्रव्यं वा।।
63.तनोतेरनश्च वः।।63।।
त्वक्।।63।।
63.तनोति विस्तृता भवतीति त्वक्,त्वचौ,त्वचः,शरीरावणं चर्म्मं वल्कलं वा।।
64.ग्लानुदिभ्यां डौः।।64।।
ग्लौः। नौः।।64।।
64.ग्लायति हर्षक्षयं करोतीति ग्लौः चन्द्रमा वा। नुदति प्रेरयतीति नौः जलतरणसाधनं वा।।
65.च्विरव्ययम्।।65।।
65.त्र्प्रत्रस्थ एजन्तप्रत्ययान्तशच्च्यन्त एवाव्ययसंज्ञो भवति। एतेन नियमेनोणादीनां व्युत्पन्नपक्षे कृन्मेजन्तः[1। 1। 38] इत्यनेनाच्व्यन्तानामव्यय सञ्ज्ञा न भवति। त्र्प्रग्लौ ग्लौः संपद्यत इति ग्लौकरोति। ग्लौभवति। ग्लौस्यात्। नौकरोति,इत्यादि । ग्लौः। नौः।र त्र्प्रत्र केवलानामव्ययसंज्ञाऽभावाद्विभक्तिलुङ् न भवति।।
66.रातेर्डैः।।66।।
राः।।66।।
66.राति ददाति रायते दीयते वा सा राः, रायौ,रायः,धनं सुरर्णं वा। च्वि प्रत्यये `रैकरोति' इत्यादि।।
67.गमेर्डोः।।67।।
गौः।।67।।
67.गच्छति यो यत्र यया वा सा गौः पशुरिन्द्रियं सुखं किरणो वज्रं चन्द्रमा भूमिर्वाणी जलं वा। गौरिवाऽयो गमनं प्राप्ति र्वाऽस्येति `गवयो' गोसदृशो वनपशुविशेषः। स्त्र `गवयी'। गौरादित्वान् ङीष्। च्विप्रत्यये `गोकरोति' इत्यादि।
   बाहुलकात्---द्योतन्ते लोका अस्यां वा यया द्योतते सा द्यौः अन्तरिक्षं वा। द्यावौ। द्यावः,इत्यादि।।
68.भ्रमेश्च डूः।।68।।
भ्रूः। अग्रेगूः।।68।।
68.चाद्`गम' धातोर्डूः। भ्रमति चलतीति भ्रूः नेत्रयोरुपरि रेखा वा। त्र्प्रग्रेगच्छतीति त्र्प्रग्रेगूः सेवको वा।।
69.दमेर्डोसिः।।69।।
दोः।।69।।
69.दाम्यत्युपशाम्यति यो येन वा स दोः,दोषः बाहूर्वा।।
70.पणेरिज्यादेश्च वः।।70।।
वणिक्।।70।।
70.पणायति व्यवहरतीति वणिक्वणिजौ,वणिजः,वैश्यो वा। प्रज्ञादित्वात् स्वार्थोऽण् `वाणिजः'।।
71.वशः कित्।।71।।
उशिक्।।71।।
71.वष्टि यं कामयते यत्काम्यते वा स उशिक्उशिजौ,उशिजः, अग्निर्घृतं वा।।
72.भृञ उच्च।।72।।
भुरिक्।।72।।
72.इजिः कित्। भरति सर्वं धरतीति भुरिक् भूमिर्वा। भुरिजौ। भुरिजः।।
73.जसिसहोरुरिन्।।73।।
जसुरिः। सहुरिः।।73।।
73.जस्यति मुञ्जति जासयति हिनस्ति वेति जसुरिः वज्रं वा। सहते भारमिति सहुरिः सूर्य्योभूमिर्वा।।
74.सुयुरुवृञो युच्।।74।।
सवनः। यवनः। रवणः। वरणः।।74।।
74.सवत्युत्पादयति सुनोति निस्सारयति रसान् वा स सवनः चन्द्रमा वा। यौति मिश्रयत्यमिश्रयति वा स यवनः म्लेच्छभेदो वा। रौति शब्दयतीति रवणः कोकिलः पक्षी वा। वृणोतकि स्वीकरोतीति वरणः उदकं वृक्षभेदो वा।।
75.अशे रश च।।75।।
रशना।।75।।
75.युच् धातो रशादेशश्च अश्नुते व्याप्नोतीति रशना स्त्रियः कट
िभूषण् वा । दन्त्यसकारवांस्तु `रसना' शब्दो नन्द्यादित्वाल्ल्युप्रत्ययान्तः। रसयत्यास्वादयति यया सा रसना जिह्वा। कृत्यल्युटो बहुलम्।[3। 3। 113] इति करणे ल्युः।।
76.उन्देर्नलोपश्च।।76।।
ओदनः।।76।।
76.उनत्त्यार्द्रीभवतीति त्र्प्रोदनः भक्तं वा।।
77.गमेर्गश्च।।77।।
गगनम्।।77।।
77.मस्य गः गच्छन्त्यस्मिन्निति गगनम् त्र्प्राकाशं वा।।
78.बहुलयन्यत्रापि।।78।।
78.अन्यधातुभ्योऽपि बहुलं युच् प्रत्ययो भति द्योततेऽसौ द्योतनः प्रदीपो वा। स्यन्दते प्रस्रवति गच्छतीति स्यन्दनः रथो वा। नयते प्राप्नोति रूपं येन तत् नयनम् नेत्रं वा। चन्दत्याह्लादयतीति चन्दनम् सुगन्धिर्वृक्षो वा। रोचतेऽसौ रोचना गोरोचनमौषधं वा। अस्यति प्रक्षिपतीति त्र्प्रसनः पीतवर्णः शालवृक्षो वा। राजानमततीति राजातनः पुष्पं वा। श्रृणोत्यनया सा श्रवणा नक्षत्रं वा। एवमन्येऽपि यथाप्रयोगं युच्प्रत्ययान्ताः शब्दाः साध्याः।।
79.रञ्जेः क्युन्।।79।।
रजनम्।।79।।
79.रजति वस्त्राण्यनेन तत् रजनम् कुसुम्भं वा। स्त्रियां ङीष् `रजनी' हरिद्रा। ल्युट् प्रत्यये सति रञ्जनम् इत्येव स्वरभेदश्च भवति।
    बाहुलकात्---कल्पतेऽसौ कृपणः लोभयुक्तो वा।।
80.भूसूधूभ्रस्जिभ्यश्छन्दसि।।80।।
भुवनम्। सुवनम्। निधुवनम्। भृज्जनम्।।80।।
80.क्युन्। भवतीति भुवनम् लोको वा। बहुलवचनाद् भाषायामपि प्रयुज्यते। सूते सूयते वा स सुवनः ईश्वरः सूर्यो वा। धूनोति कम्पयतीति धुवनः त्र्प्रग्निर्वा। निधुवनम् रतिक्रीडा वा। यद् यस्मिन् वा भृज्जति परिपक्वं भवतीति भृज्जनम् अन्नभर्जनकपालं वा।।
81.कॄपॄवृजिमन्दिनिधाञः क्युः।।81।।
किरणः। पुरणः। वृजनम्। मन्दनम्। निधनम्।।81।।
81.किरति विक्षिपत्यन्धकारमिति किरणः। पिपर्ति पालयति पूरयति वा स पुरमः जलैः पूर्णो भवतीति समुद्रो वा। वृक्ते वर्जयतीति वृजनम् त्र्प्रन्तरिक्षं बलं वा। यो येन वा मन्दते स्तौति स्वपिति कामयते वा तत् मन्दनम् स्तोत्रं वा। नितरां दधाति यत्तत् निधनम् मरणं वा।
   बाहुलकात्--केवलादपि धनम्।।
82.धृषेर्धिष च संज्ञायाम्।।82।।
धिषणा।।82।।
82.धुष्णोति प्रागल्भ्यं ददाति स धिषणः गुरुःर धिषणा वुद्धिर्वा। अत्र स्ञ्ज्ञाग्रहणेन ज्ञायते उणादयः सामान्यार्थे यौगिका भवन्तीति। सञ्ज्ञायास्तस्मिन्नर्थे रूढत्वात्। यदि च प्रकृतिप्रत्ययविभागेन उणादिभ्यो यौगिकोऽर्थो न निस्सरेत् तर्हि सर्वं उणादिस्थाः शब्दाः सञ्ञावाचका एव स्युः। पुनः सञ्ज्ञाग्रहणमनर्थकं स्यात्।।
83.हन्तेर्घुरच्।।83।।
घुरणः।।83।।
83.हन्ति हननेन वा प्रादुर्भवति स घुरणः शब्दो वा।।
84.वर्त्तमाने पृषद्बृहन्महज्जगच्छतृवचच्च।।84।।
84.पृषदादयो वर्त्तमानार्थवाचका त्र्प्रतिप्रत्ययान्ता निपात्यन्ते। शतृवच्चैषां कार्यं भवतीति । पर्षति सिञ्चति हिनस्ति वा तत् पृषत् मृगविशेषो विन्दुर्वा। `पृषती,पृषन्ति स्त्रियां पृषती। बर्हति वर्धतेऽसौ बृहत्। मह्त्यर्थे त्रिलिङ्गः। स्त्रियां `बृहती' छन्दोभेदो वा। महति पूजयति पूज्यते वा तत् महत् महान्। महतो भावो `महिमा'। स्त्रियां ङीप् `महती' नारदस्य सप्ततन्त्री वीणा वा। गच्छतीति जगत्। धातोर्जगादेशः। संसारो नपुसकं वायुर्वा जगत् पुंसि। ज्जङ्गमवाचिनि त्रिलिङ्गः। स्त्रियां जगती,छन्दोभेदो जनो वा।।
85.संश्चत्तृपद्वेहत्।।85।।
85.एतेऽप्यतिप्रत्ययान्ता निपात्यन्ते। संश्चीयतेऽसौ संश्चत् कुहको वा। प्रत्ययस्य सुट् धातोरिकारलोपश्च। संश्चदिवाचरति संश्चायते धूमः, भृशादित्वात् क्यङ्। तृप्नोति प्रीणयतीति तृपत् छत्रं वा। विशेषेण हन्तीति वेहत् विहन्ति गर्भमिति गर्भोपघातिनी गौर्वा। वेरुपसर्गस्यैकारादेशो धातोश्च टिलोपः पूर्वसूत्रात् पृथक्करणं शतृवद्भावनिवृत्तर्थम्। तेन-वेहतौ। वेहतः। संश्चतौ, इत्यादि सिद्धम्।।
86.छन्दस्यसान्च शुजॄभ्याम्।।86।।
शवसानः। जरसानः।।86।।
86.शवन्ति गच्छन्त्यस्मिन् स शवसानः मार्गो वा। जीर्यति वयसा हीने, भतीति जरसानः वृद्धो जनो वा।
       बाहुलकाद्---दृणाति तमो विदारयतीति दरसानः प्रकाशो वा। तरयति येन सः तरसानः नौका वा। वृणोतीति वरसानः कृतदारो वा।।
87.ऋज्जिवृधिमन्दिसहिभ्यः कित्।।87।।
ऋञ्जसानः। वृधसानः। मन्दसानः। सहसानः।।87।।
87.ऋञ्जत्योषध्यादिकं पाचयतीति ऋञ्जसानः मेघो वा। वर्धतेऽसं वृधसानः पुरुषो वा। मन्दते स्तुत्यादिकं करोतीति मन्दसानः जीवोऽग्निर्वा। सहतेऽसौ सहसानः मयूरो यज्ञो वा।।
88.अर्त्तेर्गुणः शुट् च।।88।।
त्र्प्रर्शसानः।।88।।
88.य ऋच्छति प्राप्नोति सर्वान् स त्र्प्रर्शसानः त्र्पग्निर्वा। धातोर्गुणः प्रत्ययस्य शुडागमश्च।।
89.सम्यानच् स्तुवः।।89।।
संस्तवानः।।89।।
89.सम्यक् स्तौतीति संस्तवानः वाग्मी वा।।
90.युधिबुधिदृशःर किच्च।।90।।
युधानः। बुधानः। दृशानः।।90।।
90.युध्यतेऽसौ युधानः शत्रुर्वा। बुध्यते स बुधानः आचार्यो वा। पश्यतीति दृशानः लोकपालः सूर्यो वा।
    बाहुलकात्---कल्पते समर्थो भवतीति कृपाणः खड्गो वा। पाषयति स्थूलो भवतीति पाषाणः। णित्वाद् वृद्धिः।।
91.हुर्च्छेः सनो लुक् छलोपश्च।।91।।
जुहुराणः।।91।।
91.हूर्च्छति कुटिलो भवतीति जुहुराणः चन्द्रमा वा।।
92.श्वितेर्दश्च।।92।।
शिश्विदानः।।92।।
92.सनो लुक् तकारस्य दकारः। किदित्यनुवृत्तेर्गुणनिषेधः। श्वेततेऽसौ शिश्विदानः पापकर्मा वा।।
93.मुचियुधिभ्यां सन्वच्व।।93।।
मुमुचानः। युयुधानः।।93।।
93.मुञ्चत्यसौ मुमुचानः मोचकः। युध्यतेऽसौ युयुधानः योद्धा।।
94.तृन्तृचौ शंसिक्षदादिभ्यः सञ्ज्ञायां चानिटौ।।94।।
शंस्ता। शंस्तरौ। क्षत्ता। क्षत्तारौ।।94।।
94.शंस्यादिभ्यः क्षदादिभ्यश्च यथाक्रमं तृन्तृचौ तौ चानिटौ। शंसति स्तौतीति शंस्ता स्तोता। त्र्प्रप्तृन्तृच्o[6। 4। 11] इति सूत्रे नप्तृप्रभृतेः पृथक् पाठादौणादिकयोस्तृन्तृचोर्ग्रहणं न भवति। तेन शंस्तरौ, शंस्तरः, इत्यादिषु दीर्घो न भवति। शास्ति शिक्षते धर्मादिकमिति शास्ता पण्डितो वा। प्रशास्ता राजा। प्रशास्तारौ। प्रशास्तारः। परिगणनाद्दीर्घः, `क्षद संवृता'विति सौत्रो धातुः। क्षदति संवृणोतीति क्षत्ता सारथिद्वारपालो वैश्यायां शूद्राज्जातो वा। क्षुनत्ति संपिनष्टि येन स क्षोत्ता मुसलो वा। उन्नयति कार्याणीति उन्नेता ऋत्विग्वा। मन्यते जानात्यसौ मन्ता विद्वान्। हन्तीति हन्ता चौरो वा। धाता ईश्वरो वा। उपदेष्टा गुरूः, इत्यादि।।
95.नेप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ।।95।।
95.नप्त्रादयो दश तृन्तृजन्ता निपात्यन्ते। नपतीति नप्ता पौत्रो गदौहित्रो वा। नप्तुः पुत्रः `प्रनप्ता' स्यात्। `नप्त्री' पौत्री। नञः प्रकृतिभावः। नयतेः पुक्--नयतीति नेष्टा ऋत्विग्वा। त्विष्यतेऽसौ त्वष्टा सूर्यो वा। इकारस्याकारः। जुहोतीति होता यजमानो वा। व्यापकत्वेन सर्वं पुनातीति पोता विष्णुरीश्वरः। भ्राजते दीप्यतेऽसौ भ्राता सोदर्यो वा। जकारलोपः। जायां कन्यां माति मिनोति मिमीते मार्जयति वा स जामाता दुहितुः पतिः। `मृज' धातोः सति रेफंजकार लोपः। मानयति सत्करोतीति माता उत्पादिका वा। स्वस्रादित्वात् टाप्निषेधः। पाति रक्षतीति पिता जनको वा। दोग्धि कार्याणि प्रपूरयतीति दुहिता पुत्री वा। दुहितुरपत्यं `दौहित्रः'।।
96.सावसेर्ऋन्।।96।।
स्दसा।।96।।
96.सुष्ठ्वस्यतीति स्वसा भगिनी वा।।
97.यतेर्वृद्धिश्च।।97।।
याता।।97।।
97.यततेऽसौ याता भ्रातृणां भार्याः परस्परं यातारो भवन्ति।
98.नञि च नन्देः।।98।।
ननान्दा। ननन्दा।।98।।
98.न नन्दति तुष्यतीति ननान्दा। बाहुलकाद् वृद्ध्यभावे ननन्दा पत्युर्भगिनी वा।।
99.दिवेर्ऋ।।99।।
देवा।।99।।
99.दीव्यति क्रीडादिकं करोतीति देवा पत्युः कनीयान् भ्राता वा।।
100.नयतेर्डिच्च।।100।।
ना।।100।।
100.ऋप्रत्ययस्य डित्वाट्टिलोपः कार्याणि नयतीति ना; नरौ, नरः।`नारी' बद्धकेशावधूर्वा।।
101.सव्ये स्थश्छन्दसि।।101।।
सव्येष्ठा।।101।।
101.डित्वादाकारलोपः। सव्ये वामभागे तिष्ठतीति सव्येष्ठा सारथिर्वा। सप्तम्या त्र्प्रलुक्।।
102.अर्तिसृधृधम्यम्यश्यवितॄभ्योऽनिः।।102।।
अरणिः। सरणिः। धरणिः। धमनिः। त्र्प्रमनिः। अशनिः। अवनिः। तरणिः।।102।।
102.ऋच्छति प्राप्नोति येन स त्र्प्ररणिः अग्न्युत्पत्तये मथनी द्वे दारुणी वा। सरन्ति गच्छन्त्यस्मिन् स सरणिः मार्गो वा। ण्यन्तात् `सृ' धातोरनिः `सारणिः'। स्त्रियां `सारणी'। बाहुलकात्---श्रृणाति हिनस्तीति शरणिः। धरति सर्वमिति `धरणिः' पृथिवी वा। `धमिः' सौत्रो धातुः। धमति प्रापयति रसादिकमिति धमनः नाडी वा। त्र्प्रमतीति त्र्प्रमनिः गतिर्वा। येनाश्नाति योऽश्नुते व्याप्नोति वा स त्र्प्रशनिः वज्रम् वा। त्र्प्रवति रक्षणादिकं करोतीति त्र्प्रवनिः भूमिर्वा। तरति येन यया वा स सा वा तरणिः सूर्यः कुमारी नौकौषधिभेदो वा।
       बाहुलकात्---रजतीतिरजनिः रात्रिर्वा। नलोपः। स्त्रियां `रजनी' द्राक्षा हरिद्रा वा।।
103.आङि शुषेः सनश्छन्दसि।।103।।
आशुशुक्षणिः।।103।।
103.सन्नन्तादाङ्पूर्वादनिः प्रत्ययः। समन्तात् शुष्यति पदार्था येन स त्र्प्राशुशुक्षणिः त्र्प्रग्निर्वा।।
104.कृषेरादेश्च धः।।104।।
धर्षणिः।।104।।
104.कृषतीति घर्षणिः पुंश्चली स्त्री वा। ङीष् `घर्षणी'।।
105.अदेर्मुट् च।।105।।
अद्मनिः।।105।।
105.अत्तीति त्र्प्रद्मनि अग्निर्वा।।
106.वृतेश्च।।106।।
वर्त्तनिः।।106।।
106.वर्तते यस्मिन्निति वर्तनिः मार्ग एकपदी वा।।
107.क्षिपेः किच्च।।107।।
क्षिपणिः।।107।।
107.क्षिपत्यनेन शत्रून् स क्षिपणिः आयुधं वा।।
108.अर्चिशुचिहुसृपिछादिछर्दिभ्य इसिः।।108।।
अर्चिः। शोचिः। हविः। सर्पिः। छदिः। छदिः।।108।।
108.त्र्प्रर्चति येन तत् त्र्प्रर्चिः दीप्तिर्वा। शोचति शोचयतीति शोचिः प्रकाशो वा। हूयते यत्तत् हविः होमयोग्यं वस्तु वा। यत्येन वा सर्पति तत् सर्पिः षृतं वा। छादयति येन तत् छदिः छादनं तृणादिछादनसाधनं वा। इस्मन्त्रन्o[6। 4। 97]इति ह्रस्वादेशः। छर्दति यत्तत् छर्दिः वमनं व्याधिर्वा।
        बाहुलकात्---समन्तादवतीति त्र्प्राविः प्राकठ्यम्। अव्ययशब्दोऽयम्।।
109.बृंहेर्नलोपश्च।।109।।
बर्हिः।।109।। बृंहति वर्द्धति तद् बर्हिः दर्भो वा।।
109.
110.द्युतेरिसिन्नादेश्च जः।।110।।
ज्योतिः।।110।।
110.द्योतते प्रकाशते तत् ज्योतिः त्र्प्रग्निः सूर्यादिकं वा। ज्योतिरधिकृत्य कृतो ग्रन्थो `ज्योतिषम्'। संज्ञापूर्वकविधेरनित्यत्वाद् वृद्धिनिषेधः।।
111.वसौ रुचेः स़ञ्ज्ञायाम्।।111।।
वसुरोचिः।।111।।
111.वसूनग्नयादीन् रोचतेऽसौ वसुरोचिः यज्ञो वा। बाहुलकात्--केवलादपि रोचिः ज्वाला वा।।
112.भुवः कित्।।112।।
भुविः।।112।।
112.इसिन् कित्। यो भवति यस्मिन् वा स भुविः समुद्रो वा।।
113.सहो धश्च।।113।।
सधिः।।113।।
113.इसिन्। सहते भारमिति सधिः अनड्वान् वा।।
114.पिबतेस्थुक्।।114।।
पाथिः।।114।।
114.पिबति यो येन वा तत् पाथिः चक्षुः समुद्रो वा।।
115.जनेरुसिः।।115।।
जनुः।।115।।
115.जायते यत्तत् जनुः जनुषी जननं वा।
   बाहुलकात्--- `मन' धातोरपि। मन्यते जानातीति मनुः मनुषी।।
116.मनेर्धश्छन्दसि।।116।।
मधुः।।116।।
116.मन्यते बुध्यते यो येन वा तत् मधुः पवित्रद्रव्यं वा।।
117.अर्त्तिपॄवपियजितनिधनितपिभ्यो नित्।।117।।
अरुः। परुः। वपुः। यजुः। तनुः। धनुः। तपुः।।117।।
117.ऋच्छति प्राप्नोतीति त्र्प्ररुः त्र्प्रादित्यो व्रणो वा। पिपर्ति येन तत् परुः ग्रन्थिर्वा। वपति बीजादिकमस्मात्तद् वपुः शरीरं वा। यजति येन तद् यजुः वेदविशेषो वा। तनोति कार्याण्यनेन तत् तनुः शरीरं वा। दिधन्ति धनादिकं प्राप्नोति येन तत् धनुः वाणक्षेपणं वा। तपति दुःखयतीति तपुः सूर्योऽग्निः शत्रुर्वा।।
118.एतेर्णिच्च।।118।।
त्र्प्रायुः।।118।।
118.ईयते प्राप्यते यत्तत् त्र्प्रायुः जीवनं वा। जटापूर्वात् `जटायुः' पक्षिराजः।।
119.चक्षेः शिच्च।।119।।
चक्षुः।।119।।
119.चक्षते रूपमनुभवन्त्यनेन तत् चक्षुः नेत्रं वा। चक्षुषा गृह्यत इति `चाक्षुषं' रूपम्।।
120.मुहेः किच्च।।120।।
मुहुः।।120।।
120.मुह्यति भ्रान्तो भवतीति मुहुः पौनः पुन्येऽर्थेऽव्ययं वा।।
121.कॄगॄशॄवॄञ्चतिभ्यः ष्वरच्।।121।।
कर्वरः। गर्वरः। शर्वरी। वर्वरः। चत्वरम्।।121।।
121.किरति विक्षिपतीति कर्वरः व्याघ्रो दुष्टो वा। `कर्वरी' रात्रिर्व्याघ्री दुष्टा वा। गिरति निगरतीति गर्वरः त्र्प्रहङ्कारः। त्र्प्रहङ्कारयोगाद् `गर्वरो' नायकः। श्रृणाति हिनस्तिर प्रकाशमिति शर्वरी रात्रिर्वा वृणातीति वर्वरः प्राकृतजनो वा। चतते याचते स्वीक्रियते यत्तत् चत्वरम् त्र्प्रङ्गनं वा।।
122.नौ षदेः।।122।।
निषद्वरः।।122।।
                 इत्युणादिषु द्वितीयः पादः
122.निषीदति यो यत्र वा स निषद्वरः पङ्को `निषद्वरी' रात्रिर्वा।।
           इत्युणादिव्याख्यायां वैदिकलौकिककोषे द्वितीयः पादः।।2।।