सामग्री पर जाएँ

सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ६/पर्व २(द्वन्द्वपर्व)

विकिस्रोतः तः

द्वितीयपर्व

प्रथमः खण्डः

वसिष्ठस्य प्राणापानौ द्वौ ॥६.२.१.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्र सामद्वयम् | हाउ (त्रिः निश्वसेत्) आयुः इत्यादि इन्द्रन्नरोनेमधिताहवन्ताइ (आ. गा. २. १. ९०) इति द्वितीयादिकम् । हाउ (त्रिः उच्छुसेत्) इत्यादि इन्द्रंनरो (आ. गा. २.१.९१) इति द्वितीयादिकम् । एते द्वे बसिष्टस्य प्राणापान- रूपे सामनी ॥ १॥

इन्द्रस्येन्यौ द्वौ ॥६.२.१.२॥

हाउ (त्रिः) । एन्यौ इत्यादि इन्द्रन्नरो (आ. गा. २.१. ९२) इति द्वितीयादिकम् । हाउ (त्रिः) । आहोएन्यो इत्यादि इन्द्रन्नरो (आ. गा. २. १. ९३) इति [द्वितीयक्रुष्टादिकम् ।। एते द्वे इन्द्रस्येन्यो एन्यपद- युक्ते सामनी ॥ २॥

प्रजापतेर्व्रतपक्षौ द्वावहोरात्रयोर्वा ॥ ६.२.१.३ ॥

इन्द्रं नरो (सा. ३१८) इत्यत्र सामद्वयम् । हाउ (त्रिः)। हिहि- हिहि इत्यादि इन्द्रन्नरो (आ. गा. २.१.९४) इति द्वितीयक्रुष्टादिकम् । हाउः (त्रिः)। इहा हिहिहि इत्यादि इन्द्रन्नरो (आ. गा. २. १. ९५) इति द्वितीयक्रुष्टादिकम् । एते द्वे प्रजापतेव्रतपक्षौ । अथवा अहोगत्रयोर्वत- पक्षौ ॥ ३॥

इन्द्राण्या उल्बजरायुणी द्वे ॥ ६.२.१.४ ॥

इन्द्रं नरो ( सा. ३१८) इत्यत्र सामद्वयम् । हावीद्राम् (आ. गा. २. १. ९६) इति क्रुष्टद्वितीयादिकम् । उवा । ओवा इत्यादि इन्द्रां नरो २२९ षष्ठाऽध्याये द्वितीयपर्व (१)

(आ. गा. २. १.९७) इति क्रुष्टद्वितीयादिकम् (कुष्टादिकम् !)। एते द्वे इन्द्राण्या उल्बजरायुणी । आद्यस्य उल्बसंज्ञा द्वितीयस्य जरायुर्नाम ।। ४ ।।

बृहस्पतेर्बलभिदी द्वे। इन्द्रस्य वोद्भिद्वैनयोः पूर्वम् ॥६.२.१.५॥

उप त्वा जामयो गिर (सा. ३२०) इत्यत्र सामद्वयम् । होवाइ (द्विः) । होवाहाइ । उपत्वाजामायोगिरः (आ. गा. २. १. ९८) इति द्वितीयादिकम् । ओवा (द्विः)। ओवाहाइ । उपन्वाजामायोगिरः (आ. गा. २. १. ९९) इति द्वितीयतृतीयादिकम् । एते द्वे बृहस्पतेर्बलभिदी एतन्नामधेये । अथवा इन्द्रस्य बलभिदी। यद्वा एतयोः पूर्वमादिम साम उद्भिन्नामकम् ॥ ५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि प्रथमः खण्डः ॥ १॥ द्वितीयः खण्डः


भर्गयशसी द्वे ॥६.२.२.१॥

वृहदिन्द्राय गायत (सा. २५८) इत्यत्रैक साम । हाउधामयत् इत्यादि बृहदिन्द्रायगायाता (आ. गा. २.२.१००) इति द्वितीयक्रुष्टादिकम् । तवेदिन्द्रायमं वसु (सा. २७०) इत्यत्रैक साम । हाउ (त्रिः) यशोहाउ इत्यादि तवेदिन्द्रा (आ. गा. २. २. १०१) इति द्वितीयादिकम् । एते ऋन्द्वयाश्रिते सामनी भर्गयशसी। पूर्वस्य भग इति नाम । ए भर्गा इति हि तस्य निधनम् । द्वितीयस्य यश इति नाम । यशो हाउ इति यशःशब्दस्य विद्यमानत्वात् ।। १॥

यामे द्वे ॥६.२.२.२॥

कायमानो वना त्वम् (सा. ५३) इत्यत्र सामद्वयम् । कायमानो- वनातुवाम् (आ. गा. २. २. १०२) इति द्वितीयादिकम् । औहोवा (द्विः ) इत्यादि कायमानोवनात्वम् (आ. गा. २.२.१०३) इति क्रुष्टद्वितीया- (द्वितीयक्रुष्टा?) दिकम् । एते द्वे यामे ।। २ ।।

धर्मतनू द्वे ॥६.२.२.३॥

प्रसोम देववीनये ( सा. ५१४ ) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्रसोमदेवयाइतायाइ (आ. गा. २.२.१०४) इति द्वितीयादिकम् । औहोवा इत्यादि प्रसोमदे (आ. गा. २.२. .०५) इति क्रुष्टद्वितीयादिकम् । एते द्वे धर्मतनूशब्दयुक्ते सामनी । धर्मः प्रवृत्त स्तन्वासनानृधेवृधेसुवाः इति नशेमहेसुवाः इति हि द्वयोनिधनम् ॥ ३ ॥ षष्ठाध्याये द्वितीयपर्व (२) २३१

प्रजापतेस्त्रीणि चडूंषि ॥ ६.२.२.४ ॥

अयं पूषा रयिर्भगः (सा. ५२६) इत्यत्र सामत्रयमुत्पन्नम् । अयं- पूषाओवा (आ. गा. २. २. १०६) इति द्वितीयक्रुष्टादिकम् । अयम् । पूषा औहोवा (आ. गा. २. २. १०७) इति द्वितीयक्रुष्टादिकम् । ए अयम्पूषारयिर्भगा: (आ. गा. २. २.१०८) इति द्वितीयादिकम् । एतानि त्रीणि प्रजापतेश्चक्षुषि । चक्षुःशब्दयुक्तान्येतन्नामधेयानि । ओवा चाक्षुः इति द्वयोनिधनान्ते [ विद्यते । तृतीयस्य चक्षुःशब्दाभावेऽपि छत्रिन्यायवत् त्रीण्यपि चक्षुःशब्दयुक्तानीति अभिधीयन्ते ।। ४ ।।

त्रीणि वार्षाहराणि ॥ ६.२.२.५॥

त्वमेतदधारयः (सा. ५९५) इत्यत्र सामत्रयम् । हाउत्वमेतात (आ. गा. २. २. १०९) इति द्वितीयादिकम् । त्वमेतद्धोहाइ (आ. गा. २. २. ११०) इति द्वितीयक्रुष्टादिकम् । आइत्वमेतात (आ गा. २. २. १११) इति द्वितीयादिकम् । एतानि त्रीणि वार्षाहराणि एतन्नामधेयानि ॥ ५ ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि द्वितीयः खण्डः ॥ २॥ तृतीयः खण्डः

द्यौते द्वे । द्वैगते वा ॥६.२.३.१॥

यच्छक्रासि परावति (सा. २६४) इत्यत्र सामद्वयम् । हाउ- यच्छक्रासी (आ. गा. ३. ३. ११२) इति द्वितीयादिकम् । ईय। ईया इत्यादि [इया ] हाउ। याच्छा (आ. गा. ३. ३. ११३) इति तृतीय- चतुर्थादिकम् । एते द्वे द्यौते अथवा द्वैगते । द्विगन्नामको भार्गव ऋषिः । तत्संबन्धिनी। द्विगद्वा एतेन भार्गवः (ता. बा. १४. ९. ३२) इति ह्यत्र ब्राह्मणम् । तस्मादेते द्वैगते ॥१॥

तास्पन्द्रे द्वे । तास्विन्द्रे वा ॥ ६.२.३.२ ॥

अभी नवन्ते अद्रुहः (सा. ५५०) इत्यत्र सामद्वयम् । आभीनव- तआनुहआउवा (आ. गा. ३. ३. ११४) इति द्वितीयक्रुष्टादिकम् । आमी- नवतआउवा (आ. गा. ३. ३. ११५) इति द्वितीयक्रुष्टादिकम् । एते द्वे तास्पन्द्रे एतन्नामधेये । अथवा ताखिन्द्रे ॥ २ ॥

तौरश्रवसे द्वे ॥ ६.२.३.३॥

यदिन्द्र शासो अव्रतम्, (सा. २९८) इत्यत्र सामद्वयम् । यदिन्द्र- शासोअव्राताम् (आ. गा. ३. ३. ११६) इति द्वितीयक्रुष्टादिकम् । यादिन्द्र- शासोअव्राताम् (आ. गा. ३. ३. ११७) इति तृतीयमन्द्रादिकम् । एते द्वे तौरश्रवसे । तुरश्रवा नाम ऋषिः । तेन दृष्टे । तथा च ब्राह्मणम् - तौरश्रवसे कार्य । तुरश्रवसश्च वै पारावतानां च सोमौ संसुतावास्ताम् । तत एते तुरश्रवाः सामनी अपश्यत् (तां. बा. ९. ४. ९-१०) इति ॥ ३ ॥ षष्ठाध्याये द्वितीयपर्व (३) २३३


धेनुपयसी द्वे ॥ ६.२.३.४॥

स्वादिष्ठया मदिष्टया (सा. ४६८) इत्यत्रैक साम । हाउ (त्रिः) ओहाउ (ओहा?) इत्यादि स्वादिष्ठया (आ. गा. ३.३.११८) इति द्वितीयतृतीयादिकम् । अग्ने युङ्वा हि ये तव (सा. २५) इत्यत्र सामैकम् । इयो । इया इत्यादि अग्नेयुट्याहीयेतवा (आ. गा. ३. ३. ११९) इति द्वितीयतृतीयादिकम् । एते द्वे धेनुपयसी क्रमेण धेनुपयःशब्दयुक्त एतन्नामधेये । ए धेनु इति हि पूर्वस्य निधनम् । एपयाः इति उत्तरस्य निधनम् ॥ ४ ॥

स्वर्ज्योतिषी द्वे ॥ ६.२.३.५॥

अरूरुचदुपसः पृश्निरग्रिय (सा. ५९६) इत्यत्र सामद्वयम् । हाउ (त्रिः) स्वर्विश्वम् इत्यादि अरूरुचत् (आ. गा. ३. ३. १२०) इति द्वितीय क्रुष्टादिकम् । हाउ (त्रिः) ज्योतिर्विश्वम् इत्यादि अरूरुचत् (आ. गा. ३. ३. १२१) इति द्वितीयक्रुष्टादिकम् । एते स्वज्योतिषी, - स्वःशब्दयुक्तं पूर्वं साम; ज्योतिःशब्दयुक्तमुत्तरम् ॥ ५ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि तृतीयः खण्डः ।। ३ ।। चतुर्थः खण्डः


यण्वापत्ये द्वे ॥६.२.४.१॥

इन्द्रमिद्गाथिनो बृहत् (सा. १९८) इति तृचे सामैकम् । इन्द्रमिद्गाथिनोबृहत् (आ. गा. ३. ४. १२२) इति क्रुष्टद्वितीयादिकम् । उच्चा ते जातमन्धसः (सा. ४६७) इति तृचे सामैकम् । हाउ (त्रिः) उच्चातेजातमान्धसा (आ. गा. ३. ४.१२३) इति द्वितीयक्रुष्टादिकम् । एते द्वे यण्वापत्ये । आद्यस्य यण्वमिति नाम । उत्तरस्य अपत्यमिति ॥ १ ॥

आयुर्नवस्तोभे द्वे ॥६.२.४.२॥

विश्वतो दावन् (सा. ४३७) इत्यत्र सामद्वयम् । हाउ (त्रिः) विश्वतोदावन् (आ. गा. ३. ४. १२४) इति द्वितीयक्रुष्टादिकम् । विश्वतोदावन् विश्वतोन आ (आ. गा. ३. ४.१२५) इति क्रुष्टद्वितीयादिकम् । एते द्वे आयुर्नवस्तोभे। आयुर्नवस्तोभ इत्युक्ते पूर्वस्य आयुः उत्तरस्य ओवा इत्यादयो नवस्तोभाः । एतन्नामधेये सामनी । २ ॥

रायोवाजीयबार्हद्गिरे द्वे ॥६.२.४.३॥

स्वादोरित्था विषूवतः (सा. ४०९) इत्यत्रैकं साम । एस्वादोः (आ. गा. ३. ४.१२६) इति क्रुष्टद्वितीयादिकम् । इन्द्रो मदाय वावृधे (सा. ४११) इत्यत्रैकं साम । इन्द्रोमदा (आ. गा. ३. ४.१२७) इति द्वितीयादिकम् । एते द्वे रायोवाजीयबार्हद्गिरे। पूर्ंव रायोवाजीयम् । रायोवाजो नाम यतिः तत्संबन्धि । द्वितीयं बार्हद्गिरम् । बृहद्गिरिर्नामपि यतिः। तत्संबन्धि । एतदाख्यायिका तु ब्राह्मणे – दुःखेन इन्द्रो षष्ठाध्याये द्वितीयपर्व (४) २३५

यतीन सालावे.भ्यः प्रायच्छत्तेपां त्रय उदशिष्यन्त रायोवाजो वा निगः (! वृहनिगरिः) पृथुरश्मिस्तेऽब्रुवन् को नाम इमान् पुत्रान् भरिष्यति (ता. बा. १३. ४. १७) इत्यादिना प्रपञ्चेन अभिहिता ॥ ३ ॥

संकृतिपाथुरश्मे द्वे ॥ ६.२.४.४ ॥

स्वादोरिन्था विध्यतः ( सा. ४०९) इत्यत्र सामद्वयम् । एस्वादोः। इत्थाविषवतो (आ. गा. ३. ४. १२८) इति क्रुष्टद्वितीयादिकम् । एस्वादोः । ओवा । इत्थाविष्वताः । अथा (आ. गा. ३. ४.१२९) इति क्रुष्टद्वितीया- दिकम् । एते द्वे संकृतिपाथुरश्ने । आद्य संकृतिनाम संस्कारकत्वात् । तथा च ब्राह्मणम् संकृति भवति इत्यादि । संकृतिना समस्कुर्वन् (ता. ब्रा. १५. ३. २८-२९) इति द्वितीय पाथुरश्नम् । पृथुरश्मि म यतिः तत्संबन्धि । अस्य ब्राह्मणम् पूर्वस्यां [आख्यायिकायां बार्ह गिरेण सहोक्तम् ।। ४ ।।

श्येनवृषके द्वे ॥६.२.४.५॥

उभे यदिन्द्र रोदसी (सा. ३७९) इत्यत्र सामेकम् । ऊभाइ । यदिन्द्ररोदसाइ (आ. गा. ३. ४. १३०) इति क्रुष्टद्वितीयादिकम् । स्वादो- रित्था विषवतः (सा. ४०९) इत्यत्र सामैकम् । एस्वादोः । (द्विः) (आ. गा. ३. ४. १३१) इति क्रुष्टद्वितीयादिकम् । एते द्वे श्येनवृषके । पूर्व श्येननामधेयम् । अत्र ब्राह्मणम् श्यनो भवति । श्येनो ह वै पूर्वप्रेतानि वयांस्यानोति (ता. ब्रा. १३. १०. १२-१३) इत्यादि । श्येनो वा एतदहः संपरायितुमहति । म हि वयसामाश्चि (शि.) gः (तां ब्रा. १३. १०.१४) इत्यनुसंधेयम् । उत्तरस्य वृषकमिति नाम । वृषन्शब्दोपेतं च साम ।। ५ ।। इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पष्ठाध्याये द्वितीयपर्वणि चतुर्थः खण्डः ।। ४ ।। पञ्चमः खण्डः

भद्रश्रेयसी द्वे ॥६.२.५.१॥

इमा नु कं भुवना सीपध (सा. ४५२) इत्यत्र सामद्वयम् । होइया । (त्रिः) । इत्यादि इमानुकम् (आ. गा. ३. ५. १३२) इति क्रुष्ट- द्वितीयादिकम् । होइया (त्रिः) इत्यादि इमानुकम् (आ. गा. ३. ५. १३३) इति क्रुष्टद्वितीयादिकम् । एते द्वे भद्रश्रेयःपदयुक्ते एतन्नामधेये सामनी । पूर्वस्य भद्रमिति निधनम् । द्वितीयस्य श्रेया इति ॥ १ ॥

तन्त्वोतुनी द्वे ॥६.२.५.२॥

अचिक्रदद् वृषा हरिः (सा. ४९७) इत्यत्र सामद्वयम् | हाउ- तन्तुः इत्यादि अचिक्रदद् (आ. गा. ३. ५. १३४) इति द्वितीयादिकम् । हावोतुः इत्यादि अचिक्रदद्वपाहराइः (आ. गा. ३. ५. १३५) इति द्वितीयादिकम् । एते द्वे तन्त्रोतुनी। तन्तुशब्दौतुशब्दयुक्त एतन्नामधेये सामनी ॥२॥

सहोमहसी द्वे ॥ ६.२.५.३॥

पिबा सोममिन्द्र मन्दतु त्वा (सा. ३९८) इत्यत्र सामद्वयम् । हाउ (त्रिः) । पिबासोमाम् (आ. गा. ३. ५.१३६) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः)। पिबासोममिन्द्रमन्दतुत्वा (आ. गा. ३. ५. १३७) इति द्वितीयक्रुष्टादिकम् । एते द्वे सहोमहसी सहोमहःशब्दयुक्ते एतत्संज्ञे । पूर्वस्य सहाः इति निधनम् । द्वितीयस्य महाः इति ।। ३ ।। २३७ षष्ठाध्याये द्वितीयपर्व (५)

वार्कजम्भे द्वे ॥ ६.२.५.४॥

प्रव इन्द्राय बृहते (सा. २५७) इत्यत्र सामद्वयम् । हाउप्रव- इन्द्रायबृहानाइ (आ. गा. ३. ५. १३८) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः)। विश्वेषाम् इत्यादि प्रवइन्द्राय (आ. गा. ३. ५. १३९) इति द्वितीयक्रुष्टादिकम् । एते द्वे वार्कजम्मे एतन्नामधेये ॥ ४ ॥

ईष्विश्वज्योतिषी द्वे ॥ ६.२.५.५॥

असावि देवं गोऋजीकम् (सा. ३१३) इत्यत्र सामद्वयम् । हाह । हा । ओवा इत्यादि आसा (आ. गा. ३. ५. १४०) इति तृतीयद्वितीयादिकम् । इयो इत्यादि [ असा विदाइ] (आ. गा. ३. ५.१४१ ) इति क्रुष्टद्वितीयादिकम् । एते द्वे ईपविश्वज्योतिषी। ईपपदविश्वज्योतिप्पदयुक्त सामनी । पूर्वस्य ईषिति निधनम् । उत्तरग्य विश्वज्योतिरिति ।। ५ ॥

इति श्रीसायणाचार्यविरचित माधवाय सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः


द्रविणविष्पर्धसी द्वे ॥६.२.६.१॥

महि त्रीणाम् (सा. १९२) इत्यत्र सामद्वयम् । हाउमहि इत्यादि महित्रीणामवारस्तू (आ. गा. ३. ६. १४२) इति द्वितीयादिकम् । हाउदिवि इत्यादि महित्रीणाम (आ. गा. ३. ६. १४३) इति द्वितीयादिकम् । एते द्वे द्रविणविष्पर्धसी द्रविणविष्पर्धसनामके ॥१॥

याममधुच्छन्दसे द्वे ॥६.२.६.२॥

नाके सुपर्णम् (सा. ३२०) इत्यत्र सामैकम् । औहोइ इत्यादि नाकेसुपार्णम् (आ. गा. ३. ६. १४४) इति द्वितीयक्रुष्टादिकम् । सुरूपकृत्नुमृतये (सा. १६०) इत्यत्रैकं साम । सुरूपकृत्नुमूतये (आ. गा. ३. ६.१४५) इति द्वितीयक्रुष्टादिकम् । एते द्वे ऋग्द्वयाश्रिते सामनी याममाधुच्छन्दसे । पूर्वं याम [म्] परं माधुच्छन्दसम् ॥ २॥

वसिष्ठस्य शफौ द्वौ ॥ ६.२.६.३ ॥

प्रथश्च यस्य सप्रथश्च नाम (सा. ५९९) इत्यत्र सामद्वयम् । हाउ प्राथाः (आ. गा. ३. ६. १४६) इति क्रुष्टद्वितीयादिकम् । प्राथाः चयस्य (आ. गा. ३. ६. १४७) इति क्रुष्टद्वितीयादिकम् । एते द्वे वसिष्ठस्य शफनामधेये ॥ ३॥

शुक्रचन्द्रे द्वे ॥६.२.६.४॥

नियुत्वान्वायवा गह्ययम् (सा. ६००) इत्यत्र सामैकम् । हाउ (त्रिः) शुक्रम् इत्यादि नियुत्वान्वायवागाही (आ. गा. ३. ६. १४८) इति द्वितीयादिकम् । अत्राह गोरमन्वत (सा. १४७) इत्यत्रैकं साम । षष्ठाध्याये द्वितीयपर्व (६) २३९

हाउ (त्रिः) चन्द्रम् इत्यादि अत्राहगोर (आ. गा. ३. ६. १४९) इति द्वितीयादिकम् । एते शुक्रचन्द्रे शुक्रचन्द्रयुक्ते एतत्संज्ञे सामनी ॥ ४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राझणभाप्ये षष्ठाध्याये द्वितीयपर्वणि षष्ठः खण्डः ॥ ६॥ सप्तमः खण्डः


वायोः षट् स्वराणि पराणि वा ॥ १ ॥

यज्जायथा अपूर्व्य (सा. ६०१) इत्यत्र पञ्च सामान्युत्पन्नानि । एयज्जायथाः (आ. गा. ३. ७. १५०) इति द्वितीयक्रुष्टादिकम् । एहाउ- यज्जायथाः (आ. गा. ३. ७.१५१) इति द्वितीयादिकम् । एहाउ । औहो। यज्जायथाः (आ. गा. ३. ७. १५२) इति द्वितीयक्रुष्टादिकम् । यज्जायाज्जा । यथा अपूर्वियाऔहो (आ. गा. ३. ७. १५३) इति क्रुष्ट- द्वितीयादिकम् । हुवौहोइ (त्रिः)। यज्जायथाः (आ. गा. ३. ७.१५४) इति द्वितीयक्रुष्टादिकम् । एवं पञ्च सामान्युत्पन्नानि । यो रयिं वो रयिन्तमः (सा. ३५१) इत्यत्र सामैकम् । योरयिंवोरायिन्तमाः (आ. गा. ३. ७. १५५) इति द्वितीयतृतीयादिकम् एकं साम । एवं ऋग्द्वयाश्रितानि षट् सामानि वायोः स्वरसंज्ञकानि । अथवा पराणि स्वर्गलोकपराणि साधनानि । अत्रोभयत्र ब्राह्मणम् ---- स्वरसामान एते भवन्ति ॥ [स्व]र्भानुर्वा आसुर आदित्यं तमसाविध्यत्तं देवाः स्वरैरस्पृण्वन् इति । (ता. ब्रा. ४.५.१-२) परैर्वै देवा आदित्यं स्वर्ग लोकमपारयन् । यदपारय॑स्तत् पराणां परत्वम् (ता. ब्रा. ४.५.३) इति ॥ १ ॥

पुनरपि वचनमुस्वेन सूर्यसंबन्धित्वं स्वर्गलोकसाधनमेवं वैषां दर्शयितु बहुविकल्पं दर्शयति -

स्पराणि वा । पारणानि वा। अनन्त्यानि वा। आदित्यानि वा। स्वर्ग्याणि वा । स्वर्गस्य लोकस्य गमनानि वा ॥२॥

स्फराणि स्फीता [नि] ओजोयुक्तानीत्यर्थः । पारणानि लोकपारणसाध- नानि । आनन्त्यानि बहुफलप्रदानि । आदित्यानि आदित्यसंबन्धीनि । षष्ठाध्याये द्वितीयपर्व (७) २४१

स्वरणि स्वर्गलोकहितानि । अथवा स्वर्गस्य लोकस्य गमनानि पापकाणि । एतन्नामधेयानि सामानि वेत्यर्थः ॥ २ ॥

विष्णोस्त्रीणि स्वरीयांसि ॥ ६.२.७.३ ॥

हाउहोहाइ इत्यादि परात्परमैया। ता [यज्ञो-पृथिवी-दिवो- मूर्धानम् – इडांयच्छ ( आ. गा. ३. ७. १५६-१५९ ) इति चत्वारि स्तौभिकानि सामानि । हाउहोहाइ इत्यादि ] यज्जायथा (आ. गा. ३. ७. १६०) इति द्वितीयक्रुष्टा(क्रुष्टद्वितीया ?) दिकम् एक साम । पतत् प्रथमम् ।।

हाउहोवा इत्यादि ज्योतिर्धेनुः (आ. गा. ३. ७. १६१) इत्यन्तम् [एकम् । अत्र स्तोभमात्रम् साम । हाउहोवा इत्यादि यज्जायथाः (आ. गा. ३. ७. १६२) इति क्रुष्टद्वितीयादिकं साम । एतद् द्वितीयम् ।।

हाऊवाग इत्यादि एतोकंप्रजाङ्गर्मोन (आ. गा. ३. ७. १६३) इति प्रथमम् । हाऊवाग इत्यादि यस्माद्यावापृथिवीभुवनानि चक्रदुः (आ. गा. ३. ७. १६४) इति द्वितीयम् । हाऊवाग इत्यादि येभिर्विया- श्वमैरयाः (आ, गा. ३. ७. १६५) इति तृतीयम् | हाऊवाग इत्यादि यज्जायथा अपूहो (आ. गा. ३. ७.१६६) इति द्वितीयक्रुष्टादिकं [चतुर्थम् ] । एतत् तृतीयम्॥

एतानि त्रीणि विष्णोः स्वरीयांसि एतन्नामधेयानि ।। ३ ।।

पञ्चानुगानं ह्यनुगानं चतुरनुगानम् ॥ ६.२.७.४ ॥

होउहोहाइ इत्यादि यज्जायथा (आ. गा. ३. ७. १५६-१६०) इति प्रथम पञ्चानुगानम् पञ्च[भिर्] अनुगानैरुपेतम् । हाउहोवा इत्यादि यज्जायाथा (आ. गा. ३. ७. १६१-१६२) इति द्वितीयं द्वयनुगाननामक २४२ आयब्राह्मणम्

द्वाभ्यामनुगानाभ्यामुपेतम् । हऊवागित्यादि यजायथाअपूहो (आ. गा. ३. ७.१६३-१६६) इति [तृतीय] चतुरनुगाननामधेयं चतुर्भिरनुगानैरुपेतमेतत्संज्ञ साम ॥४॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये द्वितीयपर्वणि सप्तमः खण्डः ॥ ७ ॥

द्वितीय पर्व समाप्तम् ॥