भृगुसंहिता/नवमोऽध्यायः

विकिस्रोतः तः
← अथाष्टमोऽध्यायः भृगुसंहिता
नवमोऽध्यायः
[[लेखकः :|]]
दशमोऽध्यायः →

अथ नवमोऽध्यायः.
रज्जुबन्धनम्
अथातस्संप्रवक्ष्यामि रज्जुबन्धविधिं क्रमाथ् ।
यथोक्तं च मृदस्सर्वास्समाहृत्य विधानतः ।। ९.१ ।।

संपिष्य शोधयित्वैव यथोक्तं सर्व मौषधं ।
चूर्णानि च यथोक्तानि कषायाणि विधानतः ।। ९.२ ।।

योजयित्वा यथाभागं गव्यैरपि इहैवच ।
निर्यासेन कपिद्धस्य युक्तं नादेयवारिणा ।। ९.३ ।।

पेषयित्वा मृदा सम्यक्संपिष्य च विधानतः ।
साधयित्वाथ वा वामं सार्धंवापि निधाय च ।। ९.४ ।।

नालिकेरस्य सारेण त्रिवृतां रज्जुमाहरेथ् ।
सरज्जुं बन्धयेच्छूलं यथातत्सुदृढं तथा ।। ९.५ ।।

बन्धयित्वाष्टबन्धं च शूलमालिप्य सर्वशः ।
मृदं च तां समादाय शूल मालोपयेत्तथा ।। ९.६ ।।

शूलोपरि प्रमाणं यच्चतुर्भागं विभज्यच ।
तत्त्रिभागं मृदाकुर्या द्रज्जुबन्धसमायुतं ।। ९.७ ।।

घटशर्करया वस्त्रमौक्तिकैर्वर्णकैर्युतं ।
पूरये दन्यभागं च तत्प्रमाणविधानतः ।। ९.८ ।।

शर्करां च समालिप्य पटं संयोज्य पूर्ववथ् ।
मौक्तिकाकृति मालिप्य भूषणानि प्रकल्प्यच ।। ९.९ ।।

यथोक्तेन विधानेन वर्णानपि सुयोजयेथ् ।
मृण्मयं ध्रवबेरं चेत्कारये देवमैव तथ् ।। ९.१० ।।

अर्धचित्रं न कुर्वीत ध्रुवबेरं तु मृण्मयं ।
शूलार्धं तु द्वयं कुर्यात्ताम्रनालसमायुतं ।। ९.११ ।।

खादिरं ताम्रदण्डं वाभित्तिस्थं सुदृढं चरेथ् ।
छिद्रं कृत्वातदाधारे शूलं यन्त्रेण योजयेथ् ।। ९.१२ ।।

दृढं तद्योजयित्वैव बेरपृष्ठस्य मध्यमे ।
तत्पृष्ठेस्कन्धमध्ये च तदाधारेण योजयेथ् ।। ९.१३ ।।

शूले छिद्रं नकर्तव्यं कुर्याच्छेत्स विनश्यति ।
ताम्रेण ध्रुवबेरं चेन्मधूच्छिष्टविधानतः ।। ९.१४ ।।

मृण्मयं द्विविधं प्रोक्त मपक्वं पक्वमित्यपि ।
पूर्वोक्तं मृण्मयं यत्तदपक्व मभिधीयते ।। ९.१५ ।।

मृदाकृत्वाग्विनादग्धं यत्तत्पक्वमितीरितं ।
अपक्वं मृण्मये विष्णोः कारयेत्तु विधानतः ।। ९.१६ ।।

यदि पक्वं तु कुर्याच्छेत्तद्विनाशकं भवेथ् ।
योगादिस्थानानि
स्थानं चतुर्विधं विन्द्याद्योगं भोगं तथैव च ।। ९.१७ ।।

सृष्टिः संहार इत्येषां स्थानभेदः प्रवक्ष्यते ।
सर्वतो भद्रकं नन्द्यावर्तकं श्रीप्रतिष्ठितं ।। ९.१८ ।।

स्वस्तिकं पर्वताकारं वृत्तभेदं तथैवच ।
प्रलीनक मथोद्योगं पद्मञ्चैव चतुर्मुखं ।। ९.१९ ।।

ब्रह्मादीशानपर्यन्तं क्रमेणैव निवेशयेथ् ।
योगकान्तं भवेद्योगं स्थानकस्य विधीयते ।। ९.२० ।।

चतुरश्रं वृत्तगेहं प्रासादं स्थानकस्य तु ।
आसनानां चतुर्भेदं पूर्वोक्तेन क्रमेण तु ।। ९.२१ ।।

प्रलीनं सर्वतोभद्रं विमानं वा चतुर्मुखं ।
विष्णुछन्दविमानं च श्रीप्रतिष्ठितकं तथा ।। ९.२२ ।।

पर्वताकृतिकञ्चैव नन्द्यावर्तं तथैव च ।
महापद्मविमानं च प्रलीनक वीमानकं ।। ९.२३ ।।

अष्टाङ्गं सर्मतोभद्रं चित्रशिल्पं तथैव च ।
महापद्मं च वृत्तं च चतुर्मुखविमानकं ।। ९.२४ ।।

एवं विमानकं चैव आसनस्य विधीयते ।
स्वस्तिकं वृत्तभद्रं च वृत्तगर्भ मवेदिकं ।। ९.२५ ।।

प्रेक्ष्य गृहाल्पभूराजछन्दं च श्रीप्रतिष्ठितं ।
मर्तलं च शनैर्योगं मार्ताण्डं च चतुष्फुटं ।। ९.२६ ।।

गणिकाविशालं संशुद्धं स्वस्तिकं ध्वजमानकं ।
एवमाख्याय तन्त्राणि वर्तुलाद्यायुतानि च ।। ९.२७ ।।

शयानकेन योग्यानि कथितानि मनीषिभिः ।
आयादिविचारः
आयव्ययादि ऋक्षांश्चयोनिः पश्चाद्विधीयते ।। ९.२८ ।।

बेरोदयं त्रिगुणितं शिष्टमायं नगे हृते ।
चतुर्भिर्गुणितं सप्त सौरवारादिकं दिनं ।। ९.२९ ।।

बेरोच्च मष्टगुणितं सप्तविशदिभिर्हृतं ।
शिष्ट मश्व्यादिभं विन्द्यात्तच्छेषं स्याच्चतुर्गुणं ।। ९.३० ।।

रन्ध्रेहृते नवांशं तच्छेषं भांशयुगैर्हृतं ।
बेरोदयं त्रिगुणितं योनिस्स्या दष्टभिर्हृतं ।। ९.३१ ।।

आयाधिक्ये शुभं प्रोक्त मृणवृद्धिर्व्ययाधिके ।
वारेषु सौरिसूर्यारैर्विनान्ये शुभदास्स्मृताः ।। ९.३२ ।।

तस्करं भुक्तिशक्ती च धनं राज्यं क्लिबादि च ।
निर्हृत्य चाधनं प्रेष्यं तन्नामसदृशं फलं ।। ९.३३ ।।

नामकर्तृनृपर्क्षाद्या नामर्क्षानुगुणं भवेथ् ।
यदाकारं ध्रुवाकारं तदाकारं च कौतुकं ।। ९.३४ ।।

आसने स्थानकंवापि शयाने स्थान मासनं ।
देवे स्थिते न देव्यौ च आसीने स्थानकासने ।। ९.३५ ।।

विपरीतं न कुर्वीत सर्वशास्त्रविशारदाः ।
तालनियमः
श्रेष्ठं प्रादुर्भवं तालं केवलं केशवस्य तु ।। ९.३६ ।।

तद्देवीनां सरस्वत्या मध्यमं दशतालकं ।
चन्द्रेन्द्रानलकीनाशवरुणानिलशूलिनः ।। ९.३७ ।।

ऋषयो वसवो रुद्रा मार्कण्डेयोऽमितो भृगुः ।
आर्याश्चैव गुहो हीनदशतालमिता मताः ।। ९.३८ ।।

मरुतोऽपि च यक्षेशदेववध्वश्शुभाग्रहाः ।
तधान्येतु त्रिधा साध्या नवतालमिता मताः ।। ९.३९ ।।

दैत्ययक्षेश? रन्धाश्च सिद्धगन्धर्वचारणाः ।
कुजार्कराहव श्श्रेष्ठनवतालेन सम्मताः ।। ९.४० ।।

नवतालैर्मुनींश्चैव गणांश्चैव तु मानयेथ् ।
उङ्गाश्चारणाश्चान्ये नवतालमितोदयाः ।। ९.४१ ।।

मर्त्याश्चाष्टायताः प्रोक्ताः प्रेतानां सप्ततालकं ।
षड्यमाः कुब्जकाः प्रोक्ता वामनाः पञ्चतालगाः ।। ९.४२ ।।

भूगतानां चतुस्तालं किन्नरास्तु त्रितालकाः ।
कूश्माण्डा द्वितयाश्चैव कबन्धा स्त्वेकतालका? ।। ९.४३ ।।

श्रेष्ठमध्यकनिष्ठानि त्रितालानान्तु तत्र नै ।
प्रवक्ष्यामि मधूच्छिष्टक्रियां प्रतिविधानतः ।। ९.४४ ।।

यजमानगृहेवापि आलये वा मनोरमे ।
अलङ्कृत्य वितानाद्यैः कुण्ड मौपासनं क्रियाथ् ।। ९.४५ ।।

आघारं विधिवत्कृत्वा वैष्णवं च यजेत्तथा ।
विष्णुसूक्तं च हुत्वातु ब्राह्मं रौद्रं तथैव च ।। ९.४६ ।।

वीशशैषिकचक्रांश्च विघ्नेशं च सुहूयते ।
तस्याग्नेर्दक्षिणे कुर्या द्व्रीहिभि स्थ्संडिलं तथा ।। ९.४७ ।।

चतुरश्रं ततो वृत्तं समास्तीर्य यथा शुभं ।
चक्रशैषिकवीशांश्च क्रमेणैव सुपूजयेथ् ।। ९.४८ ।।

शोधितं तु मधूच्छिष्ट मादाय प्रणवेन तु ।
"इषेत्वोर्जेऽत्वेति मन्त्रेण प्रधानांगं प्रकल्पयेथ् ।। ९.४९ ।।

अक्षराणि च सन्न्यस्य चैवं ध्यात्वाभिमृश्य च ।
वैष्णवं च ततो हुत्वा देवा नन्यान्विसृज्य च ।। ९.५० ।।

देव्यादीन्पार्षदां स्तत्र तत्तन्मन्त्रेण हूयतां ।
तत्सिद्धं शिल्पिहस्ते तु निधायैव हरिंस्मरन् ।। ९.५१ ।।

यथा नगेन्द्रियं ग्राह्यं योनिष्वेव समर्पयेथ् ।
तथा तन्तु गृहीत्वैव स्थापनीयन्तु गर्भकं ।। ९.५२ ।।

मानोन्मानप्रमाणेन मतिमान्शिल्पिनाचरेथ् ।
शनैरालिप्य संशोष्य मृद्भिश्च बहिरायसैः ।। ९.५३ ।।

पट्टैराबद्ध्य विधिना पुनरालिप्य शोषयेथ् ।
यजमानानुकूलर्क्षे पूर्ववद्धोम माचरेथ् ।। ९.५४ ।।

तथा तुल्यं च संस्थाप्य जलतुल्यक्रमेण वै ।
युक्तां सिद्धिं च संप्राप्य तं च गर्भं प्रतापयेथ् ।। ९.५५ ।।

शनैर्मृद्भेदनं कृत्वा विधिना बेरमाहरेथ् ।। ९.५६ ।।


इति श्रीवैखानसे फगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे नवमोऽध्यायः.