भाषावृत्तिः/द्वितीयोऽध्यायः/तृतीयः पादः

विकिस्रोतः तः
← द्वितीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव
चतुर्थः पादः →

द्वितीयाध्यायः। तृतीयः पादः।

-2-3-1- अनभिहिते ।
लकृत्तद्धितसमासैरनभिहिते कर्मादावेकत्वादिषु द्वितीयादयो वाच्याः।

-2-3-2- कर्मणि द्वितीया ।
कर्मणि द्वितीया स्यात्। काशान् कटं करोति। ओदनं बुभुक्षुःर्व्रीहीन् प्रोक्षति। अजां ग्रामं नयति।
अनभिहित इत्येव। निन्येऽजा ग्रामम्। नयनीयाजा ग्रामम्। शतिकोऽश्वः। प्राप्तातिथिर्ग्रामः।
(क) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दुश्यते ।। 1 ।।
उभयतो ग्रामम्। सर्वतो ग्रामम्। धिग् दुर्जनम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधोऽधो ग्रामम्।
ततोऽन्यत्रापि दृश्यते--बुभुक्षितं न प्रतिभाति किञ्चित्। बुभुक्षितन्येत्यर्थः। एवं चैत्रं यावच्छीतमित्यादौ।
(ख) अभितःपरितः समयानिकषाहायोगेष्वपि दृश्यते। अभितो ग्रामम्। परितो ग्रामम्। समया ग्रामम्। निकषा ग्रामम्। हा देवदत्तम्।

-2-3-3- तृतीया च होश्छन्दसि ।
छन्दः सूत्रमेकम्।
 
-2-3-4- अन्तराऽन्तरेण युक्ते ।
आभ्यां युक्ते द्वितीया स्यात्। "वैदेहीमन्तरा क्रुद्धः"। वैदेह्या मध्य इत्यर्थः। त्वाञ्च माञ्चान्तरा कमण्डलुः। तव मम मध्य इत्यर्थः। उपपदविभक्तेः कारकविभक्तिर्बलीयसी कमण्डलोर्न द्वितीया। सर्वा ह्युपपदविभक्तयः षष्ठ्यपवादिकाः। नान्तरेण गुणान् सुखम्। गुणैर्विनेत्यर्थः।

-2-3-5- कालाध्वनोरत्यन्तसंयोगे ।
अत्यन्तसंयोगश्चेत् कालाध्वनोर्द्वितीया स्यात्। सर्वरात्रं कल्याणी। मासं रमणीयाः। "क्षणमूचे"। दिवसं पठति। अध्वनः क्रोशं कुटिला नदी। योजनं धावति। भाष्ये तु योजनक्रिययाऽत्यन्तसंयोगः। तदर्थमेतदिति स्थितम्। मासमास्ते। क्रोशं स्वपितीत्यादिषु प्राकृतमेव कर्म।
तदाह,--
कालभावाध्वदेशानामन्तर्भृतक्रियान्तरैः।
सर्वेरकर्मकैर्योगे कर्मत्वमुपज्ञायते ।। 1 ।। इति ।
एवं चास्यते मास इति लकारेण कर्मणोऽभिधानं घटते। अत्यन्तसंयोगे किम् ? मासस्यैकरात्रं रम्या। क्रोशस्यैकदेशं कुटिला नदी।
 
-2-3-6- अपवर्गे तृतीया ।
फलप्राप्तौ क्रियात्यागोऽपवर्गः। तत्र गम्ये कालाध्वनोस्तृतीया स्यात्। मासेनाधीतो ग्रन्थः। क्षणेनावगतोऽर्थः। क्रोशेनाधीतः। क्रोशेनावगतोऽर्थः।

-2-3-7- सप्तमीपञ्चम्यौ कारकमध्ये ।
कारकयोर्मध्ये यौ कालाध्वानौ ताभ्यामेते स्याताम्। अद्य भुक्त्वा द्व्यहे द्व्यहाद् वा भोक्ता। कर्तृ शक्त्योर्मध्ये कालः। इहस्थोऽयं धनवी क्रोशे लक्ष्यं विध्यति क्रोशाद्वा।

-2-3-8- कर्मप्रवचनीययुक्ते द्वितीया ।
कर्मप्रवचनीयैर्योगे द्वितीया स्यात्। यज्ञमनु प्रावर्षत्।

-2-3-9- यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।
यस्मादधिकं यस्य चेश्वरवचनं तत्र तैर्योगे सप्तमी स्यात्। उपशते विंशतिः। उपखार्यां द्रोणः। यस्य चेश्वरवचनम् अधि पञ्चालेषु ब्रह्मदत्तः।

-2-3-10- पञ्चम्यपाङ्परिभिः ।
एभिः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात्। अप त्रिगर्त्तेभ्यो वृष्टो देवः। आ त्रिगर्त्तेभ्यः। "परि पर्युदधेः"। परिर्वर्जनार्थः। आ पाटलिपुत्रात्।

-2-3-11- प्रतिनिधिप्रतिदाने च यस्मात् ।
यतः प्रतिनिधिः प्रतिदानञ्च तत्र तैर्योगे पञ्ञ्चमी स्यात्। स राजा शक्रतः प्रति। तिलेभ्यः प्रति माषान् प्रयच्छति।

-2-3-12- गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि ।
गत्यर्थानां कर्मण्येते स्याताम्। ग्रामं गच्छति ग्रामाया वा। नगरं गच्छति नगराय वा। ग्रामं याति ग्रामाय वा। वनं वनाय वा प्रस्थितः। कथं क्व गच्छसीति ? आधारविवक्षायाम्। क्व स्थातुं गच्छसीत्यर्थः। चेष्टायां किम् ? मोहं गच्छति। अनध्वनि किम् ? मार्गं गच्छति ।
 
-2-3-13- चतुर्थी सम्प्रदाने ।
सम्प्रदाने चतुर्थी स्यात्। विप्राय गां ददाति। "भयानि दत्त सीतायै।" स तस्मै साधुकारमदात्। पुष्पेभ्यः स्पृहयति।
(क) तार्दथ्ये च । यूपाय दारु।
(ख) क्लृपि सम्पद्यमाने च । उच्चाराय कल्पते माषः।
(ग) उत्पातेन ज्ञाप्यमाने । वाताय कपिला विद्युत् । वृष्टये चोन्मुखी विद्युत्।
(घ) हितयोगे च । अरोचकिने हितं सौवीरार्द्रकम्।
 
-2-3-14- क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।
स्थानी क्रियार्थोपपदस्तुमुन्नन्तो यो धातुस्तस्य कर्मणि चतुर्थी स्यात्। एधेभ्यो व्रजति। फलेभ्यस्तिष्ठति।
स्थानिनः किम् ? एधानाहर्तुं व्रजति।

-2-3-15-तुमर्थाच्च भाववचनात्।
तुमुना समानार्थाच्चतुर्थी स्यात्। पाकाय व्रजति। भूतये धावति। भाववचनात् किम् ? ओदनं पाचको व्रजति। ओदनं भोजको व्रजति।

-2-3-16- नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ।
नमः आदियुक्ताच्चतुर्थी स्यात्। नमो विष्णवे। स्वस्ति प्रजाभ्यः। "अलं प्रदोषः प्रियसङ्गमाय।" स्वाहाऽग्नये। स्वधा पितृभ्यः। नमः शिवाय।

-2-3-17- मन्यकर्मण्यनादरे विभाषाऽप्राणिषु ।
मन्यतेः कर्मण्यनादरे चतुर्थी वा स्यात्। न त्वा तृणं मन्ये तृणाय वा। "मन्ये तृणाय स्वराज्यम्"। "हरिमप्यमंसत तृणाय।" इह तृणसमानाधिकरणात् त्वादेश्चतुर्थी न भवति व्यवस्थितविभाषया।अप्राणिष्वित्यना-
वादिष्विति वक्तव्यम् । न त्वा नावं मन्ये। न त्वा कालं मन्ये।

-2-3-18- कर्तृकरणयोस्तृतीया ।
अनयोस्तृतीया स्यात्। विप्रेण पच्यते। अग्निना दह्यते। परशुना वृक्षं छिनत्ति बर्धकिः।
(क) प्रकृत्यादिभ्य उपसंख्यानम् । प्रकृत्या सुभगः। गोत्रेण गार्ग्यः। समेन धावति। विषमेण धावति। "तत्रागारे धनपतिगृहादुत्तरेणास्मदीयम्।"
 
-2-3-19- सहयुक्तेऽप्रधाने ।
सहार्थेन युक्तादप्रधाने तृतीया स्यात्। व्रिपः शिष्येण सहागतः। पुत्रेण सार्धं गोमान्।
 
-2-3-20- येनाङ्गविकारः ।
हानिराधिक्यं च विकारः। येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया स्यात्। अक्ष्णा काणः। पादेन खञ्जः। "मुखेन त्रिलोचनः।"

-2-3-21- इत्थम्भूतलक्षणे ।
विशेषप्राप्तस्य लक्षणे तृतीया स्यात्। शिखया परिव्राजकः।

-2-3-22- संज्ञोऽन्यतरस्यां कर्मणि ।
सञ्जनातेः कर्मणि तृतीया वा स्यात्। मात्रा सञ्जनीते मातरं वा।
(क) संज्ञः कृद्योगे षष्ठी विप्रतिषेधेनेति वाच्यम् । मातुः संज्ञाता।

-2-3-23- हेतौ ।
तृतीया स्यात्। धनेन कुलम्। विद्यया यशः।
हेत्वधीनः कर्त्ता कर्त्रधीनं करणमिति हेतुकरणयोर्भेदः।

-2-3-24- अकर्त्तर्यृणे पञ्चमी ।
ऋणे हेतौ पञ्चमी स्यात्। ऋणाद् बद्धः। शतादभिभूतः। अकर्त्तरि किम् ? शतेन प्रयोजककर्त्रा बन्धितः।

-2-3-25- विभाषा गुणेऽस्त्रियाम् ।
पराश्रितो गुणः। गुणे हेतौ पञ्चमी स्याद् वा। जाड्याद् गृहीतो जाड्ये न वा। धूमादग्निर्धूमेन वा। कृतकत्वादनित्यः शब्दः कृतकत्वेन वा। अस्त्रियां किम् ? प्रज्ञया धीरः।

-2-3-26- षष्ठी हेतुप्रयोगे ।
हेतुशब्देन हेतौ द्योत्ये षष्ठी स्यात्। अर्थस्य हेतोर्वसति। अल्पस्य हेतोर्बहु हातुमिच्छन्। यत्र हेतुशब्देन समासस्तत्र समुदायादेव षष्ठी। बालबोधहेतोर्व्याचष्टे।

-2-3-27- सर्वनाम्नस्तृतीया च ।
हेतुशब्दप्रयोगे सर्वनाम्नस्तृतीयाषष्ठ्यौ स्याताम्। " कस्य हेतोः सखि नाभियातस्त्वं हेतुना केन चिरादुपेता।
(क) हेत्वर्थप्रयोगे सर्वविभक्तीनां प्रायदर्शनम् । किन्निमित्तमागतः। केन निमित्तेन। कस्मै हेतवे। कस्मात् कारणात्। कस्य प्रयोजनस्य। कस्मिन्निमित्ते।
 
-2-3-28- अपादाने पञ्चमी ।
स्यात्। ग्रामादागच्छति। वृकाद् बिभेति।
(क) ल्यब्लोपे कर्मणि । प्रासादात् प्रेक्षते। प्रासादमारुह्येत्यर्थः।
(ख) अधिकरणे च । आसनात् प्रेक्षते। कटकात् संवादयति।
(ग) प्रश्नाख्यानयोश्च । कुतस्त्वम् ? नगरात्।
(घ) यतश्चाध्वकालनिमानं तत्र पञ्चमी । अध्वनः प्रथमा सप्तमी च। काले सप्तमीति वाच्यम्। चम्पातः सोमतीर्थं पञ्च योजनानि पञ्चसु योजनेषु वा। काले फाल्गुन्याश्चैत्री मासे।

-2-3-29- अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ।
एभिर्युक्तात् पञ्चमी स्यात्। द्रव्यादन्यो गुणः। "परैस्त्वदन्यः क इवापहारयेत्"। अर्थग्रहणाद् भिन्नो भ्रातृभ्यः। आराद् ग्रामात्। शुक्लादितरः। "अंशादृते निषिक्तस्य नीललोहितरेतसः"। दिक्शब्दः पूर्वो ग्रामात्। अञ्चूत्तरपदम्। प्राग् ग्रामात्। आच् दक्षिणा ग्रामात्। आहि च। उत्तराहि ग्रामात्। उत्तराहि समुद्रात्।

-2-3-30- षष्ठ्यतसर्थप्रत्ययेन ।
अतसुजर्थप्रत्ययैर्योगे षष्ठी स्यात्। दक्षिणतो ग्रामस्य वृक्षः। एवमुत्तरतः पुरः पुरस्ताद् उपरि उपरिष्टाद् ग्रामस्येति। कथं प्राग् ग्रामात् ? अञचूत्तरपदग्रहणात्। क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशत इत्यपायविवक्षया वा। मातुः पुरस्तात्। तत उपरिष्टात्। "कफोनिः कूर्परादधः"।

-2-3-31-नपा द्वितीया ।
एनपातसुजर्थप्रत्ययेन योगे द्वितीया स्यात्। दक्षिणेन गयां महाबोधिः। षष्ठ्यपीत्येके। दक्षिणेन गयायाः।

-2-3-32- पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् ।
एभिर्योगे तृतीया पञ्चमी वा स्यात्। पृथक् चन्द्रेण। "दुनोति चन्द्रात् पृथगप्यनङ्गः"। विना कार्येण विना कार्याद् वा। नाना वृक्षेण नाना वृक्षाद् वा। द्वितीया च दृश्यते विना वातम् विना वर्षमित्यादि।

-2-3-33- करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य ।
असत्त्ववचनस्य अद्रव्यवचनस्य स्तोकादेः करणे प?ञ्चमी वा स्यात्। "स्तोकेन रुष्टा दयिताय नारी स्तोकादुपेता पुनरेव तोषम्"। कृच्छ्रादवाप्तः कृच्छेण वा। कृच्छात् कृच्छेण वा मुक्त। असत्त्ववचनस्य किम् ? स्तोकेन विषेण हतः।

-2-3-34- दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ।
दूरान्तिकार्थैर्योगे षष्ठीपञ्चम्यौ स्याताम्। दूरं ग्रामस्य ग्रामाद्वा। विप्रकृष्टं शैलस्य शैलाद्वा। अन्तिकं गृहस्य गृहाद्वा।

-2-3-35- दूरान्तिकार्थेभ्यो द्वितीया च ।
एभ्यो द्वितीया स्यात् पञ्चमी तृतीया च। दूरं दूराद् दूरेण वा ग्रामस्य नदी। अन्तिकम् अन्तिकाद् अन्तिकेन वा मूर्खाणां पशुत्वम्। असत्त्ववचनस्येत्येव । दूरः पशुः। आसन्ना मुनयः।

-2-3-36- सप्तम्यधिकरणे च ।
अधिकरणे सप्तमी स्यात्। कटे आस्ते।चकाराद् दूरान्तिकार्थेभ्यश्च। दूरे ग्रामस्य। अन्तिके नद्याः।
(क) क्तस्येन्विषयस्य कर्मणि । अधीती व्याकरणे। निपठिती तन्त्रेषु।
(ख) निमित्तात् कर्मसंयोगे।
"चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्।
केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ।। 1 ।।

-2-3-37- यस्य च भावेन भावलक्षणम् ।
यस्य च क्रिययाऽन्यस्य क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात्। गोषु दुह्यमानासु गतो देवदत्तो दुग्धास्वागतः। अस्मिन् सतीदं भवति। ऋद्धेष्वासीनेषु दरिद्रा भुञ्जते। नेह। शयानेन भुक्तम्। अनभिधानात्।

-2-3-38- षष्ठी चानादरे ।
अनादराधिक्ये भावलक्षणे षष्ठी सप्तमी च स्यात्। रुदतः प्रव्रजितवान् रुदति वा। रुदन्त मनादृत्येत्यर्थः। एवं पश्यतोहरः।

-2-3-39- स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।
एभिर्योगे षष्ठी सप्तमी च स्यात्। गवां स्वामी गोषु वा। प्राणानामीश्वरः प्राणेषु वा।

-2-3-40- आयुक्तकुशलाभ्यां चासेवायाम् ।
आभ्यां योगे तात्पर्यगतौ ते द्वे स्याताम्। आयुक्तो विहारकरणस्य विहारकरणे वा। कुशलः सेवायाः सेवायां वा।

-2-3-41- यतश्च निर्धारणम् ।
यतो जात्यादिभिः पृथक् क्रियते ततस्ते द्वे स्याताम्। नृणां क्षत्रियः शूरतमो नृषु वा। गवां कृष्णा सम्पन्नक्षीरतमा गोषु वा। अध्वगानां रथिनः शीघ्रतमाः अध्वगेषु वा।

-2-3-42- पञ्चमी विभक्ते ।
यत्र निर्धारणाश्रयो विभागोऽस्ति ततः पञ्चमी स्यात्। माथुराः स्रौग्ध्नेभ्य आढ्यतराः।
 
-2-3-43- साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।
आभ्यां योगे पूजागतौ सप्तमी स्यात्। पितरि साधुः। मातरि साधुः। मातरि निपुणः। बोधे निपुणः। अप्रतेः किम् ? मातरं प्रति साधुः। प्रतिरुपलक्षणम्। मातरमनु। इहाप्रतेरिति योगं विभज्य सूत्रान्तरैरपि सम्बध्नन्ति यथायथं विभक्तिनां निषेधार्थम्। तेन वृक्षं वृक्षं प्रति पुष्पाणि सन्तीति नाधारसप्तमी। त्वां प्रति स्वामीति न षष्ठीसप्तम्यौ। केशान् प्रत्युत्सुक इति न तृतीयासप्तम्यौ। देवदत्तं प्रति कुप्यतीति न सम्प्रदाने चतुर्थी।

-2-3-44- प्रसितोत्सुकाभ्यां तृतीया च ।
आभ्यां योगे तृतीयासप्तम्यौ स्याताम्। केशैः प्रसितः केशेषु वा। केशैरुत्सुकः केशेषु वा। "भवत्यामुत्सुको रामः।"

-2-3-45- नक्षत्रे च लुपि ।
लुबन्तान्नक्षत्रात् तृतीयासप्तम्यौ स्याताम्। पुष्येण पायसमश्नीयात् पुष्ये वा। अधिकरण इत्येव। अद्य पुष्यः।

-2-3-46- प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ।
एतावन्मात्रेऽनभिहिते।कर्मादावुक्तेऽपि प्रथमा स्यात्। यत्राद्या शब्दस्य वृत्तिः स प्रातिपदिकार्थः। वृक्षो दृश्यताम्। श्वेतो धावति। पाचकः। पचनम्। स्त्री। पुमान्। नपुंसकम्। द्रोणः। खारी। आढकम्। वृक्षादेराद्याकृतौ वृत्तिः। तदुपचाराद् द्रव्यादौ पुंस्त्वादिकञ्च। वृक्षादेः सर्वदान्वयित्वात् स्वार्थ एव। नाधिकम्। अथाप्येतल्लिङ्गादिद्
वारेणापि सिध्यति तदाऽसंख्यमलिङ्गमुदाहार्यम्। उच्चैः। त्वम्। अहमिति। मात्रग्रहणादधिकेऽनभिहिते न भवति। वृक्षं पश्यति। अश्वेन गम्यते। लिङ्गाधिकमात्रे कुमारी। शृङ्खला। परिमाणमुपचारः। तदधिकमात्रे प्रस्थेन परिमितो व्रीहिः प्रस्थो द्रोणः खारी आढकं व्रीहिः। वचनं संख्या। तन्मात्रे। उक्तेऽपि यथा स्यात्। एको द्वौ बहवः।

-2-3-47- सम्बोधने च ।
सम्बोधनाधिक्ये प्रथमा स्यात्। हे विप्र। हे विप्रौ। हे विप्राः।

-2-3-48- साऽमन्त्रितम् ।
सा साम्बोधनप्रथमाऽमन्त्रितमुच्यते। हे विप्र तव स्वम्। हे वत्स तवाश्वः।

-2-3-49- एकवचनं सम्बुद्धिः ।
आमन्त्रितस्यैकवचनं सम्बुद्धिरुच्यते। हे वृक्ष । हे पते । हे नदि । हे पटो ।

-2-3-50- षष्ठी शेषे ।
कारकाणमविवक्षा शेषः सम्बन्धः। तत्र गम्ये षष्ठी स्यात्। राज्ञः पुरुषस्य धनम्। सुखस्य जानाति। माषाणामश्नीयात्। "नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः"। शेषे विधानमा कृद्योगात् (3.3.65)।

-2-3-51- ज्ञोऽविदर्थस्य करणे ।
ज्ञः करणे षष्ठी स्यात्। मधुनो जानीते। मधुना प्रवर्त्तत इत्यर्थः। तैले घृतस्य जानीते। अविदर्थस्य किम् ? स्वरेण पुत्रं जानाति। शेषषष्ठ्या सिद्धौ प्रकरणमिदं नियमार्थम् ज्ञाधीगर्थादेः करणकर्माद्येव शेषत्वेन विवक्षणीयममिति।
 
-2-3-52- अधीगर्थदयेशां कर्मणि ।
एषां शेषत्वेन विवक्षिते कर्मणि षष्ठी स्यात्। मातुः स्मरति। कर्मणः शेषत्वेन विवक्षितत्वात्। अकर्मकादपि भावे लादयः। मातुः स्मर्यते। मातुः स्मृतम्। एवमः ममैवाध्येति नृपतिः। "रामस्य दयमानोऽसौ "। सर्पिष इर्ष्टे। शेष इत्येव । मातरं स्मरति। माता स्मर्यते।

-2-3-53- कृञ्ञः प्रतियत्ने ।
कृञो गुणान्तराधाने कर्मणि षष्ठी स्यात्। अलङ्कारस्योपस्कुरुते कामुकः।
 
-2-3-54- रुजार्थानां भाववचचनानामज्वरेः ।
भावकर्तृकाणां रुजार्थधातूनां कर्मणि षष्ठी स्यात्। चौरस्य रुजति रोगः।अज्वरेः किम् ? चौरं ज्वरयति ज्वरः।
ज्वरिरुपलक्षणम्। चौरं सन्तापयति सन्तापः। शेष इत्येव। "रुजन्ति चेतः प्रसभं ममाधयः"।

-2-3-55- आशिषि नाथः ।
आशिषि नाथतेः कर्मणि षष्ठी स्यात्। सर्पिषो नाथते गृध्नुः।

-2-3-56- जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।
एषां कर्मणि हिंसायां षष्ठी स्यात्। चौरस्य उज्जासयति। चौरस्य प्रहन्ति। चौरस्य निहन्ति। चौरस्य प्रणिहन्ति। चौरस्य निप्रहन्ति। क्रथिर्घटादिः तस्य निपातनाद् वृद्धिः। धैर्यस्योत्क्राथयति शोकः। विवेकस्य पिनष्टि कामः।

-2-3-57- व्यवहृपणोः समर्थयोः ।
द्यूते क्रयविक्रये च समानार्थयोरनयोः कर्मणि षष्ठी स्यात्। शतस्य व्यवहरति। शतस्य पणते वणिक्। "प्राणानामपणिष्टासौ"।

-2-3-58- दिवस्त्दर्थस्य ।
व्यवहारार्थस्य दिवः कर्मणि षष्ठी स्यात्। शतस्य दीव्यति। "अदेवीद् बन्धभोगानाम्"।
 
-2-3-59- विभाषोपसर्गे ।
सोपसर्गस्य दिवस्तथा स्याद्वा। शतस्य प्रतिदीव्यति शतं वा। अशेषविवक्षयैव द्वितीयासिद्धौ विभाषाग्रहणं स्पष्टार्थम्। इह

-2-3-60- द्वितीया ब्राह्मणे ।

-2-3-61- प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने ।

-2-3-62- चतुर्थ्यर्थे बहुलञ्छन्दसि ।

-2-3-63- यजेश्च करणे ।
  वेदार्था चतुःसूत्री।

-2-3-64- कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ।
कृत्वोऽर्थप्रयोगे कालो य आधारस्तत्र षष्ठी स्यात्। पञ्चकृत्वो दिवसस्य भुङ्क्ते। शतकृत्वो रात्रेः स्मरति प्रियाम्। द्विरह्नोऽधीते। शेष इत्येव द्विरह्न्यधीते।

-2-3-65- कर्तृकर्मणोः कृति ।
कृत्प्रयोगे कर्त्तरि कर्मणि च षष्ठी स्यात्। शेषे इत्यस्य निवृत्तेः कारकविभक्तिरियम्। द्वितीयातृतीययोर्बाधा। भवत आसिका। ओदनस्य भोजकः। इह तदर्हमिति (5.1.117) निर्देशेनास्यानित्यत्वं ज्ञापितम्। तेन धायै रामोदमुत्तमम् इति भट्टिः। यद्वा। आ मोदात् सम्मदर्पय्यन्तमित्यव्ययीभावे रूपमिदमिति कृति न षष्ठीति। अनभिहित इत्येव कर्त्तव्यः कटः।
 
-2-3-66- उभयप्राप्तौ कर्मणि ।
एकत्र कृत्युभयप्राप्तौ षष्ठी कर्मण्येव स्यात् न कर्त्तरि। अद्भतः समुद्रस्य बन्धो वानरैः। आश्चर्यं सुभगारोषस्य दूतीभिः परिमा?र्ज्जनम्।
(क) अकाकारयोस्तु स्त्रियां नियमप्रतिषेधः। भेदिका चन्द्रस्य तमसाम्। चिकीर्षा रवेरालोकानाम्।
(ख) शेषे विभाषा । अकाकारयोरन्यत्र विभाषा। विचित्रा सूत्रस्य कृतिः पाणिनेः पाणिनिना वा।
 
-2-3-67- क्तस्य च वर्त्तमाने ।
वर्त्तमाने क्तस्य प्रयोगे षष्ठी स्यात्। न लोकेत्यस्य (2.3.69) बाधा। राज्ञां मतम्। सतां मतः। सतामर्चितः। प्रजानां कान्तः। कथं त्वया शीलितः। मया रक्षितः? कार्योऽत्र यत्नः। इह च्छात्रस्य हसितम् ? मयूरस्य नृत्तमिति शेषषष्ठीयम्। न लोकेति (2.3.69) कृद्योगायाः प्रतिषेधात्। कारकविवक्षायां तु च्छात्रेण हसितमिति आगमः।
 
-2-3-68- अधिकरणवाचिनश्च ।
आधारार्थस्य क्तस्य प्रयोगे कर्तृकर्मणोः षष्ठी स्यात्। इदमेषामासितम्। इदमस्य शयितम्। भुक्तमिदमोदनस्य।
 
-2-3-69- न लोकाव्ययनिष्ठाखलर्थतृनाम् ।
लादीनां कृतां प्रयोगे उक्त षष्ठी न स्यात्। लः ओदनं पचन्। ओदनं पचमानः। उपसेदिवान् पाणिनिम्। उः कटं चिकीर्षुः। धनं गृध्नुः। "रक्षोगणं क्षिप्णुः"। कार्यं कारुः। उकः। गङ्गां गामुकः।
(क) उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः। दास्याः कामुकः। अव्ययम् कटं कृत्वा। कटं कर्तृम्। निष्ठा। तेन कृतम्। सोऽन्नं भुक्तवान्। खलर्थः। इर्षत्करः सुकरः कटो भवता। तृन्। कर्त्ता कटान्। तृन्निति प्रत्याहारग्रहणम्। तेन शानन्नादेरपि प्रतिषेधः। सोमं पवमानः। नडमाघ्नानः।
(ख) द्विषः शतुर्वा वचनम् । चौरस्य द्विषंश्चौरं वा।
 
-2-3-70- अकेनोर्भविष्यदाधर्मण्ययोः ।
अकेनोः कर्मणि षष्ठी न स्याद् भविष्यति ऋणे च। ओदनं पाचको व्रजति। वार्त्तामाख्यायकः। ग्रामं गमी। शतं दायी।

-2-3-71- कृत्यानां कर्त्तरि वा ।
एषां कर्त्तरि वा षष्ठी स्यात्। त्वया कटः कर्त्तव्यस्तव वा। मया कटः कर्त्तव्यो मम वा। तव गम्यो ग्रामस्त्वया वा। "गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्।" कर्त्तरि किम् ? उपस्थानीयः शिष्यो गुरोः। उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधः क्रष्टव्या शाखा ग्रामं वानरेण। नेया ग्राममजा गोपालकेन।

-2-3-72- तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ।
तुल्यार्थैर्योगे तुतीया वा स्यात्। तुल्यः शक्रेण। पक्षे शेषत्वात् षष्ठी तुल्यः शक्रस्य। समः सूर्येण सूर्यस्य वा।
अतुलोपमाभ्यां किम् ? "उपमा स्त्रीमुखस्येन्दुश्चन्द्रस्य स्त्रीमुखं तुला।" तुलोपमाशब्दाविह सदृशार्थौ।
 
-2-3-73- चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।
आयुष्याद्यर्थैर्हितेन च योगे चतुर्थी स्यात् षष्ठी वा। आयुष्यं राज्ञेऽस्तु राज्ञो वा। एवं चिरञ्जीवितं कुशलं मद्रं भद्रं सौहित्यं शिवं सुखं हितं गोभ्योऽस्तु गवां वा। हितम् प्रजाभ्यः प्रजानां वा। आशिषि किम् ? आयुष्यं ते तपः।
इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
द्वितीयाध्याये तृतीयः पादः ।। 2।3। ।।
समाप्तश्चानभिहितपादः ।