भाषावृत्तिः/द्वितीयोऽध्यायः/चतुर्थः पादः

विकिस्रोतः तः
← तृतीयः पादः भाषावृत्तिः
प्रथमः पादः
पुरुषोत्तमदेव

द्वितीयाध्याये चतुर्थः पादः
<097>
-2-4-1- द्विगुरेकवचनम् ।
समाहारे द्विगोरर्थ एकवद्भवति। पञ्चपूली शोभना। दशशती रम्या।

-2-4-2- द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।
प्राण्यङ्गादेर्द्वन्द्व एकवत् स्यात्। हस्तपादम्। कर्णनासिकम्। मार्दङ्गिकपाणविकम्। रथिकपादातम्। कथं हस्त्यश्वौ ? परत्वात् पशुद्वन्द्वविभाषया।

-2-4-3- अनुवादे चरणानाम् ।
अनूक्तौ चरणानां द्वन्द्व एकवत् स्यात्। स्थेणोर्लुङ्यभिधानम् । उदगात् कठकालापम्। प्रत्यष्ठात् कठकौथुमम्।

-2-4-4- अध्वर्युक्रतुरनपुंसकम् ।
अध्वर्यौ यजुर्वेदे क्रतूनां सोमयागादीनां द्वन्द्व एकवत् स्यात्। अर्काश्वमेधम्। अनपुंसकं किम् ? राजसूय-
वाजपेये।

-2-4-5- अध्ययनतोऽविप्रकृष्टाख्यानाम् ।
पाठेन प्रत्यासन्नानां द्वन्द्व एकवत् स्यात्। क्रमकवार्त्तिकम्। छात्रोपाध्यायम्।

-2-4-6- जातिरप्राणिनाम् ।
अप्राणिजातीनां द्वन्द्व एकवत् स्यात्। आराशस्त्रि। द्रुमशैलम्। जातिः किम् ? विन्ध्यहिमालयौ। इह कुण्डे बदरामलकानि सन्ति। द्वन्द्वः किम् ? आरासहिता शस्त्रीत्याराशस्त्रीयम्।
<098>
-2-4-7- विशिष्टलिङ्गो नदीदेशोऽग्रामाः ।
भिन्नलिङ्गयोर्नदीदेशयोर्द्वन्द्व एकवत् स्यात्। गङ्गाशोणम्। शोणनर्मदम्। वरेन्द्रीमगधम्। मगधश्रावस्ति।
भिन्नलिङ्गयोः किम् ? गङ्गायमुने। अग्रामाः किम् ? जाम्बवशालूकिन्यौ।
(क) ग्रामाणां प्रतिषेधे नगराणामप्रतिषेधः । मथुरापाटलिपुत्रम्।

-2-4-8- क्षुद्रजन्तवः ।
क्षुद्रजन्तुवाचिनां द्वन्द्व एकवत् स्यात्। दंशमशकम्। यूकालिक्षम्।
 
-2-4-9- येषाञ्च विरोधः शाश्वतिकः ।
नित्यविरोधिनां द्वन्द्व एकवत् स्यात्। अहिनकुलम्। काकोलूकम्। श्वशृगालम्। मार्जारमूषिकम्। चकारात् पशुशकुनिविकल्पोऽपि बाध्यते। इह देवासुराणां कौरवपाण्डवानाञ्च ? नैमित्तिको विरोधः।

-2-4-10- शूद्राणामनिरवसितानाम् ।
शूद्राणां द्वन्द्व एकवत् स्यात्। रजकतन्तुवायम्। निरवसितानां प्रतिषेधः। चाण्डालमृतपाः।

-2-4-11- गवाश्वप्रभृतीनि च ।
अमूनि यथापाठं साधूनि स्युः। गवाश्वम्। कुब्जवामनम्। पुत्रपौत्रम्। दासीदासम्।

-2-4-12- विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ।
एषां द्वन्द्व एकवद्वा स्यात्। प्लक्षवटम्। रुरुपृषतम्। कुशकाशम्। व्रीहियवम्। दधिक्षीरम्। गोमहिषम्। हंसचक्रवाकम्। अश्ववडवम्। पूर्वापरम्। अधरोत्तरम्। पक्षे प्लक्षवटा रुरुपृषता इत्यादि।
<099> (क) बहुप्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् । एषां बहुप्रकृतिरेव द्वन्द्व एकवत् स्यात्। न द्विप्रकृतिः। बदरामलके रथिकपादाते प्लक्षवटौ यूकालिक्षे इत्यादि।

-2-4-13- विप्रतिषिद्धञ्चानधिकरणवाचि ।
विरुद्धानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात्। शीतोष्णं शीतोष्णे वा। हिमातपं हिमातपौ वा। नेह। सुखदुःखौ। स्वर्गनरकौ।
 
-2-3-14- न दधिपयादीनि ।
नैतान्येकवत् स्युः। दधिपयसी। दधिसर्पिषी। सर्पिर्मधुनी। शुक्लकृष्णे। ऋक्सामे। वाङ्मनसे।

-2-3-15- अधिकरणैतावत्त्वे च ।
समासार्थस्येयत्तायां द्वन्द्वो नैकवत् स्यात्। दश दन्तौष्ठाः। सप्त मार्दङ्गिकपाणविकाः।

-2-4-16- विभाषा समीपे ।
अधिकरणैतावत्त्वस्य सामीप्यगतौ द्वन्द्व एकवद्वा स्यात्। उपदशं दन्तौष्ठम्। उपदशा दन्तौष्ठा वा।

-2-4-17- स नपुंसकम् ।
यस्यैकत्वमुक्तं स नपुंसकं स्यात्। पञ्चगवम्। पाणिपादम्।
(क) अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते । पञ्चपूली।
(ख) आबन्तो वा । पञ्चखट्वम्। पञ्चखट्वी।
(ग) अनो नलोपश्च वा च स्त्रियां भाष्यत इति वक्तव्यम् । पञ्चतक्षम् पञ्चतक्षी।
(घ) पात्रादिभ्यः प्रतिषेधः । द्विपात्रम्। त्रिभुवनम्। चतुर्युगम्। पञ्चगवम्। दिशाशब्दाच्चतुर्दिशम्।

-2-4-18- अव्ययीभावश्च ।
अयं नपुंसकं स्यात्। अधिस्त्रि। अधिलक्ष्मि। उन्मत्तगङ्गम्। चकारात् पण्यसुदिनाभ्यामह्नः। पुण्याहम्। सुदिनाहम्।
<100> (क) पथः संख्याव्ययादेः । द्विपथम्। चतुष्पथम्। विपथम्। उत्पथम्।
(ख) क्रियाविशेषणानां कर्मत्वं नपुंसकत्वञ्च । मृदु पचति।

-2-4-19- तत्पुरुषोऽनञ्कर्मधारयः ।
नञ्कर्मधारयाभ्यां विना तत्पुरुषो नपुंसकं स्यादित्यधिक्रियते। यथा विभाषा सेना इति (2.4.25) शत्रुसेनं शत्रुसेना वा। तत्पुरुषः किम् ? दृढसेनो राजा। अनञ्कर्मधारयः किम् ? असेना। परमसेना।

-2-4-20- संज्ञायां कन्थोशीनरेषु ।
नाम्नि कन्थान्तस्तत्पुरुषो नपुंसकं स्यात्। सौशमिकन्थं नाम देशः। संज्ञायां किम् ? वीरणकन्था।
उशीनरेष्विति किम् ? दाक्षिकन्था।

-2-4-21- उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ।
उपज्ञा उपक्रमश्च कर्मसाधनौ। तदन्तस्तत्पुरुषो नपुंसकं स्यात् तयोरादेराख्यातुमिच्छा चेत्। आगमोपज्ञं धर्माधर्मौ। मनूपज्ञं लोकवृत्तम्। आढ्योपक्रमं दानम्। ब्राह्मणोपक्रमं प्रतिग्रहः।
 
-2-4-22- छाया बाहुल्ये ।
छायान्तस्तत्पुरुषः क्लीबं स्यात्। खङ्गच्छायम्। शलभच्छायम्। बाहुल्ये किम् ? वृक्षच्छाया।

-2-4-23- सभा राजाऽमनुष्यपूर्वा ।
राजपर्यायपूर्वा अमनुष्यपूर्वा च सभा क्लीबं स्यात्। सभा शाला। इनसभम्। इर्श्वरसभम्। "नृपतिसभा-
मगमन्नवेपमानः" इति तु विशेषविवक्षायां गजपतिवत्। राजशब्दस्य पर्यायमात्रोपलक्षणार्थत्वान्नेह राजसभा चन्द्रगुप्त-
सभेति। राक्षससभम्। अमनुष्यशब्दस्य रक्षःपिशाचादौ रूढत्वान्नेह देवसभेति।

<101>
-2-4-24- अशाला च ।
अशालार्था सभा क्लीबं स्यात्। स्त्रीसभम्। दासीसभम्। तत्सङ्घात इत्यर्थः।
 
-2-4-25- विभाषा सेनासुराच्छायाशालानिशानाम् ।
सेनाद्यन्तस्त्पुरुषः क्लीबलिङ्गः स्याद्वा। शत्रुसेनम्। यवसुरम्। वृक्षच्छायम्। गोशालम्। श्वनिशम्। पक्षे शत्रुसेना यवसुरेत्यादि।

-2-4-26- परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ।
अनयोरुत्तरपदस्यैव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषे। राजस्त्री। अर्धपिप्पली। मुखचन्द्रः।
(क) द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः । पञ्चकपालः सूपः। प्राप्तजीविकः। आपन्नसुखः। अलङ्कुमारिः। प्रतिगतोऽक्षं प्रत्यक्षः पटः। निष्कौशाम्बिः। वाच्यलिङ्गतैव भवति।
 
-2-4-27- पूर्ववदश्ववडवौ ।
एकवद्भावादन्यत्राश्ववडवयोः पूर्ववल्लिङ्गं स्यात्। अश्ववडवौ। अश्ववडवान्। अश्ववडवैः।

-2-4-28- हेमन्तशिशिरावहोरात्रे च च्छन्दसि ।
छन्दः सूत्रम्।

-2-4-29- रात्राह्नाहाः पुंसि ।
एते पुंसि स्युः। "अहोरात्राविमौ पुण्यौ"। पूर्वाह्णः। द्व्यहः। त्र्यहः। एकाहः।

-2-4-30- अपथं नपुंसकम् ।
स्यात्। अपथमिदम्। तत्पुरुषानुवृत्तेः अपथोऽयन्देशः।

<102>
-2-4-31- अर्धर्चाः पुंसि च ।
अर्धर्चादयः पुंसि क्लीबे च स्युः। अर्धर्चमर्धर्चः। यूथम् यूथः। मधु मधुः। "क्षपयत्यशुभं कर्म कर्माणं चिनुते शुभम्।" एवं गोमयसरकसारवर्णपद्मशङ्खकुलिशदिवसकार्पासकर्पूरधर्मव्रतादि। उक्तं लिङ्गम् ।

-2-4-32- इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ।
इदमः साकच्कस्य पूर्वोक्तस्यानुकथनेऽशादिश्यते तृतीयादौ विभक्तौ परतः। इमकाभ्यां रात्रिरधीता। अथो आभ्यामहरप्यधीतम्।

-2-4-33- एतदस्त्रतसोस्त्रतसौ चानुदात्तौ ।
एतद इत्यधिक्रियते। त्रतसोस्तु एतदोऽशित्यशादेशे (5.3.5) सिद्धे वचनमिदमनुदात्तार्थम्। स च स्वरभागः। एतस्मिन् वसामः। अथो अत्राधीमहे। "एतस्मिन्निर्गता कीर्त्तिरथातो बिभ्यति द्विषः"।

-2-4-34- द्वितीयाटौस्स्वेनः ।
एष्विदमेतदोरेनादेशः स्यात्। "इममिन्द्रसमं विद्धि मैमं मंस्थास्त्वमन्यथा"। टा। अनेन रात्रिरधीता। अथो एनेनाहरप्यधीतम्। ओस्। अनयोः। अथो एनयोः। एवमेतदः। एतम्। अथो एनम्। एतेन। अथो एनेन। एतयोः अथो एनयोः। अन्वादेश इत्येव। अयं दण्डो हरानेन। समानाधिकरण एवाभिधानान्नेह। इमं छात्रं भोजय। इमञ्च विप्रमिति।
(क) एनदिति नपुंसकैकवचने । नपुंसकैकत्वे द्वितीयायामेनद्वक्तव्यः। इदं कुण्डलमानय। अथो एनत् परिवर्त्तय। एतत् कुण्डमानय। अथो एनत् प्रक्षालय।

-2-4-35- आर्धधातुके ।
अधिकारोऽयम्। ण्यक्षत्रियं (2.4.58) यावत्।

-2-4-36- अदो जग्धिर्ल्यप्ति किति ।
अदो जग्धिरादिश्यते ल्यति तादौ च किति प्रत्यये परतः। इकार उच्चारणार्थः। प्रजग्ध्या। जग्धः जग्धवान्।
कथमन्नम् ? अन्नाण्णः इति (4.4.85) निपातनात्।

-2-4-37- लुङ्सनोर्धस्लृ ।
लुङि सनि चादेर्धस्लृ स्यात्। अधसत्। जिघत्सति।
(क) अच्युपसंख्यानम् । प्रघसोऽयम्।

-2-4-38- घञपोश्च ।
अनयोरदो घस्लृ स्यात्। घञ् घासः। उपर्सेऽद इत्यप् (3.3.39)। प्रघसः।

-2-4-39- बहुलं छन्दसि ।
छान्दसं सूत्रम्।

-2-4-40- लिट्यन्यतरस्याम् ।
अदो लिटि वा घस्लृ स्यात्। जघास। जक्षतुः। जक्षुः। पक्षे आद। आदतुः। आदुः।

-2-4-41- वेञो वयिः ।
वेञो वयिर्लिटि वा स्यात्। उवाय। ऊयतुः। ऊयुः। पक्षे ववौ। ववतुः। ववुः।

-2-4-42- हनो वध लिङि ।
इन्तेर्लिङि वधादेशः स्यात्। वध्यात् वध्यास्ताम् वध्यासुः। आर्धधातुक इत्येव। विधौ लिङि तु। हन्यात्। हन्याताम्। हन्युः।

-2-4-43- लुङि च ।

-2-4-44- आत्मनेपदेष्वन्यतरस्याम् ।
लुङि हनो वधादेशः स्यात्। अवधीत्। तङि वा। आवधिष्ट। आवधिषाताम्। पक्षे आहत। आहसाताम्।
 
-2-4-45- इणो गा लुङि ।
लङीणो गादेशः स्यात्। अगात्। अगाताम्। अगुः। अगायि ग्रामः।
(क) इण्वदिक इति वक्तव्यम् । अध्यगात्।
 
-2-4-46- णौ गमिरवोधने ।
इणो णौ गमिरादिश्यतेऽबोधने। गमयति। अबोधने किम् ? अर्थान् प्रत्याययति। इण्वदिक इत्येव। अधिगमयति।

-2-4-47- सनि च ।
सनीणो गमिः स्यात्। जिगमिषति। जिगमिषा। अबोधन इत्येव। प्रतीषिषति। इण्वदिक इत्येव। अधिजिगमिषति।

-2-4-48- इङश्च ।
इङः सनि गमिः स्यात्। अधिजिगांसते शास्त्रम्। अधिजिगांसमानः।

-2-4-49- गाङ् लिटि ।
इङो लिटि गाङादेशः स्यात्। अधिजगे। अधिजगाते। अधिजगिरे।

-2-4-50- विभाषा लुङ्लृङो ।
इङो गाङ् वा स्यात्। अध्यगीष्ट अध्यैष्ट वा। अध्यगीष्यत अध्यैष्यत वा।

-2-4-51- णै च संश्चङोः ।
संश्चङ्परे णाविङो गाङ् वा स्यात्। अधिजिगापयिषति शिष्यमध्यापिपयिषति वा। चङि। अध्यजीगपत्। "अध्यापिपद् गाधिसुतो यथावत्।"

-2-4-52- अस्तेर्भूः ।
स्यात्। भविता। भवितुम्। भवितव्यम्। "अनुप्रयोगे तु भुवास्त्यबाधनम् " (6.4.110, वा)। इर्हामास। इहार्धधातुक इति सामान्येनोपादानम्। तेन पौर्वापर्याभावाद् विषयसप्तमीयं स्थिता। अतोऽस्तेरजेश्चक्षिङश्च प्रागेवादेशे
कृतेऽजन्तलक्षणो यत् सिध्यति--भव्यं प्रवेयमाख्येयमिति।

-2-4-53- ब्रुवो वचिः ।
स्यात्। वक्ता। वक्तुम्। वक्तव्यम्। आर्धधातुक इत्येव। ब्रवीति।

-2-4-54- चक्षिङः ख्याञ् ।
स्यात्। आख्याता। आख्यास्यति। आख्यास्यते। ञित्वादुभयपदित्वम्। ख्शादिरप्ययमादेशः। व्याक्श्ख्याता। व्याक्श्ख्यानम्। व्याक्श्ख्यातुम्। प्रत्येकं क्शादिरित्यपरे। व्याक्ख्याता व्याश्ख्याता वा। व्याक्ख्यानं व्याश्ख्यानं वा।
(क) वर्जने प्रतिषेधः । सञ्चक्ष्या दुर्जनाः। वर्जनीया इत्यर्थाः।
(ख) आर्धधातुकप्रकरणे बहुलं संज्ञाच्छन्दसोरिति वक्तव्यम् । असुन् नृचक्षाः। युच् विचक्षणः। अजेर्लुट्। व्यजनम्। इणः ष्ट्रन्। गात्रम्।

-2-4-55- वा लिटि ।
चक्षिङो लिटि ख्याञ् वा स्यात्। आचख्यौ। आचख्ये। पक्षे आचचक्षे।

-2-4-56- अजेर्व्यघञपोः ।
अजेर्वी स्यात्। प्रवायकः। प्रवयणीयः। वीत्वा। वीतवान्। अघञपोः किम् ? समाजः शूराणाम्। समजः पशूनाम्।
(क) क्यपि च प्रतिषेधः । समज्या गोष्ठी।
(ख) वलादावर्धधातुके विकल्पः । प्रवेता। प्राजिता।

-2-4-57- वा यौ ।
अजेर्ल्यटि वीभावो वा स्यात्। प्राजनो दण्डः प्रवयणो वा। इत्येकः सूत्रार्थः। औणादिके यौ परेऽजेर्वादेशः स्याद्। वायुरित्यपरः सूत्रार्थः। उक्तमार्धधातुके ।

-2-4-58- ण्यक्षत्रियार्षञितो युनि लुगणिञोः ।
एभ्यो यून्युत्पन्नयोरणिञर्लुक् स्यात्। कुर्वादिण्यान्तात् (4.1.172)। कौरव्यः पिता कौरव्यः पुत्रः। क्षत्रियाद् वृष्णिकुरुभ्यश्चेत्यण् (4.1.11)। श्वाफल्कः पिता श्वाफल्कः पुत्रः। आर्षाद् वासिष्ठः पिता वासिष्ठः पुत्रः। ञितः। विदाद्यञन्तात् (4.1.104)। वैदः पिता वैदः पुत्रः। सर्वत्रात इञो (4.1.95) लुक्। अणः खल्वपि। तिकादिफिञन्ताद् (4.1.154) यून्युत्पन्नस्य प्राग्दीव्यतीयस्याणो (4.1.83) लुक्। तैकायनिः पिता तैकायनिः पुत्र।

-2-4-59- पैलादिभ्यश्च ।
एभ्यो युवप्रत्ययस्य लुक् स्यात्। पीलाया वेत्यणन्ता (4.1.118) दणो द्व्यच (4.1.156) इति फिञो लुक्। पैलः पिता पैलः पुत्रः।

-2-4-60- इञः प्राचाम् ।
       प्राचां गोत्रे य इञ् तदन्ताद् युवप्रत्ययस्य लुक् स्यात्। पान्नागारिः पिता पान्नागारिः पुत्रः । यञिञोश्चेति (4.1.101) फको लुक्।

-2-4-61- न तौल्वलिभ्यः।
तौल्वल्यादेः प्राचामिञन्ताल्लुङ् नास्ति। तौल्वलिः पिता तौल्वलायनः पुत्रः।

-2-4-62- तद्राजस्य बहुषु तेनैवास्रियाम् ।
बहुषु तद्राजस्य लुक् स्यात्। पञ्चलानामपत्यानि बहूनि पञ्चालाः । क्षत्रियादञ् (4.1.168)। अङ्गाः। वङ्गाः । द्वयञ्मगधेत्यण् (4.1.170)। अस्त्रियां किम् ?पाञ्चाल्य स्त्रियः। तेनैवेति किम् ? अन्यकृतबहुत्वे मा भूत्। प्रियवाङ्गा विप्राः।

-2-4-63- यस्कादिभ्यो गोत्रे ।
एभ्यो गोत्रप्रत्ययस्य लुक् स्यात् पूर्ववत्। शिवाद्यण् (4.1.112)। यस्काः। अयःस्थूणाः। अस्त्रियामित्येव। यास्क्यः स्त्रियः। तेनेत्येव। प्रिययास्का विप्राः।

-2-4-64- यञञोश्च ।
गोत्रे यञोऽञश्च पूर्ववल्लुक् स्याद्। गर्गाः। वत्साः। अञ्। विदाः। उर्वाः। पूर्ववत्। नेह। गार्ग्यः स्त्रियः। प्रियगार्ग्या विप्राः।
(क) यञादीनामेकत्वद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् । गार्ग्यस्य गार्ग्ययोर्वा कुलम् गर्गकुलम्‌ गार्ग्यकुलं वा। विदकुलम् वैदकुलं वा।

-2-4-65- अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च ।
एभ्यो गोत्रप्रत्ययस्य लुक् स्यात्। अत्रयः। भृगवः। कुत्साः। वसिष्ठाः। गोतमाः। अङ्गिरसः। अत्रेरितश्चाणिञ इति (4..1.122) ढक्। शेषेभ्य ऋष्यण् (4.1.114) पूर्ववत्। आत्रेय्यः स्त्रियः। प्रियात्रेया विप्राः।
 
-2-4-66- बह्वच इञ प्राच्यभरतेषु ।
प्राच्यभरतेषु बहृवचः शब्दादिञो बहुषु लुक् स्यात्। प्राच्यगोत्रे पन्नागाराः। भरतगोत्रे--युधिष्ठिराः। अर्जुनाः।

-2-4-67- न गोपवनादिभ्यः ।
गोपवनादयोऽष्टौ विदाद्यन्तर्गणाः। तेभ्योऽञः यञञोश्चेति (2.4.64) लुङ् नास्ति। गौपवनाः। शैग्रवाः।
<108>
-2-4-68- तिककितवादिभ्यो द्वन्द्वे ।
तिकादेः कितवादेश्च द्वन्द्वे गोत्रप्रत्ययस्य लुक् स्यात्। द्वन्द्वे। -तैकायनयश्च कैतवायनश्च तिककितवाः। तिकादिफिञो (4.1.104) लुक्। वङ्खरभण्डीरथाः। अत इञो (4.1.95) लुक्।

-2-4-69- उपकादिभ्योऽन्यतरस्यामद्वन्द्वे ।
एभ्यो गोत्रप्रत्ययस्य बहुषु लुग् वा स्यात्। अद्वन्द्वे द्वन्द्वे च। उपकाः। औपकायनाः। लमकाः। लामकायनाः। नडादिः। उपकलमकाः। आहारकाः। विहारका। आहारकयः। वैहारकयः। आहारकविहारकाः आहारकिवैहारकयो वा।

-2-4-70- आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ।
अगस्त्यशब्ददृष्यण् (4.1.114)। कुण्डिनीशब्दाद् गर्गादियञ् (4.1.105)। तयोर्बहुषु लुक् स्यात्। अगस्तिकुण्डिनजिति चादेशौ भवतः। अगस्तयः। कुण्डिनाः।

-2-4-71- सुपो धातुप्रातिपदिकयोः ।
धातोः प्रातिपदिकस्य चावयवस्य सुपो लुक् स्यात्। सनाद्यन्तधातोः (3.1.32)। पुत्रीयति। मालीयति। समासप्रातिपदिकस्य। कष्टश्रितः। राजपुरुषः। अनयोः किम् ? वृक्षः।

-2-4-72- अदिप्रभृतिभ्यः शपः ।
अदादेः शपो लुक् स्यात्। अत्ति। द्वेष्टि। शेते। चर्करीतञ्च । बोभवीति। चर्करीतमिति यङ्लुकः प्राचां संज्ञा।

-2-4-73- बहुलं छन्दसि ।
छान्दसम्।

-2-4-74- यङोऽचि च ।
अचि यङो लुक् स्यात्। लोलुवः। पोपुवः। मरीमृजः। इह चकारेण बहुलग्रहणमनुकृष्यते न तु च्छन्दसीति। तेन भाषायामनच्यपि यङ्लुक्। लालपीति वावदीतीति जयादित्यः। चकाराद् बहुलं छन्दसीति (2.4.73) सर्वमनुवर्त्तते। तेन बाहुल्यादनच्यपि च्छन्दस्येव यङ्लुक्। भाष्ये तु हुश्नुग्रहणज्ञापक (6.4.87) बलाद् बोभवीतीत्येवं पदं भाषायां साधु। नान्यदिति भागवृत्तिः। दृश्यन्ते च शिष्टप्रयोगाः।
" यदि देवो वरीवर्ष्टि कोकिलो रोरवीति च।
मयूरोऽपि नरीनर्त्ति मरीमर्मि तदा प्रिये" ।।1।। इति।
तेजांसि शंशमाञ्चक्रुरिति भट्टिः।
"हरिणा सह संख्यं ते बोभूत्विति यदब्रवीः।
न जाघटीति युक्तौ तत् सिंहद्विरदयोरिव" ।।1।।
इति पाणिनेर्जाम्बवतीविजयकाव्यम्।

-2-4-75- जुहोत्यादिभ्यः श्लुः ।
जुहोत्यादेः शपः श्लुः स्यात्। जुहोति। बिभर्त्ति।

-2-4-76- बहुलं छन्दसि ।
छान्दसम्।

-2-4-77- गातिस्थाधुपाभूभ्यः सिचः परस्मैपदेषु ।
एभ्यः सिचो लुक् स्यात्। इणो गा (2.4.45)। अगात्। अगाताम्। अगुः। स्था। अस्थात्। घु (1.1.20) अदात्। अधात्। पा पाने। अपात्। अभूत्। कै गै शब्दे। पा रक्षणे। अनयोर्नेष्यते। अगासीन्नटः। अपासीन्नृपः। परस्मैपदेषु किम् ? अगासातां ग्रामौ विप्रेण।
 
-2-4-78- विभाषा घ्राधेट्शाच्छासः।
परस्मैपदेष्वेभ्यः सिचो लुग् वा स्यात्। घ्रा। अघ्रात्। धेट्। अधात्। शो। अशात्। छो। अच्छात्। सो। असात्।
पक्षेऽघ्रासीदित्यादि।
<110>
-2-4-79- तनादिभ्यस्तथासोः ।
तनादेः सिचो लुग् वा स्यात् तथासोः परतः। अतत। अतथाः। अतनिष्ट। अतनिष्ठाः।

-2-4-80- मन्त्रे ध्वसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ।
छान्दसम्।

-2-4-81- आमः ।
आमः परस्य लेर्लुक् स्यात्। इर्हाञ्चक्रे।

-2-4-82- अव्ययादाप्सुपः ।
अव्ययात् परस्यापः सुपश्च लुक् स्यात्। तत्र शालायाम्। सुपः। स्वः। प्रातः। कृत्वा। कर्त्तुम्। इहाव्ययस्या-
लिङ्गसंख्यत्वादाप्सुपोरभावाल्लुक्प्रयोजनं चिन्त्यम्।

-2-4-83- नाव्ययीभावादतोऽम् त्वपञ्चम्याः ।
अदन्तादव्ययीभावात् सुपो लुङ् नास्ति। पञ्चमीवर्जममादेशस्तु विधेयः। उपकुम्भं तिष्ठति पश्य देहि वा। अतः किम् ? उपाग्नि। अपञ्चम्याः किम् ? उपकुम्भादागतः।

-2-4-84- तृतीयासप्तम्योर्बहुलम् ।
अनयोरम् बहुलं स्याददन्तादव्ययीभावाद्। उपकुम्भमुपकुम्भेन वा कृतम्। उपकुम्भमुपकुम्भे वा निधेहि। सप्तम्या ऋद्धिनदीसमाससंख्यावयवेभ्यो नित्यम्। सुमद्रम्। सुभिक्षम्। नदीसमासे। उन्मत्तगङ्गम्। संख्यावयवे। एकविंशतिभारद्वाजम्। उक्तो लुक् ।

-2-4-85- लुटः प्रथमस्य डारौरसः ।
लुटः प्रथमपुरुषस्य डारौरसः स्युः। श्वः कर्त्ता। कर्त्तारौ। कर्त्तारः। श्वः अध्येता। अध्येतारौ। अध्येतारः।

इति महामहोपाध्यायश्रीपुरुषोत्तमदेवकृतायां भाषावृत्तौ
द्वितीयाध्यायस्य चतुर्थः पादः ।। 2।4 ।।
।।समाप्तश्च द्विगुपादः ।।